- अथ काकोलुकीयम् ।
- अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायमायः श्लोकः-
- न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य ।
- दग्वां गुहां पश्य उलूकपूणां काकप्रणीतेन हुताशनेन ॥ १ ॥ तयथानुं श्रूयते - अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थोऽनेकशाखा सनाथोऽतिघनतरपत्रच्छन्नो न्यग्रोधपादपोऽ- स्ति । तत्र च मेघवर्णो नाम वायसराजोऽनेककाकपरिवारः प्रतिवसति स्म । स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति । तथान्योऽरिमर्द- नो नामोल्कराजोऽसंख्योलूक परिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म । स च रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात्परिभ्रमति । अथे। लूकराजः पूर्वविरोधवशार्थं कंचिद्वायसमासादयति तं व्यापथ ग च्छति । एवं नित्याभिगमनाच्छनैः शनैस्तन्यग्रोधपादपदुर्गं तेन समन्ता- निर्वायसं कृतम् । अथवा भवत्येवम् । उक्तं च-
- तथा च ।
- य उपेक्षेत शत्रु स्वं प्रसरन्तं यदृच्छया । रोगं चालस्यसंयुक्तः स शनैस्तेन हन्यते ।। २ ॥
- जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
- महाबलोपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ ३ ॥
- अथान्येद्युः स वायसराजो सर्वान्सचिवानाहूय प्रोवाच-भोः उत्कट. स्तावदस्माकं शत्रुरुथमसंपन्नश्च कालेविश्च नित्यमेव निशागमे समेत्योस्म -
- काकाश्च उलूकाश्च काकोलूकं ( स. द्वं.) तदधिकृत्य कृतं काव्यम् । पूर्वं विरो- धितः पूर्व० तस्य तस्मिन्निति यावत् । अनेके काकाः परिवारो यस्य । विहिता दुर्गस्य रचना येन । गिरेः गुहा गिरिगुहा सा एव दुर्गे गिर्गे तदा श्रयो यस्य । य आलस्यसंयुक्तः यदृच्छया प्रसरन्तं शत्रुम् इत्यन्वयः ।
- १ सन्धिविग्रहादिसंबन्धं का. २ राजपुत्राः कथयन्तं विष्णुशर्माणं पृच्छन्ति । विष्णुशर्मा कथयति । ३ प्रतिष्ठानं. ४ मीपेनेकखगसना०. ५ परिवृतः. ६ व्यापादयति. ७. ८ अतिपुष्टांगयुक्तोपि स पश्चात्तेन. ९ लवशात्. १० व्यापादनं; अक्षयं.
- काकोलूकीयन् ।
- 135
- स्पक्षकदनं करोति । तत्कथमस्य प्रतिविधातव्यंं । वयं तावद्वात्रौ न प- श्यामः न च तस्य दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तदत्रं किं युज्यते संधि-विग्रह- यान- आसन-संश्रय- द्वैधीभावानां मध्यांत् । अथ ते प्रोचुः - युक्तमभिहितं देवेन यदेष प्रभः कृतः । उक्तं च-
- अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
- पृष्टेन त्वरितं पथ्यं वाच्यं च प्रियमप्रियम् ॥ ४ ॥ योन पृष्टो हितं ब्रूते परिणामे सुखावहम् । मन्त्री च प्रियवक्ता च केवलं स रिपुः स्मृतः ॥ ५ ॥ तस्मादेकान्तमासाद्य कार्यों मन्त्रो महीपते ।
- येन तस्य वयं कुमों नियमं कारणं तथा ॥ ७ ॥
- अथ स मेघवर्णोऽन्वयागत-उज्जीवि· संजीवि अनुजीवि प्रजीवि-चिरं- जीविनाम्नः पञ्च सचिवान्प्रत्येकं प्रष्टुमारब्धः । तत्रैतेषामादौ तावदुज्जी- विनं पृष्टवान् -भद्र एवं स्थिते किं मन्यते भवान् । स आह- राजन् बलवता सह विग्रहो न कार्यः । यतः स बलवान्कालप्रहर्ता च तस्मात्सं- धैर्यः । उक्तं च यतः-
- तथा च ।
- बलीयसि प्रणमतां काले प्रहरतामपि ।
- संपदो नाप गच्छन्ति प्रतीपमिव निन्नगाः ॥ ८ ॥
- सत्योन्यो धार्मिकश्वाय भ्रातृसंघातवान्बली । अनेकविजयी चैव संधेयः स रिपुर्भवेत् ।। ९ ।। संधि: कार्योऽप्यनार्येण विज्ञाय प्राणसंशयम् । प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥ १० ॥ योनेकयुद्धविजयी स तेन विशेषात्संधेयः । उक्तं च-
- अनेकयुद्धविजयी संधानं यस्य गच्छति ।
- तत्प्रभावेण तस्याशु वशं गच्छन्त्यरातयः ॥ ११ ॥
- प्रियमप्रियं वा यत्पथ्यं तद्वाच्यम् । मन्त्री च केवलं प्रियवक्ता च यः स रिपुः स्मृतः । काले प्रहरतीति कार्ता । निम्नगा नद्यो यथा प्रतीपं न गच्छन्ति तथा ।
- १ विधानम्, २ अत्र विषये. ३ वानामेकतमस्य क्रियमाणस्य, अस्मात्परं- तद्विचार्य शीघ्रं कथयन्तु भवन्तः इत्यधिकं क्वचित्. ४ तु ऋतं, तु विशेषेण वाच्य
- पथ्यं महीपतेः ५ यः पृष्टो न ऋतं. ६ निर्णयं. ७ अथ तस्यान्व… पृष्टवान् ८ संदधनीयः ९ संत्याजः, सत्पात्रः १० शमायान्त्य., यान्त्यरयः परे.
- 136
- अन्यच्च ।
- तथा च ।
- पञ्चतन्त्रे
- संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि । न हि सांशयिकं कुर्यादित्युवाच वृहस्पतिः ।। १२ ।। संदिग्धो विजयो युद्धे जनानामिह युध्यताम् । उपायत्रितयादूर्ध्वं तस्मा बुद्धं समाचरेत् ॥ १३ ॥ असंदधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भ इवान्येन करोत्युभयसंक्षयम् ॥ १४ ॥ समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे । दृषत्कुम्भं यथा भिवा तावत्तिष्ठति शक्तिमान् ॥ १५ ॥
- भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् ।
- नास्त्येकमपि ययेषां विग्रहं न समाचरेत् ॥ १६ ॥ खनन्नाखुविलं सिंहः पाषाणशकलाकुलम् । प्राप्नोति नखभङ्ग वा फलं वा मूषको भवेत् ॥ १७ ॥ तस्मान्न स्यात्फलं यत्र पुष्टं युद्धं तु केवलम् । न हि तत्स्वयमुत्पाद्यं कर्तव्यं न कथंचन ।। १८ ॥ बलीयसा समाक्रान्तो वैतसीं वृत्तिमाश्रयेत् । वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजङ्गीं कदाचन ।। ११९ ।। कुर्वन्हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् । भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम् ॥ २० ॥ कौमं संकोचमास्थाय प्रहारानपि मर्षयेत् । काले काले च मतिमानुत्तिष्ठेत् कृष्णसर्पवत् ॥ २१ ॥ आगतं विग्रहं दृष्ट्टा सुसान्ना प्रशमं नयेत् । विजयस्य नित्यत्वाद्रभसां न समुत्पतेत् ।। २२ ।।
- वलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
- प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥ २३ ॥
- एवमुज्जीवी साममन्त्रं संधिकारकं विज्ञप्तवान् ।
- सत्येन आढ्यः सत्याढ्यः । उपायानां त्रितयं सामदामभेदाख्यं तस्मा तस्मिन् विफलीभूते । दृषत् यथा कुम्भं भित्वा तावत्साकल्येन तिष्ठति तथा शक्तिमानशक्तं भित्वा इत्यन्वयः । पुष्टं महत् । वेतसस्य इयं वैतसी तां नम्रभावमित्यर्थः । भुजङ्गस्येयं भौजङ्गी तां नाश्रयेत् ।
- १ नित्यं द्यूतेनापि हिः समेनापि हि योधिनाम्. २ मानाद्यः ३ कुम्भमि- वाभित्वा नावतिष्ठति ४ दुष्टं. ५ न तत्स्वयं समुत्पा. ६ माचरे. ७ मत्वा. ८ भसं च समुत्सृजेत्. ९ कारं क्लप्त.
