०४ लब्धप्रणाशम्

अथ लब्धप्रणाशम् अथेदमारभ्यते लब्धप्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायमादिमः श्लोकः- समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथां ॥ १ ॥ तद्यथानुश्रूयते - अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महाअम्बूपादपः सदा- फल: । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । अथ कदाचित तस्य तरोरधस्तात्करालमुखो नाम मकरः समुद्रसलिला निष्क्रम्य सुको- मलवालुकासनाथे तीरोपान्ते न्यविशेत् । ततश्च रक्तमुखेन स प्रोक्तः- भोः भवान्समभ्यागतोऽतिथिः । तद्धर्क्षयतु मया दत्तान्यमृतकल्पारि जम्बूफलानि । उक्तं च- प्रियो वा यदि वा द्वेप्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसंक्रमः ॥ २ ॥ न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३ ॥ दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४ ॥ अपूजितोऽतिथिर्यस्य गृहायाति विनिश्वसन् । गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ॥ ५॥ लब्धस्य प्रणाशः स एव तत्संज्ञं तन्त्रम् । बुद्धिः न हीयंत - बुद्धिलोपो न जायते । यो धैर्यमवलम्ब्य कर्तव्यं जानातीत्यर्थः । दुर्गे संकटं । सदा फलानि यस्य । ०सलिलात् – जलात् । सुकोमला चासौ वालुका च तया सनाथे युक्ते । अमृताद ईषन्यूनानि अमृतकल्यानि । आपन्नः उपस्थितः । स्वर्गस्य स्वर्गीय वा संक्रमो यस्मात् । स्वर्गच्छतीति स्वर्गः सँक्रमो यस्मादिति वा । यद्वा स्वर्गस्थ संक्रमः । चरणशब्दः शाखाविशेषाध्ययनसंघपरः । श्राद्धे चोपस्थितमिति शेषः । १ प्रणाशनं. २ आयलो. ३ अतः परं प्राप्तमर्थं तु यो मोहात्सान्तनैः प्रतिमु- चति । स तथा वच्यते मूढो मकरः कपिना यथा ॥ इत्यधि० ४ राजपुत्राः पृच्छन्ति कथमेतत् विष्णुशर्मा कथयति । इत्य० कचित् । ५ निविष्टः ६ भक्षय अमृततु- ल्यानि. ७ मूर्खः पण्डित एव वा, वैश्वदेवे समापन्नः; वैश्वदेवान्तमासन्नः ८ स्वा ध्यायं देशमेव च ९ दूराद्यातमधिश्रान्तं. 190 पञ्चतन्त्रे एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात् । एवं नित्यमेव तौ वान- रमकरौ जम्बूच्छायास्थितौ विविधशास्त्र गोष्ठया कालं नयन्तौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपन्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः- नाथ कैवंविधान्यमृत- कल्पानि फलानि प्रांनोषि । स आह-भद्रे ममास्ति परमसुहृद्रक्तमुखो नाम वानरः । स प्रीतिपूर्वमिमानि फलानि प्रयच्छति । अथ तयाभिहि- तम् - यः सदैवामृतप्रायाणीदृशानि फलानि भक्षयति तस्य हृदयममृत- मयं भविष्यति । । तैव्यदि मया भार्यया ते प्रयोजनं ततस्तस्य हृदयं मह्यं प्रयच्छ । येन तद्भक्षयित्वा जरामरणरहिता त्वया सह भोगान्भुनज्मि । स आह-भद्रे मामैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपरं व्या- पादयितुमपि न शक्यते । तत्त्यजैनं मिथ्याग्रहम् । उक्तं च- एक प्रसूयते माता द्वितीयं वाक्प्रसूयते । वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥ ६ ॥ अथ मकर्याह- त्वया कदाचिदपि मम वचनं नान्यथा कृतम् । तन्नूनं सा वानरी भविष्यति यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः- साह्लादं वचनं प्रयच्छसि न मे नो वाञ्छितं किंचन प्रायः प्रोच्छसिषि द्रुतं हुतवहज्वालासमं रात्रिषु । कण्डाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममैवापरा ॥ ७ ॥ सोऽपि पत्न्याः पादोपसंग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोपकोटि- मापन्नायाः पत्न्याः सुदीनमुवाच- गोष्ठी संलापः । गोष्ठी सभासंलापयोः स्त्रियाम् । एवं विधा प्रकारो येषां तानि । प्रीतिः पूर्वा यस्मिन्कर्मणि । मिथ्या असंभावी चासौ आग्रहश्च । एक बान्धवमिति शेषः । वाचः संभाषणात् जातम् । सह उदरे जातः सोदर्यः । अन्यथा- कृतम् लंघितमित्यर्थः । साह्लादमानन्देन । वाच्छितं नो प्रयच्छसि । प्रोच्छसिषि तद्विरहात् । शिथिलता अनौत्सुक्यम् । इति यत्तत्सर्वे हे धूर्त काचिद् मम मत्तः अपरा प्रि० ते हृदि स्थिता एव इति हेतोः । पादोपसंग्रहं पादग्रहणं । निधाय तां पादौ वा । कोपकोटिं कोपकाष्ठां । पत्न्याः पत्नीमित्यर्थः । १ पत्न्याः २ प्राप्रोति भवान्. ३ प्रयच्छति नित्यम्. ४ अहो भर्तः किंबहुना स. ५ अपरं फलदाता । ततो. ६ एकस्थाने प्रसूते वागन्यस्मिञ्जननी नृणाम् । • प्रोक्तं. ८ बन्धुवत्. लब्धप्रणाशम् । मयि ते पादपतिते किंकरत्वमुपागते । त्वं प्राणवल्लभे कस्मात्कोपने कोपमेष्यसि ॥ ८ ॥ सापि तद्वचनमाकर्ण्याश्रुतमुखी तमुवाच- सार्धं मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या । अस्माकमस्ति न कथंचिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनाभिः ॥ ९ ॥ 191 अपरं सा यदि तव वल्लभा न भवति तत्किं मया भणितेऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत्कस्तेन सह तैव स्नेहः । तरिंक बहुना । यदि तस्य हृदयं न भक्षयामि तन्मया प्रायोपवेशनं कृतं विद्धि । एवं तस्यास्तन्निश्चयं ज्ञात्वा चिन्ताव्याकुलितहृदयः स प्रो- वाच । अहो साध्विदमुच्यते- वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥ १० ॥ तत्कि करोमि । कथं स मे वध्यो भविष्यति । इति विचिन्त्य वानरपार्श्व- मगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच भो मित्र किमद्य चिरवेल्या समायातोऽसि । कस्मात्साह्लादं नालपसि । न सुभा- षितानि पठसि । स आह— मित्र अहं तव भ्रातृजायया निष्ठुरतरैर्वाक्यैर- भिहितः - भोः कृतघ्न मो मे संमुखं मुखं दर्शय यतस्त्वं मित्रं नित्यमेवोप- जीव्यागच्छसि । तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रेणापि न करोषि । तत्ते प्रायश्चित्तमपि नास्ति । उक्तं च- ब्रह्मघ्ने च सुरापे च चौरे भग्रवते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।। ११ ।। तत्त्वं मम देवरं गृहीत्वाय प्रत्युपकारार्थं गृहमागच्छ । ‘नोचेत्रया सह कोपमेष्यसि कोपरत्वया त्याज्य इत्यर्थः । प्लुतं व्याप्तमाकुलमित्यर्थः । मुखं यस्याः । कृत्रिमेण न तु वास्तवेन । यथा मम । भावेनानुरागेण रम्या । इह तव मनसि । कृतं चरण० - मिथ्यापादपतनेनालमित्यर्थः । प्रायोपवेशनं मृत्युहेतोरनश- नेनावस्थानम् । ग्रहः ग्रहणं यत्सकृगृह्णन्ति तत् सर्वथा न त्यजन्तीत्यर्थः । सोद्वेर्गं विषण्णं उद्वेगेन सहितं यथा तथेति वा । उपजीव्य-तेन दत्तं फलादि भुक्त्वेत्यर्थः । दर्शनमेव दर्शनमात्रं तेन । सुरां पिवतीति सुरापः तस्मिन् । १ प्रिये कामातुरः कोपं कान्ते कोन्योपनेष्यति. २ मर्कटः ३ महा. ४ तत् तवोपरि प्रायोपवेशनं कृत्वा प्राणत्यागं करिष्यामि ५ अथवा. ६ वेलायां, विरल- वेलायां. ७ लापयसि. ८ तराभिर्गीभिः ९ मा मे त्वं स्वमुखं. १० त्वं प्रतिदिनं मित्रमुपजीवसि. ११ शठे. १२ देवरं प्रत्यु० गृहमानय. १३ अथवा. 192 पञ्चतन्त्रे मे परलोके दर्शनम् । तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदय तया सह त्वदर्थे कलहायमानस्येयती वेला मे विलग्ना । तदागच्छ मे गृहम् । तव भ्रातृपत्नी रचितचतुष्का प्रगुणितवस्त्रमणिमाणिक्यांशुचिताभरणा द्वारदे- शत्रद्दवन्दनमाला सोत्कण्ठा तिष्ठति । मर्कट आह-भो मित्र युक्तमभि- हितं मद्भ्रातृपत्न्या । उक्तं च- तथा च । वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः संमुखं नित्यं य आकर्षति लोलुपः ॥ १२ ॥ ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्गे भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ १३ ॥ परं वयं वनचरा युष्मदीयं जलान्ते गृहम् । तत्कथं शक्यते तत्र गन्तुम् । तस्मात्तामपि मे भ्रातृपत्नीमत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि । स आह-भो मित्र अस्ति समुद्रान्ते सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् । तन्म- म पृमारूढः सुखेनाकृतभयो गच्छ । सोऽपि तच्छ्रुत्वा सानन्दमाह - भद्र यद्येवं तत्कि विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठि- तेऽगाधँजले गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच- भ्रातः शनैः शनैर्गम्यताम् । जलकल्लोलैः प्लाव्यते मे शरीरम् । तदाकर्ण्य मकरश्चिन्तयामास - असावगाधं जलं प्राप्तो मे वशः संजातः । मत्पृष्ठग- तस्तिलमात्रमपि चलितुं न शक्नोति । तस्मात्कथयाम्यस्य निजाभिप्रायं येनाभीष्टदेवतास्मरणं करोति । आह च-मित्र त्वं मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत्स्मर्यतामभीष्टदेवता । स आह-भ्रातः किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः । मकर आह- भोः तस्यास्तवापि हृदयस्यामृतमयफलरसास्वादनस्सृष्टस्य भक्षणे दोहदः संजातः । तेनैतदनुष्ठितम् । प्रेत्युत्पन्नमतिर्वानर आह-भद्र ययेवं तत्कि कलहायमानस्य कलहं कुर्वाणस्य । इदं परिमाणमस्या इयती । रचितानि विविधवर्णचूर्णेन निर्मितानि चतुष्काणि भूमिशोभार्थं चतुष्कोणाकृतयो यया । प्रगु- णितानि उत्कृष्टानि । माणिक्यादीनि उचितानि आभरणानि यस्याः । कौलिकः कुविंदः । यः कौलिकः लोलुपः सन् इ० । यन्मित्रं स्वार्थपरं तन्मतिमांस्त्यजेदिति निष्कर्षः । पुलिनं जलनिर्गतः तटप्रदेशः । कल्लोला: महातरंगाः । भार्यां वाक्येन वाक्यानुरोधात् । आमृष्टस्य शोधितस्य । अमृतमयस्येत्यर्थः । दोहदोभिलाषः । १ कलहवतः, कलहायतः मम २ माणिक्या, -द्युचितसत्कारा. ३ जलान्तरे. ४ कथमपि न शक्यते. ५ अगाधे जलधौ. ६ प्लावितं. ७ वाक्यात्. ८ दन वतः. ९ ततः प्रत्यु०; एतन्नास्ति क्वचित्.लब्धप्रणाशम् । 193 स्वया मम तत्रैव न व्याहतं येन स्वहृदयं जम्बूकोटरे सदैव मया सुगुप्त कृतं तद्भानृपत्न्या अर्पयामि । त्वयाहं शून्यहृदयोऽत्र कस्मादानीतः । तदाकर्ण्य मकरः सानन्दमाह-भद्र ययेवं तदर्पय मे हृदयं येन सा दुष्ट- पत्नी तद्भक्षयित्वानशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि । एवमुक्त्वा निवर्त्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविवि- धदेवतोपचारपूजस्तीरमासादितवान् । ततश्च दीर्घतरचङ्क्रमणेन तमेव जम्बूपादपमारूढश्चिन्तयामास - अहो लब्धास्तावत्प्राणाः । अथवा सा- ध्विदमुच्यते- न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १४ ॥ तन्ममैतदद्य पुनर्जन्मदिनमिव संजातम् । इति चिन्तयमानं मकर आह- भो मित्र अर्पय तद्भुदयं यथा ते भ्रातृपत्नी भक्षयित्वानशनादुत्तिष्ठति । अथ विहस्य निर्भर्त्सयन्वानरस्तमाह - विग्विङ् मूर्ख विश्वासघातक किं कस्यचिद्धृदयेद्वयं भवति । तदाशु गम्यताम् । जम्बुवृक्षस्याधस्तान भूयोऽपि त्वयानागन्तव्यम् । उक्तं च यतः- सकृद्दुष्टं च यो मित्रं पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १५॥ तच्छ्रुत्वा मकरः सविलक्षं चिन्तितवान्-अहो मयातिमूढेन कि- मस्य स्वचित्ताभिप्रायो निवेदितः । तयवसौ पुनरपि कथंचिद्विश्वासं ग- च्छति तद्भूयोऽपि विश्वासयामि । आह च-मित्र हास्येन मया तेऽभि- प्रायो लब्ध । तस्या न किंचित्तव हृदयेन प्रयोजनम् । तदागच्छ प्रीघूर्ण- कन्यायेनास्मद्गृहम् । तव भ्रातृपत्नी सोत्कण्ठा वर्तते । वानर आह-भो दुष्ट गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च- / बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ १६ ॥ मकर आह-कथमेतत् । स आह- व्याहृतमुक्तं । जल्पित० - जाल्पता विविधा देवताभ्यः विविधदेवताभ्यो वा उपचारपूजा येन । उपचारैः पूजा उपचाररूपा पूजा इति व उपचाराश्च पूजा चेति वा । संक्रमणमुत्प्लवनम् । विश्वसेत् विश्वस्यादित्येव साधु । निर्भर्त्सयन् पर- स्मैपदं चिन्त्यं । दुष्टं-भेदं प्रापितं । सविलक्षं विगतं लक्षं लज्जया यस्मिन् कर्मणि तद्यथा । हास्येन परिहासेन । प्राघूर्णकन्यायेन अतिथिर्यथा । बुभुक्षितः क्षुधितः । किं न करोति सर्व पापं कुर्यादित्यर्थः । क्षीणा दरिद्रा नीचावस्थां गता वा । १ कथितं. २ टरान्तःस्थापितं सुस्वाद. ३ सानन्दः प्राह. ४ निवर्तते. ५ वि- श्वस्तात्. ६ तदन्यत्संततिदिनं. ७ चिन्तयानमनन्तरं. ८ सयमानः ९ हृदयं द्वितीयं. १० प्राधुणिकः. स्मदावासम्. 194 पञ्चतन्त्रे कथा १ । अस्ति कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म । स कदाचिदायादैरुद्वेजितोऽरघट्टवटीमारुह्य निष्क्रान्तः । अथ तेन चिन्तितं यत्कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च- आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १७ ॥ एवं चिन्तयम्बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्रा भूयोऽप्यचिन्त- यत् — यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदं करोमि । उक्तं च । शत्रुभिर्योजयेच्छत्रं बलिना बलवत्तरम् । स्वकायार्य यतो न स्यात्काचित्पीडात्र तत्क्षये ।। १८ ।। तथा च । शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा ॥ व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥ १९ ॥ एवं स परिभाव्य बिलद्वारं गत्वा तमाहूतवान्-एह्येहि प्रियदर्शन एहि । तच्छ्रुत्वा सर्पश्चिन्तयामास य एष मामाह्वयति स स्वजातीयो न भवति यतो नैषा सर्पवाणी । अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति। तत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च- यस्य न ज्ञायते शीलं न कुलं न चे संश्रयः । न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः ।। २० ॥ कदाचित्कोऽपि मन्त्रवाद्यौषधचतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह च-भोः को भवान् । स आह-अहं गङ्गदतो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमागतः । तच्छ्रुत्वा सर्प आह-भोः अश्रद्धेयमेतत् यत्तृणानां वह्निना सह संगमः । उक्तं च- यो यस्य जायते वध्यः स स्वप्नेऽपि कथंचन । न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि ।। २१ ।। गङ्गदत्त आह-भोः सत्यमेतत् । स्वभाववैरी त्वमस्माकम् । परं परप- रिभवात्प्राप्तोऽहं ते सकाशम् । उक्तं च- दायादैः बान्धवैः । अरघट्टः चक्रावयवसदृशैः काष्ठविशेषै रचितो जलोद्घाट- नयन्त्रविशेषः । अपकृत्य अपकारं कृत्वा । यः शत्रुभिः कृते अपकारे प्रत्यपकारं करोति स एव नर इति भावः । शत्रुभिरिति-स्वकार्याय स्वहेतुसिद्धये शत्रुभिः शत्रु योजयेत् । बलिना नरेण तदधिकबलं योजयेत् । यतः तत्क्षये तयोः शत्रुबलिनो : विनाशविषये क्षये जाते सति इति वा । सुखमेवार्थस्तस्मै । परिभाव्य विचार्य । परेभ्यः परिभवः अवमानना परपरिभवः तस्मात् । १ पराक्रमः. २ मनुस्मृत्य कस्यचिद्भक्ष्यार्थं प्राह्वयति. लब्धप्रणाशम् । सर्वस्वनाशे संजाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान् धनानि च ।। २२ ।। 195 सर्प आह- कथय कस्मात्ते परिभवः । स आह-दायादेभ्यः । सोऽ- प्याह- क्व त आश्रयो वाप्यां कूपे तडागे हूदे वा । तत्कथय स्वाश्रयम् । तेनोक्तम्- पाषाणचयनिबद्धं कूपे । सर्प आह-अहो अपदा वयम् । तनास्ति सत्र में प्रवेशः । प्रविष्टस्य च स्थानं नास्ति यत्र स्थितस्तव दा- यादान्व्यापादयामि । तद्गम्यताम् । उक्तं च- यच्छक्यं ग्रसितुं ग्रस्य ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदयं भूतिमिच्छता ॥ २३ ॥ गङ्गदत्त आह- भोः समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति । तत्र स्थितस्त्वं लीलया दायादान्व्यापादयिष्यसि । तच्छ्रुत्वा सर्पो व्यचिन्त- यत् — अहं तावत्परिणतवयाः कदाचित्कथंचिन्मूषकमेकं प्रत्नोमि । तत्सुखावही जीवनोपायोऽयमनेन कुलाङ्गारेण मे दर्शितः । तद्गत्वा तान्म- ण्डूकान्भक्षयामि इति । अथवा साध्विदमुच्यते- यो हि प्राणपरिक्षीणः सहार्येपरिवर्जितः । स हि सर्वसुखोपायां वृत्तिमारेचयेद्बुधः ॥ २४ ॥ एवं विचिन्त्य तमाह - भो गङ्गदत्त यद्येवं तदग्रे भव। येन तत्र गच्छावः । गङ्गदत्त आह-भोः प्रियदर्शन अहं त्वां सुखोपायेन तत्र नेष्यामि स्थानं च दर्शयिष्यामि । परं त्वयास्मत्परिजनो रक्षणीयः । केवलं यानहं दर्श- यिष्यामि त्वया त एव भक्षणीया इति । सर्प आह- सांप्रतं त्वं मे मित्र जातः । तन्न भेतव्यम् । तव वचनेन भक्षणीयास्ते दायादाः । एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्गय च तेनैव सह प्रस्थितः । अथ कूपमासाद्यारघ- घटिकामार्गेण सर्पस्तेनात्मना स्वालयं नीतः । ततश्च गङ्गदत्तेन कृष्ण- सर्प कोटरे धृत्वा दर्शितास्ते दायादाः । ते च तेन शनैर्भक्षिताः । अथ मण्डूकाभावे सर्पेणाभिहितम् - भद्र निःशेषितास्ते रिपवः । तत्प्रयच्छा- चयः समूहः | अपदा पादहीनाः । स्थानमनुकूल आश्रयः । ग्रस्यं भोज्यम् । परिणमेत् सुजीर्ण भवेत् । अद्य भक्षणीयम् । कोटरं विवरम् । परिणतं वयो यस्य वृद्धः । प्राणपरिक्षीणः प्राणेन परिक्षीणः शक्तिहीनः । शक्तिः पराक्रमः प्राणः इत्यमरः । सर्वे सुखस्य सर्वसुखस्येति वा उपाया यस्याम् । जातमिति पाठस्त्व- साधुः । तव वचनेन निदर्शनानुरोधेन दावादान् भक्षयिष्यामीत्यर्थः । १ सर्वनाशे च २ च तत्र. ३ सस्यं. ४ सहायैः. ५ आरभते, भावरयेद• ६ येनागच्छामि. ७ मित्रत्वमुपागतः. 196 पञ्चतन्त्रे न्यन्मे किंचिद्भोजनं यतोऽहं त्वयात्रानीतः । गङ्गदत्त आह-भद्र कृतं त्व- या मित्रकृत्यम्। तत्सांप्रतमनेनैव घटिकायन्त्रमार्गेण गम्यताम इति । सर्प आह-भो गङ्गदत्त न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि। मदीय बिलदुर्गमन्येन रुद्धं भविष्यति । तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ । नो चेत्सर्वानपि भक्षयिष्यामि इति । तच्छ्रुत्वा गङ्ग- दत्तो व्याकुलमना व्यचिन्तयत्-अहो किमेतन्मयाकृतं सर्पमानयता । तयदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते- योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न संदेहः स्वयं हि विषभक्षणम् ॥ २५ ॥ तत्प्रयच्छाम्यस्यैकं दिनं प्रति सुहृदम् । उक्तं च- सर्वस्वहरणे युक्तं शत्रुं बुद्धियुता नराः । तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ २६ ॥ तथा च । यो दुर्बलो ह्यण्वपि याच्यमानो बलीयसा यच्छति नैव सान्ना । प्रयच्छते नैव च दर्श्यमानं खारीं स चूर्णस्य पुनर्ददाति ।। २७ ।। तथा च । सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्वनाशो हि दुस्तरः || २८ ।। न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ।। २९ । एवं निश्चित्य नित्यमेकैकमादिशति । सोऽपि तं भक्षयित्वा तस्य परीक्षे अन्यानपि भक्षयति । अथवा साध्विदमुच्यते– यथा हि मलिनैर्वत्रैर्यत्र तत्रोपविश्यते । एवं चलितवृत्तस्तु वृत्तशेषं न रक्षति ॥ ३० ॥ वीर्येणाभ्यधिकम् । सर्वस्वेति - सर्वस्वहरणे युक्तमुद्युक्तं अल्पस्य दानेन । वाडवं वडवाग्निम् । यो दुर्बल: हीनबलः नरः अणु अल्पमपि याच्यमानः साम्ना सान्त्वोपा- येन तन्न प्रयच्छति तथा च दश्यमानं किचिह्नस्त्वपि न प्रयच्छति स पुनः बलात्त- त्कारितः चूर्णस्य खारीमपि ददाति । अल्पस्य स्थाने बहुव्ययं करोतीत्यर्थः । स्व- लपव्ययेन भूरि रक्षणं कर्तव्यमिति भावः । यथेति – यथा मलिनवस्त्रधारी नरः यत्र तत्र क्वापि । पङ्किलेपि स्थाने इत्यर्थः । उपविशति स्थानास्थानचिन्तां न करोति तथा कस्माच्चित् साध्वाचाराच्चलितो नरोन्यस्याचारस्योल्लंघने न विचारयति । सर्वत्र दुराचरणे प्रवर्तत इत्यर्थः । १ अणूनपि. २ प्रणम्य तस्यैव स दर्पलक्ष्मी देहस्य सर्वस्य पुनर्ददाति, ३ दुःसहः ४ वित्तस्तु वित्तशेषं, वृत्तिशेष. लब्धप्रणाशम् । 197 अथान्यदिने तेनापरान्मण्डूकान्भक्षयित्वा गङ्गदत्तसुतो यमुनांदत्तो भक्षि- तः । तं भक्षितं दृष्टा गङ्गदत्तस्तारस्वरेण धिग्धिक्प्रलापपरः कथंचिदपि न विरराम । ततः स्वपत्न्याभिहितः - किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक । स्वपक्षस्य क्षये जाते की नस्त्राता भविष्यति ॥ ३१ ॥ तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायचे । अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम् भो गङ्गदत्त बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किंचिद्भोजनं यतोऽहं त्वयात्रानीतः। स आह– भो मित्र नं त्वयात्र विषये मयार्वेस्थितेन कापि चिन्ता कार्या । तयदि मां प्रेषयसि ततोऽन्यक्कूपस्थानपि मण्डूकान्विश्वास्यात्रानयामि । स आह– मम तावत्त्वमभक्ष्यो भ्रातस्थाने । तयद्येवं करोषि तत्सांप्रतं पितृस्थाने भवसि । तदेवं क्रियताम् इति । सोऽपि तदाकर्ण्य अरघट्टष- टिकामाश्रित्य विविधदेवतोपकल्पितपूजोपयाचितस्तस्मात्कूपाद्विनिष्का- न्तः । प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदते प्रियदर्शनोऽन्य कोटरनिवासिनीं गोधामुवाच- भद्रे क्रियतां स्तोकं साहाय्यम् । यतश्चिरपरिचितस्ते गङ्गदत्तः । तद्गत्वा तत्सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम संदेशं कथय । यदागम्यतामेका- किनापि भवता व्रततरं यद्यन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यवहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम् । गोधापि तद्वचनाद्गङ्गदत्तं द्वततरमन्विष्याह भद्र गङ्गदत्त स तव सुहृत्प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति । तच्छीघ्रमागम्य- ताम् इति । अपरं च तेन तव विरूपकरणे सुकृतमन्तरे धृतम् । तन्निः- शङ्केन मेनसागम्यताम् । तदाकर्ण्य गङ्गदत्त आह– बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ ३२ ॥ तारस्वरेण उच्चैः । दुराक्रन्द दुष्टः अकिंचित्करत्वादतीतकालत्वाद्वा आक्रन्दो यस्य तत्सं० । कवलितं भक्षितम् । मयावस्थितेन मयि स्थिते । ६वताभ्य उपकल्पिता पूजा उपयाचितानि च येन । उपयाचितं स्वमनोरथसिद्धये देवतायै दातुमिष्टं वस्तु । गोधा निहाका जलजन्तुभेदः । स्तोकमल्पम् । सुकृतमन्तरे धृतं यदि तव विरुद्धमाचरेयं तर्हि मे सुकृतनाशः स्यादतस्तन्नाचरेयमित्यर्थः । १ पृथु . २ मत्वा ३ धिङ्मां धिङ् मामित्येवं विललाप. ४.स्दत्राणं कः करि- व्यति. ५ पायो वा. ६ मयि विद्यमाने. ७ त्वया सह परिचितमास्ते । तद्वत्वा मण्डूकमन्विष्य क्वचिज्जलाशये गंगदत्ताय मम. ८ येन. ९ समाग०. 198 एवमुक्त्वा स तां विसर्जयामास । तद्धो दुष्टजलचर अहमपि गङ्गदत हेव स्वगृहं न कथंचिदपि यास्यामि । तच्छ्रुत्वा मकर आह– भो मित्र नैतयुज्यते । सर्वथैव मे कृतघ्नतादोषमपनय महागमनेन । अथवात्राह- मनशनात्प्राणत्यागं तवोपरि करिष्यामि । वानर आह मूढ किमहं लम्ब- कर्णो गर्दभो यो दृष्टापायोऽपि स्वयमेव तत्र गत्वा मृतः । आगतच गतचैव दृष्ट्वा सिंहपराक्रमम् । अकर्णहृदयो मूर्खस्तेन मृत्युवशंगतः ॥ ३३ ॥ मकर आह-भद्र स को लम्बकर्णः । कथं दृष्टापायोऽपि मृतः । तत्मे निवेद्यताम् । वानर आह- कथा २। अस्ति कस्मिंश्चिद्वनोद्देशे करालकेसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम श्रृगालः सदैवान्नुयायी परिचारकोऽस्ति । अथ कदाचित्तस्य हस्तिना सह युद्धथमानस्य शरीरे गुरुतराः प्रहाराः संजाता यैः पदमेकमपि चलितुं न शक्नोति । तस्याचलनाच्च धूसरकः क्षुत्क्षा• मकण्ठो दौर्बल्यं गतः । अन्यस्मिन्नहनि तमवोचत्-स्वामिन् बुभुक्षया पीडितोऽहम् । पदात्पदमपि चलितुं न शक्नोमि । तत्कथं ते शुश्रूषां करौ- मि । सिंह आह भोः गच्छान्वेषय किंचित्सत्त्वं येनेमामवस्थां गतोऽपि व्यापादयामि । तदाकर्ण्य श्टगालोऽन्वेषयन्कंचित्समीपवर्तिनं ग्राममासा- दितवान् । तत्र लम्बकर्णी नाम गर्दभस्तडागोपान्ते प्रविरलदूर्वाङ्कुरान्कृ- च्छ्रादास्वादयन्दृष्टः । ततश्च समीपीभूय तेनाभिहितः -माम नमस्कारी- ऽयं मदीयः संभाव्यताम् । चिरादृष्टोऽसि। तत्कथय किमेवं दुर्बलतां गतः । स आह-भो भगिनीसृत किं कथयामि । रजकोऽतिनिर्दयोऽतिभारण मां पीडयति । घासमुष्टिमपि न प्रयच्छति । केवलं दुर्वाङ्करान्धूालीम- श्रितान्भक्षयामि । तत्कुतो मे शरीरे पुष्टिः । शृगाल आह-माम यत्येवं तदस्ति मरकतसदृशशष्पप्रायो नदीसनाथो रमणीयतरः प्रदेशः । तत्रो- गत्य मया सह सुभाषितगोष्ठी सुखमनुभवंस्तिष्ठ । लम्बकर्ण आह-भी अकर्णहृदयः अविद्यमानं कर्णौ च हृदयं च कर्णहृदयं यस्य । श्रवणमननरहि- तश्च । उद्देशः प्रदेशः । क्षुधा बुभुक्षया क्षामः कण्ठः यस्य । शुश्रुषा सेवा । कृच्छ्रात् कष्टेन । रजको निर्णेजकः । घासः तृणम् । मरकतसदृशानि मरकतवद् हरितानि शष्पाणि बालतृणानि प्रचुराणि यस्मिन् स मरकतप्रायः । नदीसनाथो नद्या युक्तः । १ इव दृष्टापाद्येपि. २ मूर्खो दृ०… गत्वात्मानं व्यापादयामि ३ मूर्खो यो गत्वा पुनरागतः. ४ ०पवर्तिना भूत्वा ५ दुर्बलः. ६ पुत्र. ७ दमयति. ८ मातुल ९ तदागच्छ येन० सुखमनुभवावः. लब्धप्रणाशम् । 199 भगिनीसुत युक्तमुक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्यचारिणां व- ध्यास्तत्किं तेन भव्यप्रदेशेन । शृगाल आह-माम मैवं वद । मर्जपरि- रक्षितः स देशः । तन्नास्ति कस्यचित्परस्य तत्र प्रवेशः । परमनेनैव दोषे- ण रजककदथितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्व पुष्टिमापना यौवनोत्कटा इदं मामूचुः - यदि त्वमस्माकं सत्यो मातुलस्तदा किंचि- ग्रामान्तरं गत्वास्मयोग्यं कंचित्पत्तिमानय । तदर्थे त्वामहं तत्र नयामि । अथ श्टगालवचनानि श्रुत्वा कामपीडितास्तमवोचत्-भद्र यद्येवं तदग्रे भव येनागच्छामि । अथवा साध्विदमुच्यते- नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियेत च वियोगतः ॥ ३४ ॥ तथा च । यासां नान्नापि कामः स्यात्संगमं दर्शनं विना । तासां दृक्संगमं प्राप्य यन्त्र द्रवति कौतुकम् ।। ३५ ।। तथानुष्टिते भ्टगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत्समुत्तिष्ठति तावद्रासभः पलायितुमारब्धवान । अथ तस्य पला- यमानस्य सिंहन तलप्रहारो दत्तः । स च मन्दभाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच भोः किमेवं- विधः प्रहारस्ते यगर्दभोऽपि तव पुरतो बलाद्गच्छति । तत्कर्थं गजेन सह युद्धं करिष्यसि । तद्दृष्टं ते बलम् । अथ विलक्षस्मितं सिंह आह - भोः किमहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्क्रमाक्रान्तो न गच्छति । श्टगाल आह-अव्याप्ये- कवारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृतक्रमेण स्थातव्यम् । सिंह आह-भद्र यो मां प्रत्येक्षतया दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति । तदन्यत्किमपि सत्त्वमन्विष्यताम् । श्टगाल आह-किं तैवानेन व्यापा- ग्राम्याः ग्रामे भवाः । भव्यः सुन्दरः । तत्तस्मात्कारणात् । परस्य शत्रोः । अने- नैव दोषेण पर्याप्तभोजनाभावेन । रजकेन कदर्थिताः पीडिताः । वौवनेन उत्कटा मत्ता यौवनोत्कटाः । मत्ते शौण्डोत्कटक्षीबा इत्यमरः । कामेन पीडितानि अङ्गानि यस्य । नामृतमिति - नितम्बिनीनां प्रशस्तः नितम्ब विद्यते आसां तासां सुन्दरीणां सङ्ग एवामृतं वियोगो विषमित्यर्थः । कामः रागोत्पत्तिः । तासां दृक्संगमं प्राप्य नरः न द्रवति इति रात् तत् कौतुकमाश्चर्यकरमित्यन्वयः । सर्वोपि तद्वशोभवतीति पिण्डि- तोर्थः । तलप्रहारश्चपेटाघातः । मन्दभाग्यस्य दैवहीनस्य व्यवसाय उद्यमः। एवं विधा प्रकारो यस्य । विलक्षस्मितं यस्मिन् कर्मणि तद्यथा तथा । क्रम आक्रमणाटोपः । १ भुजपअर. २ तस्योपरि पपात । गर्धभोपि तं वज्रपातमिव मन्यमानः किमि- दमिति विचिन्तयन्नक्षततनुरेव देवात्कथमपि तस्मादपगतः । ३ प्रत्यक्षं. ४ भवतो- नया चिन्तया । अत्रार्थेहमेव जागरूकस्तिष्ठामि । 200 पञ्चतन्त्रे रेण । त्वं केवलं सज्जितक्रमस्तिष्ठ । तथानुष्ठिते शृगालोऽपि यावद्रासभमा- र्गेण गच्छति तावत्तत्रैव स्थाने चरन्दृष्टः । अथ श्टगालं दृष्ट्वा रासभः प्राह- भो भेगिनीसुत शोभनस्थाने त्वयाहं नीतः । द्राङ मृत्युवशं गतः । तत्कथय किं तत्सत्वं यस्यातिरौद्रवज्रसदृशकरप्रहारादहं मुक्तः । तच्छ्रुत्वा प्रहसन्धगाल आह-भद्र रासभी त्वामायान्तं दृष्ट्वा सानुरागालिङ्गितुं समुत्थिता । त्वं कातरत्वान्नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नश्यतस्तेऽवलम्बनार्थं हस्तः क्षिप्तो नान्यकारणे- न । तदागच्छ । सा त्वत्कृते प्रायोपवेशेनोपविष्टा तिष्ठति । एतद्वदति यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जले वा प्रविशामि विषं वा भक्षयामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि । तत्प्रसादं कृत्वा तत्राग- म्यतामिति । नो चेत्तव स्त्रीहत्या भविष्यति । अपरंच भगवान्कामः कोपं तवोपरि करिष्यति । उक्तं च- स्त्रीमुद्रां झर्षेकेतनस्य जयिनीं सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्रीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाचापरे ।। ३६ ।। अथासौ तद्वचनं श्रदेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते- जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् । कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥ ३७ ॥ द्राक् द्रुतं । अतिरोद्रः वज्रेण वज्रप्रहारेण सदृशः । कोपेनाविष्टः क्रोधवशः । एवंविधः कर प्रहारः यस्य । सानुरागा कामपरवशा । कातरत्वाद्भीरुस्व- भावत्वात् । नश्यतः पलायमानस्य । अवलम्बनार्थं ग्रहणार्थं । स्त्रीमुद्रेति– स्त्रीरूपा मुद्रा स्त्रीमुद्रा । झषः केतनं यस्य स झपकेतनः कामः । सर्व चासौ अर्थसंपत्तां करोतीति । ये कुधियः कुत्सितमतयो विवेकशून्या इत्यर्थः । पुरुषाः झषकेतनस्य सर्वार्थसंपत्करीं स्त्रीमुद्रां प्रविहाय परित्यज्य मिथ्या वास्तवं स्त्रीसँग- रूपं फलं विहायान्यन्नीरसं किचिदन्विष्यन्तीति तथोक्ताः । ते तेनैव कामेना- तिनिर्दयं प्रहृत्य केचिन्नग्नीकृता मुण्डिता वा जैन भिक्षुकाः क्षपणका वा कृता: । अपरे रक्तवस्त्रधारिणः । जटाधारिणः कपालधारिणश्च कृताः । जानन्निति-नरो ज्ञानवानपि विगर्हितं निन्दितं यत् कर्म करोति तद्द्रवात् तथा भवितव्यतया एव करोति । अन्यथा एवं न चेत् लोके कस्यचित् गर्हितं कर्म कथं रोचते रोचेत । न कस्यापीत्यर्थः । १ भागिनेय अभव्यस्थाने त्वयाहं नीतो यद्देवान्मृत्युवशं न गतः । २० रागम्. ३०न उप., कृतमतिः. ४ मकरध्वजस्य. ५ महतीं. ६ क मचिन्कर्म किं… कृतम् लब्धप्रणाशम् । 201 अत्रान्तरे सजितक्रमेण सिंहेन स लम्बकर्गो व्यापादितः । ततस्तं हत्वा मृगालरक्षेपालं निरूप्य स्वयं स्नानार्थं नयां गर्तः । मृगालेनापि लौल्यैौ- त्सुक्यात्तस्य कर्णहृदयं भक्षितम् । अत्रान्तरे सिंहो यावत्नात्वा कृतदे- वार्चनः प्रतर्पितपितृगणः समायाति तावत्कर्णहृदयरहितो रासभस्ति- ष्ठति । तं दृष्ट्वा कोप परीतात्मा सिंहः शृगालमाह आः पाप किमिदमनु- चितं कर्म समाचरितं यत्कर्णहृदयभक्षणेनायमुच्छिष्टतां नीतः । गृगालः सविनयमाह स्वामिन् मा मैवं वद । यत्कर्णहृदयरहितोऽयं रासभ आसीत् तेनेहागत्य त्वामक्लोक्य भूयोऽप्यागतः । अथ तद्वचनं श्रदेयं मत्वों सिंहस्तेनैव सह संविभज्य निःशङ्कितमनास्तं भक्षितवान् । अतोहं त्रवीमि । आगतश्च गतश्चैव इति । तन्मूर्व कपटं कृतं त्वया । परं युधिष्ठि- रेणेव सत्यवचनेन विनाशितम् । अथवा साध्विदमुच्यते स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते से मन्दधीः । स स्वार्थाश्यते नूनं युधिष्ठिर इवापरः ।। ३८ ।। मकर आह । कथमेतत् । स आह । कथा ३ । कस्मिंश्चिदधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित्प्रेमदोर्घभ- ग्रकर्षतीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः । ततः कर्पर कोट्या पाटितललाटो रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चाप- थ्यसेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः । अ- थ कदाचिदुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्चिद्राजसे- वकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोपि राजा तस्य ललाटे विकरा प्रहारक्षतं दृष्ट्टा चिन्तयामास । यद्वीरः पुरुषः क विदयम् । ननं तेन ललाटपट्टे संमुखप्रहारः । अतस्तं संमानादिभिः स- रक्षपाल रक्षकम् । लौल्यात् यदौत्सुक्यं लालसा तस्मात् । कोपेन परीतः व्याप्तः आत्मा यस्य । श्रद्धेयं विश्वासार्हम् । संविभज्य विभागं कृत्वा । प्रमदः प्रकृष्टो मदो मद्यजनितो यस्य । अर्धो भग्नो यः करस्तस्य तीक्ष्णं च तदग्रं च तस्य । करालतां गतो रूढमांसो जातः । विकरालं भीषणं । संमुखप्र० - शत्रोः संमुखे युध्यमानस्य प्रहारो लग्न: ; १ रक्षक. २ गते सिंहे. ३ कृतयथोचितविधिः कृत०. ४ यदस्य कर्णसहितं हृदयं भक्षितं ५ अला. ६ सु. ७ प्रमत्तः प्रमादात्. 202 पात वषां राजपुत्राणां सकाशाद्विशेषप्रसादेन पश्यति । तेपि राजपुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तः परमेष्यधर्मं वहन्तो राजभयान किंचिदूचुः । अथान्यस्मिन्नहनि तस्य भूपतेवरसंभावनायां क्रियमाणायां विग्रहे समु- पस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु प्रगुणीक्रियमा- णेषु तेन भूभुजा स कुलालः प्रस्तावानुगतं पृष्टो निर्जने । भो राजपुत्र केस्मिन्संग्रामे प्रहारोयं ते ललाटे लग्नः । स आह-देव नायं शस्त्रप्रहारः । युधिष्ठिराभिषः कुलालोहं प्रकृत्या । मैगेहेने ककराण्यासन् । अथ कदा चिन्मद्यपानं कृत्वा निर्गतः प्रधावन्कर्परोपरि पतितः । तस्य प्रहारविका- रोयं मे ललाट एवं विकरालतां गतः । तदाकर्ण्य राजा सव्रीडमाह- अहो वञ्चितोहं राजपुत्रानुकारिणानेन कुलालेन । तदीयतां द्रागेतस्य च- न्द्रार्धः । तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु । पश्य मे रणे हस्त- लाघवम् । राजा प्राह । भोः सर्वगुणसंपन्नो भवान् । तथापि गम्यताम् । वक्तं च– । रोसि कृतविद्योसि दर्शनीयोसि पुत्रक । यस्मिन्कुले त्वमुत्पत्रो गजस्तत्र न हन्यते ॥ ३९ ॥ कुलाल आह । कथमेतत् । राजा कथयति- कथा ४ । कस्मिंश्चिद्वनोद्देशे सिंहदंपती प्रतिवसतः स्म । अथ सिंही पुत्रद्वयम- जीजनत् । सिंहोपि नित्यमेव मृगान्व्यापाय सिंधै ददाति । अर्थं कदाचि- तेन किमपि नासादितम् । वने भ्रमतोपि तस्य रविरस्तंगतः । अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः । स च बालकोयमिति मत्वा यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्तमपि समर्पितवान् । ततः सिंह्याभि- हितम् । भोः कान्त आनीतं किंचिदस्माकं भोजनं स्वया । सिंह आह अन्यस्मिन्नहनि एकदा । विग्रहे युद्धे समुपस्थिते इत्यन्वयः । वीराणां संभावना दानमानादिना गौरवं । संनह्यमानेषु कंकटाच्चाच्छादनेन युद्धाय सज्जीक्रियमा- णेषु । प्रकृष्टा गुणा वीर्यादयो येषां तथा क्रियमाणेषु । दीयतां चन्द्रार्धः अर्ध- चन्द्रदानेन निष्कास्यताम् । शुरश्चेति एवं सत्यपि यस्मिन्कुले त्वमुत्पन्नः तस्मिन् न कस्यापि तरकुलोत्पन्नस्य गजद्दननसामर्थ्यमित्यर्थः । १ किं ते नाम का च जातिः । कस्मि०. २ जात्या. ३ अनेककपर संकुल प्रांगणप्रदेशे मद्यपानविकलः कर्परोपरि. ४ निधिः ५ शुरश्च ०चश्च ६ मिथुनं वसति. • अथान्यस्मिन्नहनि ८ कृतानुकम्पेन दंष्ट्रामध्ये सिंह्या: समर्पितः । इ. पा. विधृत्य यत्नेन जीवन्नानीय .लब्धप्रणाशम् । 203 प्रिये मयाथैनं शृगालशिशुं पैरित्यज्य न किंचित्सत्त्वमासादितम् । संच मया बालोयमिति मत्वा न व्यापादितैः । उक्तं च- स्त्री विप्रालिङ्गिबालेषु प्रहर्तव्यं न कर्हिचित् । प्राणत्यागेपि संजाते विश्वस्तानां विशेषतः ॥ ४० ॥ इदानीत्वमेनं भक्षयित्वा पथ्यं कुरु । प्रभातेन्यदुपार्जयिष्यामि । साह- भोः कान्त त्वया बालकोयमिति मत्वा न व्यापादितः । तदहं कथं स्वो- दरार्थे विनाशयामि । उक्तं च– अकृत्यं नैव कर्तव्यं प्राणत्यागेपि संस्थिते । व च कृत्यं परित्याज्यं एष धर्मः सनातनः ॥ ४१ ॥ तस्मान्ममायं तृतीयः पुत्रो भविष्यति । इत्युक्त्वा तमपि स्वस्तनक्षीरेण पुष्टिमनयत् । एवं ते त्रयोपि शिशवः परस्परमज्ञातजातिविशेषा एकत्र विहारिणो बाल्यमतिवाहयन्ति । अथ कदाचित्तत्र वने भ्राम्यन्वनगजः समायातः । तं दृष्ट्वा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्तावत्तेन शृगालसुतेनाभिहितम् । अहो गजोयं युष्मत्कुलशत्रुः । तत्र गन्तव्यमेतस्याभिमुखम् । एवमुक्त्वा गृहं प्रधावितः। तावपि ज्येष्ठबान्ध- वभङ्गान्निरुत्साहतां गतौ । अथवा साध्विदमुच्यते- एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ४२ ॥ अत एव हि वाञ्छन्ति भूपा योधान्महाबलान् । शूरान्धीरोन्कृतोत्साहान्वर्जयन्ति च कातरान् ॥ ४३ ॥ अथ द्वावपि गृहं प्राप्य पित्रोरग्रतो विहसन्तौ ज्येष्ठभ्रातृचेष्टितमूचतु- यथा गजं दृष्ट्वा दूरपि नष्टः । सोपि तदाकर्ण्य कोपाविष्टः प्रस्फुरिताध- रपल्लवस्ताम्रलोचनस्निशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयनामः परुषतरव- चनान्युवाच । ततः सिंह्यैकान्ते नीत्वा प्रबोधितौसौ-वत्स मैवं कदाचि- जल्प भवदीयलघुभ्रातरावेतौ । अथासौ प्रभूतकोपाविष्टस्तामुवाच किम- हमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनो येन मानुपह- 1 स्त्रीति - प्राणत्यागे संजात उपस्थितेपि । स्त्रियश्च विप्राश्च लिङ्गिनः परिव्राज- कादयः बालाश्च तेषु । तं प्रति तमाक्रमितुमित्यर्थः । भङ्गात्तेजोहान्या । रणं प्रति सैन्यं सोत्साहं जायते । एकस्मिन्नपि भने भङ्गमुत्साहभङ्गम् । धीरान् निश्चित- मतीन् । नष्टः प्रद्रुतः । अधरः पल्लव इव अध०, प्रस्फुरितोधरपल्लवो यस्य । तिस्रः शिखा यस्याः ताम् । अतिवक्रामित्यर्थः । १ विना. २ अयमपि स्वजातीयो बालवे० ३ दितो विशेषात्स्वजातीयश्च । ४ प्राणात्यये ०.५ कृत्यं स्यात् ६ विमुश्वेत. • दृष्टः ८ जेष्ठत्रासात्. ९ वीरान्. १० विद्याभ्यासको. 204 पञ्चतन्त्रे सतः । तन्मयावश्यमेतौ व्यापादनीयौ । तदाकर्ण्य सिंही तस्य जीवित- मिच्छन्ती अन्तर्विहस्य प्राह- शरोसि कृतविद्योसि दर्शनीयोसि पुत्रक । यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ४४ ॥ तत्सम्यक् शृणु वत्स त्वं शृगालीसुतः कृपया मया स्वकीयक्षीरपानेन पुष्टिं नीतः । तयावन्नैतौ त्वां गृगालं जानीतस्तावत द्रुतं गत्वा स्वजाति- मध्ये भव नो चेदाभ्यां हतो मृत्युपथं समेष्यसि । सोपि तद्वचनं श्रुत्वा भ- यव्याकुलमनाः क्षणात्प्रनष्टः । तस्मात्त्वमपि यावदेते राजपुत्रास्त्वां कुलालं न जानन्ति तावद् द्रुतरमपसर । नो चेदेतेषां सकाशाद्विडम्वनां प्रा- प्रेयमि । कुलालोपि तदाकर्ण्य सर्वैरं प्रनष्टः- अतोहं ब्रवीमि स्वार्थमुत्सृज्य यो दम्भी इति । तद्भो दुष्ट मकर त्वमपि कुलालवत्स्ववचनेन प्रकटीकृतः । अथवा साध्विदमुच्यते । आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥। ४५ ।। उक्तं च- सुगुप्तं रक्ष्यमाणोपि दर्शयन्दारुणं वपुः । व्याघ्रचर्मप्रतिच्छन्नो वाक्कते रासभो हतः ॥ ४६ ॥ मकर आह-कथमेतत् । स आह- कथा ५। अस्ति कस्मिश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । त- स्यैको रासभोस्ति । सोपि घासाभावादतिदुर्बलतां गतः । अथ तेन रजैं केनाव्या भ्रमता व्याघ्रचर्म प्राप्तम् । ततश्राचिन्तयत् । अहो शोभन- मापतितम् । अनेन चर्मणा परिच्छाय रासभं रात्रौ यवक्षेत्रेत्संजामि येन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रान निष्कासयन्ति । तथानुष्ठिते रा- सभी रात्रौ यथेच्छं यवभक्षणं करोति । प्रत्यूषे भूयोपि रजकः स्वाश्रयं व्याघ्रस्य चर्म व्या० तेन प्रतिच्छन्न आच्छादितः । वाक्कृते दाग्हेतोः । घासौ यवसं गवाद्यदनीयं तृणम् । १ स्वस्तनक्षीरेण. २ स्वजातीयानां मध्ये ३ मृत्युमेष्य ०. ४ शनैः शनैरपसृत्य स्वजात्या मिलितः. ५ प्राप्य मरिष्यसि ६ द्रुततरं ७ युधिष्ठिर इव सत्यवचनात्त्वं तामापदमापन्नः इ. पा. ८ ततो भद्र आगतेन त्वया मां प्रति वधोपायप्रयासः प्रा. रब्धः परं स्ववाग्दोषेणैव प्रकटीभूतः । ९ मदोद्धतो नाम च गर्दभोस्ति. १० क्वापि. ११ एतच्चर्म परिधाप्य. १२ यावत्; कणिशशालिषु. १३ उत्स्रक्ष्यामि … ०सयि. ष्यन्ति १४ रात्रिशेषे. लब्धप्रणाशम् । 205 नयति । एवं गच्छता कालेन स रासभः पीवरतनुर्जातः । कृच्छ्रादन्धन- मपि नीयते । अथान्यस्मिन्नहनि स मदोद्धतो दूराद्रासभीशब्दं शृण्वंस्तार- स्वरेण शब्दायितुमारब्धः । अथ ते क्षेत्रपाला रासभोयं व्याघ्रचर्मप्रति- च्छन्न इति मत्वा लकुटपाषाणशरप्रहारैस्तं व्यापादितवन्तः । अतोहं ब्रवीमि । सुगुप्तं रक्ष्यमाणोपि इति । तत्किं श्यामलकवदत्यपमान सहना- दर्धचन्द्रदानेन यास्यसि । मकर आह-कथमेतत् । स प्राह- कथा ६ । अस्त्यत्र धरापीठे विकण्टकं नाम पुरम् । तत्र महाधन ईश्वरो नाम भाण्डपतिः । तस्य चत्वारो जामातृका अवन्तीपीठात्प्राघूर्णका विकण्ट- कपुरे समायाताः । ते च तेन महता गौरवेणाभ्यर्चिता भोजनाच्छादना- दिभिः । एवं तेषां तत्र वसतां मासषङ्कं संजातम् । तत ईश्वरेण स्वभा- योक्ता । यदेते जामातरः परमगौरवेणावर्जिताः स्वानि गृहाणि न ग- च्छन्ति । तत्किं कथ्यते । विनापमानं न यास्यन्ति । तदद्य भोजनवेलायां पादप्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पादप्रक्षालनापमानात्सोमो लघ्वासनदानाद्दत्तः कदश- नतो यातः । एवं ते त्रयोपि परित्यज्य गताः । चतुर्थः श्यामलको यावन्न याति तावदर्धचन्द्रप्रदानेन निष्कासितः । अतोहं ब्रवीमि । गर्यो हि पादशौचाल्लघ्वासनदानतो गतः सोमः । ‘दत्तः कदशन भोज्याच्श्यामलकश्चार्धचन्द्रेण ॥ ४७ ॥ इति । तत्किमहं रथकारवन्मूर्खो यतः स्वयमपि दृष्ट्वा ते विकारं पश्वाद्विश्व- सिमि । उक्तं च- प्रत्यक्षेपि कृते पापे मूर्खः सान्ना प्रशाम्यति । रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥ ४८ ॥ मकर आह । कथमेतत् । स आह- कथा ७ । कस्मिश्चिदधिष्ठाने कश्चिद्रथकारः प्रतिवसति स्म । तस्य भार्या पुंश्चली मदोद्धतो यौवनमदोत्कटः । अवन्तीपीठात् पीठं निवासस्थानं । भोजनं चा- च्छादनं च भो० नं तदादि यस्य तेन । आवर्जिताः प्रवणीकृताः । गर्गः एतन्ना- मकः । कदशनतः कुल्लितमशन क० तद्दानात् । पुंसः स्वपुरुषात् चलतीति पुंश्चली असती । १ अणोत् । तच्छ्रवणमात्रेणैव स्वयं. २ अस्ति क० ने वीरधरो नाम. ३ भार्या कामदमिनी । साच पुं०. 206 पञ्चतन्त्र जनापवादसंयुक्ता । सोपि तस्याः परीक्षार्थं व्यचिन्तयत् । कथं मयास्याः परीक्षणं कार्यम् । न चैतद्युज्यते कर्तुम् । यतः । नदीनां च कुलानां च मुनीनां च महात्मनाम् । परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥ ४९ ॥ वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्यतनयां तथा जातो व्यासः शतगुण निवासः किमपरम् । स्वयं वेदान्व्यस्यच्छमितकुरुवंशप्रसविता स एवाभूच्छ्रीमानहह विषमाः कर्मगतयः ॥ ५० ॥ कुलानामिति पाण्डवानामपि महात्मनां नोत्पत्तिरधिगन्तव्या यतः क्षेत्रजा इति । स्त्रीदुश्चरितं संधुक्ष्यमाणमनेकदोषान्प्रकटयति स्त्रीणा- मिति । तथा च । यदि स्यात्पावकः शीतः प्रोष्णो वा शशल (न्छनः । श्रीणां तदा सतीत्वं स्यायदि स्याहुर्जनो हितः ॥ ५१ ॥ तथापि शुद्धामशुद्धां वापि जानामि लोकवचनात् । उक्तं च- यत्र वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत्सर्वं वेत्ति लोकोयं यत्स्याद्ब्रह्माण्डमध्यगम् ।। १२ ।। एवं संप्रधार्य तामवोचत् । प्रिये अहं प्रातर्ग्रामान्तरं यास्यामि । तत्र दिनानि कतिचिल्लगिष्यन्ति । तत्त्वया किंचित्पाथेयं मम योग्यं कार्यम् । सापि तदाकर्ण्य हर्षितचित्तौत्सुक्येन सर्वकार्याणि संत्यज्य सिद्ध मन्त्रं धृतशर्कराप्रायमकरोत् । अथवा साध्विदमुच्यते- दुर्दिवसे घनतिमिरे दुःसंचारास नगरवीथीषु । पत्यौ विदेशयाते परमसुखं जघनचपलायाः ।। ५३ ॥ अथासौ प्रत्यूष उत्थाय स्वगृहान्निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसितवदनाङ्गसंस्कारं कुर्वाणा कथंचित्तं दिवसमत्यवाहयत् । ततश्च पूर्वपरिचितं विटगृहं गत्वा तमभ्ययक्तवती । यद्रामान्तरं गतः ख दु- रात्मा मे पतिः । तदव्य त्वयास्मगृहे प्रसुप्ते जने समागन्तव्यम् । तथानु- मुनिः पराशरः । मत्स्यतनया सत्यवती । शतं गुणाः तेषां निवासः बहुगुणाश्रय इत्यर्थः । शमित उच्छिन्नो यः कुरुवंशस्तस्य प्रसविता । स एव तथो- त्पन्नोपि । अधिगन्तव्या परीक्ष्योपलब्धव्या । क्षेत्रजाः न तु औरसाः । मृतस्य क्षेत्रे भार्यायां गुरुनियुक्तायां नियोगधर्मेण जातः पुत्रः क्षेत्रजः । पाथेयँ पथि हितं । दुर्दिवसे घनच्छन्ने दिने । जघनचपला पुंश्चली । १ अथ. २ जानामि चैनां लोकवचनादसतीम् । ३ यच्च. ४ प्रभातेहं ५ विधेय. ६ तद्वचनं श्रुत्वा ७ वर्षति जलदे महाटवीप्रभृतौ । पत्युर्विदेशगमने ८ परिचित कँचिद्विटगृहं गत्वाभ्यथ्यौ क्त ०. लब्धप्रणाशम् | 207 ष्ठिते स रथकारोप्यरण्ये दिनमतिवाह्य प्रदोषे स्वगृहमपरद्वारेण प्रविष्टः शय्यांतले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शंयन आगत्यो- पविष्टः । तं दृष्ट्वा रथकारो रोषाविष्टचित्तो व्यश्विन्तयत् । किमेनमुत्थाय विनाशयाम्यथवा द्वावप्येतौ सुप्तौ हेलया हैन्मि । परं पश्यामि तावचेष्टि- तमस्याः गृणोमि चानेन सहालापान् । अत्रान्तरे सा गृहद्वारं निभृतं वि- धाय शयनतलमारूढा । तस्यास्तच्छयनमारोहन्त्या रथकारशरीरं पादो लग्नः । ततो व्यचिन्तयत् । नूनमेतेन दुरात्मना रथकारण मत्परीक्षणार्थ भाव्यम् । तत्त्रीचरित्र विज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुको बभूव । ततैश्व तया कृताञ्जलिपुटयाभिहितं भो महा- नुभाव न मे गात्रं त्वया स्प्रष्टव्यं यतोहं पतित्रता महासती च । नो चेच्छाप दत्त्वा त्वां भस्मसात्करिष्यामि । स आह यथेवं तर्हि किमर्थं त्वयाहमाद्वैतः सा प्राह भोः वेकाग्रमनाः । अहमय प्रत्यूषे देवतादर्शनार्थं चण्डिका- यतनं गता । तत्राकस्मात्खे वाणी संजाता । पुत्रि किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधिनियोगाद्विधवा भविष्यसि । ततो मयाभिहितं भगवति यथा त्वमपदं वेत्सि तथा तत्प्रतीकारमपि जा- नासि । तदस्ति कश्चिदुपायो येन मे पतिः शतसंवत्सरजीवी भवति । त- तस्तयाभिहितं वत्से सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयोक्तं देवि यन्मत्प्राणैर्भवति तदादेशय येन करोमि । ततो देव्याभिहितम् यथव्यदिने परपुरुषेण सहैकस्मिन्छयने समारुह्यालिङ्गनं करोषि तत्तव भर्तृसक्तोपमृत्युस्तस्य संचरति त्वद्भर्ता पुनवैर्षशतं जीवति । तेन मया त्वमभ्यर्थितः । ततो यत्किचित्कर्तुमनास्तत्कुरुष्व । न हि देवतावचनम- न्यथा भविष्यतीति मे निश्चयः । सोपि रथकारो मूर्खस्तस्यास्तद्वचनमा- कर्ण्य पुलकाङ्किततनुः शय्यार्तलानिष्क्रम्य तामुवाच । साधुपति- व्रते साधु कुलनन्दिनि साधु । अहं दुर्जनवचनशङ्किन्तहृदय स्त्वत्पररीक्षार्थं ग्रामान्तरव्याजं कृत्वात्र निभृतं खट्टातले लीनः स्थितः । तदेह्यालिङ्गन्य

निभृतः छन्नः । अञ्जलेः पुढं अ०टं कृतमज्ञ्जलिपुटं यया । महानुभाव महासत्व । एकमेव अग्रं यस्य तदेकाग्रं मनो यस्य । शतं संवत्सरान् जीवतीति । मत्प्राणैर्म- म प्राणव्ययेनापि । पुलकैः रोमाञ्चैः अङ्किता तनुर्यस्य । ग्रामान्तरव्याजं ग्रामान्तर- गमनमिषम् ।
१ शय्याधःस्थले. २ समागत्य तत्र शरणे उप. ३ हन्मि ४ व्यापादयामि. ५ अथ. ६ स्पर्शनीयं. ७ अत्रानीतः. ८ आकस्मिकी. ९ त्वमेतज्जानासि… वेस्सि. १० यदि तत्. ११ पुनरन्यद्वर्षशतद्वयं. १२ अधस्तलात्. १३ साधु पवित्रे.
208
पञ्चतन्त्र
माम् । एवमुक्त्वा तामालिङ्गन्य स्वस्कन्धे कृत्वा तं देवदत्तमप्युवाच । भो महानुभाव मत्पुण्यैस्त्वमिहागतः । त्वत्प्रसादात्प्राप्तमय मया वर्षशत- प्रमाणमायुः । ततस्त्वमपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्त्रनिच्छन्तमपि देवदत्तं बलादालिङ्गन्य स्कन्धे समारोपितवान् । त- तैश्व तूर्यध्वनिच्छन्देन नृत्यन्सकलगृहद्वारेषु बभ्राम । अतोहं ब्रवीमि । प्रत्यक्षेपि कृते पापे इति । तन्मूढ दृष्टविकारस्त्वम् । तत्कथं तव गृहं ग- च्छामि । अथवा यन्मां त्वं विश्वासयास तत्ते दोषो नास्ति यत ईदृशी स्वभावदुष्टा युष्मज्जातिर्या शिष्टसङ्गादपि सौम्यत्वं न याति । अथवा स्वभावोयं दुष्टानाम् । उक्तं च-
सद्भिः संबोध्यमानोपि दुरात्मा पापपौरुषः ।
वृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ५४ ॥
अथवा साध्विदमुच्यते-
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ।। ५५ ॥ मकर आह- कथमेतत् । सोब्रवीत्-
कथा ८ ।
अस्ति कस्मिंश्चिदधिष्ठाने तपोवने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचि- त्वरतरनखाग्रपुटेन श्येनेन गृहीता । तां दृष्ट्वा स मुनिः करुणार्द्रहृदयो मुञ्च मुञ्चेति कुर्वाणस्तस्य पाषाणखण्डं प्राक्षिपत् । सोपि पाषाणखण्डप्र- हारव्याकुलेन्द्रियो भ्रष्टमूषिको भूमौ निपपात । मूषिकापि भयत्रस्ता कर्तव्यमजानती रक्ष रक्षेति जल्पन्ती मुनिचरणान्तिकमुपाविशत् । श्येनेनापि चेतनां लब्ध्वा मुनिरुक्तः । यद्भो मुने न युक्तमनुष्ठितं भवता
पर्जन्यं मेघम् । अतिशयेन खराणि खरतराणि नखाग्राणि तेषां पुटेन खरतरं नखाग्रपुटं यस्य तेन इति वा । पाषाणखण्डस्य प्रहारस्तेन व्याकुलानि इन्द्रियाणि यस्य । भ्रष्टो मूषको यस्मात् । कर्तव्यमजानती किंकर्तव्यतामूढा ।
१ अस्मात्परं - त्वं स्वभर्तृभक्तानां मुख्या नारीणां यदेवं ब्रह्मव्रतं परसंङ्गेपि पालितवती । मदायुर्वृद्धिकृतेऽपमृत्युविनाशार्थं च त्वमेवं कृतवती । तामेवमुक्त्वा सस्ने- हेमालिंगितवान् । इत्यधिकं पुस्तकान्तरे. २ शतद्वय. ३ ततश्च नृत्यं कृत्वा हे ब्रह्मव्रतधराणां धुरीण त्वयापि मय्युपकृतमित्याद्युक्त्वा रकन्धादुत्तार्य यत्र यत्र स्वजनगृहद्वारादिषु बभ्राम तत्र तत्र तयोरुभयोरपि तदुणवर्णनमकरोत् । इ. पा. ४ स्वयोनिं. ५ अस्याः कथायाः पूर्वभागः पुस्तकद्रय भिन्न उपलब्धोन्ते निवे- शितस्तत्रैव द्रष्टव्यः ।
लब्धप्रणाशम् ।
209
यदहं पाषाणेन ताडितः । किं त्वमधर्मात्र विभेषि । तत्समर्पय ममैनां मूषिकाम् | नो चेत्प्रभूतं पातकमवाप्स्यसि । इति ब्रुवाणं श्येनं प्रोवाच सः। भो विहंगाधम रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । संमाननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत्क्रिमसंबद्धं प्रजल्पसि । श्येन आह । मुने न त्वं सूक्ष्मधर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोपि विनिर्मितः । ततो यथा भवतामन्त्रं तथास्माकं मूषिकादयो विहिताः । तत्स्वाहारकाङ्क्षिणं मां किं दूषयसि । उक्तं च ।
यवस्य विहितं भोज्यं न तत्तस्य प्रदुष्यति ।
अभक्ष्ये बहूदोषः स्यात्तस्मात्कार्यो न व्यत्ययः ।। ५६ ।। मद्यं यथा द्विजातीनां मद्यपानां यथा हविः । भक्ष्यभक्ष्यतामेति तथान्येषामपि द्विज ।। १७ ।। भक्ष्यं भक्षयतां श्रेयो अभक्ष्यं तु महदघम् । तत्कथं मां वृथाचारं त्वं दण्डयितुमर्हसि ।। ५८ ।।
अपरं मुनीनां न चैष धर्मो यतस्तैर्दृष्टमदृष्टं श्रुतमश्रुतमलौल्यत्वमशत्रुत्वं प्रशस्यते । उक्तं च
समः शत्रौ च मित्र च समलोष्टाश्मकाञ्चनः । सुहृन्मित्रे चुदासीनो मध्यस्थो द्वेष्यबन्धुषु ।। ५९ ।। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ।
साधूनां निरवद्यानां सदाचारविचारिणाम् ॥ ६० ॥ योगी युन्जीत सततमात्मानं रहसि स्थितः । तत्त्वमनेन कर्मणा भ्रष्टतपाः संजातः । उक्तं च-
मुञ्च मुञ्च पतत्येको मा मुञ्चेति द्वितीयकः । उभयोः पतनं दृष्ट्वा मौनं सर्वार्थसाधनम् ।। ६१ ।। शालङ्कायन आह–कथमेतत् । श्येन आह
सूक्ष्मधर्मं धर्मस्य प्रतनुतत्वं । विहितं शास्त्रेणानुज्ञातं । प्रदुष्यति दोषार्ह भवति ॥ व्यत्ययः स्वभक्ष्यातिक्रमः । श्रेयः कल्याणं । अभक्ष्यं भक्षयतां महदनं पापम् । वृथा आचारो यम्य तादृशमिव । यद्वा माऽवृथाचारमिति पठनीयम् । दृष्टमदृष्टं प्रशस्यते तैः दृष्टमपि किंचिददृष्टवत्स्यादित्यर्थः । श्रुतमिति किमपि श्रुखा न तत्र प्रवर्तेरन् किंतु अश्रुतवन्त इव अविकृतास्तिष्ठेयुरित्यर्थः । समं लोष्टमरमा कांचनं च यस्य । सुहृदो मित्रं तस्मिन् । यद्वा सुहृदश्च मित्राणि च सुहृन्मित्रं तस्मिन् । एतादृशो मुनिः विशिष्यते प्रशस्यते । निरवद्यानामनिन्द्यानाम् । सन्साधुश्चासौ आचारश्च तेन विचरन्तीति तेषाम् ।
210
पञ्चतन्त्रे
कथा ९.
कस्मिंश्चिनदीतट एकतद्वितत्रिताभिधानास्त्रयोपि भ्रातरो मुनयस्तपः कुर्वन्ति । तेषां च तपः प्रभावादाकाशस्था धौतपोतिका निरालम्बा जला- दी भूस्पर्शनभयेन स्नानसमये तिष्ठन्ति । अथान्येर्गुमयेव काचिन्मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीतां विलोक्य तेषां ज्येष्ठेन करु- णार्द्रहृदयेन भवतेव व्याहृतम् । मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौतपो- तिकाकाशाद्भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्भयात्तैन मा. मुख मामुञ्चेत्य भहितं यावत्तावत्तस्यापि पपात । ततस्तृतीयो द्वयोरपि धौत- पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव । अतोहं ब्रवीमि - मुक्च मुञ्च पतत्येक इति ।
तच्छ्रुत्वा मुनिविहस्याह । भी मूर्ख विहंगम कृतयुगे धर्मः स आसीत्। यतः कृतयुगे पापालापतापि पापं जायते तेन धौतपोतिके पतिते अशि- टालापेन न सदपवचनदोषतः । एष पुनः कलियुगः । अत्र सर्वोपि पापा- त्मा । तत्कर्म कृतं विना पापं न लगति । उक्तं च-
उक्तं च-
संचरन्तीह पापानि युगेष्वन्येषु देहिनाम् । कलौ तु पापसंयुक्ते यः करोति स लिप्यते ।। ६२ ।।
आसनाच्छ्यनाद्यानात्संगतेश्चापि भोजनात् ।
कृते संचरते पापं तैलबिन्दुरिवाम्भसि ॥ ६३ ॥
तत्किं वृथाप्रलपितेन । गच्छ त्वम् | नो चेच्छापयिष्यामि । अथ गते इयेने मूषिकया स मुनिरभिहितः । भगवन नय मां स्वाश्रयम् | नो चेद- न्यो दुष्टपक्षी कश्चिन्मां व्यापादयिष्यति । तदहं तत्रैवाश्रये त्वद्दत्तान्नाहार- मुष्टया कालं नेष्यामि । सोपि दाक्षिण्यवान्सकरुणो व्यचिन्तयत् कथं मया मूषिका हस्ते धृता नेया जनहास्यकारिणी । तदेनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्यासहितं मुनिमवलोक्य पत्नी पप्रच्छ । भगवन कुत इयं कन्या । स आह-एषा मूषिका श्येन- भयाच्छरणार्थिनी कन्यारूपेण तव गृहमानीता । तत्त्वया यत्नेन रक्ष-
धौतपोतिका धौतवस्त्राणि । निरालम्बा आश्रयेण विनापि ऊर्ध्वस्थितास्तिष्ठन्ति । तद्भयार्तेन पोतिकापतनभयाकुलेन । मुच मुचेति वदन् एकः पतति स्वतपःप्र- भावाद्भश्यते । उभयोः पतनं दृष्ट्वा तृतीयो मौनं भेजे तत्सर्वाथ० इत्यर्थः । पापेन सह पापस्य वा आलापेन । अशिष्टेन श्येनेन सह य आलापस्तेन । न सतः अप- वचनं निन्दा तद्दोषतः । त्वया दत्ता अन्नाहारमुष्टिरतया । दाक्षिण्यवान् दाक्षिण्यं परच्छन्दानुवर्तित्वमौदार्य वा तद्वान् । उपनेता उपनयनस्य कर्ता ।
लब्धप्रणाशम् ।
211
णीया । भूयोध्येनां मूषिकां करिष्यामि । सा प्राह-भगवन् मै कार्षीः 1 अस्यास्त्वं धर्मपिता । उक्तं च-
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ।। ६४ ॥
तत्त्वयास्याः प्राणाः प्रदत्ताः । अपरं ममाप्यपत्यं नास्ति । तस्मादेषा मम सुता भविष्यति । तथानुष्ठिते सा कन्यका शुक्लपक्षचन्द्रकलिकेव नित्यमेव वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनमाश्वयात् । अथ तां यौवनोन्मुखीमवलोक्य शालङ्कायनः स्वपत्नी- मुवाच । प्रिये यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा सांप्रतं ममृदवा- सस्य । उक्तं च-
अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
पतन्ति पितरस्तस्य स्वर्गस्था अपि तैर्गुणैः ॥ ६५ ॥ तत्कस्मैचिच्छ्रेष्ठवराय प्रदीयते । उक्तं च-
वरं वरयते कन्या माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ।। ६६ ।। तथा च । यावन्न लज्जते कन्या यावत्क्रीडति पांसुना ।
तथा च ।
यावत्तिष्ठति गोमार्गे तावत्कन्यां विवाहयेत् ॥ ६७ ॥ माता चैव पिता चैव ज्येष्ठभ्राता तथैव च ।। त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ ६८ ॥
कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर्वयश्च । एतान्गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम् ।। ६९ ।।
अन्यच ।
दूरस्थानामविधानां मोक्षधर्मानुवर्तिनाम् ॥
शराणां निर्धनानां च न देया कन्यका बुधैः ॥ ७० ॥ ‘तययस्या रोचते तद्भगवन्तमादित्यमाकार्य तस्मै प्रयच्छामि । उक्तं च-
अनिष्टः कन्यकाया यो वरो रूपान्वितोपि यः ।
यदि स्यात्तस्य नो देया कन्या श्रेयोभित्रान्छत ॥ ७१ ॥ साह– को दोषोत्र विषये । एवं क्रियताम् । अथ मुनिना संमाहूतः चन्द्रकलिका प्रतिपच्चन्द्रः । शुश्रूषा सेवा । आशु शीघ्रं यौवनमयात्प्राप । यौन- नोन्मुखीं तारुण्यप्रान्तवर्तिनीं । अनूढा अविवाहिता । तैः प्रसिद्धैः गुणैः स्वर्गस्था अपि । यद्वा तद्गुणैरिति पठनीयं । रजः पाप्तिनिडैरध नदि दोषैः इयर्थः । सनाथतां नाथेन रक्षित्रा पित्रादिना सहितः सनाथस्तस्य भावस्तताताम् । आकार्याहू य.
१ रविराहूतः । वेदमन्त्रामंत्रणप्रभावात्तत्क्षणा देवाभ्युपगम्यादित्यः प्रोवाच । इ. पा.