- काकोलूकीयम् ।
- 137
- अथ तच्छ्रुत्वा संजीविनमाह-भद्र तवाभिप्रायमपि श्रोतुमिच्छामि । स आह- देव न ममैतत्प्रतिभाति यच्छत्रुणा सह संधानं क्रियते । उक्तं च यतः-
- शत्रुणा न हि संदध्यात्सलिष्टेनापि संधिना ।
- सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ २४ ॥
- अपरं च स क्रूरोऽत्यन्तलुब्धो धर्मरहितः । तत्त्वया विशेषान्न संधेयः । उक्तं च-
- सत्यधर्मविहीनेन न संदध्यात्कथंचन ।
- सुधितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥ २५ ॥
- तस्मात्तेन सह योद्धव्यमिति मे मतिः । उक्तं च यतः-
- क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः ।
- मूढो योधवमन्ता च सुखोच्छेयो भवेद्रिपुः ॥ २६ ॥ अपरं तेन पराभूता वयम् । तद्यदि संधानकीर्तनं करिष्यामस्तद्भू- योऽत्यन्तं कोपं करिष्यति । उक्तं च-
- चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ।। २७ ।। सामवादाः सकोपस्य शत्रोः प्रत्युत दीपकाः । प्रतप्तस्यैव सहसा सर्पिषस्तोयविन्दवः ।। २८ ॥
- यश्चैतद्वदति रिपुर्बलवान् तदप्यकारणम् । उक्तं च यतः-
- प्रमाणाभ्यधिकस्यापि महत्सत्वमधिष्टितः ।
- पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ।। २९ ॥ उत्साहशक्तिसंपन्नो हन्याच्छत्रं लघुर्गुरुम् । यथा कण्ठीरवो नागं भारद्वाजाः प्रचक्षते ॥ ३० ॥ मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्रीरूपमास्थाय हैंतो भीमेन कीचकः ॥ ३१ ॥ तथा च ।
- मृत्योरिवोग्रदण्डस्य राज्ञो यान्ति वशं द्विषः । सेक्सहं तु मन्यन्ते तृणाय रिपवश्वतम् ।। ३२ ।।
- चतुर्थोपायो दण्डो युद्धमित्यर्थः ।
- १ संधिः. २ दसं. ३ निश्चयः
- ४ युद्धाव ०. ५ योपि काकविनाशम्
- ६ शत्रौ. ७ तस्य. ८ यदेवै. ९ सुसाम्राज्यं प्रचक्षते. १० हता…काः. ११ शष्पतुल्यं हि मन्यन्ते दयालुं रिपवो नृपम् । इति सर्वे ते हन्तुमिच्छन्ति दयालुं रिपवश्च तम् इति च पाठः.
- 138
- पञ्चतन्त्र
- न जोतु शमनं यस्य तेजस्तेजस्वितेजसाम् । वृथा जातेन किं तेन मातुयवनहारिणा ॥ ३३ ॥ या लक्ष्मीर्नानुलिप्ताङ्गी वैरिशोणितकुङ्कुमैः ।
- कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥ ३४ ॥ रिपुरक्तेन सैंसिक्ता तत्त्रीनेत्राम्बुभिस्तथा ।
- न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीविते ।। ३५ ।।
- एवं संजीवी विग्रहमन्त्रं विज्ञापयामास । अथ तच्छ्रुत्वानुजीविनमट- च्छत्-भद्र त्वमपि स्वाभिप्रायं निवेदय । स ऑह-देव दुष्टः स बलाधिको निर्मर्यादश्च । तन्न तेन संधिर्विग्रहो वा युक्तः । केवलं यानमईं स्यात् । एकं च-
- बलोत्कटेन दुष्टेन मर्यादारहितेन च ।
- न संधिविग्रहो नैव विना यानं प्रशस्यते ।। ३६ ॥ द्विधाकारं भवेद्यानं भये प्राणार्थरक्षणम् । एकमन्यज्जिगीषोश्व यात्रालक्षणमुच्यते ।। ३७ ॥ कार्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानमुत्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा ॥ ३८ ॥ अवस्यन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः । व्यसने वर्तमानस्य शत्रोश्छिद्रान्वितस्य च ॥ ३९ ॥ स्वस्थानं सुदृढं कृत्वा शरैश्वाप्तैर्महाबलैः । परदेशं ततो गच्छेत्प्रणिधिर्व्याप्तमग्रतः ॥ ४० ॥ अज्ञातवी वैधासारतोयशस्यो व्रजेत्तु यः ।
- परराष्टं ने भूयः स स्वराष्टमेपि गच्छति ।। ४१ ॥
- तत्ते युक्तं कर्तुमपसरणम् । अन्यच ।
- वैरिणां शोणितमेव कुंकुमानि तैः । अनुलिप्तानि अंगानि यस्याः । सा कान्ता रमणीयापि मनस्विनां मनसः प्रीतिं न धत्ते इत्य• । बलेनोत्कटः बलोत्कटः । द्विधा आकारो यस्य । प्राणाश्च अर्थश्च प्राणार्थास्तेषां रक्षणम् । अज्ञातानि वीवधा मार्गाः : आसारश्च तोयं च शस्यं च वीव-स्यानि येन तादृशः ।
- १ याति… तेजसा २ क्तारिस्त्री, वैरिस्त्रीनेत्रवारिणा इ. पा. ३ जीवने. ४ वद. ५ अब्रवीत्. ६ तत्तेन सह संधिविग्रहौ न युक्तौ ७ बलोत्कृष्टेन. ८ भयत्रस्तप्र०. ९ ज्ञातं. १० विविधा. ११ स नो भूयः. १२ अधिग.
- काकोलूकीयम् ।
- तत्र युक्तं प्रभो कर्तुं द्वितीयं यानमेव च ।
- न विग्रहं न संधानं बलिना तेन पापिना ॥ ४२ ॥ अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च-
- यदपसरति मेषः कारणं तत्प्रहर्तुं
- अन्यच ।
- मृगपतिरेपि कोपात्संकुचत्युत्पतिष्णुः । हृदयनिहितभावा गूढमन्त्रेप्रचाराः
- किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ ४३ ॥
- बलवन्तं रिपुं दृष्ट्टा देशत्यागं करोति यः । युधिष्ठिर इवामोति पुनर्जीवन्स मेदिनीम् ॥ ४४ ॥ युद्धयतेऽहं कृतिं कृत्वा दुर्बलो यो बलीयसा ।
- 139
- स तस्य वान्छितं कुर्यादात्मनश्च कुलक्षयम् ॥ ४५ ॥ तद्बलवताभियुक्तस्यापसरणसमयोऽयं न संधेर्विग्रहस्य च । एवमनु- जीविमन्त्रोऽपसरणस्य ।
- अथ तस्य वचनमाकर्ण्य प्रजीविनमाह-भद्र त्वमप्यात्मनोऽभिप्रायं वद । सोऽब्रवीत् - देव मम संधिविग्रहयानानि त्रीण्यपि न प्रतिभान्ति । विशेषतश्वासनं प्रतिभाति । उक्तं च-
- अन्यच्च ।
- नक्रः स्वस्थानमासाथ गजेन्द्रमपि कर्षति ।
- स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ ४६ ॥
- अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं प्रकुर्वीतात्ममुक्तये ।। ४७ ।। यो रिपोरागमं श्रुत्वा भयसंत्रस्तमानसः । स्वस्थानं संत्यजेत्तत्र न तु भूयो विशेच्च सः ॥ ४८ ॥ दंद्राविरहितः सर्पो मदहीनो यथा गजः । स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु ।। ४९ ।। निजस्थानस्थितोऽप्येकः शतं योद्धुं संहेन्नरः ।
- शक्तानामपि शत्रूणां तस्मात्स्थानं न संत्यजेत् ।। ५० ।।
- हृदये निहितो भावो निजाभिप्रायो वैरनिर्यातनात्मको यैः । गूढो मन्त्रप्र- चारो येषांते ।
- १ अस्य श्लोकस्य-न विग्रह… पापिना । कार्यलाभमपेक्ष्यापसरणं क्रियते बुधैः ॥ इति पा. २ रतिको ३ वैरा. ४ न्त्रोपचाराः १ न स भूयो वसेन्नरः ६ सहो नरः १० बलिना.