212
पञ्चतन्त्रे
सविता तत्क्षणमेवाभ्युपेत्य प्रावाच । भगवन् वद द्रुतं किमर्थमहमा- इतः । स आह- एषा मत्कन्या यदि त्वां वृणोति तद्विवाहय । एवमु- क्त्वा स भगवांस्तस्या दर्शितः । प्रोवाच च । पुत्रि किं तव रोचत एष भगवांस्त्रैलोक्यदीपः । सा प्राह-तात अतिदहनात्मकोयम् । नाहमेन- मभिलषामि । अस्मादपि यः कश्चिदुत्कृष्टतरः स आहूयताम् । अथ तस्या- स्तद्वचनमाकर्ण्य भास्वरोपि तां मूषिकां विदित्वा निःस्पृहस्तमुवाच । भगवन् अस्ति ममाप्यधिको मेघो येनाच्छादितस्य मे नामापि न ज्ञायते । अथ मुनिना मेघमप्याहूय कन्याभिहिता । ऐष ते रोचते । सा प्रार्ह कृष्णवर्णीयं जडात्मा च । तदस्मादन्यस्य कस्यचित्प्रधानस्य मां प्रयच्छ । अथ मुनिना मेघोपि पृष्टः भोस्वंत्तोप्यधिकः कोप्यस्ति । स आह - मत्तोप्यधिक्रोस्ति वायुः । वायुना ह तोहं सहस्रधा यामि । तच्छ्रुत्वा मुनिना वायुराहूतः । आह च पुत्रिके किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति । सा प्राह-तात प्रबलोप्ययं चञ्चलः । तदभ्यधिकः कैश्चिदा- नीयताम् । मुनिराह । भो वायो तवाभ्यधिकोस्ति कश्चित् । स आह- मत्तोभ्यधिकास्ति पर्वतो येन संस्तभ्य बलवानप्यहं प्रिये । अथ मुनिः पर्वतमाहूय कन्याया अदर्शयत् । पुत्रिके त्वामस्मै प्रयच्छामि । साह तात कठिनात्मकोयं स्तब्धश्व । तदन्यस्मै देहि माम् । अथ स मुनिना पृष्टः । यद्भोः पर्वतराज तवाप्यधिकः कश्चिदस्ति । स आह- सन्ति ममाप्यधिका मूषका ये मैद्देहं बलात्सर्वतो भेदयन्ति । तदाकर्ण्य मुनि- मूषकमाहूय तस्या अदर्शयत् । पुत्रिके एष ते प्रतिभाति मूषकराजी येन यथोचितमनुष्ठीयते । सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना पुलको दूषितशरीरा प्रोवाच । तात मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजातिविहितं गृधर्ममनुतिष्ठामि । तच्छ्रुत्वा तेन स्त्रीधर्मविचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता । अथवा साध्विदमुच्यते-
न सुवर्णं न रत्नानि न च राज्यपरिक्रियाम् ।
तथा वान्छन्ति कामिन्यो यथाभीष्टतमं वरम् ॥ ७२ ॥
उत्तमो योग्यतमः। यथोचितं मूषिकारूप दानादि । पुलकैः उडूपितं शरीरं यस्याः ।
१ मदीयां कन्यका तिउति । यद्येषां त्वां वृणोति तर्हि उद्वहस्व. २ प्र- कृष्टतरः ३ उत्तमः. ४० तोहमदृश्यों भवामि । ५ अस्मै त्वां प्रयच्छामि । ६ मुनिमाह यन्मां मेघादपि श्रेष्ठाय प्र० ७ भो मेघः तवाप्य ०. ८ चपलः. ९ श्रेष्ठतरः १० ममाप्यधिकाः पर्वताः सन्ति यैः… बलवन्तोपि वयं प्रियामहे. १६ मच्छरीरं बलाद्विदारयन्ति. १२ आह च पुत्रि के वामस्मै प्रयच्छामि किनबे प्रतिभाति ते मूषिकराजः । १३ प्रोषित-रान्ता. १४ गृहस्थ०… अनुभवामि । १५ ततः सोपि स्वबलेन तां मूषिकां कृत्वा तस्मै प्रादात् । इ. पा.लब्धप्रणाशम् ।
213
तयथा सा मूषिका देवपदं त्यक्त्वा स्वजातिदोषेण नीचसंगमं गता तथा त्वमपि मया संगतो पि स्नेहगृहीतोपि स्वजातिधर्मदुष्टः संजातः । अतोहं ब्रवीमि - सूर्यं भर्तारमुत्सृज्य इत्यादि । तन्मूर्ख स्त्रीलुब्ध स्त्रीजित अन्येपि ये त्वद्विधा भवन्ति ते स्वकार्यं विभवं मित्रं च परित्यजन्ति तत्कृते । उक्तं च-
या ममोद्विजते नित्यं साथ मामवगूहते ।
प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत् ॥ ७३ ॥
मकर आह- कथमेतत् । सोब्रवीत्-
कथा १० ।
अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम महाधनी वृदेवणिक् । तेन मृसभार्येण कामोपहतचेतसा काचिन्निर्धनैवणिक्ता प्रभूतं वित्तं दवोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिजं वीक्षितुर्माप न श- क्नोति । अथवा साध्विदमुच्यते-
तथा च ।
श्वेतं पदं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति
चाण्डालकूपमित्र दूरतरं तरुण्यः ॥ ७४ ॥
गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता
दृष्टिभ्रम्यति रूपमेवें इसते वक्त्रं व लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूतपुरुषः पुत्रैरवज्ञायते || ७५ ॥
अथ कदाचित्सा तेन सहैकशयने पराङ्मुखी स्थिता यावसिति ताव- तस्य गृहे चौरः प्रविष्टः । सापि तं चौरमवलोक्य भयव्याकुलेमनास्तं स्वजातिनिष्ठा धर्माः स्वजातिधर्मार ैर्दुष्टो विकृतः । शिरोरुहाणां केशानां । परि- भवस्य तरुणीकृततिरस्कारस्य । आरोपितमस्थिशकलं तन्निदर्शकं यस्मिन् ।
१ अस्मात्परं - चौरण चाप्युक्तम्-हर्तव्यं ते न पश्यामि हृर्तव्यं चेद्भविष्यति । पुनरप्यागमिष्यामि यदीयं नावगूहते || अरिमर्दनः पृष्टवान् का च नावगूहते । कश्वायं चौर इति विस्तरतः श्रोतुमिच्छामि । दीप्ताक्षः कथयति । इति पुस्तकान्त रे तृतीयतन्त्रान्तर्गताया अस्याः कथायाः प्रारम्भेधिकः संदर्भ । २ काम तो ३ बणिक्पुत्रो वृद्धः ४ निर्धनस्य दुहिता. ५वृद्धतमं. ६ द्रष्टुम ०… शशाक • ७ वर्णे सिल. ८ यसु. ९ चक्षुः १० मप्युपहतं. ११ षं पुत्रोप्य. १२ लिता.
214
पञ्चतन्त्रे
वृद्धेमन्यालिङ्गितवती । सोपि विस्मयात्पुलकाङ्कित सर्वगात्रचिन्तयामास । अहो किमेषा मामद्यावगूहते । अहो चित्रमेतत्। ततश्च यावनिपुणतयाव- लोकयति तावच्चौरः प्रविष्टः कोणैकदेशे तिष्ठति । पुनरचिन्तयत् । नूनमे- पा चौरस्य भयान्मामालिङ्गतेि । तज्ज्ञात्वा चौरमाह-
या ममोद्विजते नित्यं साथ मामवगृहते ।
प्रियकारक भद्रं ते यन्ममास्ति हरस्त्र तत् ॥ ७६ ॥
भूयोपि निर्गच्छन्तमवादीत् । भो चोर नित्यमेव त्वया रात्रावागन्त ष्यम् । मदीयोयं विभवस्त्वदीय इति । अतोहं ब्रवीमि - या ममोद्विजते नित्यं इत्यादि । किं बहुना । तेन च स्त्रीलुब्धेन स्वं सर्वमपि चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् । अथैवं तेन सह वदतो मकरस्य जलचरेण केनाप्यागत्याभिहितम् - भो मकर त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपत्रा । सोपि तच्छ्रुत्वातीव व्याकुलमनाः प्रालपत् । अहो किमिदं संजातं मम मन्दभाग्यस्य । उक्तं च- न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
तथा च ।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते ॥ ७७ ॥ वृक्षमूलेपि दयिता यत्र तिष्ठति
तद्गृहम् । प्रासादोपि तया हीनो अरण्यसदृशः स्मृतः ।। ७८ ।।
माता यस्य गृहे नास्ति भार्या च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ।। ७९ ।।
तम्मित्र क्षम्यतां मया तेपराधः कृतः । संप्रत्यहं तद्वियोगाद्वह्निप्रवेशं करिष्यामि । तदाकर्ण्य वानरः प्रहस्य प्रोवाच । भो ज्ञातस्त्वं मया प्रथम- मेव यत्नीजितः स्त्रीवश्यश्च । सांप्रतं पुनः प्रत्ययः संजातः । तन्मूढ आ- नन्दे कार्ये त्वं कस्माद्विषादं गतः । तादृग्दुष्टभार्यायां मृतायामुत्सवः कर्तुं ग्रज्यते । उक्तं च-
• या भार्या दुष्टचरिता सततं कलहप्रिया ।
भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ ८० ॥ तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत् ।
श्रीणामिह हि सर्वासां य इच्छेत्सुखमात्मनः ।। ८१ ।।
निपुणतया सूक्ष्मदृष्टया । विपन्ना मृता । प्रियः कलहो यस्याः ।
१ वृद्धमपि तं पतिं गाढं समालिलिंग २ पश्यति तावगृहका दश चौर
तावगृहकाणकैदश
दृष्ट्रा व्यर्चि० ३ अस्य ४ शंकया मां समा० ५ एवं वज्रपातसदृशं वचनमा- कर्ण्यतीव हृदयः प्रलपितमेवं चकार. ६ भरण्यसदृशं फलम् ७ यत्किंचि न्मयापराचम्. ८ स्त्रीवियोगाद्वैश्वानरम. ९ च. १० चारित्रा.
लब्धप्रणाशम् ।
के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम् । रम्यां बुद्धोपसर्पन्ति ये ज्वालां शलभा इव ॥ ८२ ॥ अन्तर्विषमया होता बहिश्चैव मनोरमाः ।
गुन्जाफलसमाकाराः स्वभावादेव योषितः ॥ ८३ ॥ यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः । यद्बहिस्तन कुर्वन्ति विचित्रचरिताः स्त्रियः ॥ ८४ ॥ ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति नै दानैर्न च संस्तवैः ॥ ८५ ॥ आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रैमपि स्वकम् ॥ ८६ ॥ रूक्षायां स्नेहसद्भावं कठोरायां सुमार्दवम् ।
215
नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥ ८७ ॥ मकर आह— भो मित्र अस्त्वेतत् । परं किं करोमि । ममानर्थद्वयमे- तत्संजातम् । एकस्तावद् गृहभङ्गोपरस्तु त्वद्विधेन मित्रेण सह चित्त- विश्लेषः । अथवा भवत्येवं दैवोपहतानाम् । उक्तं च-
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
नाभूजारो न भर्ता च किं निरीक्षसि ननिके ॥ ८८ ॥ वानर आह— कथमेतत् । सोत्रवीत्-
कथा ११ ।
कस्मिंश्चिदधिष्ठाने हालिकदंपती प्रतिवसतः स्म । सा च हालिक- भार्या पत्पुर्वृद्धभावात्सदैवान्यचित्ता न कथंचिद्रहे स्थैर्यमालम्बते । केवलं परपुरुषान्वेषेणा भ्रमति । अथ केनचित्परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे मृतभायहं तव रूपलावण्यदर्शनेन हृदये स्मरत्राणेन पीडितः । तदीयतां मे रतिदक्षिणा । ततस्तयाभिहितम्- भोः सुभग यद्येवं तदस्ति मे पत्युः प्रभूतं धनम् । स वृद्धभावात्प्रचलितु-
मिथ्या स्त्री रम्या इत्ययथार्थ ज्ञानं तस्मात् । प्रशस्तो नितम्बोऽस्याः सा नितम्बि- नी । अन्तः मनसि । संस्तवैः स्तुतिभिः । स्वोदरेण विधृतं स्वपुत्रमपि इत्य० । रूश्चायां निःस्नेहायां । बालो मूढः । य एवं करोति स मूढ इत्यर्थः । इालिकः कृषीवलः । हलेन सीरेण खनतीति । परपुरुषस्यान्वेषणं गवेषणं यस्याः ।
१ य उप. दीपामा २ हिर्वृत्त्या. ३ मण्डनैर्नच कुंकुमैः ४ नात्र. ५ पुत्रं स्वकं रुषा. ६ संभार • दैवयोगात ८ न जारो नच. ९ पत्नी. १० किंचिदपि.
११ नन्वेषमाणा परि. १२ अन्यदा. १३ स्मरपीडितश्च.
216
पञ्चतन्त्र
मप्यसमर्थः । अतस्तद्धनमादायाहमागच्छामि । पचोत्त्वया सहाभ्यत्र ग- त्वा यथेच्छं रतिसौख्यमनुभवामि । स आह-रोचते मध्यमप्येतत् । तत्प्रत्यूषेत्र स्थाने समागन्तव्यं येन शुभेतरं किं चिन्नगरं गत्वा स्वया सह जीवलोके सुखमनुभवामि । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वं गृहं गत्वा रात्रौ भर्तरि प्रसुप्ते सर्व धनंमादाय प्रत्यूषे तत्कथितस्थानमुपाद्र- वत् । धूर्तोपि तामग्रे कृत्वा दक्षिणां दिशमाश्रित्य सत्वरगति प्रस्थितः । अथ तयोर्व्रजतोर्यो जनद्वयमात्रेणाग्रतो नदीं समुपस्थितां दृष्ट्वा धूर्तश्चिन्त- यामास - किमहमनया यौवनप्रान्ते वर्तमानया करिष्यामि । किंच कदा- चिदस्याः पृष्ठतः कश्चित्समागमिष्यति । तन्मे महाननर्थः स्यात् । तत्केवलं वित्तमादाय गच्छामि । इति निश्चित्य तामुवाच- प्रिये सुदुस्तरेयं नेदी । तत्तावदहं द्रव्यमात्रां पारे धृत्वा समागच्छामि । ततैस्त्वामेकाकिनीं पृष्ठमा- रोप्य सुखेनोत्तारयिष्यामि । सा प्राह सुभग एवं क्रियताम् । एवमुक्त्वा तस्मा अशेषं वित्तमर्पयामास । अथ तेन भिहितम्-प्रिये परिधानाच्छाद- नवस्त्रमपि समर्पय येन जलमध्ये निःशङ्का व्रजसीति । तथानुष्ठिते धूतों वित्तं वस्त्रयुगलं चादाय यथाचिन्तितं विषयं गतः। सापि कण्ठनिवशितह- स्तयुगला सोद्वेगा नदीतीरे यावदुपविष्ठा तिष्ठति तावत्तत्रान्तरे काचि- च्छ्रगालिका वदनगृहीतमांसपिण्डा तंत्राजगाम । आगत्य च यावत्पश्यति तावन्नदीतीरे महामत्स्यः सलिलान्निष्क्रम्य बहिः स्थित आस्ते । तं दृष्ट्टा सा मां मपिण्ड मुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तर आकाशादव- तार्य कोपि गृध्रस्तं मांसपिण्डमादाय पुनः खमुत्पपात । मत्स्योपि शृगा- लिकां दृष्ट्टा नयां प्रविष्टः । अथ सा व्यर्थश्रमा तं गृधं विलोकयन्ती शृगालिका तया नग्निक्रया सस्मितमभिहिता-
गृघेणापहृतं मांसं मत्स्यापि सलिलं गतः ।
मत्स्यमांसपरिभ्रष्टे किं निरीक्षसि जम्बुके ॥ ९० ॥
तच्छ्रुत्वा शृगालिका तामपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहास- माह - यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
नाभूजारी न भर्ता च किं निरीक्षसि ननिके ॥ ९१ ॥
यौवनस्य प्रान्तोन्निमावस्था तत्र वर्तमानया । योजनयोर्द्वयं योजनद्वयं तदेव योज०म् । वदनेन गृहीतो मांसपिण्डो यया । द्वौ गुणो यस्य तत् द्विगुणम् ।
१ येन. २ ममाप्ये. ३ शीघ्रमेव समा. ४ सुन्दरं. ५ कः सफली क्रियते ६ प्रसु- तस्य पत्युः. ७ एवं च सप्रमोदं तया सह वार्तासुखमनुभवन् योजनद्वयेऽतीते. ८ अर्धजरत्या. ९ महानदी. १० येन खां ११ नयामि. १२ भद्र. १३ भद्रे. १४ केवलं वित्तमा० वान्छितवि० धूर्तः १५ नदीपुलिनदेशे. १६ तत्रागमत् . १७ णापि. १८ नु पश्यसि. १९ कोपयुक्तया शृगाल्याभिहितम्. २० न नारो न च.
सब्धप्रणाशम् ।
217
एवं तस्य कथयतः पुनरन्येन जलचरेणागत्य निवेदितम्-यदहो त्वदीयं गृहमप्यपरेण महामकरेण संगृहीतम् । तच्छ्रुत्वासावांत दुःखितमनास्तं गृहान्निःसारयितुमुपायं चिन्तयन्नाह । अहो पश्यत मे दैवोपहतत्वम् ।
मित्र वामित्रतां यातमपरं मे प्रिया मृता ।
गृहमन्येन च व्याप्तं किमयापि भविष्यति ॥ ९२ ॥
अथवा युक्तमिदमुच्यते । छिद्वेष्वनथ बहुलीभवन्तीति । तत्किं करो म्यनेन सह युद्धं किंवा सान्नैव संबोध्य गृहान्निःसारयामि किंवा भेदं दानं वा करोमि । अथवामुमेव वानरं मित्रं पृच्छामि । उक्तं च-
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यन् स्वहितान्गुरून् ।
न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ९३ ॥
इति विचिन्त्य भूयोपि जम्मूपादपमारूढं कपिमपृच्छत् । भो मित्र पश्य मे मन्दभाग्यतां यत्संप्रति गृहमपि मे बलवत्तरेण मकरेण रुद्वम् । तदहं त्वां पृच्छामि कथय किं करोमि । सामादीनामुपायानां मध्ये कस्यात्र विषयः । स आह-भोः कृतन मया निषिद्धोपि किं भूयो मामनुसरसि । नाहं तव मूर्खस्योपदेशमपि ददामि । उक्तं च यतः ।
उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृही कृता ॥ ९४ ॥ मकर आह–कथमेत् । सोश्रवीत् -
कथा १२ ।
कस्मिंश्चिदरण्ये वृक्षशाखाकृतकुलायौ पक्षिदंपती प्रतिवसतः स्म । अथ कदाचिन्माघमासेऽकालवृष्टिसमाहतोऽसौम्यवात कम्पिततनुः क विद्वानरस्तदेव वृक्षमूलमुपागतः । सोपि दन्तवीणां वादयन्संकुचितक- रचरणश्चटकया सानुकम्पमभिहितः ।
हस्तपादसमायुक्तो दृश्यसे पुरुषाकृतिः ।
शीतवाताहतो मूढ कथं न कुरुषे गृहम् ।। ९५ ।।
प्रष्टव्यान् प्रष्टमर्दान् । यथार्थवादिन इत्यर्थः । साम्ना सान्त्वनेन । भेद उपजापो द्वैधं वा अत्र विषयः प्रस्तुते उपयोगी। शोभनं गृहं यस्याः सा सुगृही । वृक्षशाखायां कृतः कुलायो नीडो याभ्याम् । असौम्यः चण्डो यो वातस्तेन कम्पिता तनुर्यस्य ।
१ दैवम्. २ अस्य स्थाने - क्षते प्रद्दारा निपतन्त्यभीक्ष्णमन्नक्षये वर्षेति जठराग्निः । आपत्सु वैराणि समुद्रनन्ति वामे निधौ सर्वमिदं नराणाम | इति पद्यमे. पु०. ३ करोमि । किमनेन सह युद्धं करोमि ४ व्यं; स्वानू. ५ प्रष्टुमभ्या- गतः, ६ घ्न पापचारिनू.
218
पणतन्त्र
सोपि तदाकर्ण्य व्यचिन्तयत् । अहो आत्मसंतुष्टो जीवलोको यदेषा क्षुद्रचटकात्मानं बहु मन्यते । युक्तं चैतत् ।
स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते । उत्क्षिप्य टिट्टिभेः पादौ शेते भङ्गभयाद्दिवः ॥ ९६ ॥
एवं विचिन्त्य तामाह-
सूचीमुखि दुराचारे रण्डे पण्डितमानिनि ।
तृष्णीं भव करिष्यामि नो चेत्त्वां निगृहीमहम् ॥ ९७ ॥
एवं तेन निषिद्धापि यदा पुनराश्रयकरणोपदेशेन तमुद्वेजयति तदासौ तं वृक्षमारुह्य तस्याः कुलायं खण्डशः कृत्वा बभञ्ज । अतोहं ब्रवीमि उ- पदेशो न दातव्य इति । तच्छ्रुत्वा मकर आह-भो मित्र सापराधस्यापि मे कथय पूर्वोहारू । वानर आह नाहं कथयिष्यामि यतस्त्वयाहं भार्या- वाक्येन समुद्रे प्रक्षेपणॉय नीतः । तदेतन्न युक्तम् । यद्यपि भार्या सर्व- लोकादपि वल्लभा भवति तथापि न मित्रबान्धवादयो भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तद् धिङ् मूर्ख यत्वया स्त्रियोर्थमेतत्कार्यमनुष्ठातुमारब्धम् ।
न हि स्त्रीणां कथंचिद्विश्वासमुपगच्छेत् ।
यदर्थं स्वकुलं त्यक्तं जीवितार्थं च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसे नरः ।। ९८ ।। मकर - आह कथमेतत् । सोत्रवीत् ।
कथा १३ ।
अस्ति कस्मिंश्चिदधिष्ठाने कोपि ब्राह्मणः । तस्य च प्रियातिप्राणप्रिया । सापि कुटुम्बेन सह प्रतिदिनं कलहं कुर्वाणा न क्षणमपि विश्राम्यति । सोपि ब्राह्मणः कलहमसहमानो भार्यावाल्लभ्यात्स्वकुटुम्बं परित्यज्य ब्रा- ह्मण्या सह विप्रकृष्टदेशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्याभिहित- म् । आर्यपुत्र तृषा मां बाधते । तदुदकं कुतोप्यानय । अथासौ तद्वचना- नन्तरं यावदुदकं गृहीत्वागच्छति तावत्तां मृतामपश्यत् । अतिवल्लभतया विषादं कुर्वन्यावद्विलपति तावदाकाशे वाचं शृणोति । यदि भो ब्राह्मण त्वं स्वजीवितस्यार्थं ददासि ते जीवति ब्राह्मणी । तच्छ्रुत्वा ब्राह्मणेन शु- सूचीव भेदकत्वान्मुखं यस्याः । वाल्लभ्यात्स्नेहात् । अन्यो देशो देशान्तरं वि- प्रकृष्टं दे० विप्र० ।
१ टिट्टिभी. २ अशक्तोहं गृहारम्भे शक्तोहं गृहभअने । इ. पा. ३ पूर्वस्नहम- नुस्मृत्य हितोपदेशं देहि । ४ भवता. ५ प्रक्षेप्तुम्. ६ मित्राणि बान्धवाश्च. ७ तन्मूर्खो मूढचेतनो यत्. ८ भार्यां प्राणेभ्योप्यतिप्रियासीत्. ९ कृष्टं. १० क्वाप्यन्वेषय.
लब्धप्रणाशम् ।
219
चीभूय तिसृभिर्वाचाभिः स्वजीवितार्थं दत्तम् । वाक्यसममेव जीविता सा ब्राह्मणी । अथ तौ जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचित्रगरस्य प्रेवेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्या- मभिहितवान् । भद्रे यावदहं भोजनं गृहीत्वा समागच्छामि तावत्वयात्र स्थातव्यम् । इत्यभिधाय ब्राह्मणो नगरमध्ये जगाम । अथ तस्यां पुष्प- वाटिकायां पङ्गररघट्टं खेलयमानो दिव्यांगरा गीतमुद्गिरति । तच श्रुत्वा कुसुमेषुणाभिहतया तया तत्सकाशं गत्वाभिहितम् । भद्र यदि मां न का• मयसे तन्मदीया स्त्रीहत्या तव । पङ्गरन्नवीत् - किं व्याधिग्रस्तेन मया करिष्यसि । साब्रवीत् किमनेनोक्तेन । अवश्यं त्वया सह मया संगमः कर्तव्यः । तच्छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साम्रवीत् - इतः प्रभृति यावज्जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवानप्यावाभ्यां सहागच्छ. तु । सोब्रवीत् - एवमस्तु । अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुमारब्धः । सात्रवीत् - एष पर्बुभुक्षितः । तदेतस्यापि किय- न्तमपि ग्रासं देहीति । तथानुष्ठिते ब्राह्मण्याभिहितम् - भो विप्रं सायही- नस्त्वम् । यदा ग्रामान्तरं गच्छसि तदा मम वचनसहायोपि नास्ति । तत एनं पङ्गं गृहीत्वा गच्छावः । सोब्रवीत् । त्वं न शक्नोष्यात्मानमात्म- ना वोढुं किं पुनरिमं पङ्गम् । सा प्राह-पेटाभ्यन्तरस्थमेनमहं नेष्यामि अथ तत्कृतकवचनव्यामोहितचित्तेन तेनापि प्रतिपन्नम् । तथानुष्टिते चान्यस्मिन्दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस्तया पगुपुरुषासक्तया संप्रेर्य कूपान्तःपातितः । सापि पङ्गं गृहीत्वा कस्मिश्चिन्नगरे प्रविष्टा । तत्र च शुल्कचौर्यरक्षानिमित्तं राजपुरुषैरितस्ततो भ्रमद्भिस्तन्मस्तकस्था पेटा दृष्टा बलादाच्छिय राज्ञो नीता । राजा यावत्तामुद्घाटयति तावत्पङ्गं ददर्श । ततः सा ब्राह्मणी विलापान्कुर्वती राजपुरुषानुपदमेव तत्रागता राज्ञा पृष्टा को वृत्तान्त इति । साब्रवीत्-ममैष भर्ता व्याधिग्रस्तो दाया- दसमूहैरुद्वेजितो मया स्नेहव्याकुलितमनसा शिरसि कृत्वा त्वसंकाश- मानीतः । एतच्छ्रुत्वा राजाब्रवीत-ममैं त्वं भगिनी । ग्रामद्वयं गृहीत्वा
1
1
कुसुमेषुणा कामेन । कृतकं कपटयुक्तं वचनं तेन व्यामोहितं विवेकासमर्थं चित्तं यस्य । प्रतिपन्नमङ्गीकृतम् । पश्चासौ पुरुषश्च तस्मिन्नासक्तया । संप्रेर्य प्रक्षिप्य शुल्कं घट्टादौ देयं ( जकात इति प्राकृते ) तस्य चौर्यं परिहरणं तस्माद्रक्षा तन्निमि- त्तम् । स्नेहेन व्याकुलितं मनो यस्याः ।
१ प्रदेश. २ ग्रामं गतः. ३ णार्दितया ब्राह्मण्या. ४ यहि. ५ मत्सक्ता… तब भविष्यति, ६ ब्राह्मण. ७ स्थां पेटां दृष्ट्टा ८ व्याकुलचित्तया. ९ भवदीयनगरे. १० यत्, ब्राह्मणि.