- ●
- 140
- अन्यच्च ।
- पञ्चतन्त्रे
- तस्माद्दुर्गं दृढं कृत्वा सुभटासारसंयुतम् ।
- प्राकारपरिखायुक्तं यन्त्रादिभिरलंकृतम् ॥ ५१ ॥ तिष्ठेन्मध्यगतो नित्यं युद्धाय कृतनिश्चयः । जीवन्संप्राप्स्यति राज्यं मृतो वा स्वर्गमेष्यति ।। ५२ ।।
- बलिनापि न बाध्यन्ते लघवोऽप्येकसंश्रयाः । विपक्षेणापि मरुता यथैकस्थानवीरुधः ।। ५३ । महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥ ५४ ॥ अथ ये संहता वृक्षाः सर्वतः सुप्रतिष्ठिताः । ते न रौद्रानिलेनापि हन्यन्ते ह्येकसंश्रयात् ।। ५५ ।। एवं मनुष्यमेकं च शौर्येणापि समन्वितम् ।
- शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ।। ५६ ।। एवं प्रजीविमन्त्रः । इदमासनसंज्ञकम् । एतत्समाकर्ण्य चिरंजीविन- माह-भद्र त्वमपि स्वाभिप्रायं वद । सोऽब्रवीत् - देव पाङ्गुण्यमध्ये मम संश्रयः सम्यक्प्रतिभाति । तत्तस्यानुष्ठानं कार्यम् । उक्तं च-
- ।
- असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
- निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ।। १७ ।।
- तदत्रैव स्थितेन त्वया कश्चित्समर्थः समाश्रयणीयः यो विपेत्प्रतीकारं करोति । यदि पुनस्त्वं स्वस्थानं त्यक्त्वान्यंत्र यास्यसि तत्कोऽपि ते वामात्रेणापि सहायत्वं न करिष्यति । उक्तं च यतः-
- वनानि दहतो वह्नेः सखा भवति मारुतः ।
- स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ ५८ ॥
- अथवा नै एकान्तो यद् बलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो र- क्षायै भवति । उक्तं च-
- सुभटाश्चासारश्च तैः संयुतम् । एकः संश्रयः येषा । उत्तमः बलिष्ठः संश्रयो यस्य ।
- १ वीवधा. २ शस्त्रा. ३ तिष्ठन् ४ क्ष्मान्तं संलप्स्यते कीर्तिपू. ५ प्रभजन- विपक्षेण यथैकस्था महीरुहाः. ६ धूनयितुम्. " न ते शीघ्रेण वातेन. ८ अस्मात्परमिदं. प. क्वचित्-संहतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ९ विपक्ष. १० प्रया. १९ कस्यापि गौरवम्. १२ नैतदेकान्तं.
- काकोलुकीयम् ।
- संघातवान्यथा वेणुर्निविडो वेणुभिर्टतः ।
- नहि शक्यो समुच्छेनुं दुर्बलोऽपि तथा नृपः ॥ ५९ ॥ यदि पुनरुत्तमसंश्रयो भवति तत्किमुच्यते । उक्तं च-
- महाजनस्य संपर्कः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥ ६० ॥ 141 तदेवं संश्रयं विना न कश्चित्प्रतीकारो भवति । तस्मात्संश्रयः कार्य इति मेऽभिप्रायः । एवं चिरंजीविमन्त्रः । अथैवमभिहिते स मेघवर्णो राजा चिरंतनं पितृसचिवं दीर्घायुपं सकलनीतिशास्त्रपारंगतं स्थिरजीविनामानं प्रणम्य प्रोवाच- तात यदेते मया पृष्टाः सचिवास्तावदत्रस्थितस्यापि तत्र तत्परीक्षार्थम् । येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादिशसि । तद्व्यद्युक्तं भवति तत्समादे- श्यम् । स आह-वत्स सर्वैरप्येतैर्नीतिशास्त्राश्रयमुक्तं सचिवैः । तदुप- युज्यते स्वकालोचितं सर्वमेव । परमेष द्वैधीभावस्य कालः । उक्तं च- अविश्वासं सदा तिष्ठेत्संधिना विग्रहेण च । द्वैधीभावं समाश्रित्य पॉपशत्रौ बलीयसि ।। ६१ ॥ तच्छत्रं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च- उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा । तथा च । गुडेन वर्षितः लेप्मा मुखं वृद्धया निपात्यते ॥ ६२ ॥ स्त्रीणां शत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः । यो भवेदेकभावोत्र न स जीवति मानवः ॥ ६३ ॥ कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा । एकभावेन कर्त्तव्यं शेषं द्वैधं समाश्रितम् ॥ ६४ ॥ एको भावः सदा शस्तो यतीनां भावितात्मनाम् । स्त्रीलुब्धानां न लोकानां विशेषेण महीभृताम् ।। ६५ ।। तद्वैधीभावं संश्रितस्य तव स्वस्थाने वासो भविष्यति । लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि । अपरं यदि किंचिच्छिद्रं तस्य पश्यसि तद्गत्वा अविद्यमानः विश्वासः यस्मिन्कर्माणि तद्यथा तथा अविश्वासम् । पापशत्रौ बली- यसि सति । द्वैधं समाश्रितं द्विभावेन वर्तितव्यमित्यर्थः । १ निबिडैः. २ अस्मात्परं - महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यः स्यादपि मर्दितुम् । इत्य. पद्यं. पु. रे. ३ उत्तमे. ४ संश्रयात्कार्यो विग्रहः इति ५ पार्श्वे शत्रोबलीयसः यतो निःशेषतां व्रजेत् ७ भावेन. ८ शेष भावद्वयाश्रितं द्विर्भावमाश्रितैः ९ श्री. 142 पञ्चतन्त्रे व्यापादयिष्यसि । मेघवर्ण आह-तात भयोऽविदितस्तस्य संश्रयः ॥ तत्कथं तस्य छिद्रं ज्ञास्यामि । स्थिरजीव्याह–वत्स न केवलं स्थानं छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणिधिभिः । उक्तं च- गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारैः पश्यन्ति राजानश्चक्षुर्म्यामितरे जनाः ॥ ६६ ॥ उक्तं चात्र विषये - यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तैश्वारैर्नृपो वेत्ति न स दुर्गंतिमान्नुयात् ॥ ६७ ॥ मेघवर्ण आह- तात कानि तीर्थान्युच्यन्ते कतिसंख्यानि च । कीदृशा गुप्तचराः । तत्सर्वं निवेद्यतामिति । स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रुपक्षेऽष्टादश तीर्थानि स्वपक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैर्ज्ञातः स्वपक्षः परपक्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति- कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ६८ ॥ तीर्थशब्देना युक्तकर्माभिधीयते । तद्यदि तेषां कुत्सितं भवति तत्स्वा- मिनोऽभिघाताय । प्रधानं भवति तद्वृद्वये स्यादिति । तयथा- मन्त्री पुरोहितः सेनापतिर्युवराजो दौवारिकः अन्तर्वासिकः प्रशासकः समाहर्त-संनिधातृ-प्रदेष्टृ ज्ञापकाः साधनाध्यक्षो ग- जाध्यक्षः कोशाध्यक्षो दुर्गपाल-करपाल सीमापाल- प्रोत्कटभृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । स्वपक्षे च देवी जननी कञ्चुकी मालिकः शय्या पालकः स्पेशाध्यक्षः सांवत्सरिकः भिषक् जलवाहकः ताम्बूल- वाहकः आचार्यः अङ्गरक्षकः स्थानचिन्तकः छत्रधरः विलासिनी । एषां वैरद्वारेण स्वपक्षे विघातः । तथा च । तथा च । वैद्यसांवत्सराचार्याः स्वपक्षेऽधिकृताश्चराः । तथाहितुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥ ६९ ॥ अविज्ञातः गूढ चरैः । अहितुण्डेन जीवतीत्याहि० । आहितुण्डिकाश्च उन्मत्ता उन्मत्तवेषधारिणः च । 