220
पञ्चतन्त्रे
भर्त्रा सह भोगान्भुञ्जाना सुखेन तिष्ठ । अथ स ब्राह्मणो दैववशात्केनापि साधुना कूपादुत्तारितः परिभ्रमंस्तदेव नगरमायातः । तया दुष्टभा- यया दृष्टो राज्ञे निवेदितः । राजन् अयं मद्भर्तुवैरी समायातः । राज्ञापि वधोर्थं समादिष्टः । सोत्रवीत् देव. अनया मम सक्तं किंचिद्रहीतमस्ति । ततो यदि त्वं धर्भवत्सलस्ततो दापय । राजाब्रवीत् - भद्रे त्वयास्य सक्त किंचिगृहीतमस्ति तत्समर्पय । सा प्राह देव मया न किंचिगृहीतम् । ब्राह्मण आह- यन्मया त्रिवाचिकं स्वजीवितार्थं तव दत्तं तदेहि मे । अथ सा राजभयात्तत्रैव त्रिवाचिकमेव जीवितं मया दत्तमिति जल्पन्ती प्राणै- विमुक्ता । ततः सविस्मयं राजाब्रवीत् - किमेतदिति । ब्राह्मणेनापि सक- लोपि पूर्ववृत्तान्तस्तस्मै निवेदितः । अतोहं ब्रवीमि यदर्थं स्वकुलं त्यक्तं इति । वानरः पुनराह - साधु चेदमुपाख्यानकं श्रूयते-
न किं दान किं कुर्यात्त्रीभिरभ्यर्थितो नरः ।
अनश्वा यत्र द्वेषन्ते शिरः पर्वणि मुण्डितम् ।। ९९ ।। नकर आह- कथमेतत् । वानरः कथयति-
कथा १४ ।
अस्ति प्रख्यातबलपैौरुषोऽनेकनरेन्द्रमुकुटमरीचिजालजटिलीकृतपा- दपीठ: शरच्छशाङ्ककिरणनिर्मलयशाः समुद्रपर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । तस्य सर्वशास्त्राधिगतसमस्ततत्त्वः सचिवो वररुचि- नाम । तस्य च प्रणयकलहेन जाया कुपिता । सा चातीववल्लभानेकप्र- कारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे येन प्रका- रेण तुष्यसि तं वद । निश्चितं करोमि । ततः कथंचित्तयोक्तम् - पदि शिरो मुण्डयित्वा मम पादयोर्निपतास तदा प्रसादाभिमुखी भवामि । तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्- भद्रे त्वया विना मुहूर्तमपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि । साब्रवीत-यदि खलीनं मुखे प्रक्षिप्याहं तव पृष्ठं समारुह्य त्वां धावयामि । धावितस्तु ययश्ववद्वेषसे तदा प्रसन्ना
धर्मवत्सलो धर्मपरायणः । प्रख्यातं बलं पौरुषं च यस्य । अनेके च ते नरेन्द्राश्च ०न्द्राः तेषां मुकुटानां मरीचयः किरणास्तेषां जालेन जटिलाकृतं पादपीठं यस्य । शरदि यः शशांकश्चन्द्रस्तस्य किरणा इव निर्मलं यशो यस्य । समुद्रः पर्यन्तः सीमा यस्याः तस्याः । सर्वाणि च तानि शास्त्राणि सर्वशा० तेषामधिगतानि सर्व- तत्त्वानि येन । अधिगतसर्वशास्त्रसमस्ततत्व इत्येव साधीयः । खलीनः कविका ।
१ वधः, वध्यः॰ २ हेष. ३ नरेन्द्रवृन्द. ४ प्रससादासौ. ५ लोहबन्धनं. ६वद् है.
लब्धप्रणाशम् ।
221
भवामि । राज्ञापि तथैवानुष्टितम् । अथ प्रभातसमये सभार्यामुपविष्टस्य राज्ञः समीपे वररुचिरायातः । तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे किंपर्वणि मुण्डितं शिरस्त्वया । सोऽब्रवीत्-न किं दद्यान्न किं कुर्यात् इति । तद्भो दुष्टमकर त्वमपि नन्दवररुचिवत्स्त्री वश्यः ।
अथ तच्छ्रुत्वा मकर आह । भो वयस्य मे कृतद्रोहबुद्देः परमकृ- पया ममोपरि प्रसादं कृत्वा शोभनोपायः कथ्यतां येनोपायेन सुखेन गृहं प्राप्नोमि । तच्छ्रुत्वा कपिराह । भो दुर्बुद्धे भवान्कथितमपि न संविधास्यति । यथा ।
सतां वचनमादिष्टं यो मोहादवमन्यते ।
स एव नाशमाप्नोति सिंहाद्दासरेको यथा ॥ १०० ॥ मकर आह । कथमेतत् । सोब्रवीत् ।
कथा १५.
अस्ति कस्मिंश्चिदधिष्ठाने मन्दमतिनामा रथकारः प्रतिवसति स्म । तेने स्वकर्मानभिज्ञेनोष्टी गृहीता । तस्याः खादनपानादिकं कुर्वन्कालं नयति । ततो महतोष्ण संगमो जातः । सा गर्भ दधार । अथ प्रसव- समये प्रसृता । दासेरको जातः । अथ नगर निकटवाटिकायां धवखदिर- पलाशाम्रजम्बून्यग्रोधादीनां पल्लवभक्षणादहर्निशं पीवरतनु रुष्ट्री संजाता । सोपि दासेरको मह नुष्ट्रः संजातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्वकु- टुम्बं परिपालयति । रथकारण वल्लभत्वाहा से रकग्रीवायां घण्टा बद्धा । पश्चा द्रथकारो यचिन्तयत्-अहो किमन्यैर्दुष्कृतकर्मभिः । यदेतस्मादेवोट्रीप-
दासेरक उष्ट्रः । वाटिका उपवनम् । दुष्कराणि आयाससाध्यानि कर्माणि तैः ।
१ समो०. २ मोहान्न कुरुतं ध्रुवम् ; मदेन न करोति यः ३ स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम्; स करटवद्दुर्बुद्धिर्वेलातिक्रमणे मृतः ४ उज्ज्वलको नाम. ५ स चातीव दारिद्र्द्योपहतश्चिन्तितवान्- ‘अहो धिगियं दरिद्रतारमद्गृहे । यतः सर्वोऽपि जनः स्वकर्मणैव रतस्तिष्ठति । अस्मदीयः पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्वलोकानां चिरतनाश्चतुर्भूमिका गृहाः सन्ति । मम च नाम । तत्किं मदीयेन रथकारत्वेन प्रयोजनम् । इति चिन्तयित्वा देशान्निष्क्रान्तः । यावत्किंचिद्वनं गच्छति तावद्गह्वराकारवनगहनमध्ये सूर्यास्तमनवेलायां स्वयूथाद्रष्टां प्रसववेदनया पडियमा नामुष्ट्रीमपश्यत् । स च दासेरकयुक्तामुष्ट्रों गृहीत्वा स्वस्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ठिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पलवानयनार्थ पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि पहचानि छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात्पश्र्वभक्षणप्रभावादहर्निशं. ६ नीत्वा. ७ एतदेवो नमस्य… भरणपोषणे भव्यं
222
पञ्चतन्त्रे
रिपालनादस्य कुटुम्बस्य भव्यं संजातम् । तत्किमन्येन व्यापारेण । तत एतस्या उपरि द्रम्मा गृह्यन्ते । एवं विचिन्त्य गृहमागत्य प्रियामाह । भद्रे, समीचीनोऽयं व्यापारः । मयास्या उष्ट्या उपरि बहवो द्रम्मा ग्रहीतव्याः । तव संमतिश्चेत्कुतोऽपि धनिकाल्किंचिद्रव्यमादाय मया गुर्जर- देशे गन्तव्यं कलभग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ यावदह- मपरामुष्ट्रीं गृहीत्वा समागच्छामि । ततश्च गुर्जरदेशं गत्वोष्ट्रीं गृहीत्वा स्वगृहमागतः । किं बहुना । तेन तथा कृतं तथा तस्य प्रचुरा उष्ट्राः करभाश्व संमिलिताः । अथ तेन महयूथं कृत्वा रक्षापुरुषाणां प्रतिवर्ष करभमेकं च निवेयाहर्निशं दुग्धपानमादिष्टम् । एवं स रथकारो नित्यमेवष्ट्रव्यापारं कुर्वन्सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानो पवन आहारार्थं गच्छन्ति । कोमलवल्लीर्भक्षयित्वा महासरसि पानीयं पीत्वा च सायंसमये सर्वे मन्दं मन्दं ललिया गृहमागच्छन्ति । स च पूर्वदासेर को मदातिरकात्पृष्ठ आगत्य मिलति । ततस्तैरेभिहितम् । अहो मन्दमतिरयं बसेरको पृथाद्भष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्टसत्वस्य संदर्शे पतिष्यति तन्नूनं मरिष्यति । अथ तेषां तद्वनं गाहमा- नानां कश्वित्सि हो घण्टारवमाकर्ण्य समायातः । यावदवलोकयति तावदुष्ट्री- दासेरकाणां पृथं गच्छति । एकस्तु पृष्ठे क्रीडां कुर्वन्वलीं चरन्यावगच्छति तावदन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोपि वेनान्निष्क्रम्य यावदिशोवलोकयति तावत्र कथंचिन्मार्गं वेत्ति" | पृथाद्भष्टो मेंहाशब्दं कुर्वन्मन्दं मन्दं यावत्किचिहरं गच्छति तावच्छब्दानुसारेण सज्जितक्रमो भूत्वा सिंहोगे स्थितः । यावदुष्टः समीपमागतस्तावत्सिहे नोहेलित्वा ग्रीवायां गृहीत्वा मारितः । अतोहं ब्रवीमि । सतां वचनमादिष्टम् इति । अथ तच्छ्रुत्वा मकर आह । भद्र
प्राहुः साप्तपदं मैत्रं जनाः शास्त्रविचचणाः ।
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ १०१ ॥ उपदेशप्रदातॄणां नराणां हितमिच्छताम् ।
इह लोके परत्रे च व्यसनं नोपपद्यते ॥ १०२ ॥
भव्यं कल्याणम् । संदशै० दुग्गोचरो भवति । उल्ललित्वा आक्रम्य । अपप्रयोग एषः ।
१ ततश्च द्रम्मानादाय गुर्जराग्रामे गत्वा करभाः संक्रीताः । २ पुरुषो धूतः । तस्य वर्षे प्रति वृत्या करभमेकं प्रयच्छति । अन्यच्चाहर्निशं दुग्धपानं तस्य निरू पितम् । ३ उष्ट्रीकरभ. ४ वल्ली येथेच्छया. ५ तैः कलभैः ६ यथा यू० ७ मुखे. ८ मृत्युमवाप्स्यति. ९ चिरात्. १० पश्यति वेत्ति च. ११ मन्दं मन्दं बृहच्छब्दं. १२ सारी विक्रमं कृत्वा निभृतोये. १३ लम्फयित्वा. १४ देशोप.तब्धप्रणाशम् ।
तत्सर्वथा कृतन्नस्यापि मे कुरु प्रसादमुपदेश प्रदानेन ।
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ १०३ ॥
223
सदाकर्ण्य वानर आह । भद्र यथैव तद्गत्वा तेन सह युद्धं कुरु ।
इतस्त्वं प्राप्स्यसि स्वर्गं जीवम्ग्रहमथोपि वा ।
युध्यमानस्य ते भावि गुप्णद्वयमनुत्तमम् ॥ १०४ ॥
वक्तं च यतः-
उत्तमं प्रणिपातेन शरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन समं तुल्यपराक्रमः ।। १०५ ।।
मकर भाइ । कथमेतत् । सोनवीत् ।
कथा १६.
अस्ति कस्मिंश्चिद्वनोदेशे महाचतुरको नाम भृगालः । तेन कदाचिद- रण्ये स्वयं मृतो गजः समासादितः । तस्य समन्ताद्धमति परं कठिनां त्वचं भेत्तुं न शक्नोति । तैवान्तरे भ्रमंस्तन देशे कश्चित्सिंहः समायातः । तं दृष्ट्वा स क्षितितलविन्यस्तमौलिः संयोजितकरयुगलः प्रोवाच । स्वामिन् त्वदीयोहं लाकुटिकस्त्वदर्थे गजमिमं रक्षामि । तदेनं भक्षयतु स्वामी । तं दृष्ट्वा सिंह आह । भो नाहमन्यहतं सत्वं कदाचिद्भक्षयमि । तन्मया प्रसादीकृत एष ते गजः । तच्छ्रुत्वा शृगालः सानन्दमाह । युक्तमिदं स्वामिनो निजभृत्येषु । उक्तं च ।
अन्त्यावस्थोपि महान्स्वामिगुणान जहाति तु शुद्धतया ।
न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि ॥ १०६ ॥

तदाकर्ण्य सिंहो गतः । अथ तस्मिन्गते कश्विद्व्याघ्रः समायातः । त मपि दृष्ट्वाऽसौ व्यचिन्तयत् । एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः । तत्कथमिदानीमेनमतिवाहयिष्यामि । नूनं शूरोयं न खलु भेदं विना साध्यो भविष्यति । उक्तं च । अनुत्तममुत्कृष्टम् । क्षितितले निहितः मौलिर्येन । लकुटं यष्टिं गृह्णातीति काकु- टिकः । शिखिभुक्तः अभिदग्धः । आदौ शि० पश्चान्मुक्तः शिक्तः । १ तहिं तत्र गत्वा २ कठिणत्वात्. ३ अथात्रावसर इतश्चेतश्च विचरन् कश्चित्सि- इस्तत्र प्रदेशे समाययौ । अथ सिंहं समागत. ४ मिलत्; - लिमण्डलः; –मौलि प्रणम्य प्रोवाच. ५ अथ सिंहः । तं प्रणतं इ. च. पा. ६ अस्मादनन्तरम् - वनेपि सिंहा मृगमांसभक्ष्या बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीतिमार्गे परिलंघयन्ति । इत्याधिकं पु० रे. तत्तवैव गजोयं मया. ८ एको दु० सिंहस्तावत्. ९ तदस्य कथमतिवाहनं भविष्यति. 224 पञ्चतन्त्र न यत्र शक्यते कर्तुं साम दानमथापि वा । भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः ॥ १०७ ॥ किंच सर्वगुणसंपन्नोपि भेदेन बध्यते । उक्तं च । अत्यच्छेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तभिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनम् ॥ १०८ ॥ एवं संप्रधार्य तस्याभिमुखो भूत्वेषंदुन्नतकंधरः ससंभ्रममुवाच । माम कथं भवानक मृत्युमुखे प्रविष्टः । एष गजः सांप्रतं सिंहेन व्यापादितः । स च मां रैक्षपाल निधाय नानार्थं गतः । तेन च गच्छता मम समादि- ष्टम्-यदि कश्चिदिह व्याघ्रः समागच्छति तन्मम सुगुप्तं निवेदनीयं येन वनमिदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया हतो गजः शून्य भक्षयित्वोच्छिष्टतां नीतः । तद्दिनादारभ्य व्याघ्रान्प्रति कुपितोस्मि । तच्छ्रुत्वा व्याघ्रः संस्तस्तमाह । भी भगिनीश्चत देहि मे प्राणदक्षिणाम्। स्वयाँ तस्यात्र चिरायागतस्य मदीया कोपि वार्ता नाख्येया । एवमुक्त्वा सत्वरं प्रनष्टः । अथ तस्मिन्गते तत्र कचिद्वीपी समायातः । तमपि दृष्ट्वा व्यचिन्तयत- दृढदंष्ट्रोर्यम् । तदस्य पार्श्वाद्गजचर्मच्छेदं कारयामि । एवं नि- श्रित्य तमुवाच । भो भगिनीसुत किमिति चिरादृष्टासि कथं च बुभुक्षित -इव लक्ष्यसे । तदतिथिरसि मे । एष गजः सिंहेन इतस्तिष्ठति । अहं स्वास्य तदादिष्टो रक्षपालः । अतो वदामि । यावत्सिंहो न समायाति ता- वदस्य गजस्य मांस भक्षयित्वा तृप्तिं कृत्वा वज । स आह । माम यद्येवं तन्न कार्य मे मांसाशनेन । यतो जीवन्नरो भद्रशतानि पश्यति । उक्तं च । यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाचं भूतिमिच्छता । १०९ ।। तदहमितोपयास्यामि । शृगाल आह । भो अधीर विश्रब्धो भूत्वा भक्षयत्वम् । तस्यागमनं दृरतोहं ते निवेदयिष्यामि । अथ द्वीपिना तथानुष्ठिते चर्मभेदं जातं विज्ञाय तेनाभिहितम् । भो भगिनीसुत गम्यतां गम्यताम । एष सिंहः समायाति । तच्छ्रुत्वा चित्रकोपि दूरं प्रनष्टः । अथ यावदसौ तत्कृतद्वारेण किंचिन्मांस भक्षयति तावदपरः शृगालः संक्रुद्धः समायातः । तमात्मतुल्यपराक्रमं दृष्ट्वेमं श्लोकमपठत् । अत्यच्छेन अतिधवलेन अतिशुद्धेन च । अनिरुद्धेन अविद्धेन अनु. कूलेन च । सुवृत्तेन सुवर्तुलेन शोभनाचरणेन च । अन्तर्मिन्नेन कृतच्छिद्रेण नष्टचित्तैकाग्र्येण च । मौक्तिकेन मुक्ताफलेन मुक्तिं वाञ्छत पुरुषेण च । द्वीपी चित्रकः । आत्मना तुल्यः पराक्रमः यस्य तस्याभिमुखं कृतं प्रयाणं येन । १ अस्तःस्थेन. २ गर्वादु०. ३ एनद्रक्षणे नियुज्य नयां. ४ भयत्रस्तमनाः सभाह. ५ किंवदन्ती. ६ अयं चित्रकः ७. ८ अपरं घुभुक्षितः समागत स्वमतिथिश्च ९ जम्बुकेना. लब्धप्रणाशम् । उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥ ११० ॥ 225 ततस्तदभिमुख कृतप्रयाणस्तं जित्वा स्वदंष्ट्राभिर्विदार्य दिशोभाजं कृत्वा स्वयं सुखेन चिरकालं तन्मांसं बुभुजे । एवं समपि तं रिपुं स्वजातीयं युद्धेन परिभूय दिशोभाजं कुरु । नो चेत्पश्चाब्दद्वमूलादस्मात्त्वमपि विना- शमवाप्स्यसि । उक्तं च यतः । क संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ १११ ॥ तथा च । सुभक्ष्याणि विचित्राणि शिथिलाचैवं योषितः । एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ॥ ११२ ॥ मकर आह । कथमेतत् । सोब्रवीत् । कथा १७ । अस्ति कस्मिंश्चिदविद्याने चित्राङ्गो नाम सारमेयः। एकदा तत्रं चिरकालं दुर्भिक्षं पतितम् । अत्राभावात्सारमेयाद यो निष्कुलतां गन्तुमारब्धाः । अत्रान्तरे स चित्राङ्गः क्षुत्क्षामकण्ठः सुभिक्षं श्रुत्वान्यदेशं गुप्त । तत्र च कस्मिंश्चित्पुरे कस्यचिद्गृहमेधिनः शिथिल गृहिणी प्रसादेन तृप्तिं गच्छति । परं बहिर्निर्गतान्यैः सारमेयैश्चतुर्दिशं दंष्ट्र भिर्विदार्यते । ततस्तेन विचिन्तितम् । अहो वरं स्वदेशो यत्र दुर्भिक्षेपि सुखेन स्थीयते । न कोपि युद्धं करोति । तत्स्वदेशं गच्छामि । इत्यवधार्य स्वस्थानं प्रति जगाम । अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टः- भोचित्राङ्ग कथयास्माकं देशान्तरवार्ताम् । कीदृग्देशः । किं चेष्टितो लोकः । क आ हारः । कश्च व्यवहारस्तत्र इति । स आह । किं कथ्यते देशस्य विषये । सुभक्ष्याणि विचित्राणि शिथिलाश्चैव योषितः । । एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ॥ ११३ ॥ सोपि मकरस्तदुपदेशं श्रुत्वा मेरेणे कृतनिश्चयो वानरमनुज्ञाप्य स्वाश्र- सारमेयः-सरमाया अपत्यं पुमान् । शिथिला चासौ गृहिणी च तस्या प्रसादेन । १ सुभिचाणि २ पौरयो. ३ महद्दुर्भिक्षमभवत् । ४ अन्नाभवन सकचापि सारमेयजातिर्निष्कुलतां गच्छति । ५ तद्भवाद्देशान्तरं गतः, ६ प्रमादेन प्रतिदिन गृहं प्रविश्य विविधान्नानि भक्षयन्परां तृतिं गच्छति मदोद्धतसारमेयैः सर्वदिक्ष परिवृत्य सर्वाङ्ग. ८ स्वनगरं ९ तथाकरोत् १० विहार: ११ विदेशस्य स्वरूपविषयः २२ कृतमस्०. 226 पञ्चतन्त्र यं गतः । तत्र च तेन स्वगृह प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ- सत्वावष्टंम्भनाच्च तं व्यापान स्वाश्रयं सुखेन च लब्ध्वा चिरकालमति- ष्ठत् । अथवा साध्विदमुच्यते । अकृत्वा पौरुषं या श्रीः किं तयापि सुभोग्यया । जरर्द्रवोपि चानाति दैवादुपगतं तृणम् ॥ १४ ॥ इति । समाप्तं चेदं लब्धप्रणाशं नाम चतुर्थं तन्त्रम् ॥ इति श्रीविष्णुशर्मविरचिते पश्चतन्त्रके चतुर्थं तत्रं समाप्तम् । कथा ८ पृ० २०. अस्याः पूर्वभागः पुस्तकान्तरे उपलब्धो यथा- अस्ति विषमशिलातलस्खलिताम्बुनिर्घोषश्रवणसंत्रस्तमत्स्यपरिवर्त- नसंजनितश्वेतफेनशबलतरङ्गाया गङ्गायास्तटे जपनियमतपःस्वाध्या- योपवासयागक्रियानुष्ठान परायणैः परिपूतपरिमित जलजिघृक्षुभिः क न्दमूलफलशैवलाभ्यवहारकदर्शितशरीरैर्वल्कलकृत कौपीनमात्र प्रच्छादने- स्तपस्विभिराकीर्णमाश्रमपदम् । तत्र याज्ञवल्क्यो नाम कुलपतिरासीत् । तस्यै जाह्नव्यां स्नात्वोपस्प्रष्टुमारब्धस्य करतले श्पेनमुखात्परिभ्रष्टा भूषिका पतिता । तां दृष्ट्वा न्यग्रोधपत्रेऽवस्थाप्य पुनः स्नात्वोपस्पृश्य च प्रायश्चित्तादिक्रियां कृत्वा च मूषिकां तां स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रममानिनाय । अनपत्यां च जायामाह - भद्रे गृह्यतामियं तब दुहितोत्पन्ना । प्रयत्नेन संवर्धनीया इति । ततस्तया संवर्धिता ला- लिता पालिता च यावद्वादशवर्षा संजज्ञे । अथ विवाहयोग्यां तां भर्तारमेवं जायोवाच - भो भर्तः किमिदं नावबुध्यसे यथास्याः स्वदु- दृष्ट्वा हितुविवाहसमयातिक्रमो भवति । असावाह-प्रिये साधूक्तम् । उक्तं च- आततं यथा तथा अयितुं शीलं यस्य । अत्र स्थानहरस्तेन । तदुक्तं — अग्निद्रो गरइश्चैव शस्त्रपाती धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ इति । दृढ व तत्सवं मनोधैर्य च तस्यावष्टम्भन मालम्बन तस्मात् । जरन् चासौ गौश्च । त्रिषमा याः शिलास्तासां तलेषु स्खलितं च तदम्बु च ०म्बु तस्य निर्घोषस्तस्य श्रवणं तेन संत्रस्ता ये मत्स्यास्तेषां परिवर्तनेन संजनितो य श्वेतः फेनस्तेन शबलाः तरङ्गा यस्याः । परिपूतं च तन्मितं च जलं तद् ग्रहीतुमिच्छुभिः । - शैवला- नामभ्यवहारोशनं तेन कदर्शितानि शरीराणि यैः । वल्कलैः कृतानि कौपीनान्येव ०मात्रं प्रच्छादनं येषा तैः । कुलपतिः - मुनीनां दश साहस्रं योन्नदानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ।। १ तयालस्यभो. २ कुरंगोपि सम०, ३ योग. ४ तस्य तावद. ५ आशु शिश्रिये । लब्धप्रणाशम् । स्त्रियः पूर्व सुरैर्मुक्ताः सोमगन्धर्ववह्निभिः । भुञ्जते मानुषाः पश्चात्तस्मादोषो न विद्यते ॥ ६६ ॥ सोमस्तासां ददौ शौचं गन्धर्वाः शिक्षितां गिरम् । पावकः सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ ५७ ॥ असंप्राप्तरजा गौरी प्राप्ते रजा से रोहिणी । अव्यञ्जना भवेत्कन्या कुचहीना च ननिका ।। १८ ।। व्यञ्जनस्तु समुत्पन्नैः सोमो भुङ्गे हि कन्यकाम् । पयोधराभ्यां गन्धर्वा रजस्यग्निः प्रतिष्ठितः ॥ ५९ ॥ तस्माद्विवाहयेत्कन्यां यावन्नतुमती भवेत् । विवाहश्वाष्टवर्षायाः कन्यायास्तु प्रशस्यते ॥ ६० ॥ व्यञ्जनं हन्ति वै पूर्वं परं चैव पयोधरौ । रैतिरिष्टांस्तथा लोकान्हन्याच्च पितरं रजः ॥ ६१ ॥ ऋतुमत्यां तु तिष्ठन्त्यां स्वेच्छादानं विधीयते । तस्मादुद्वाहयेन्नग्नां मनुः स्वायंभुवोऽब्रवीत् ॥ ६२ ॥ पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । अविवाद्या तु सा कन्या जघन्या वृषली स्मृता ।। ६३ ।। श्रेष्ठेभ्यः सदृशेभ्यश्च जघन्येभ्यो रजस्वला । पित्रा देया विनिश्चित्य यतो दोषो न विव्यते ॥ ६४ ॥ अतोऽहमेनां सदृशाय प्रयच्छामि नान्यस्मै । उक्तं च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोविवाहः सख्यं च न तु पुष्टविपुष्टयोः ।। ६५ ।। तथा च । कुलं च शीलं च इ० । शौचं शुचिताम् । मेध्यत्वं पूतत्वम् । अव्यञ्जना तारुण्या चिह्नरहिता । २ घरेंषु. २ गति. 227 अथापरीक्षितकारकम् । अथेद मारभ्यते अपरीक्षितकारकं नाम पञ्चमं तन्त्रं यस्यायमादिमः श्लोकः । कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥ १ ॥ तद्यथानु श्रूयते । अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थकामकर्माणि कुर्वतो विधिवशाद्धनक्षयः संजातः । ततो विभवक्षयादपमानपरंपरया परं विषादं गतः। अथान्यदा रात्रौ सुप्तश्चिन्तितवान् । अहो धिगियं दरिद्रता । उक्तं च । शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न विराजन्ति हि सर्वे वित्तविहीनस्य पुरुषस्य ॥ २ ॥ मानो वा दपों वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्वं प्रणश्यति समं वित्तविहीनो यदा पुरुषः ॥ ३ ॥ प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिर श्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्बभरचिन्तया सततम् ॥ ४ ॥ नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्दविभवस्य । घृतलवण तैलतण्डुलवस्त्रेन्धनचिन्तया सततम् ॥ ५ ॥ गगनमिव नैष्टतारं शुष्कं सरः श्मशानमिव रौद्रम् । प्रियदर्शनमपि रूक्षं भवति गृहं धनविहीनस्य ॥ ६ ॥ न विभाव्यन्ते लववो वित्तविहीनाः पुरोपि निवसन्तः । सततं जातविनष्टाः पयसामिव बुद्धदाः पयसि ॥ ७ ॥ सुकुलं कुशलं सुजनं विहाय कुलकुशलशीलविकलेपि । आढ्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाः ॥ ८ ॥ अपरीक्षितस्य कारकः स एवाभेदोपचारात्तन्नामकं तन्त्रम् । कुत्सितं यथा स्यात्तथा दृष्टं कुदृष्टम् । विज्ञानं मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । इत्य- मरः । शिशिरस्य ऋतोः श्रीः शोभा । धनविहीनस्य गृहं नष्टाः तारा यस्मात्तत् नष्टतारं गगनमिव इत्यादि । वित्तविहीना अतो लघवः पुरो निवसन्तोपि न विभाव्यन्ते लक्ष्यन्ते । सुकुलं शोभनं कुलमस्य । आठ्ये श्रीमति । १ ० परीक्ष्यकारित्वं. १ मोक्षक०, मोक्षादिक०. ३ भ्रष्ट. अपरीक्षितकारकम् । विफलमिह पूर्वसुकृतं विद्यावन्तोपि कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ॥ ९ ॥ लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यत्कुर्वन्तीह परिपूर्णाः ॥ १० ॥ 229 एवं संप्रधार्य भूयोप्यचिन्तयत् । यदहमनशनं कृत्वा प्राणानुत्सृजामि । किमनेन व्यर्थजीवितव्यसनेन । एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणकरुपी दर्शनं गत्वा प्रोवाच । भोः श्रेष्ठिन् मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्वपुरुषोपर्जितः । तदनेनैव रूपेण प्रातस्त्वगृहमागमिष्यामि । तत्त्वयाहं लकुट प्रहारेण शिरसि ताडनीयो येन कनकमयो भूत्वाक्षयो भवामि । अथ प्रातः प्रबुद्धः सन्स्वप्नं स्मरश्चिन्ता- चक्रमारूढस्तिष्ठति । अहो सत्योंयं स्वप्नः किंवासत्यो भविष्यति न ज्ञायते । अथवा ननं मिथ्या भाव्यं यतोहं केवलं वित्तमेव चिन्तयामि । उक्तं च । व्याधितेन सशोकेन चिन्ताग्रस्तेन जन्तुना । कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ।। ११ ।। एतस्मिन्नन्तरे तस्य भार्यया कश्चिन्नापितः पादप्रक्षालनायाहुतः । अत्रा - न्तरे च यथानिर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्टमना यथासन्नकाष्ठदण्डेन तं शिरस्यताडयत् । सोपि सुवर्णमयो भूत्वा तत्क्षणाद्भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्वगृहमध्ये कृत्वा ना- पितं संतोष्य प्रोवाच । यदेतद्वनं वस्त्राणि च मया दत्तानि गृहाण । भद्र पुनः कस्यचिन्नाख्येयो वृत्तान्तः । नापितोपि स्वगृहं गत्वा व्यचिन्तयत् । ननमेते सर्वेपि नग्रकाः शिरसि दण्डहताः काञ्चनमया भवन्ति । तदह- मपि प्रातः प्रभृतानाहूय लकुटैः शिरसि हन्मि येन प्रभूतं हाटकं मे भ वति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम । अथ प्रभातेभ्यु- त्थाय बृहल्लकुटमेकं प्रगुणीकृत्य क्षपणकविहारे गत्वा जिनेन्द्रस्य प्रदक्षि- णात्रयं विधाय जानुभ्यामवनिं गत्वा वक्त्रद्वारन्य स्तोत्तरीयाञ्चलस्तार- स्वरेणेमं श्लोकमपत् । जयन्ति ते जिना येषां केवलज्ञानशालिनाम् ।

आ जन्मनः स्मरोत्पतौ मानसेनोपराायतम् ।। १२ ।। अन्यच्च । लोकः कामं गर्जन्तमपि पयसां पतिं अयं लघुः इतेि न आह इत्यन्वयः । जीवितव्य सनेन जीवितोत्कटेच्छया । मिथ्या भाव्यमनेन स्वप्नेनेति शेषः । हाटकं सुवर्ण । विहारो मट: । जिनेन्द्रो बुद्धमूर्तिः । ऊषरायितं बीजांकुरोत्पत्यभावात् । १ विकलं, सुरूपतागुणयुक्ताः ५ नख. २ नो व्य०. ३ रूपेण ४ भिक्षार्थी स्व ०. 230 पत्रतन्त्र सा जिह्वा या जिनं स्तौति तच्चित्तं येजिने रतम् । तावेव च करौ श्लाघ्यो यौ तत्पूजाकरौ करौ ॥ १३ ॥ तथा च ॥ ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्याकारुणिकोसि निर्घृणतरस्त्वत्तः कुतोन्यः पुमान् सष्यं मारवधूभिरित्यभिहितो बुद्धो जिनः पातुः वः ।। १४ ।। एवं संस्तुत्य ततः प्रधानक्षपणकमासाद्य क्षितिनिहितजानुचरणो नमोस्तु वन्द इत्युच्चार्य लब्धधर्मवृद्धयाशीर्वादः सुखमालिकानुग्रहलब्ध- त्रतोदेश उत्तरीयनिबद्धग्रन्थिः सप्रश्रयमिदमाह । भगवन्नव विहरणक्रिया समस्तमुनिसमेतेनास्मगृहे कर्तव्या । स आह । भोः श्रावक धर्मज्ञोपि किमेवं वदसि । किं वयं ब्राह्मणसमाना यत आमन्त्रणं करोषि । वयं सदैव तत्कालपरिचर्यया भ्रमन्तो भक्तिभाजं श्रावकमवलोक्य तस्य गृहे गच्छामस्तेन कृच्छ्रादभ्यर्थिताः । तद्गृहे प्राणधारणमात्रामशन क्रियां कुर्मः । तद्गम्यतां नैवं भूयोपि वाच्यम् । तच्छ्रुत्वा नापित आह । भग- वन वेद्मि अहं युष्मद्धर्मम् । परं भवतो बहुश्रावका आह्वयन्ति । सांप्रत पुनः पुस्तकाच्छादनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि तथा पुस्तकानां लेखनाय लेखकानां च वित्तं संचितमास्ते । तत्सर्वथा कालो- चितं कार्यम् । ततो नापितोपि स्वगृहं गतः । तत्र च गत्वा खादिरमयं लकुटं सज्जीकृत्य कपाटयुगलं द्वारे समाधाय सार्धप्रहरदिवससमये भूयोपि विहारद्वारमाश्रित्य सर्वान्क्रमेण निष्क्रामतो गुरुप्रार्थनया स्वगृह- मानयत् । तेपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तानपि परिचितश्रावकान्प- रित्यज्य प्रहृष्टमनसस्तस्य पृष्टतो ययुः । अथवा साध्विदमुच्यते । एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः । सोपि संवाद्यते लोके तृष्णया पश्य कौतुकम् ॥ १५ ॥ ध्यानेति ध्यानमिषेण । अनंगः कामस्तस्य शरैः आतुरः पीडितस्तम् । लब्धः धर्मवृद्धिर्भवत्वित्याशीर्वादो येन । सुखमालिकाया अनुग्रहस्तेन लब्धो व्रतादेशो व्रतोपदेशो येन । विहरणं भिक्षार्थी पर्यटनं तस्य क्रिया । गृहं संत्यक्तं येन । संत्य- क्तगृहः इत्यर्थः । १ यच्च निर्मलम् । स एव केवलं श्लाध्यो यो जिनं पूजयेत्सदा । इ. पा. २ व्रतो- प. ३ भगवन्मम भगवता पार्श्वनाथनादेशः प्रदत्तो यन्मदीयतपस्विनां भक्ति न करोषि तत्ते कुलक्षयो भविष्यति । ततः प्रातरुत्थाय मया भयभावेनैतत्कृतम् । भग- बन्न वेद्मि अहम् । ४ दत्तं ५ किं बहुना यद्येवं न मन्यसे तदनशनं मे । इत्युक्त्वा दंतकाएं भक्षयित्वा उपविष्टः । ततस्तेन क्षपणकेन प्रतिपन्नं सर्वथा तत्कालो ० ६ रेक्स, ०रद्वयोद्देशे. अपरीक्षितकारकम् । जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्रे च जीयेंते तृष्णैका तरुणायते ।। १६ । 231 1 अपरं गृहमध्ये तान्प्रवेश्य द्वारं निभृतं विधाय लकुटप्रहारैः शिर- स्यताडयत् । तेपि ताब्यमाना एके मृता अन्ये मित्रमस्तकाः फूत्कर्तुम- रब्धाः । अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटरक्षपालैरभिहितम् । भो भोः किमयं महान्कोलाहलो नगरमध्ये । तद्गम्यतां गम्यताम् । ते च सर्वे गत्वा यावत्पश्यन्ति तावद्रुधिरप्लावितदेहाः पलायमानाः क्षपणका दृष्टाः । तैः स नापितो बदः । इतशेषैः क्षपणकैः सह धर्माधिष्ठानं नीतः । तैर्ना- पितः पृष्ठः । भोः किमेतद्भवता कुकृत्यमनुष्ठितम् । स आह किं करोमि । मया श्रेष्ठमणिभद्रगृहे दृष्ट एवंविधो व्यतिकरः । सोपि सर्वं मणिभद्रद त्तान्तं यथादृष्टमकथयत् । ततः श्रेष्ठिनमाडूय भणितवन्तः । भोः श्रेष्ठिन् किं त्वया कश्चित्क्षपणको व्यापादितः । ततस्तेनापि सर्वः क्षपणकवृत्ता- न्तस्तेषां निवेदितः । अथ तैरभिहितम् । अहो शूलमायतामस्यै दु- टात्मा कुपरीक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम् । कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तनरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥ १७ ॥ अथवा साध्विदमुच्यते । अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति संतापो ब्राह्मण्यो नकुले यथा ॥ १८ ॥ मणिभद्र आह । कथमेतत् । ते धर्माधिकारिणः प्रोचुः । कथा १. कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्नेव दिने नकुली नकुलं प्रसूता । अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्यदानाभ्यङ्गपोर्षणादिभिः पुपोष । परं तस्य न विश्वसिति यत्कदाचिदेष स्वजाति दोषवशादस्य दार- कस्य विरुद्धमाचरिष्यतीति । एवं जानाति स्वचित्ते । उक्तं च । कुपुत्रेोपि भवेत्पुंसां हृदयानन्दकारकः । दुर्विनीतः कुरूपोपि मूर्खोपि व्यसनी खलः ॥ १९ ॥ जीर्यंतो वृद्धभावं गच्छतः । हतेभ्यः शेषैः हनशेषैः । कुदृष्टं न सम्यग्दृष्टम् । १ पंचत्वमुपागताः २ मुपचक्रमिरे. ३ तदादेशकारिणस्तत्सहिता वेगात- गृहं गताः. ४ नग्नकाः. ५ ब्राह्मण्यां नकुलार्थतः. ६ मर्दना. 232 पञ्चतन्त्रे एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ।। २० ।। सोदर्यस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकाः पालकस्यापि यथा पुत्रस्य बन्धनम् ॥ २२ ॥ अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जलकुम्भमादाय पति: मुवाच ब्राह्मण जलार्थमहं तडागे यास्यामि । त्वया पुलोयं नकुलाद्रक्षणीयः । अथ तस्यां गतायां पृष्ठे ब्राह्मणोपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः। अत्रान्तरे दैववशात्कृष्णसर्पो बिलान्निष्क्रान्तः । नकुलापि तं स्वभाववैरिणं मत्वा भ्रातृ रक्षणार्थं सर्पेण सह युद्धा सर्प खण्डशः कृतवान् । ततो रु. विराप्लावितवदनः सानन्दं स्वव्यापारप्रकाशनार्थं मातुः संमुखा गतः । मातापि तं रुधिरक्लिन्नमुखमवलोक्य शङ्कितचित्तावश्यमनेन दुरात्मना दारको भक्षित इति विचिन्त्य कोपात्तस्योपरि तं जलकुम्भं चिक्षेप । एवं सा नकुलं व्यापाय यावत्प्रलपन्ती गृह आगच्छति तावत्सुतस्तथैव सुप्त- स्तिष्ठति । समीपे कृष्णसर्प खण्डशः कृतमवलोक्य पुत्रवधशोकेनात्मशिरो वक्षःस्थलं च ताडयितुमारब्धा । अत्रान्तरे ब्राह्मणो गृहीतनिर्वापिः समा- यातो यावत्पश्यति तावत्पुत्रशोकाभितप्ता ब्राह्मणी प्रलपति-भो भो लो- भात्मन् लोभाभिभूतेन त्वया न कृतं मद्वचः । तदनुभव सांप्रतं पुत्रमृत्यु- दुःखवृक्षफलम् | अथवा साध्विदमुच्यते । अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्यं चक्रं भ्रमति मस्तके ॥ २२ ॥ ब्राह्मण आह । कथमेतत् । सा प्राह । कथा २. कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चकुः । अहो चिगियं दरिद्रता । उक्तं च । वरं वनं व्याघ्रगजादिसेवितं जलेन हीने बहुकण्टकानृतम् । तृणानि शय्या परिधान वल्कलं न बन्धुमध्ये धनहीन जीवितम् ॥२३॥ तथा च । बन्धनं स्नेहबन्धम् । रुधिरेणाप्लावितं वदनं यस्य । गृहीतो निर्वाको भिक्षा येन । पुत्रस्य मृत्युः पु० तस्य दुःखं स एव वृक्षस्तस्य फलन् । व्याघ्राश्च गजाश्चादौ येषां ते व्या-दयस्तैः सेवितम् । धनेन हीनः धन० तस्य जीवितम् । १ सौहृदस्य. २ यदनेन. ३ गुणैः समन्वितम्.अपरीक्षितकारपू । स्वामी द्वेष्टि सुसेवितोपि सहसा प्रोज्झन्ति सद्बान्धवा राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्या पदः । भार्या साधुसुवंशजापि भजते नो यान्ति मित्राणि च 233 न्यायारोपितविक्रमाण्यपि नृणां येषां न हि स्याद्धनम् ॥ २४ ॥ शूरः सुरूपः सुभगश्चे वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश्च मानं प्राप्नोति मत्यत्र मनुष्यलोके ।। २५ ।। तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अष्मणा विरहितः पुरुषः सं एव बाह्यः क्षणेन भवतीति विचिन्नमेतत् ॥ २६ ॥ तद्गच्छामः कुलचिदर्थाय । इति संमन्त्र्य स्वदेशं पुरं च स्वसुहृत्स- हितं बान्धवयुतं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते । सत्यं परित्यजति मुञ्चति बन्धुवर्गं शीघ्रं विहाय जननीमपि जन्मभूमिम् । संत्यज्य गच्छति विदेशमभीष्टलोकं चिन्ताकुलीकृतमतिः पुरुषोत्र लोके ॥ २७ ॥ एवं क्रमेण गच्छन्तोवन्तीं प्राप्ताः । तत्र सिप्राजले कृतस्नाना महा- कालं प्रणम्य यावन्निर्गच्छन्ति तावद्भैरवानन्दो नाम योगी संमुखो बभूव । ततस्तं ब्राह्मणोचितविधिना संभाव्य तेनैव सह तस्य मदं जग्मुः । अथ तेन ते पृष्टाः । कुतो भवन्तः समायाताः । व यास्यथ । किं प्रयो- जनम् । ततस्तैरभिहितम्-वयं सिद्धियात्रिकास्तत्र यास्यामो यत्र धनाप्ति- र्मृत्यर्वा भविष्यतीत्येष निश्चयः । उक्तं च । दुष्प्राप्याणि बहूनि च लभ्यन्ते वान्छितानि द्रविणानि । अवसरतुलिताभिरलं तनुभिः साहसिक पुरुषाणाम् ॥ २८ ॥ तथा च । पतति कदाचिद्यभसः खाते पातालतोपि जलमेति । दैवमचिन्त्यं वद्बलवान्ननु पुरुषकारोपि ॥ २९ ॥ स्फारीभवन्ति विपुलीभवन्ति । न्याये आरोपिता विक्रमा यैरतानि मित्रा- व्यपि यान्ति परित्यज्य गच्छन्ति । न विकलान्यविकलानि अनुपहतानि । बाह्यो त्याज्यः । अभीष्टा लोका यस्मिन् । महाकालः तत्रस्थं शिवलिङ्गम् । ब्राह्मणस्य उचितः ब्रा० तः विधिस्तेन । सिद्धयर्थं यात्रिकाः । अलं पर्याप्तं यथा तथा अवसरे तुलिताः ताभिः । दैवं बलवदित्यचिन्त्यं ननु पुरु० इत्या० । १ गः सुवा. २ क्षणेन सोप्यन्य एव. ३ सहपथिकाः. ४ कारणब, 234 पञ्चतन्त्र अभिमतसिद्विरशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवमिति यदपि कथयासे पुरुषगुणः सोप्यदृष्टाख्यः ॥ ३० ॥ भयमतुलं गुरुलोकानृणमिव तुलयन्ति साधु साहसिकाः । प्राणानडुतमेतच्चातिं चरितं ह्युदाराणाम् ॥ ३१ ॥। क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन्मथनाय रतैराश्लिष्यति बाहुभिर्लक्ष्मीम् ।। ३२ ।। तस्य कथं न चला स्यात्पत्नी विष्णोर्नृसिंहकस्यापि । मासांनतुरो निद्रां यः सेवति जलगतः सततम् ॥ ३३ ॥ दुरधिगमः परभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानिह जलदपटलानि ॥ ३४ ॥ तत्कथ्यतामस्माकं कांथेनोपायो विवर प्रवेशशाकिनीसाधनश्मशा- नलेवनमहामांसविक्रयसाधकवर्तिप्रभृतीनामेकतम इति । अद्भुतशक्तिर्भ- वान्श्रूयते । वयमप्यतिसाहसिकाः । उक्तं च । महान्त एव महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभार्ते वडवानलम् ।। ३५ ।। “भैरवानन्दोपि तेषां सिद्धयर्थं बहुपायं सिद्धिवर्तिचतुष्टयं कृत्वार्पयत् । आह च गग्यतां हिमालय दिशि । तत्र संप्राप्तानां यत्र वर्तिः पतिष्यति तत्र निधानं प्राप्स्यथासंदिग्धम् । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुष्यताम् । तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वर्तिर्निपपात । अथासौ यावत्तं प्रदेशं खनति तावत्ताम्रमयी भूमिः । ततस्तेनाभिहितं- अहो गृह्यतां स्वेच्छया ताम्रम् । अन्ये प्रोचुः भो मूढ किमनेन क्रियते । तत्प्रभूतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठाग्रतो गच्छामः । सोब्रवीत् यान्तु भवन्तो नाहमग्रे यास्यामि । एवमभिधाय ताम्रं यथेच्छ्या गृहीत्वा प्रथमो निवृत्तः । ते त्रयोप्यग्रे प्रस्थिताः । अथ किंचिन्मात्रं गतस्याग्रे- सरस्य वर्तिर्निपपात । सोपि यावत्खनितुमारब्धस्तावद्रूप्यमयी क्षितिः । ततः प्रहर्षितः प्राह यद्भो गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् । तावूचतुः भोः पृष्ठतस्ताम्रमयी भूमिरग्रतो रूप्यमयी । तन्नूनमग्रे सुवर्ण-

सोपि दैवमिति पुरुषगुणः पुरुषकृतं कर्मैव । तदुक्तं हितोपदेशे पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते । इति । अदृष्टमित्याख्या यस्य । साहसिका गुरुलोकाद् अतुलं नास्ति तुला यस्य तदतिमहदपीत्यर्थः । भर्यं प्राणांश्च साधु तृणमित्र तुलयन्ति इत्यन्वयः । क्लैशस्याङ्गमदत्वा क्लेशानकृत्वा । सुखमेव सुखेनैव । मधुभिद् मधुरि- पुर्विष्णुः । परभाग उत्कर्षः । शाकिनी पिशाचभेदः । महामांसं नरमांसम् । • साधनवर्तिश्च प्रभृतिर्येषाम् । व्याघुट्यतां निवृत्यताम् । प्रभूतेनापि भारभूतेन । 030 १ अत्यन्तसिद्धिः २ गम्यताम्. अपरीक्षितकारकम् । 235 मयी भविष्यति । तदनेन प्रभूतेनापि दारिद्र्यनाशो न भवति । तावामये यास्यावः । एवमुक्ा द्वावप्यग्रे प्रस्थितौ । सोपि स्वशक्त्या रूप्यमादाय निवृत्तः । तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात । सोपि प्रहृष्टो याव त्खनति तावत्सुवर्णभूमिं दृष्ट्वा द्वितीय प्राह । भो गृह्यतां स्वेच्छया सुव- र्णम् | सुवर्णादन्यत्र किंचिदुत्तमं भविष्यति । स प्राह मूढ न किंचिद्वे- त्सि । प्राक्ताभ्रं ततो रूप्यं ततः सुवर्ण तनूनमतः परं रत्नानि भविष्यन्ति येषामेकतमेनापि दारिद्र्यनाशो भवति । तदुत्तिष्ठाग्रे गच्छावः । किमनेन भारभूतेनापि प्रभूतेन । स आह । गच्छतु भवान् । अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सोपि गच्छन्नेकाकी ग्रीष्मार्क प्रतापसंत- प्रतनुः पिपासाकुलितः सिद्धिमार्गच्युत इतश्वेतश्च बभ्राम । अथ भ्राम्य- न्स्थलोपरि पुरुषमेकं रुधिरावितगात्रं भ्रमच्चक्रमस्तक्रमपश्यत् । ततो द्रुततरं गत्वा तमवोचन् । भोः को भवान । किमेवं चक्रेण भ्रमता शि- रसि तिष्ठसि । तत्कथय मे यदि कुत्रचिज्जलमस्ति । एवं तस्य प्रवदतस्त- चक्रं तत्क्षणात्तस्य शिरसो ब्राह्मणमस्तके चटितम् । स आह भद्र किमेतत । स आह यन्ममाप्येवमेवैतच्छिरसि चटितम् । स आह तत्कथय कदैतदुत्त- रिष्यति । महती मे वेदना वर्तते । स आह । यदात्वमिव कश्चिद्धतसिद्धि- वतैिरेवमागत्य त्वामालापयिष्यति तदा तैस्य मस्तके चटिष्यति । सँ आह. क्रियान्कालस्तत्रैवं स्थितस्य । से आह सांप्रत को राजा धरणीतले। से आह वीणावत्सराजः । से आह । अहंतावत्कालसंख्यां न जानामि । परं यदा रामो राजासीत दाहं दारिद्र्योपहतः सिद्धिर्तिमादायानेन पथा समायातः । ततो मयान्यो नरो मस्तक वृत्तचको दृष्टः पृष्टश्व । ततत्रैत- ज्जातम् । स आह । भद्र कथं तत्रैवं स्थितस्य भोजन जल प्राप्तिरासीत । स आह । भद्र धनदेन निधानहरणभयात्सिद्धान/मेतद्भयं दर्शितम् । तेन कश्चिदपि नागच्छति । यदि कश्विदायाति स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितः केवलमेवं वेदनामनुभवतीति । तदाज्ञापय माम् । मुक्तो- स्मि । सांप्रतं स्वगृहं यास्यामि । इत्युक्वा गतः । अथ तस्मिश्चिरयति स मुवर्णसिद्धिस्तस्यान्वेषणपरस्तत्पदपङ्कन्या यावत्किं चिह्ननान्तरमागच्छति तावद्रुधिरप्लावितशरीरस्तीक्ष्णचक्रेण मस्तके भ्रमता सवेदनः क्वणन्नुपवि- ष्ठस्तिष्ठति । ततः समीपवर्तिना भूत्वा सबाष्पं पृष्टः भद्र किमेतन् । स ग्रीष्मसम्बन्धी अर्कः ग्रीष्मा र्कस्तस्य प्रतापेन संतप्ता तनुर्यस्य । भ्रमच्चक्रं मस्तके यस्य । चटित निष्क्रम्य स्थितम् । तत्परिमाणमस्य तावान् कालस्तस्य संख्याम् । १ पालयामि २ भ्राम्यन्यावत्तिष्ठति ३ त्वा मुक्त्वा तस्य ४ नव्या ५ आक. ६ मां गृहाय । । 236 पञ्चतन्त्रे औह विविनियोगः । से आह । कथं तत् । कथय कारणमस्य । सोपि तेन पृष्टः सर्वं चक्रवृत्तान्तमकथयत्। तच्छुत्वासौ तं विगर्हयन्निदमाह भो निषिद्धस्त्वं मयानेकशो न शृणोषि मे वाक्यम् । तरिंक क्रियते । विद्यावानपि कुलीनोपि बुद्धिरहितः किं करोति । अथवा साध्विदमुच्यते । वरं बुर्द्धर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ ३६ ॥ चक्रधर आह कथमेतत् । सुर्वणसिद्धिराह । कथा ३. कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परं मित्रभावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारं गताः परंतु बुद्धिरहिताः । एकस्तु बुद्धिमान्के- वलं शास्त्रपराङ्मुखः। अथ तैः कदाचिन्मिंत्रैर्मन्त्रितम् । को गुणो विद्याया येन देशान्तरं गत्वा भूपतीन्परितोष्यार्थोपार्जना न क्रियते । तत्पूर्वदेशं गच्छामः । तथानुष्ठिते कचिन्मार्गं गत्वा ते ज्येष्ठतरः प्राह । अहो अस्माकमेकश्चतुर्थो मूढः केवलं बुद्धिमान् । न च राजप्रतिग्रहो बुद्दया लभ्यते विद्यां विना । तत्र स्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् । ततो द्वितीयेनाभिहितन् भोः सुबुद्दे गच्छ त्वं स्वगृहे यतस्ते विद्या ना- स्ति । ततस्तृतीयेनाभिहितम् अहो न युज्यत एवं कर्तुं यतो वयं बाल्या- त्प्रभृत्येकत्र क्रीडिताः । तदागच्छतु महानुभावोस्तदुपार्जित वित्तस्य संवि- भागी भविष्यतीति । उक्तं च । किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पाथकैरुपभुज्यते ॥ ३७ ॥ बुद्धरहितो विवेकहीनः । शास्त्रेभ्यः परा मुखं यस्य । १ सोब्रवीदेतच्चकारोहण. २ सुवर्णसिद्धिस्तम. ह. ३ विद्यातः ४ न पश्यन्ति. ५ पारगाः ६ मिलितैः.७ गलार्थो पार्जनं कुर्मः । अथ किंचि मार्गं गत्वा मन्त्रं चक्रुः । अहो परदेशगतैर्विद्ययार्थो लभ्यते । ततो यो यां विद्यां ज.न.ति स आत्मीयां निवेदयतु येन सर्वेषां धृतिर्भवति । तत्रैके कम विश्वकर्ममतं सम्यग्जानामि । यदि मृत- कस्यापि त्वक्चर्मास्थीनि लभ्यानि तद्भूयोपि स्वस्थाने निरोज यामि । ततो द्वितीये- नोक्तं मम मन्त्रशक्ति स्ति । ततोहं … तेषामुपरि मांसं त्वचं रक्तं च संचारयामि । ततस्तृतीयेनोक्तमहँ मृतक संजीवनी विद्यां जानामि । यथा मृतोपि जीवति । ततश्चतु- र्थेनोक्तमहमविद्यः परमेकां बुद्धिं जानामि । एवं विचिन्त्य परं हृष्टमनसः प्रस्थिताः । इत्यधिको ग्रन्थः पुस्त०. ८ समभागी. तथा च । अपरीक्षितकारकम् । अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ३८ ॥ 237 तदागच्छत्येषोपीति । तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृतसिंहस्या- स्थानि दृष्टानि । ततश्चैकेनाभिहितम् । अहो विद्याप्रत्ययः क्रियते । किं- चिदेतत्सत्त्वं मृतं तिष्ठति । तद्विद्याप्रभावेण जीवंसहितं कुर्मः। अहमस्थि- संचयं करोमि । ततचैकेनौत्सुक्यादस्थिसंचयः कृतः । द्वितीयेन चर्ममां- सरुधिरं संयोजितम् । तृतीयोपि यावज्जीवं संचारयति तावत्सुबुद्धिना निषिद्धः । भोस्तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्येनं सजीवं क- रिष्यसि ततः सर्वानपि व्यापादयिष्यति । इति तेनाभिहितः स आह धिङ् मूर्ख नाहं विद्याया विफलतां करोमि । ततस्तेनाभिहितम् तर्हि प्रती- क्षस्व क्षणं यावदहं वृक्षमारोहामि । तथानुष्ठिते यावत्सजीवः कृतस्ताव- ते त्रयोपि सिंहेनोत्थाय व्यापादिताः । स च पुनर्वृश्वादवतीर्य गृहे गतः । अतोहं ब्रवीमि । वरं बुद्धिर्न सा विद्या इति । अतः परमुक्तं च । अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ॥ ३९ ॥ चक्रधर आह । कथमेतत् । सोब्रवीत् । कथा ४ । कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म । बालभावे तेषां मतिरजायत । भो देशान्तरं गत्वा विद्याया उपार्जनं क्रियते । अथान्यस्मिन्दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्ज- नार्थं कान्यकुब्जे गताः । तत्र च विद्यामडे गत्वा पठन्ति । एवं द्वादशा- व्दानि यावदेकचित्ततया विद्याकुशलस्ते सर्वे संजाताः । ततस्तैश्चतु- भिर्मिलित्वोक्तम् । वयं सर्वविद्यापारे गताः तदुपाध्यायमुत्कलापयित्वा स्वदेशे गच्छामः । तथैव क्रियतामित्युक्त्व ब्राह्मणा उपाध्यायमुत्कलाप- यित्वानुज्ञां लब्ध्वा पुस्तकानि गृहीत्वा प्रचलिताः । यावत्कंचिन्मार्गं यान्ति तावद् द्वौ पन्थानौ समायातौ । उपविष्टाः सर्वे । तत्रैकः प्रोवाच । केन मार्गेण गच्छामः । एतस्मिन्समये तस्मिन्पत्तने कचिद्वणिक्पुत्रो मृतः । तस्य दाहार्थे महाजनो गतीभूत् । ततश्चतुर्णां मध्यादे ेन पुस्तकमवलो- कितम्-महाजनो येन गतः स पन्था इति तन्महाजनमार्गेण गच्छामः । अस्थिसंचयमस्थनां पुर्नघटनां । उत्कला० आपृच्छ्य । मह, जन इति महाज- नाचरितमेवानुष्ठातव्यमिति वास्तवोर्थः । ९ अहो अथ. २ जीवन. ३ मनुवा ४ नीला ५ पण्डितानां मध्या 238 पद्धतन्त्र अथ ते पण्डिता मावन्महाजन मेलापकेन सह यान्ति तावद्रासभः कश्चि- तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्धा व्यावलोकितम् । रेसवे व्यसने प्राप्त दुर्भिक्षे शत्रुसंकटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ४० ॥ तदहो अयमस्मदीयो बान्धवः । ततः कश्वित्तस्य ग्रीवायां लगति । कोपि पादौ प्रक्षालयति । अथ यावदिशामवलोकनं कुर्वन्ति ते पण्डिताः तावत्कश्चिदुष्ट्रो दृष्टः । तैश्वोक्तम् एतत्किम् । तावत्तृतीयेन पुस्तकमुद्धा- योक्तम् धर्मस्य त्वरिता गतिः । एष धर्मस्तावत् । चतुर्थेनोक्तम् इष्टं धर्मेण योजयेत् । अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः । केनचिद्रजकस्याग्रे कथितम् । यावद्रज कस्तेषां मूर्ख पण्डितानां प्रहारकरणाय समायातस्ता- बत्ते प्रनष्टाः । यावदद्ये किंचित्स्तोकं मार्ग यान्ति तावत्काचिनद्यासादि- ता । तत्तस्या जलमध्ये पलाशपत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तम् । आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति । एतत्कथयित्वा तत्पत्र • स्योपरि पतितो यावनया नीयते तावत्तं नीयमानमत्रलाक्यान्येन पण्डि तेन केशान्तं गृहीत्वोक्तम् । सर्वनाशे समुत्पन्ने अर्थं त्यजति पण्डितः । अर्वेन कुरुते कार्य सर्वनाशो हि दुःसहः ॥ ४१ ॥ • इत्युक्त्वा तस्य शिरश्छेदो विहितः । अथ तैश्व पश्चाद्गत्वा कश्चिद्राम आसादितः । तेपि ग्रामीणैर्निमन्त्रिताः पृथक् पृथग्गृहेषु नीताः । तत एक- स्य सूत्रको घृतखण्ड संयुक्ता भोजने दत्ताः । ततो विचिन्त्य पण्डितेनो- क्तम् यद्दीर्घसूत्री विनश्यति । एवमुक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य मण्डका दत्ताः । तेनाप्युक्तम् । अतिविस्तर विस्तीर्णं तद्भवेत्र चिरायुषम् । स च भोजनं त्यक्त्वा गतः । अथ तृतीयस्य वटिका भोजनं दसम् । तत्रापि पण्डितेनोक्तम् । छिद्रेष्वनर्था बहुलीभवन्ति । एवं तेपि त्रयः पण्डिताः क्षामकण्ठा लोकैहस्यमानास्ततः स्थानात्स्वदेशं गताः। अथ सुवर्णसिद्विराह । यत्त्वं लोकव्यवहारमजानन्मया वार्यमाणोपि न स्थितस्तत ईदृशीमवस्थामुपगतः । अतोहं ब्रवीमि अपि शास्त्रेषु कुश- लाः इति । तच्छ्रुत्वा चक्रधरं आह-अहो अकारणमेतत् । बहुबुद्धयोपि- विनश्यन्ति दुष्टदैवेन नाशिताः । स्वल्पबुद्धयोप्येकस्मिन्कुले नन्दन्ति संत- तम् । उक्तं च । । अकारणं लोकभ्यवद्दाराज्ञानमल्पं कारणम् । बहुबुद्धयो महाबुद्धयः । १ आतुरे. २ फेनिकाघृत संयुक्तं भोजनं दत्तम्. ३ खाजिका. अपरीक्षितकारकम् । 239 अरक्षितं तिष्ठति दैवक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोपि वने विसर्जितः कृतप्रयत्नोपि गृहे न जीवति ॥४२॥ तथा च । शतबुद्धिः शिरेस्थोयं सलम्बश्व सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ४३ ॥ सुवर्णसिद्धिराह कथमेतत् । स आह- कथा ५. कस्मिंभिजलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म । अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः । एवं ते त्रयोपि जलतीरे कंचित्कालं वेलायां सुभाषितगोष्ठी सुखमनुभूय भूयोपि सलिलं प्रविशन्ति । अथ कदाचित्तेषां गोष्ठीगंतानां जालहस्ता धीवराः प्रभूतैर्मत्स्यैर्व्यापादि- तैर्मस्तके विद्युतैरस्तमनवेलायां तस्मिञ्जलाशये समायाताः । ततः सठि- लाशयं दृष्ट्वा मिथः प्रोचुः- अहो बहुमत्स्योयं हृदो दृश्यते स्वत्पसलिलश्च । तत्प्रभातेत्रागमिष्यामः । एवमुक्त्वा स्वगृहं गताः । मत्स्याश्च विषण्णव- दना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह । भोः शतबुदे सहस्रबुद्धे श्रुतं घीवरोक्तं भवद्भयाम् । तत्किमत्र युज्यते कर्तुं पलायनमवष्टम्भं वा । यत्कर्तुं युक्तं भवति तदादिश्यतामय । तच्छ्रुत्वा सहस्रबुद्धिः प्रहस्य प्राह । भौः मित्र मा भैषीयतो वचनश्रवणमात्रादेव भयं न कार्यम् । न भेतव्यम् । उक्तं च । सर्पाणां च खलानां च सर्वेषां दुष्टचेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ ४४ ॥ तत्तावत्तेषामागमनमपि न संपत्स्यते । भविष्यति वा तर्हि त्वां बुद्धि- प्रभावेणात्मसहितं रक्षयिष्यामि यतोनेकां सलिलगातेचर्यामहं जानामि । तदाकयं शतबुद्धिरा । भी युक्तमुक्तं भवता । सहस्रबुद्धिरेव भवान् । भथवा साध्विदमुच्यते । तथा च । बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किंश्चन । बुद्धया यतो हता नन्दाश्चाणक्यनासिपाणयः ॥ ४५ ॥ न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः । तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥ ४६ ॥ शत बुद्धयो यस्य । सलिले गतिर्भ्रमणं तस्याः चर्या प्रकारः । अगम्यमसाध्यम् । १ कृतोन्नामः. २ स्थितानां. ३ अवष्टम्भः ४ आदेशनीयम्. ५ स्मरण. ६ स्मात्परं - सार्थमभिधानं तव इत्य० ए. पुन०. 240 पञ्चतन्त्रे ततो वचनश्रवणमात्रादापे पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते । न तत्स्वर्गेपि सौख्यं स्याद्दिव्यस्पर्शर्नशोभने । उक्तं च । कुस्थानेपि भवेत्पुंसां जन्मनो यत्र संभवः ॥ ४७ ॥ तन्न कदाचिदपि गन्तव्यम् । अहं त्वां स्वबुद्धिप्रभावेण रक्षयिष्यामि । मण्डूक आह । द्रो मम तावदेकैव बुद्धिः पलायनपरा । तदहमन्यं जला- शयमद्यैव सभार्यो यास्यामि । एवमुक्त्वा स मण्डूको रात्रावेवाम्यजलाशयं गतः । धीवरैरपि प्रभात आगत्य जघन्यमध्यमोत्तमजलचरा मत्स्यकूर्म- मण्डूककर्कटादयो गृहीताः । तावपि शतबुद्धिसहस्रबुद्धी सभायौं पलाय मानौ चिरमात्मानं गतिविशेषविज्ञानै रक्षन्तौ जाले पतितौ व्यापादितौ च । अथापराह्नसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति प्रस्थिताः । गुरु- त्वाच्चैकेन तेषां शतबुद्धिः शिरंसि कृतः । सहस्रबुद्धिः प्रखम्बमानो नी- यते । ततश्च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वाभिहिता स्वपत्नी प्रिये पश्य पश्य- शतबुद्धिः शिरस्थायं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ४८ ॥ अतोहं ब्रवीमि नैकान्ते बुद्धिरपि प्रमाणम् । सुवर्णसिद्धिराह यद्यप्ये- तदस्ति तथापि मित्रवचनमनुल्लङ्घनीयम् । परं किं क्रियते । निवारितोपि मया त्वं न स्थित तिलौल्याद्विद्याहंकाराच्च । अथवा साध्विदमुच्यते । साधु मातुल गीतेन मया प्रोक्तोपि न स्थितः । अपूर्वोयं मणिर्बद्धः संप्राप्तं गीतलक्षणम् ॥ ४९ ॥ चक्रधर आह । कथमेतत् । सोब्रवीत् । कथा ६. कस्मिश्चिदधिष्ठान उईं तो नाम गर्दभः प्रतिवसति स्म । स सदैव रज- कगृहे भोरोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धनभया- त्स्वयमेव रजकगृहमायाति । रजकोपि ततस्तं बन्धनेन नियुनक्ति । अथ तस्य रात्रौ पर्यटतः क्षेत्राणि कदाचिच्छ्रगालेन सह मैत्री संजाता । स च पीवरत्वाहृतिभङ्गं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति । एवं दिव्यानां स्पर्शनं तेन शोभनस्तस्मिन् । यत्र संभवो जन्म तस्मिन् कुस्थानेपि पुंसां यत्सौख्यं भवेत् तत् इत्यन्वयः । एकान्ते अत्यन्तम् । गीतलक्षणं गीतप्रावी- यचिह्नम् । वृतिः कँटकादिवेष्टनम् । १ पितृपितामहोपार्जितं. २ स्पर्शेन शोभ े ३ सु ४ भद्र ५ अतः परं - कुटि लचारण इत्यधि०. ६ स्कन्धे. ७ कृतोन्नामो. ८ वारितोपि न शिक्षसे. ९ सांप्रत गीतजं फलम्. १० उद्धतमदः. ११ कर्म. अपरीक्षितकारकम् । 241 तौ स्वेच्छया चिटिकाभक्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोभिहितः । भो भगिनीसुत पश्य पश्य । अतीव निर्मला रजनी । तदहं गीतं करि- ष्यामि । तत्कथय कतमेन रागेण करोमि । स आह । माम किमनेन वृथा- नथेप्रचालनेन यतचौरकर्मप्रवृत्तावावां निभृतैश्व चौरजारैरत्र स्थातव्यम् । उक्तं च । कांसी विवर्जयेचौर्यं निद्रालुभ्रं स चौरिकाम् । जिह्वालौल्यं रुजाक्रान्तो जीवितं योत्र वाञ्छति ॥ ५० ॥ । अपरं त्वदीयं गीतं न मधुरस्वरम् । शङ्खशब्दानुकारं दूरादपि श्रूयते । तदत्र क्षेत्रे रक्षापुरुषाः सुप्ताः सन्ति । त उत्थाय वधं बन्धं वा करिष्यन्ति तद्भक्षय तावदमृतमयीश्चिभेटीः । मा त्वमंत्र्यापारपरो भव । तच्छ्रुत्वा रासभ आह । भो न त्वं वेत्सि गीतरसं वनाश्रयत्वात् । तेनैतद्रवीषि । उक्तं च । श्वरज्ज्योत्नाहते दूरं तमसि प्रियसंनिधौ । धन्यानां जीयते कर्णे गीतझङ्करजा सुधा ॥ ५१ ॥ शृगाल आह । माम अस्त्येतत्परं न वेत्सि त्वं गीतम् । केवलमुन्नदसि तत्किं तेन स्वार्थभ्रंशकेन । रासभ आह । धिग्धिङ् मूर्ख किहं न जानामि गीतम् । तद्यथा तस्य भेदाच्छृणु । सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः । तानास्त्वेकोनपञ्चाशदित्येतत्स्वर मण्डलम् ॥ ५२ ॥ स्थानत्रयं यतीनां च बडास्यानि रसा नव । रागाः षड्डिशतिर्भावाश्चत्वारिंशत्ततः स्मृताः ॥ ५३ ॥ पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥ ५४ ॥ नान्यद्रीतात्प्रियं लोके देवानामपि दृश्यते । शुष्कस्नायुस्वराह्लादात्रय जग्राह रावणः ॥ ५५ ॥ तत्कथं भगिनीमुत मामनभिज्ञं वदन्निवारयसि । गूगाल आह । माम ययेवं तदहं तावद्वतेर्द्वारस्थितः क्षेत्रपमवलोकयामि । त्वं पुनः स्वेच्छया गीतं कुरु । तथानुष्ठिते गंसभरटनमाकर्ण्य क्षेत्रपः कोधादन्तान्घर्षयन्प्र- । कासी कासवान् । सुधा अमृततुल्यानन्दः । ग्रामाः स्वरसंघातभेदाः। मूर्च्छनाः स्वरारोहावरोह क्रमशः । पञ्चाशीति - सप्तस्वरा इत्यनेन त्रीणि स्वरसप्तकानि गृह्यन्ते तेनेयं संख्या लभ्यते । त्र्यक्षं शिवं जग्राह वशीचकार । १ अलमनेनानर्थप्रलपनेन. २ कासयुक्तस्त्यजेत्. ३ चेत्, निद्रालुब्धश्च. ४ अत्र गीतव्या०. ५ यदा स्त्री सहते द्यूतं … संगमे । ६ विशति ७ संस्कार. ८ ताला…. तिस्त्रो मात्रा लयायः ॥९ मि. १० उकन्धरां कृत्वा शब्दायितुमारब्धः 1 उठो रा ०. 242 पञ्चतन्त्र वावितः । यावद्रासभो बृष्ठस्तावल्लकुटप्रहारैस्तथा हतो यथा प्रताडितो भूपृष्ठे पतितः । ततश्व सच्छिद्रोलूखले बढा गतो भूयोपि प्रसुप्तः । रास- भोपि स्वजातिस्वभावाद्वतवेदनः क्षणेनाभ्युत्थितः । उक्तं च । सारमेयस्य चाश्वस्य रासभस्य विशेषतः । सुतीस्परतो न स्यात्प्रहारजनिता व्यथा ॥ ५६ ॥ ततस्तमेवोलूखलमादाय वृतिं चूर्णयित्वा पलायितुमारब्धः । अत्रान्तरे श्रृगालोपि दूरादेव तं दृष्ट्वा सस्मितमाह । साधु मातुल गीतेन मया प्रोक्तोपि न स्थितः । अपूर्वोयं मणिर्बद्धः संप्रातं गीतलक्षणम् ।। ५७ ।। सद्भानपि मया वार्यमाणोपि न स्थितः । तच्छ्रुत्वा चक्रधर आह । भो मित्र सत्यमेतत् । अथवा साध्विदमुच्यते । यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः ॥ ५८ ॥ सुवर्णसिद्धिराह । कथमेतत् । सोब्रवीत् । कथा ७. कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित्पटकर्माणि कुर्वतः सर्वपटकर्मकाष्ठानि भग्नानि । ततः स कुठा रमादाय वने काष्ठार्थं गतः । स च समुद्रतटं यावङ्क्रमन्प्रयातः । ततश्व तत्र शिंशपापादपस्तेन दृष्टः । ततश्चिन्तितवान् । महानयं वृक्षो दृश्यते । तदनेन कर्तितेन प्रभूतानि पटकर्मापकरणानि भविष्यन्ति । इत्यवधार्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ तन वृक्षे कश्चिव्यन्तरः समाश्रित आसीत् । अथ तेनाभिहितम् । भोः ममाश्रयोयं पादपः सर्वथा रक्ष- णीयो यतोहमत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनाच्छीतवा- युनाप्यायितः । कौलिक आह । भोः किमहं करोमि दारुसामग्री विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम् । अहमेनं कर्तयिष्यामि । व्यन्तर आह । भोस्तुष्टस्तवाहम् । तत्प्रार्थ्यता- मभीष्टं किंचित । रक्षैनं पादपमिति । कौलिक आह । यद्येव तदहं स्वगृहं गत्वा स्वमित्रं स्वभायां च पृष्ट्रागमिष्यामि । ततस्त्वया देयम् । अथ तथेति प्रतिज्ञाते व्यन्तरेण स कौलिकः प्रहृष्टः स्वगृहं प्रति निवृत्तः । यावदग्रे गच्छति तावद्भामप्रवेशे निजसुहृदं नापितमपश्यत् । ततस्तस्य व्यन्तरवाक्यं निवेदयामास । यदहो मित्र मम कश्विद्वयन्तरः समुद्रस्य कलोला बृहत्तरंगास्तेषां स्पर्शनं तस्मात् । १ पत्नी. २ व्यन्तर संवाचिक प्रहृष्टः ।अपरीक्षितकारकम् । 243 सिद्धः । तत्कथय किं प्रार्थये । अहं त्वां प्रष्टुमागतः । नापित आह- भद्र यद्येवं तद्राज्यं प्रार्थयस्व येन त्वं राजा भवस्यहं त्वन्मन्त्री । द्वावपीह भूय परलोकसुखमनुभवावः । उक्तं च । राजा न्यायपरो नित्यमिह कीर्तिमवाप्य च । तत्प्रभावात्पुनः स्वर्गे स्पर्धते त्रिदशैः सह ।। ५९ ।। कौलिक आह अस्त्येतत्परं तथापि गृहिणीं पृच्छामि । स आह भद्र शास्त्रविरुद्धमेतद्यत्स्त्रिया सह मन्त्रो यतस्ताः स्वल्पमतयो भवन्ति । बच । भोजनाच्छादने दवादृतुकाले च संगमम् । भूषणायं च नारीणां न ताभिर्मन्त्रयेत्सुधीः ॥ ६० ॥ यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । राजन्निर्मूलतां याति तगृहं भार्गवोब्रवीत् ॥ ६१ ॥ तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरुजने रैतः । पुरुषो योषितां यावत्र गृणोति वचो रहः ।। ६२ ।। एताः स्वार्थपरा नार्यः केवलं स्वमुखे रताः । न तासां वल्लभः कोपि सुतोपि स्वसुखं विना ॥ ६३ ॥ कौलिक आह । तथापि प्रष्टव्या सा मया यतः पतित्रता सा । अपरं तामष्पृष्ट्वाहं न किंचित्करोमि । एवं तमभिधाय सत्वरं गत्वा तानुवाच । प्रिये अवास्माकं कश्चिद्व्यन्तरः सिद्धः । स वान्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागतः । तत्कथय किं प्रार्थये । एष तावन्मम मित्रं नापितो वदत्यैवं यद्राज्यं प्रार्थयस्व । साह । आर्यपुत्र का मतिर्नापितानाम् । तन्न कार्य तद्वचः । उक्तं च । चारणैर्वन्दिभिनचैनपि तैर्वालकैरपि । न मन्त्रं मतिमान्कुर्यात्सार्धं भिक्षुभिरेव च ॥ ६४ ॥ अपरं महती क्लेशपरंपरैषा राज्यस्थितिः । संधिविग्रहयानासनसंश्रय- द्वैधीभावादिभिः कदाचित्पुरुषस्य सुखं न प्रयच्छतीति । यतः । यदैव राज्ये क्रियतेभिलाषस्तदैव याति व्यसनेषु बुद्धिः ।। घटा नृपाणामभिषेककाले सहाम्भसैवापदमुद्भिरन्ति ।। ६६ ।। यत्र यस्मिन्गृहे स्त्री प्रशासित्री । कितवो द्यूतकृत् । चारणाः कुशीलवाः । राज्यस्थितिः राज्यपरिपालनकर्म । १. दान०, व्यय० २ तह क्षणमायाति भार्गवो हीद०. ३ रतिः, 244 तथा च । पञ्चतन्त्रै रामस्य त्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । सौदासं तदवस्थमर्जुनवधं संचिन्त्य लङ्केश्वरं दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वान्छयेत् ।। ६६ ।। यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः । वधं राज्यकृते राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ६७ ॥ कौलिक आह सत्यमुक्तं भवत्या । तत्कथय किं प्रार्थये । साह त्वं तावदेकं परं नित्यमेव निष्पादयसि । तेन सर्वा व्ययशुद्धिः संपद्यते । इदानीं त्वमात्मनोन्यद्वाहुयुगलं द्वितीयं शिरश्व प्रार्थयस्व येन पटद्वयं सं- पादयसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृहे यथापूर्वं व्ययः शुध्यति द्वितीयस्य मूल्येन विशेषकृत्यानि क्रियन्ते । एवं सौख्येन स्वजातिमध्ये श्लाघ्यमानस्य कालो यास्यति । लोकद्वयस्योपार्जना भविष्यति । सोपि तदाकर्ण्य प्रहृष्टः प्राह साधु पतित्रते साधु । युक्तमुक्तं भवत्या । तदेवं करिष्यामि । एष मे निश्वयः । ततोसौ गत्वा व्यन्तरं प्रार्थयामास । भो यदि मयेप्सितं प्रयच्छसि तदेहि मे द्वितीय बाहुयुगलं शिरश्च । एवम- भिहिते तत्क्षणादेव द्विशिराश्चतुर्बाहुश्च संजातः । ततो हृष्टमना यावद्गृह- मागच्छति तावल्लोकै राक्षसोयमिति मन्यमानैर्लंगुडपाषाणप्रहारैस्ताडितो मृतश्च । अतोहं ब्रवीमि । यस्य नास्ति स्वयं प्रज्ञा इति । चक्रधर आह । भोः सत्यमेतत् । सर्वोपि जनो श्रद्धेय माशापिशाचिकां प्राप्य हास्यपदवीं याति । अथवा साध्विदमुच्यते केनापि । अनागतवतीं चिन्तामसंभाव्यां करोति यः । स एव पाण्डुरः शेते सोमशर्मपिता यथा ॥ ६८ ॥ सुवर्णसिद्धिराह । कथमेतत् । सोब्रवीत् । कथा ८. कस्मिश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर्भुक्तोर्वरितैर्घटः परिपूरितः । तं च घटं नाग- व्यसनं पानस्त्री मृगयादिषु सक्तिः । वृष्णीनां यादवानाम् । ईप्सितं वाञ्छितं । अश्रद्धेयां श्रद्धानर्हाम् । आशा एव पिशाचिका ताम् । अनागतवतीमागा- मिनमर्थमुद्दिश्येत्यर्थः । १ रामप्रव्रजनं वने निवसनम्, २ कारागारनिवेशनं च मरणं संचिन्त्य लंकेश्वरे सर्वः कालवशाद्विनश्यति नरः कः कं परित्रायते ॥ इ. पा. ३ याचस्व. ४ स्थिति- र्भबति. ५ तेन. अपरीक्षितकारकम् । 245 दन्तेवलम्ब्य तस्याधस्तात्खद्वां निधाय सततमेकदृष्ट्या तमवलोकयति । अथ काचिद्रात्रौ सप्ताश्चन्तयामास यत्परिपूर्णोयं घटस्तावत्सक्तुभि- र्वर्तते । तयदि दुर्भिक्षं भवति तदनेन रूपकाणां शतमुत्पद्यते । तत- स्तेन मयाजाद्वयं ग्रहीतव्यम् । ततः षाण्मासिक प्रसववशात्ताभ्यां यूथं भविष्यति । ततोजाभिः प्रभूता गा ग्रहीष्यामि गोभिमहिषीर्महिषीभि- वडवाः । वडवाप्रसर्वतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यांत । सुवर्णेन चतुःशालं गृहं संपयते । ततः कचिद्भाह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति । तत्सकाशात्पुत्रो मे भविष्यति । तस्याहं सोमशर्मेति नाम करिष्यामि । ततस्तस्मिञ्जानुचलन- योग्ये संजाते पुस्तकं गृहीत्वाश्वशालायाः पृष्ठदेश उपविष्टस्तदवधारयि- ष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाजानु प्रचलन परोव- खुरासन्नवर्ती मत्समीपमागमिष्यति । ततोहं ब्राह्मणीं कोप विटोभिधा- स्यामि । गृहाण तावद्वालकम् । सापि गृहकर्मव्यग्रतयास्मद्वचनं न श्री- ष्यति । ततोहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि । एवं तेन ध्यान- स्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः । सक्तभिः पाण्डुरतां गतः । अतोहं ब्रवीमि । अनागतवतीं चिन्ताम् इति । सुवर्णसिद्धिराह एवमेतत् । कस्ते दोषो यतः सर्वोपि लोभेन विडम्बितो बाध्यते । उक्तं च । यो लौल्यात्कुरुते कर्म नैवोदेकमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः ॥ ६९ ॥ चक्रधर आह । कथमेतत् । स आह । कथा ९. कस्मिंश्चिन्नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर- क्रीडारता वानरयूथं नित्यमेवानेकभोजनभक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानरप्रथाधिपो यः स औशनसबार्हस्पत्य चाणक्यमतवित्तदनुष्ठाता च तान्सर्वानप्यध्यापयति स्म । अथ तस्मिन्राजगृहे लघुकुमारवाहन- योग्यं भेषयूथमस्ति । तन्मध्यादेको जिह्वालौल्यादहर्निशं निःशङ्कं महान से प्रविश्य यत्पश्यति तत्सर्वं भक्षयति । ते च सूपकारा यत्किचित्का प्राप्तवयरकां प्राप्तविवाहयोग्यदशामित्यर्थः । जानुभ्यां चलनं भ्रमणं तस्य योग्यै सक्तुभिः सक्तपिष्ठेनेत्यर्थः। अंगपतितैः स ब्राह्मणः पाण्डुरतां गतः । उदर्के परिणामम् ॥ उशनसा शुक्राचार्येण प्रोक्तमोशनसम् । एवं बार्हस्पत्यादि । तदनुष्ठाता तन्मतेन वर्तमानः । लघुः कुमारः लघवः कुमारा वा तस्य तेषां वा वाहनं तस्य योग्यम् । १ वेन. २ प्राप्तवराम्. ३ गृह्यतां तावद्वाल कोयम्. ४ नैव बुद्धिम्. ५ चिदग्रे. 246 पञ्चतन्त्रे सृम्मयं भाजन कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति तमाशु ताडयन्ति । लोपि वानरयूथपस्तद् दृष्ट्वा व्यचिन्तयत । अहो मे सूपकारक लहोयं वान राणां क्षयाय भविष्यति यतो नास्वादलम्पटोयं मेषो महाकोपाश्ञ्च सूपकारा यथासन्नवस्तुना प्रहरन्ति । तद्यदि वस्तुनोऽभावात्कदाचिदुल्मुकेन ताडयि- ध्यन्ति तदूणप्रचुरोयं मेषः स्वल्पेनापि वह्निना प्रज्वलिष्यति । तद्दह्यमानः पुनरश्वकुव्यां समीपवर्तिन्यां प्रवेक्ष्यति सापि तृणप्राचुर्याज्ज्वलिष्यति । ततोश्वा वह्निदाघमवाप्स्यन्ति । शालिहोत्रेण पुनरेतदुक्तम् । यद्वानरवसया अश्वानां वह्निदाघदोषः प्रशाम्यति । तन्नूनमेतेन भाव्यमत्रे निश्चयः । एवं निश्चित्य सर्वान्वानरानाष्ट्रय रहसि प्रोवाच । यत् मेषेण सूपकाणां कलहो यन जायते । स भविष्यत्यसंदिग्धं वानराणां क्षयावहः ॥ ७० ॥ तस्मात्स्यात्कलहो यत्र गृहे नित्यमंकारणः ॥ तद्गृहं जीवितं वाच्छन्दूरतः परिवर्जयेत् ॥ ७१ ॥ तथा च । कलहान्तानि हम्यांणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ ७२ ॥ तन यावत्सर्वेषां संक्षयो भवति तावदेतद्राजगृहं संत्यज्य वनं गच्छामः। अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वा मदोदता वानराः प्रहस्य प्रोचुः । भो भवतो वृद्धभावाद्बुद्धिवैकल्यं संजातं येनैतद्रवीषि । उक्तं च । वदनं दशनैर्हीनं लॉला स्त्रवति नित्यशः । न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥ ७३ ॥ न वयं स्वर्गसमानोपभोगान्नानाविधान्भक्ष्यविशेषान्राजपुत्रैः स्वहस्त- दत्तानमृतकल्पान्परित्यज्य तत्राटव्यां कषायकटुतिक्तचाररूक्षफलानि भक्षयिष्यामः । तच्छ्रुत्वा श्रुकलुषां दृष्टिं कृत्वा स प्रोवाच । रे रे मूर्खा आसन्नमनतिक्रम्य वर्तते इति यथासन्नं च तद्वस्तु च तेन । असंदिग्धम- संशयम् । कलहान्तानि कलहः अन्तः येषां कलहेन अन्तो येषामिति वा तानि । कलह उमन्त्रे विनश्यन्तीति भावः । कुत्सितं वाक्यं कुवाक्यै । कुत्सितं कर्म तदन्तो यस्य कुत्सितकर्मसमकालमेव विनश्यतीत्यर्थः । स्वर्गेण समान उपभोगौ यॆषाम् । अमृतादीषन्यूना अमृतकल्पा इत्यर्थः । १ एतन्नास्तिक्वचित्. २ यत्राधिकारिणां नित्यं कलहो दृश्यते गृहे । ३ १ विका०. ४ लालाक्रान्तं गतश्रुति. अपरीक्षितकारकम् । 247 यूयमेतस्य सुखस्य परिणामं न जानीथ । पाकेरसास्वादनप्रायमेतत्सुखं परिणामे विषवद्भविष्यति । तदहं कुलक्षयं स्वयं नावलेोकयिष्यामि । सांप्रतं वनं यास्यामि । उक्तं च । मित्रं व्यसनर्स प्राप्तं स्वस्थानं परपीडितम् । धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ॥ ७४ ॥ एवमभिधाय सर्वास्तान्परित्यज्य ल यूथाधिपोटव्यां गतः । अथ तस्मिन्गतेन्यस्मिन्नहनि स मेषो महानसे प्रविष्टो यावत्सूपकारेण नान्य- स्किचित्समासादितं तावदर्धज्वलितकाष्ठेन ताड्यमानो जाज्वल्यमान- शरीरः शब्दायमानाश्वकुत्यां प्रत्यासन्नवर्तिन्यां प्रविष्टः । तत्र तृणप्राचुर्य- युक्तायां क्षितौ तस्य प्रलुतः सर्वत्रापि वह्निज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः केचिद्बन्धनानि त्रोटयत्वार्थ- दग्धशरीरा इतश्वेतश्च हेषायमाणा धावमानाः सर्वमपि जनसमूहमाकुली- चक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान्वैद्यानाहूय प्रोवाच । भोः प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः । तेपि शास्त्राणि संचिन्त्य प्रोचुः । देव प्रोक्तमत्र विषये भगवता शालिहोत्रेण यत्- कपीनां मेदसा दोषो वह्निदाहसमुद्भवः । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ।। ७५ ।। तत्क्रियतामेतश्च्चिकित्सितं द्राग्यावन्नैते दाहदोषेण विनश्यन्ति । सोपि तदाकर्ण्य समस्त वानरवधमादिष्टवान् । किं बहुना । सर्वेपि ते वानरा विविधायुधलगुडपाषाणादिभिर्व्यापादिता इति । अथ सोपि वानरयूथप- स्तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंज्ञयं ज्ञात्वा परं विषादमुपागतः । से त्यक्ताहार क्रियो वनाद्वनं पर्यटति । अचिन्तयच । कथमहं तस्य नृपापस- दस्यानृणता कृत्ये नापकृत्यं करिष्यामि । उक्तं च । मर्षयेद्धर्षणां योत्र वंशजां परनिर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः । ७६ ।। अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनीखण्डमण्डितं सरः समासादितम् । तद्यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचरमनुष्या- पाकरसस्य आस्वादनं प्रचुरं यस्मिन् । भगिन्या अपत्यं पुमान् भागिनेयः । अविद्यमानं ऋगमस्य अनौ अनृणस्तस्य भावोनृणता तस्याः कृत्यं वैरनिर्यातनार्थ कृत्यमित्यर्थः । ईक्षिकावलोकनं दृष्टिरित्यर्थः । १ पावक. २ संत्य ०. ३ नृपसचिवादीनां स्वकुलनाश कर्तॄणां नाशं क०. सूक्ष्मतया. 248 पञ्चतन्त्रे णां पदपङ्किप्रवेशोस्ति न निष्क्रमणम् । ततश्चिन्तितम् । ननमत्र जलान्ते दुष्टग्राहेण भाव्यम् । तत्पद्मिनीनालमादाय दूरस्थोपि जलं पिबामि । तथानुष्ठिते तन्मध्याद्राक्षसो निष्क्रम्य रत्नमालाविभूषित कण्ठस्तमुवाच- भो अत्र यः सलिले प्रवेशं करोति स मे भक्ष्य इति । तन्नास्ति धूर्ततर- स्त्वत्समोन्यो यत्पानीयमनेन विधिना पिवसि । ततस्तुष्टोहम् । प्रार्थयस्व हृदयवाञ्छितम् । कपिराह - भोः कियती ते भक्षणशक्तिः । स आह- शतसहस्रायुतलक्षाण्यपि जलप्रविष्टानि भक्षयामि । बाह्यतः शृगालोपि मां दूषयति । वानर आह-अस्ति मे भूपतिना सहात्यन्तं वैरम् । यद्येनां रत्नमालां मे प्रयच्छसि तत्सपरिवारमपि तं भूपतिं वाक्प्रपञ्चेन लोभ- यित्वात्र सरसि यैथा प्रविशति तथा करोमि । सोपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्नमालां दत्त्वा प्राह-भो मित्र यत्समुचितं भवति तत्कर्तव्यमिति । वानरोपि रस्नमालाविभूषितकण्ठो वृक्षप्रासादेषु परिभ्रमञ्जनैर्दृष्टः पृष्टश्व भो यूथप भवानियन्तं कालं कुत्र स्थितः । भवतेदृग्रत्नमाला कुत्र लब्धा या दीप्त्या सूर्यमपि तिरस्करोति । वानरः प्राह-अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनदनिर्मितम् । तत्र सूर्येदिते रविवासरे यः कश्चिन्नि- मज्जति स धनदप्रसादादीदृग्रत्नमालाविभूषितकण्ठो निःसरति । अथ भूभु- जा तदाकर्ण्य स वानरः समाहूतः पृष्टश्व-भो यूथाधिप किं सत्यमेतत् । रत्नमालासनाथं सरोस्ति क्वापि । कपिराह-स्वामिन् एष प्रत्यक्षतया मत्क- ण्ठस्थितया रत्नमालया प्रत्ययस्ते । तयदि रत्नमालाप्रयोजनं तन्मया सह कमपि प्रेषय येन दर्शयामि । तच्छ्रुत्वा नृपतिराह ययेवं तदहं सपरि- जनः स्वयमेष्यामि येन प्रभूता रत्नमालाः संपयन्ते । वानर आह स्वा- मिन एवं क्रियताम् । तथानुष्ठिते भूपतिना सह रनमालालाभेन सर्वे कलत्रभृत्याः प्रस्थिताः । वानरोपि राज्ञा दोलाधिरूडेन स्त्रोत्सङ्ग आरो- पितः सुखेन प्रीतिपूर्वमानीयते । अथवा साध्विदमुच्यते । तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ ७७ ॥ तथा च । इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥ ७८ ॥ बाह्यतो जलाद्वहिः । वाक्प्रपथेन वाचोविस्तारेण । इदृशी रत्नमाला इदृग्रत्न- माला तया विभूषितः कण्ठो यस्य । दोला यानविशेषः । १ वर्षेयति. २ केनचिद्रूप०. ३ प्रवेशयामि ४ राज्यादयः- अपरीक्षितकारकम् । जीयन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीवितः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ।। ७९ ।। 249 अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानमुवाच । देव अर्धोदिते सूर्येत्र प्रविष्टानां सिद्धिर्भवति । तत्सर्वोपि जन एकदैव प्रवि- शतु । त्वया पुनर्मया सह प्रवेष्टव्यं येन पूर्वदृष्टस्थानमासाद्य प्रभूतास्ते रत्नमाला दर्शयामि । अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरायमाणेषु राजा वानरमाह । भो यूथाविप किमिति चिरा- यते मे जनः । तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच । भो दुष्टनरपते राक्षसेनान्तः सलिलस्य स्थितेन भक्षितस्ते परिजनः । साधितं मया कुलक्षयजं वैरम् । तद्गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवे- शितः । उक्तं च । कृते प्रतिकृतिं कुर्याद्विंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दुष्टं समाचरेत् ॥ ८० ॥ तत्त्वया मम कुलक्षयः कृतो मया पुनस्तवेति । अथैतदाकर्ण्य राजा शोकाविष्टः पदातिरेकाकी यथायातमार्गेण निष्क्रान्तः । अथ तस्मिन्भू- पतौ गते राक्षसस्तृप्तो जलान्निष्क्रम्य सानन्दमिदमाह । इतः शत्रुः कृतं मित्रं रत्नमाला न हारिता । नानास्वादितं तोयं साधु भो वटवानर ।। ८१ ।। अतोहं त्रवीमि । यो लौल्यात्कुरुते कर्म इति । एवमुक्त्वा भूयोपि स चक्रधरमाह । भो मित्र प्रेषय मां येन स्वगृहं गच्छामि । चक्रधर आह । भद्र आपदर्थे धनमित्रसंग्रहः क्रियते । तन्मामेवंविधं त्यक्त्वा क्व यास्य- सि । उक्तं च– यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृत् । कृतस्तेन पापेन नरके यात्यसंशयम् ।। ८२ ।। सुवर्णसिद्धिराह । भोः सत्यमेतयदि गम्यस्थाने शक्तिर्भवति । एतत्पु- नर्मनुष्याणामगम्यस्थानम् । नास्ति कस्यापि शक्तिस्त्वामुन्मोचयितुम् । अपरं यथा यथा चक्र भ्रमवेदनया तव मुखविकारं पश्यामि तथा तथाह- मेतज्जानामि यद् द्राग्गच्छामि मा कश्चिन्ममाप्यनर्थो भवेत् । यतः - कृते अकारे प्रतिकृतिं प्रत्यकारं कुर्यात् । हिंतिते दिलाया कृतायान् । यात- मनतिक्रम्य वर्तते यथायातस्तेन । यस्यति नैर्येग मित्र त्यजतीयर्थः । गम्य - स्थाने उपायसाध्येर्थे । १ निवृत्तः २ नालेन पिता तोयं भवता साधु वा०. 250 पञ्चतन्त्रे यादृशां वदमच्छाया दृश्यते तव वामर । विकालेन गृहीतोसि यः परैति स जीवति ।। ८३ ।। चक्रधर आह । कथमेतत् । सोब्रवीत् । कथा १०. कस्मिश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्वलक्ष- णसंपन्ना रत्नवती नाम कन्यास्ति । तां कश्विद्राक्षसो जिहीर्षति । रात्रा- वागत्योपभुंक्ते । परं कृतरक्षोपधानां हर्तुं न शक्नोति । सापि तत्समये रक्षःसांनिध्यजामवस्थामनुभवति कम्पादिभिः । एवमतिक्रामति काले कदाचित्स राक्षसो मध्यनिशायां गृहकोण स्थितः । सापि राजकन्या स्वसखीमुवाच । सखि पश्यैष विकालसमये नित्यमेव मां कदर्थयति । अस्ति तत्तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् । तच्छ्रुत्वा राक्षसोपि व्य- चिन्तयत् । नूनं यथाहं तथान्योपि कश्चिद्विकालनामास्या हरणाय नित्य- मेवागच्छति । परं सोप्येनां हर्तुं न शक्नोति । तत्तावदश्वरूपं कृत्वाश्रम - ध्यगतो निरीक्षयामि किंरूपः स किंप्रभावश्चेति । एवं राक्षसोश्वरूपं कृत्वा- श्वानां मध्ये तिष्ठति । तथानुष्ठिते निशीथसमये राजगृहे कश्विदश्वचौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः । अ- त्रान्तरे राक्षसश्चिन्तयामास । नैनभेष विकालनामा मां चौरं मत्वा कोपा- निहन्तुमागतः । तत्किं करोमि । एवं चिन्तयन्सोपि तेन खलीनं मुखे नि- धाय कशाघातेन ताडितः । अथासौ भयत्रस्तमनाः प्रधावितुमारब्धः । चौ- रोपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु केवलं वेगाद्वेगतरं गच्छति । अथ तं तथागणितखलीनाकर्षणं मत्वा चौरवि- न्तयामास - अहो नैवंविधा वाजिनो भवन्त्यगणितखलीनाः । ननूनमनेना- श्वरूपेण राक्षसेन भवितव्यम् । तद्यदि कंचित्पांसुलं भूमिदेशमवलोकयामि तदात्मानं तत्र पातयामि । नान्यथा मे जीवितैव्यमस्ति । एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोवो वटवृक्षस्य तले निष्क्रान्तः । चोरोपि वट- प्ररोहमासाथ तत्रैव विप्रः । ततो द्वावपि तैौ पृथग्भूतौ परमानन्द भाजौ जीवितविषये लब्धप्रत्याशौ संपन्न । अथ तत्र वटे कश्चिद्रासमुह द्वानरः सर्वैः लक्षणैः सम्पन्ना । जिहीर्षति हर्तुमिच्छति । कृतं रक्षोपधानं यस्याः ताम् । विकालः अयोग्यकालस्तस्य समये । विकालस्य नाम्नो राक्षसस्य समये आगम- नकाले इति राक्षसावगतोर्थः । निशीथेऽर्धरात्रे । नगणितमग० खलीनस्याकरणं येन । १ कम्पज्वरादि०, २ मेव समागम्य. ३ स एष कि. ४ न्ति नैवमगाणत ५ वितं. अपरीक्षितकारकय् । 251 स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम् । भौ मित्र किमेवं पला य्यतेलीकभयेन । त्वद्भक्ष्यायं मानुषः । भक्ष्यताम् । सोपि वानरवचौ निशम्य स्वरूपमाधाय शङ्कितमनाः स्खलितगतिर्निवृत्तः । चौरोपि तं वानराहूतं ज्ञात्वा कोपात्तस्य लागलं लम्बमानं मुखे निधाय चर्वितवान् । वानरोपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किंचिदुक्तवान्केवलं व्य थार्तो निमीलितनयनस्तिष्ठति यथा भवान् । राक्षसोपि तं तथाभूत- मवलोक्य श्लोकमैनमपठत् । यादृशी वदनच्छाया दृश्यते तव वानर । विकालेन गृहीतोसि यः परैति स जीवति ॥ ८४ ॥ प्रनष्टव । तत्प्रेषय मां येन गृहं गच्छामि । त्वं पुनरनुभुङ्क्ष्वात्र स्थित एवं लोभवृक्ष फलम् । चक्रधरः प्राह । भो अकारणमेतत् । देवव- शात्संपद्यते नृणां शुभाशुभम् । उक्तं च । दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपनः ॥ ८६ ॥ तथा च । अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका । वयोध्द न्यायतः सिद्धाः संमुखे क.माण स्थिते ॥ ८६ ॥ सुवर्णसिद्धिराह कथमेतत् । सोब्रवीत् । कथा ११. अस्त्यत्र धरातल उत्तरपथे मधुपुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद्विषयसुखमनुभवतस्त्रिस्तनी कन्या बभूव । अथ तां त्रिस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच । यद्भोस्त्यज्यतामियं त्रिस्तनी गत्वा दुरेरण्ये यथा कश्चिन्न जानाति । तच्छ्रुत्वा कञ्चुकिनः प्रोचुः । महाराज ज्ञायते यदनिष्टकारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणा आहूय प्रष्टव्या येन लोकद्वयं न विरुध्यते । यतः । यः सततं परिपृच्छति शृणोति संघारयत्यनिशम् । तस्य दिवाकरकिरणैर्नलिनीव विवर्धते बुद्धिः ॥ ८७ ॥ त्रिकूटः पर्वतविशेषः । मधुपुरं मथुरेति प्रसिद्धा पुरी । १ दुर्गः २ चिन्तयत्य. 252 पञ्चतन्त्र तथा च । पृच्छकेन सवा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोपि प्रश्नान्मुक्तो द्विजः पुरा ॥ ८८ ॥ राजाह । कथमेतत् । ते प्रोचुः । कथा १२. देव कस्मिश्विनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्विद्भाह्मणः समासादितः । ततस्तस्य स्कन्धमारुह्य प्रोवाच भो अग्रे सरो गम्यताम् । ब्राह्मणोपि भयत्र- स्तमनास्तमादाय प्रस्थितः । अथ तस्य कमलोदर कोमलौ पादौ ब्राह्मणो राक्षसमपृच्छत् भोः किमेवविधौ ते पादावतिकोमलौ । राक्षस आह भी व्रतमस्ति । नाहमार्द्रपादो भूमिं स्पृशामि । तत- स्तच्छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस्तत्सरः प्राप्तः । ततो राक्षसेनाभि- हितम्-भो यावदहं स्नानं कृत्वा देवतार्चनविधिं विधायागच्छामि तावत्त्वयातः स्थानान्नान्यत्र गन्तव्यम् । तथानुष्ठिते द्विजश्चिन्तया- मास । ननं देवतार्चनविधेरूध्वं मामेष भक्षयिष्यति । तद्रुततरं गच्छामि येनैष आर्द्रपादो न मम पृष्टमेध्यत्ति । तथानुष्टिते राक्षसो व्रतभ- ङ्गभयात्तस्य पृष्ठं न गतः । अतोहं ब्रवीमि पृच्छकेन सदा भाव्यं इति । अथ तेभ्यस्तच्छ्रुत्वा राजा द्विजानाढय प्रोवाच । भो ब्राह्मणाः त्रिस्तनी मे कन्या संपन्ना । तत्किं तस्याः प्रतिविधानमस्ति न वा । ते प्रोचुः देव श्रूयताम्- हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम् । भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च ॥ ८९ ॥ या पुनस्त्रिस्तनोपेता याति लोचनगोचरम् । पितरं नाशयत्येव सा द्रुतं नात्र संशयः ॥ ९० ॥ तस्मादस्या दर्शनं परिहरतु देवः । तथा यदि कश्रिदुद्वाहयति तदेनां तस्मै दवा देशत्यागेन नियोजयितव्य इति । एवं कृते लोकद्वयाविरुद्ध- ता भवति । अथ तेषां तद्वचनमाकर्ण्य स राजा पटहशब्देन सर्वत्र घो षणामाज्ञापयामास अहो त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सु- वर्णलक्षमाप्नोति देशत्यागं च । एवं तस्यामावोषणायां क्रियमाणायां म कमलस्योदरं तदिवकोमल । आह्रौं पादौ यस्य स आर्द्रपादः । हीनं न्यूनं अ यस्याः सा हीनाङ्गी । निधनाय नाशाय । १ अग्रसरः.256