10 १ सोविदितसंश्रयः, अहम व्यस्तस्य ड. पा. २ छिद्रं ज्ञायते तस्य. ३ प्रशास्ता. * प्रदेष्टा ज्ञापकः. ५ अश्वाध्यक्षः ६ परिषद्वलाध्यक्ष. त्या आटवी काढयाः- ०दयः. ८ परपक्षे एतेषां ९ स्पाशः, पण्यानयकः.काकोलूकीयम् । कृत्वा कृत्यविदस्तीर्थैरन्तः प्रणिधयः पदम् । विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः ॥ ७० ॥ 143 एवं मन्त्रिवाक्यमाकयात्रान्तरे मेघवर्ण आह-तात अथ किंनिमित्तमे- वंविधं प्राणीन्तकं सदैव वायसोलुकानां वैरम् । स आह-वत्स कदाचिंद्वं सशुकबक कोकिलचात कोलूकमयूरकपोतपारावत विष्किरप्रभृ तयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः - - अहो अस्माकं तावद्वैनतेयो राजा । स च वासुदेवभक्तो न कामपि चिन्ताम- स्माकं करोति । तत्किं तेन वृथास्वामिना यो लुब्धकपाशैर्नित्यं निवध्य- मानानां न रक्षां विधते । उक्तं च- या न रक्षति वित्रस्तान्पीड्यमानान्परैः सदा । जन्तून्पार्थिवरूपेण स कृतान्तो न संशयः ॥ ७१ ॥ यदि न स्यान्नरपतिः सम्यङ्केता ततैः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौवि ।। ७२ ।। षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधयानमृत्विजम् ॥ ७३ ॥ अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ७४ ॥ तत्संचिन्त्यान्यः कश्चिद्राजा विहङ्गमानां क्रियतामिति । अथ तैर्भद्रा- कारमुलकमवलोक्य सर्वैरभिहितम् - यदेष उल्लूको राजास्माकं भवि- ध्यति । तदानीयन्तां नृपाभिषेकसंबन्धिनः संभारा इति । अथ साधिते विविधतीर्थोदके प्रगुणीकृते ऽष्टोत्तरशतमूलिकासंघाते प्रदत्ते सिंहासने वर्तते सप्तद्वीपसमुद्रभूधरविचित्रे धरित्रीमण्डले प्रसारित व्याघ्रचर्मणि आपूरितेषु हेमकुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य- वस्तुषु पठत्सु बन्दिमुख्येषु वेदोचारणपरेषु समुदितमुखेषु ब्राह्मणेषु गीत- परे युवतीजने आनीतायामग्रमहिष्यां कृकालिकाकायाम् उलूकोऽभिषे- विद्विषन्त एवाम्भस्तस्य । अविद्यमानः कर्णधारो यस्याः । ग्रामः कामो यस्य । भद्रः आकारो यस्य । विविधानि च तानि तीर्थानि तेषामुदकं तस्मिन् । वर्तिते चित्रस्थापिते । सप्त च ते दीपाश्च समुद्राश्च भूधराश्च तैर्विचित्रे । ध० मण्डले सति । १ तीर्थेषु. २ श्रीवासुदेवासक्तः, परमसौ श्रीनारायणस्य परिचर्यापरो. ३ इमाः प्रजाः । ४ पुरुषा विप्लवन्ते. ५ वांभसि. ६ काय समस्तवस्तुसं. ७ चतुर्वेदोच्चारण- चतुरेषु पठत्सु विप्रेषु. ८ सकल मैगलगीत. ९ अस्मात्परं - सितसिद्ध । थैला जाक्षत- गोरोचनाग्रथित कुसुमशाखादिविचित्रे पुरः सज्जितेऽश्चतपात्रे उपढौकिते नीरा- जनादिविधौ नदत्सु मँगलतूर्येषु यवालकालंकृत वेदिकामध्याधिष्टित सिंहासने. 144 पञ्चतन्त्र कार्थं यावत्सिंहासन उपविशति तावत्कुतोऽपि वायसैः समायातः । सोऽचिन्तयत् - अहो किमेष सकलपक्षिसमागमो महोत्सवश्च । अथ ते पचिणस्तं दृष्ट्वा मिथः प्रोचुः - पक्षिणां मध्ये वायसश्चतुरः श्रूयते । उक्तं च- नराणां नापितो धूर्तः पक्षिणां चैव वायसः । दंष्ट्रिणां च श्टगालस्तु श्वेतभिक्षुस्तपस्विनाम् ॥ ७५ ॥ तदस्यापि वचनं ग्राह्यम् । उक्तं च- बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः । कथंचित्र विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ७६ ॥ .
अथ वायसः समेत्य किं महाजनसमागमोऽयं पर- ममहोत्सवश्च । ते प्रोचुः - भोः नास्ति कश्चिद्विहङ्गमानां राजा । तदस्योलूकस्य विहङ्गराज्याभिषेको निरूपितस्तिष्ठति समस्तपक्षिभिः । तत्त्वमपि स्वमतं देहि । प्रस्तावे समागतोऽसि । अथासौ काको विहस्याह - अहो न युक्तमेतत् यन्मयूर हंस-कोकिल चक्र वाक-शुक- कारण्डव- हारीत-सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकः क्रियते । तन्नैतन्मम मतम् । यतः- वैक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् । तथा च । अक्रुद्धस्येदृशं वक्त्रं भवेत्क्रुद्धस्य कीदृशम् ॥ ७७ ॥ स्वभावरौद्रमत्युग्रं क्रूरमप्रियदर्शनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ।। ७८ ।। अपरं वैनतेये स्वामिनि स्थित किमेष दिवान्धः क्रियते राजा । तद्यद्यपि गुणवान्भवति तथाप्येकस्मिन्स्वामिनि स्थिते नान्यो भूपः प्रशस्यते । एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥ ७९ ॥ तत्तस्य नान्नापि यूयं परेषामगम्या भविष्यथ । उक्तं च- गुरूणां नाममात्रेऽपि गृहीते स्वामिसंभवे । दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते ॥ ८० ॥ आपूरितेषु तीर्थजलेन हेमकुम्भेषु तैलेन दीपेषु मुखमारुतेन वाद्येषु । समुदि- तानि एकत्रपठनात् मुखानि येषाम् । करालं वक्त्रं यस्य । सुजिह्ये अक्षिणी यस्य । १ बन्दिजनसंसूचितप्रवेशो वा० कृष्णांगो नाम. २ मेलापकः ३ समये. ४ वक्रनासञ्च कर्काक्षो रौद्रश्चाप्रियदर्शनः । अक्रुद्धोयं दिवान्धः स्यात् क्रुद्धः कीद्भविष्यति ॥ इ.पा. •नादि सामी कि किमनेन प्रयोजनम् ७ तथा च । काकोलूकीयम् । व्यपदेशेन महतां सिद्धिः संजायते परा । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ८१ ॥ त ऊचुः - कथमेतत् । स आह- कथा १ । 145 कस्मिंश्चिद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन्महेत्यनावृष्टिः संजाता प्रभूतवर्षाणि यावत् । तया तडा- गहूदपल्वलसरांसि शोषमुपगतानि । अथ तैः समस्तगजैः स गज- राजः प्रोक्तः- देव पिपासाकुला गजकलभा मृतप्राया अपरे मृताश्च । तंदन्विष्यतां कश्चिज्जलाशयो यत्र जलपानेन स्वस्थतां व्रजन्ति । ततश्चिरं ध्यात्वा तेनाभिहितम् अस्ति महान्द्रदो विविक्ते प्रदेशे स्थल- मध्यगतः पातालगङ्गाजलेन सदैव पूर्णः । तत्तत्र गम्यतामिति । तथा- नुष्ठिते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स इदः । तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः । तस्य च हृदस्य समन्ताच्छशक- बिला असंख्याः सुकोमलभूमौ तिष्ठन्ति । तेऽपि समस्तैरपि तैर्गजैरित- स्ततो भ्रमद्भिः परिभग्नाः । बहवः शशका भग्ग्रपादशिरोग्रीवा विहिताः केचिन्मृताः केचिज्जीवशेषा जाताः । अथ गते तस्मिन्गजयूथे शशकाः सोद्वेगा गजपादक्षुण्णसमावासाः केचिद्भग्नपादाः अन्ये जर्जरितकलेवरा रुधिरता अन्ये हतशिशवो बाष्पपिहितलोचनाः समेत्य मिथो मन्त्रं चक्रुः - अहो विनष्टा वयम् । नित्यमेवैतद्गजयूथमागमिष्यति यतो नान्यत्र जलमस्ति । तत्सर्वेषां नाशो भविष्यति । उक्तं च- स्पृशन्नपि गजो हन्ति जिघ्रनपि भुजंगमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ८२ ॥ तच्चिन्त्यतां कश्चिदुपायः । तत्रैकः प्रोवाच-गम्यतां देशत्यागेन । किम- न्यत्र । उक्तं च मनुना व्यासेन च- त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थं आत्मार्थे पृथिवीं त्यजेत् ॥ ८३ ॥ ( मनुः ) पिपासया आकुलाः पिपासाकुलाः । पश्चानां रात्रीणां समाहारः पश्चरात्रम् । पादाश्च शिरश्च ग्रीवा च पादशिरोग्रीवम् । भग्नं पादशिरोग्रीवं येषां ते भग्न-वाः । जीव एव शेषो येषां ते । गजानां पादैः क्षुण्णाः समावासा येषां ते । जर्जरितानि कलेवराणि येषां ते । बाष्पेण पिहितानि लोचनानि देषाम् । १ अति क० २ द्वादशवार्षिकी… जाता. ३ चिन्त्यतां कश्चित्पिपासा - पनयनोपायः । 146 पञ्चतन्त्रे क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ ८४ ॥ आपदर्थे धनं रक्षेद्दारान्रक्षेद्वनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ८५ ॥ ततश्वान्ये प्रोचुः - भोः पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तम् । तत्क्रियतां तेषां कृते काचिद्विभीषिका यत्कथमपि दैवान समायान्ति । उर्फ च- निर्विषेणापि सर्पेण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपी भयंकरः ॥ ८६ ॥ अधान्ये प्रोचुः- यद्येवं ततस्तेषां महद्विभीषिकास्थानमस्ति येन नाग- मिष्यन्ति । सा च चतुरदूतायत्ता विभीषका । यतो विजयदत्तो नाम राजास्मत्स्वामी शशकश्चन्द्रमण्डले निवसति । तत्प्रेष्यतां कश्चिन्मिथ्या- दूतो यूथाधिपसकाशं यच्चन्द्रस्त्वामत्र हद् आगच्छन्तं निषेधयति । यतोऽ- स्मत्परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेयवचनात्कदापि निवर्तते । अथान्ये प्रोचुः - ययेवं तदस्ति लम्बकर्णो नाम शशकः । स व वचनरचनाचतुरो दूतकर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तं च- साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः । परचित्तावगन्ता च राज्ञो दूतः स इष्यते ॥ ८७ ॥ अन्यच । यो मूर्ख लौल्यसंपनं राजद्वारिकमाचरेत् । मिथ्यावादं विशेषेण तस्य कार्य न सिद्ध्यति ॥ ८८ ॥ तदम्विध्यतां ययस्माद्व्यसनादात्मनां सुनिर्मुक्तिः । भथान्ये प्रोचुः- अहो युक्तमेतत् । नान्यः कश्चिदुपाषोऽस्माकं जीवितस्य । तथैव क्रिय- ताम् । अथ लम्बकर्णो गजयूथाधिपसमीपे निरूपितो गतश्च । तथा- नुष्ठिते लम्बकर्णोऽपि गजमार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच- भो भो दुष्ट गज किमेवं लीलया निःशङ्कतयात्र चन्द्रद्रद् आगच्छसि । तन्नागन्तव्यम् । निवृत्यतामिति । तदाकर्ण्य विस्मितमना गज आह-भोः कस्त्वम् । स आह-अहं विजयदत्तो नाम शशकश्चन्द्रम- फटाया आटोपः फटाटोपः । श्रद्धेयस्य श्रद्धेयं च तत् वचनं वा श्र० नं तस्मात् । वचनानां रचना तस्यां चतुरः । आकारेण सहितः साकारः । नाना च तानि शास्त्राणि तेषु विचक्षणः । परेषां चित्तानि तेषामवगन्ता । मिथ्यावादः यस्य । अर्थमनतिक्रम्य वर्तते यथार्थ तद् वदतीति तं य०दिनम् । काकोलूकीयम् । 147 ण्डले वसामि । सांप्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्येव भवान् यथार्थवादिनो दूतस्य न दोषः करणीयः । दूतमुखा हि राजानः सर्व एव । उक्तं च- उद्यतेष्वपि शस्त्रेषु बन्धुवर्गववेष्वपि । परुषाण्यपि जल्पम्तो वध्या दूता न भूभुजा ।। ८९ ।। तच्छ्रुत्वा स आह-भीः शशक तत्कथय भगवतश्चन्द्रमसः संदेशं येन सत्वरं क्रियते । स आह-भवतातीतदिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत्किं न वेत्ति भवान् यन्मम परिय- होऽयम् । तयदि जीवितेम ते प्रयोजनं तदा केनापि प्रयोजनेनात्र हुदै नागन्तव्यमिति संदेशः । गज आह-अथ व वर्तते भगवान्स्वामी चन्द्रः । स आह-अत्र हूदै सांप्रतं शशकानां भवयूथमथितानां हस- शेषाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः । गज आह-यथैवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि । शशक आह-भोः आगच्छ मया सहकाकी येन दर्शयामि । तथातु- ष्ठिते शशको निशासमये तं गजं इदतीरे नीत्वा जलमध्ये स्थितं चन्द्र- बिम्बमदर्शयत् । आह च-भोः एष नः स्वामी जलमध्ये समाधि- स्थस्तिष्ठति । तन्निभृतं प्रणम्य सत्वरं व्रजे । नो चेत्समाधिभङ्गाद्ध- योऽपि प्रभूतं कोपं करिष्यतीति । अथ गजोऽपि त्रस्तमनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः । शशकाश्व तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म । अतोऽहं ब्रवीमि - व्यपदेशेन महतामिति ॥ अपि च । क्षुद्रमलसं कापुरुषं व्यसनिनमकृतशं पृष्ठ प्रलपनेशीलं स्वामि- त्वेन नाभि॑ियोजयेज्जीवितकामः । उक्तं च- क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ । उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ ९० ॥ ते प्रोचुः – कथमेतत् । स आह- कथा २ । कस्मिंश्चिदृक्षे ’ पुराहमवसम् । तत्राधस्तात्कोटरे कपिञ्जलो नाम भवतो यूथं भवद्यथं तेन मथिताः तेषाम् । पृष्ठे प्रलपनं शीलं यस्य । जीवितं कामो यस्य । १ पनपरं विवेकरहितं. २ नियो०. ३ वितुकामः । दूरे तावदस्मद्रक्षणं यावदित एव भ्रयमपि संभ्याव्यते । ४ कुतो विवदतां सुखम्. 148 पञ्चतन्त्र चटेकः प्रतिवसति स्म । अथं सदैवास्तमनवेलायामागतयोर्द्वयोरनेक- सुभाषितगोष्ठया देवर्षिब्रह्मर्षिराजर्षेि पुराणचरितकीर्तनेन च पर्यटनदृष्टा- नेककौतूहलप्रकथनेन च परमसुखमनुभवतोः कालो त्रजति । अथ कदाचित्कपिञ्जलः प्राणयात्रार्थमन्यैश्वटकैः सहान्यं पक्वशालिप्रायं देशं गतः । ततो यावन्निशासमयेऽपि नायातस्तावदहं सोद्वेगममा स्तद्वियो- गदुःखितश्चिन्तितवान्-अहो किमय कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः । उताहोस्वित्केनापि व्यापादितः । सर्वथा यदि कुशली भवति तन्मां विना न तिष्ठति । एवं मे चिन्तयतो बहून्यहामि व्यति- कान्तानि । ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोऽस्तमन- वेलायामागत्य प्रविष्टः । मयापि कपिञ्जलनिराशत्वेन न निवारितः । अथान्यस्मिन्नहनि कपिञ्जलः शालिभक्षणादतीव पीवरतनुः स्वमाश्रयं स्मृत्वा भूयोऽपि तत्रैव समायातः । अथवा साध्विदमुच्यते- न तादृग्जायते सौख्यमपि स्वर्गे शरीरिणाम् । दारिद्र्येऽपि हि यादृक्स्यात्स्वदेशे स्वपुरे गृहे ॥ ९१ ॥ अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह-भोः शशक न त्वया सुन्दरं कृतं यन्ममावसथस्थाने प्रविष्टोऽसि । तच्छीघ्रं निष्क्रम्यताम् । शशक आह-न तवेदं गृहम् । किंतु ममैव । तत्किं मिथ्या परुषाणि जल्पसि । उक्तं च- तथा च । वापीकूपतडागानां देवालयकुजन्मनाम् । उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ९२ ॥ 1 देवर्षि…जर्षीणां पुराणानि चरितानि तेषा कीर्तनेन । पर्यटनेषु दृष्टान्यनेकानि कौतूहलानि तेषां प्रकथनेन । उद्वेगेन सहित सोद्वेगं मनो यस्य । दुःखमस्य संजा- तमसौ दुःखितः । तस्य वियोगस्तद्वियोगस्तेन दुःखितः । कौ पृथिव्यां जन्म येषां त कुजन्मानो वृक्षाः । १ तित्तिरि: पक्षी. २ तत आवयोरेकावासगुणादभेद्या प्रीतिरुपन्ना । प्रतिदिनं च कृताहारविहारयोः प्रदोषसमये अनेकसुभाषितपुराणादिकथाप्रश्नप्रहेलिकादा- नादिभिर्विनोदैः कालोतिवर्तते. ३ वसथे. ४ अस्मात्प्राक् - यद्येवं ताईं प्रातिवे- शिकाः पृच्छयन्ताम् ५ गृहस्योपवनस्य च ६ सामंतप्रत्यया सिद्धिरित्येवं मनु- रब्रवीत् ॥ तथा च । गृहे क्षेत्रविवादे च कूपोपवनभूमिषु । समुत्पन्ने विवादे तु सामन्तात्प्रत्ययो भवेत् ॥ अथ शशकः पुनराह - मूर्ख न श्रुतं त्वया स्मृतिवचः । काकोलूकीयम् । प्रत्यक्षं यस्य यङ्गुक्तं क्षेत्रीयं दश वत्सरान् । तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि वाँ ॥ ९३ ॥ मानुषाणामयें न्यायो मुनिभिः परिकीर्तितः । तिरश्वां च विहङ्गानां यावदेव समाश्रयः ॥ ९४ ॥ 149 तेन्ममैतद्गृहं न तव इति । कपिञ्जल आह-भोः यदि स्मृतिं प्रमाणीक- रोषि तदागच्छ मया सह येन स्मृतिपाठकं पृष्ट्वा स यस्य ददाति स गृ- ह्णातु । तथानुष्ठिते मयापि चिन्तितं किमत्र भविष्यति । मया द्रष्टव्योऽयं न्यायः । ततः कौतुकादहमपि तावनु प्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्यमार्जारस्तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशी- पग्रहो निमीलितैकनयन ऊर्ध्वबाहुरर्धपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मोपदेशनामकरोत् - अहो असारोऽयं संसारः । क्षणभङ्गुराः प्राणाः । स्वप्नसदृशः प्रियसमागमः । इन्द्रजालवत्कुटुम्बपरिग्रहोऽयम् । तद्धर्मं मु- क्त्वा नान्या गतिरस्ति । उक्तं च- अन्यच्च । अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥ ९५ ॥ यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ ९६ ॥ माच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छर्मिवानर्थं पाण्डित्यं धर्मवर्जितम् ।। ९७ ।। पुलाका इव धान्येषु पूतिकां इव पक्षिषु । मशका इव मत्र्त्येषु येषां धर्मो न कारणम् ॥ ९८ ॥ श्रेयः पुष्पफलं वृक्षाद्दनः श्रेयो घृतं स्मृतम् । श्रेयस्तैलं च पिण्याकाच्छ्रेयान्धर्मस्तु मानुषात् ।। ९९ ॥ सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम् । धर्महीनाः परार्थाय पुरुषाः पशवो यथा ॥ १०० ॥ कृतः कुशानामुपग्रहो येन । अर्घाभ्यां पादाभ्यां स्पृष्टा भूमिर्येन । श्रीसूर्यमभि मुखं यस्य । पुष्पाणि च फलानि च तेषां समाहारः पुष्पफलम् । १ गृहायं. २ प्रमाणं नाक्षराण्यत्र साक्षी वा तस्य तद्भवेत् ॥ ३ तथा च न त्वया श्रुतं नारदस्य मतम् । ४ प्रमाणं स्याद्भुक्तिर्वैदशवार्षिकी । ५ तद्यद्यपि तवायमाश्रयस्तथापि न्यायतो मयाश्रित इति मदीय एवायम् । इ. पा. ६ लित- नयनः ७ धर्म-मदेश, ८ इव व्यर्थ. ९ कुलिका. १० पुष्पं. 150 पञ्चतन्त्र १०३ ॥ स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नयपण्डिताः । बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः ॥ १०१ संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण वः । परोपकारः पुण्याय पापाय परपीडनम् ।। १०२ ॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भो भोः कपिञ्जल एष नदीतीरे तपस्वी धर्मवादी तिष्ठति । तदेनं पृच्छावः । कपिञ्जल आह- ननु स्वभावतोऽस्माकं शत्रुभूतोऽयमस्ति । तद्दूरे स्थितौ पृच्छावः । कदा- चिदस्य व्रतवैकल्यं संपयते । ततो दूरस्थितावूचतुः - भो भोस्तपस्विन्ध- मोपदेशक आवयोर्विवादो वर्तते । तद्धर्मशास्त्रद्वारेणास्माकं निर्णय कुरु । यो हीनवादी स ते भक्ष्यः इति । स आह-भदौ मा मैवं वदतम्- निवृत्तोऽहं नरकमार्गात् हिंसाकर्मणः । अहिंसैव धर्ममार्गः । उक्तं च- अहिंसापूर्वको धर्मों यस्मात्सद्भिरुदाहृतः । यूकमत्कुणदंश्चादीस्तस्मात्तानपि रक्षयेत् ॥ १०४ ॥ हिंसकान्यपि भूतानि यो हिंसति स निर्घृणः । स याति नरकं घोरं किं पुनर्यः शुभानि चें ॥ १०५ ॥ एतेऽपि ये याज्ञिका यज्ञकर्मणि पशून्व्यापादयन्ति ते मूर्खाः परमार्थं श्रु- तेर्न जानन्ति । तत्र किलैतदुक्तमजैर्यष्टव्यम् । अजा व्रीहयस्तावत्सप्तवा- र्षिकाः कथ्यन्ते । न पुनः पशुविशेषाः । उक्तं च- वृक्षांछित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरकं केन गम्यते ॥ १०६ ॥ तन्नाहं भक्षयिष्यामि । परं जयपराजयनिर्णयं करिष्यामि । किं त्वहं वृद्धो रान यथावच्छ्रुणोमि । एवं ज्ञात्वा मम समीपवर्तिनो भूत्वा न्याय बहवश्च ते अन्तरायाश्च तैः युक्तस्तस्य । अहिंसा पूर्वा यस्मिन् । किं पुनः यः शुभानि भूतानि हिंसति स निर्घृणः स नरकं यातीति वक्तव्यम् । विवादस्य परमः अर्थः विवादपरमार्थः । तम् । 1 १ कपातक. २ प्रथमः ३ न्येव. ४ अस्मात्परमिमे लो० - संस्कर्ता चोपहर्ता च खादकश्चैव घातकः । उपदेष्टानुमन्ता च षडेते समभागिनः ॥ यदि नो खादकश्चैव न भवेद्वातकस्तथा । एतस्मात्कारणान्निन्द्यो घातकादपि खादकः ॥ दुःखानि यानि दृश्यन्ते दुःसहानि जगत्त्रये । सर्वाणि तानि लभ्यन्ते प्राणिमर्दन कारणात् ॥ ५ दूराद्युवयोर्भाषोत्तरं सम्यङ्क न. ६ भूत्वा ममाये. ७ विवाद, काकोलुकीयम् । 151 वदतं येन विज्ञाय विवादपरमार्थ वचो वदती मे परलोकबाधा न भवति । उक्तं च यतः- मानाद्वा यदि वा लोभात्क्रोधाद्वा यदि वा भयात् । यो न्यायमन्यथा ब्रूते स याति नरकं नरः ।। १०७ ॥ एकमनृते हन्ति दश हन्ति गवानृते । शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥ १०८ ॥ उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः । तस्माद्दूरेण स त्याज्यो न्यायो वा कीर्तयेदृत्तम् ।। १०९ ।। तस्माद्विश्रब्धौ भूत्वा मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना । तेन क्षुद्रेण तथा तौ तूर्णं विश्वासितौ यथा तस्योत्सङ्गवतिनौ संजातौ । ततश्व तेनापि समकालमेवैकः पादान्तेनाक्रान्तः अम्यो वैष्ट्राककन्चन च । ततो गतप्राणौ भक्षिताविति । अतोऽहं ब्रवीमि क्षुद्रमर्थपतिं प्राप्य इति ॥ भवन्तोऽप्येनं दिवान्धं क्षुद्रमर्थपतिमासाय रात्र्यन्धाः सन्तः शशकपिल- लमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयम् । अथ तस्य तद्वच- नमाकर्ण्य साध्वनेनाभिहितमित्युक्त्वा भूयोऽपि पार्थिवार्थं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलमव- शिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । अथ तेनाभिहितम् - कः कोऽत्र भोः । किमथापि न क्रियते ममाभि- षेकः । इति श्रुत्वा कृकालिकयाभिहितम् - भद्र तवाभिषेके कृतोऽयं विघ्नो वायसेन । गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु । केवलमेकोऽयं वायसोऽवशिष्टः केनापि हेतुना तिष्ठति । तस्वरितति येन त्वां स्वाभयं प्रापयिष्यामि । तच्छ्रुत्वा सविषादमुलको वायसमाह-भी दुष्टात्मन् किं मया तेऽपकृतं यदाज्याभिषेको मे विघ्नितः । तदयप्रभृति सान्वयमावय- वैरेंम् । उक्तं च- 1 रोहते सायकैर्विद्धं छिन रोहति चासिना । वाचीं दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ११० ॥ इत्येवमभिधाय कृकालिकया सह स्वाभयं गतः । अथ भयव्याकुलो निर्णयः ऋतं कीर्तयेदिति योज्यम् । सभामध्ये उपविष्टो यः व्यायाधिकारी स्फुटं वचः इ० । वा अथवा स ऋतं कीर्तयेत् इति न्यायः । यद्वा तस्य न्यायः दंष्ट्रा का इव तेन । गताः प्राणा येषां तौ । १ मे विज्ञाय पर० वदतः परत्रं न विरुध्यते. न यः सुधीः । ४ बुद्धिविहीनो संजाता बँकवर्तिमा ७ कार्य. ८ वैरं संजातम्. ९ वनं परशुना इतम्. २ पश्च पश्वा०. ३ सत्यं झूते ५ विचार्य. ६ यमतः परम्- १० वचो. 152 पञ्चतन्त्रे वायसी व्यचिन्तयत् - अहो अकारणं वैरमासादितम् । मया किीर्मद व्याहतं उक्तं च- अदेशकालज्ञमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः । योऽत्रात्रवीत्कारणवर्जितं वचो न तद्वचः स्याद्विषमेव तद्भवेत् ॥ १११ ॥ बलोपपत्रोऽपि हि बुद्धिमान्नरः परं नयेन स्वयमेव वैरिताम् । भिषड्यमास्तीति विचिन्त्य भक्षयेदकारणात्को हि विचक्षणो विषम् ११२ परपरिवादः परिषदि न कथंचित्पण्डितेन वक्तव्यः । सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥ ११३ ॥ सुहृद्भिराप्तैरसकृद्विचारितं सह स्वयं च बुद्ध्या प्रविचारिताश्रयम् । करोति कार्यं खलु यः स बुद्धिमा- न्स एव लक्ष्म्या यशसां च भाजनम् ॥ ११४ ॥ एवं विचिन्त्य काकोऽपि स्वभवतं प्रति प्रायात् । तद्वत्स एवमस्माभिः कौशिकानामन्वयागतं वैरम् । मेघवर्ण आह-तात एवं गतेऽस्मा- भिः किं क्रियते । स आह-वत्स एवं गतेऽपि षाड्गुण्यादपरः स्थूलोऽभि- प्रायोऽस्ति । तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि । रिपून्वञ्च- यित्वा वधिष्यामि । उक्तं च यतः- बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलादिव ।। ११५ ।। मेघवर्ण आह- कथमेतत् । सोऽब्रवीत्- कथा ३ । कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्रिहोत्रपरिग्रहः प्रति- वसति स्म । तेनं कदाचिन्माघमासे सौम्यानिले प्रवाति मेघाच्छादिते गगने मन्दं मन्दं वर्षति पर्जन्ये पशुप्रार्थनाय किंचिद्रामान्तरं गत्वा कश्चियजमानो याचितः- भो यजमान आगामिन्याममावास्यायामहं यक्ष्यामि यज्ञम् । तद्देहि मे पशुमेकम् । अथ तेन तस्य शास्त्रोक्तः पीवर- अविद्यमानं कारणं यस्मिन्कर्मणि तदकारणम् । देशकालौ जानातीति देशका- लज्ञं तन्न भवतीति अदेश० । आयतौ क्षममायतिक्षमं न आ० अनायति- क्षमम् । प्रविचारितः आश्रयो यस्य । षड्गुणा एव षाड्गुण्यम् । कृतः अग्निहोत्रस्य परिग्रहो येन । १ दयता मया; दितं यदिदं व्या० मया. २ भाषते. ३ तद्वचः ४ तदाप्रभृत्य • ५ कृत्यमस्ति ६ स… न्तरं गतः.काकोलुकीयम् । 153 तनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे । अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः । तैश्व तादृशं पीवरतनुं पशुं स्कन्धारूढमवलोक्य मिथोऽभिहितम्-अहो अस्य पशोर्भक्षणादर्शत- नीयो हिमपातो व्यर्थतां नीयते । तदेनं वञ्चयित्वा पशुमादाय शीतत्राणं कुर्मः । अथ तेषामेकतमो वेषपरिवर्तनं विधाय संमुखो भूत्वापमार्गेण तमाहिताग्निमूचे - भो भो बालाग्निहोत्रन् किमेवं जनविरुद्धं हास्यकार्य- मनुष्ठीयते यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः- श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्तिताः । रासभोष्ट्रौ विशेषेण तस्मात्तान्नैव संस्पृशेत् ॥ ११६ ॥ ततश्च तेन कोपाभिभूतनाभिहितम् - अहो किमन्धो भवान् । यत्पशुं सारमेयं प्रतिपादयति । सोऽब्रवीत्-ब्रह्मन् कोपस्त्वया न कार्यो। यथे- च्छं गम्यतामिति । अथ यावत्किंचिदध्वान्तरं गच्छति तावद्वितीयो धूर्तः संमुखमभ्युपेत्य तमुवाच-भी ब्रह्मन् कष्टं कष्टम् । यद्यपि वल्ल- भोऽयं ते मृतवत्सस्तथापि स्कन्धमारोपयितुमर्युक्तम् । उक्तं च यतः- तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत्कुधीः । पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा ॥ ११७ ॥ अथासौ सकोपमाह - भोः किमन्धो भवान् यत्पशुं मृतवत्सं वदसि । सोऽब्रवीत् - भगवन् मा कोपं कुरु । अज्ञानान्मयाभिहितम् । तत्त्वमात्म- रुचिं समाचर इति । अथ यावत्स्तोकं वनान्तरं गच्छति तावत्तृतीयोऽन्य- वेषधारी धूर्तः संमुखः समुपेत्य तमुवाच - भोः अयुक्तमेतत् यत्त्वं रा- सभं स्कन्धाधिरूढं नयसि । तत्यज्यतामेषः । उक्तं च- यः स्पृशेद्रासभं मत्यों ज्ञानादज्ञानतोऽपि वा । सचैलं स्नानमुद्दिष्टं तस्य पापप्रशान्तये ॥ ११८ ॥ तत्यजैनं यावदन्यः कश्चिन्न पश्यति । अथासौ तं परं रासभं मन्यमानी भयाडूमौ प्रक्षिप्य स्वगृहमुद्दिश्य प्रपलायितः । ततस्ते त्रयोपि मिलित्वा तं पशुमादाय यथेच्छं भक्षितुमारब्धाः । अतोऽहं ब्रवीमि - बहुबुद्धिसमा- युक्ताः इति ॥ अथवा साध्विदमुच्यते- समः स्पर्शो येषाम् । अभिनवाश्च ते सेवकाश्च तेषां विनयैः । यद्वा अभिनवाः सेवक विनयास्तैः। धूर्ताश्च ते जनाश्च तेषां वचनानां निकरैः । १ न्धेकृतमालो०. २ दिनजः ३ त्वास्य सकाशाद्रह्यते. ४ पर. ५ विष्टेन. ६ दूनान्त०. • खे समु०. ८ मशक्यः ९ आत्मन उचितेन; आत्मनश्चित्तं• १० धूतों वैषपरिवर्तनं कृत्वा. ११ पलायितुमारब्धः. 154 पञ्चतन्त्र अभिनवसेवक विनयैः प्राघुणकोक्तैर्विलासिनी रुदितैः । धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति ॥ ११९ ॥ किच दुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तं च- बहवो न विरोद्धव्या दुर्जया हि महाजनाः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ १२० ॥ मेघवर्ण आह- कथमेतत् । स्थिरजीवी कथयति - कथा ४ । अस्ति कस्मिंश्चिद्वल्मीके महाकायः कृष्णसर्पोऽतिवर्षो नाम । स कदा- चिद् बिलानुसार मार्गमुत्सृज्यान्येन लघुद्वारेण निष्क्रमितुमारब्धः । नि- कामतश्च तस्य महाकायत्वाद्दैववशतया लघुविवरत्वाच शरीरे व्रणः समुत्पन्नः । अथ व्रणशोणितगन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति कति वा ताडयति । अथ प्रभूतत्वाद्विस्तारितबहुव्रणः क्षतसर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः । अतो. Sहं ब्रवीमि - बहवो न विरोद्धव्याः इति ॥ तदत्रास्ति किंचिन्मे वक्तव्य- मेव । तदवधार्यं यथोक्तमनुष्ठीयताम् । मेघवर्ण आह-तत्समादेशय । तवादेशो माम्यथा कर्तव्यः । स्थिरजीवी प्राह-वत्स समाकर्णय सहि सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन्मां विपक्षभूतं कृत्वातिनिष्ठुरवचनैर्निर्भर्त्स्य यथा विपक्षप्रणिधीनां प्रत्ययो भवति तथा समाहत रुधिरैरालिप्यास्यैव न्यग्रोधस्याचस्तात्प्रक्षिप्य गम्यतां पर्वतमृ- ष्यमूकं प्रति । तत्र सपरिवारस्तिष्ठ यावदहं समस्तान्सपत्नान्सुप्रणीतेन विधिना विश्वास्याभिमुखान्कृत्वा कृतार्थो ज्ञातदुर्गमध्यो दिवसे तानन्धतां प्राप्तांस्त्वां नीत्वा व्यापादयिष्यामि । ज्ञातं मया सम्यक् । नान्यथास्माकं सिद्धिरिति । यतो दुर्गमेतदपसाररहितं केवलं वधाय भविष्यति । उक्तं च यतः अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते । अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम् ।। १२१ ।। न च त्वया मैदर्थं कृपा कार्या । उक्तं च- महान् कायो यस्य तस्य भावः महाकायत्वं तस्मात् । व्रणानां शोणितं तस्य गन्धस्तमनुसरन्तीति तामिः । विपक्षस्य प्रणिधयस्तेषाम् । अपसारेण निर्गममार्गेण समायुक्तं । १ बिले. २ सारिणं. ३ था सिद्धिरस्मत्पक्षस्य, ४ अस्मद०, मां प्रति. काकोलुकीयम् । अपि प्राणसमानिष्टान्पालितालालितामपि । भृत्यान्युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥ १२२ ॥ तथा च । प्राणवद्रचयेनृत्यान्स्वकायमिव पोषयेत् । सदैकदिवसस्यार्थे यत्र स्याद्रिपुंसंगमः ।। १२३ ।। 155 तवयाहं नात्रविषये निषेधनीयः । इत्युक्त्वा तेन सह शुल्कलाई कर्तुमारब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनमुच्छृङ्गलवचैनेर्जल्प- न्तमवलोक्य तस्य वधायोयता मेघवर्णेनाभिहिताः - अहो अपसरते यूयम् । अहमेवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यामि । इत्यभिधाय तस्योपरि समारुह्य लघुभिश्रनुप्रहारैस्तं प्रहृत्य आहँतरुधि- रेण लावयित्वा तदुपदिष्टमृष्यमूकपर्वतं सपरिवारो गतः । एतस्मिन्नन्तरे कुकालिकया द्विषत्प्रणिधिभूतया सर्वं तदमात्यव्यसनं मेघवर्णस्य गमनं चोलकराजस्य निवेदितं यत्तवारिः संप्रति क्वापि भीतो’ भीतपरिवारश्र प्रचलित इति । अथोलूकाधिपस्तदाकर्ण्यास्तमनवेलायां सामात्यपरिजनो वापसवधार्थं प्रचलितः । प्राह च अहो त्वर्यतां त्वर्यताम् । भीतः शत्रुः पलायनपरः पुण्यैर्लभ्यते । उक्तं च- शत्रोः प्रचलने छिद्रमेकमन्यच्चं संश्रयम् कुर्वाणो जायते वश्यो व्यग्रत्वे राजसेविनाम् ।। १२४ ॥ न च च्छिद्रं विना शत्रुर्देवानामपि सिध्यति । छिद्रं शक्रेण संप्राप्य दितेर्गर्भो विदारितः ।। १२५ ।। एवं ब्रुवाणः समन्तान्यग्रोधपादपमधः परिवेष्ट्य व्यवस्थितः । यावन कश्विद्वायसो दृश्यते तावच्छाखाग्रमधिरूढो हृष्टमना बन्दिभिरभिष्ट- यमानोऽरिमैर्दनस्तान्परिजनान्प्रोवाच - अहो ज्ञायतां तेषां मार्गः । कतमेन मार्गेण ते प्रनष्टाः काकाः । तद्यावन्न दुर्गं समाश्रयन्ति तावदेव पृष्ठतो गत्वा व्यापादयामि । उक्तं च– वृतिमप्याश्रितः शत्रुरवध्यः स्याज्जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥ १२६ ॥ यत्र यस्मिन् दिने रिपुसंगमः स्यात् तस्य एकदिवसस्यार्थे । अमात्याश्च परिज- नाश्च अमात्यपरिजनास्तैः सहितः । शत्रोः प्रचलने एक छिद्रं अन्यच्च संश्रय कुर्वाणो राजसेविनां व्यग्रत्वे वश्यो जायते इति । १ यजेत् २ म्लानामिव स्रजम् ३ शत्र. ४ वाचा-खलतया राजानं. ५ निवर्तध्वम्. ६ निहत्य. ७ रुधिरालोडितं कृत्वा ८ यथाभिप्रेतं सपरिजनः ९ भीतः प्रचलितः सपरि० १० अन्यत्र ११ उलूक राजः. १२ व्यापाद्या भवन्तिः- 156 पञ्चतन्त्र अथैतस्मिन्प्रस्तावे स्थिरजीवी चिन्तयामास - यदेतेऽस्मच्छत्रवोऽनुपल- धास्मवृत्तान्ता यथागतमेव यान्ति । ततो मया न किंचित्कृतं भवति । उक्तं च- अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १२७ ॥ तद्वरमनारम्भो ने चारम्भविघातः । तदहमे तान्शब्दं संभाव्यात्मानं दर्श- यामीति विचार्य मन्दं मन्दं शब्दमकरोत् । तं श्रुत्वा ते सर्वेप्युलूकास्त- द्वधाय प्रजग्मुः । अथ तेनोक्तम्-अहो अहं स्थिरजीवी नाम मेघवर्ण- स्य मन्त्री मेघवर्णेनैवेदृशीमवस्थां नीतः । तन्निवेदयतात्मस्वामिने । तेन सह बहु वक्तव्यमस्ति । अथ तैर्निवेदितः स उलूक्रराजो विस्मयावि- ष्टस्तत्क्षणात्तस्य सकाशं गत्वा प्रोवाच-भोः किमेतां दशां गतस्त्वम् । तत्कथ्यताम् । स्थिरजीवी प्राह-देव श्रूयतां तदवस्थाकारणम् । अती- तदिने स दुरात्मा मेघवर्णो युष्मद्वयापादितप्रभूतवायसानां पीडया युष्माकमुपरि कोपरीकग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभि- हित - स्वामिन् न युक्तं भवतस्तदुपरि गन्तुम । बलवन्त एते बलही- नाश्व वयम् । उक्तं च- 1 बलीयसा हीनबलो विरोधं न भूतिकामी मनसापि वाच्छेत् । न वध्यते वेतसवृत्तिरत्र द्वयक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः ॥ १२८ ॥ तत्तस्योपायनप्रदानेन संधिरेव युक्तः । उक्तं च- बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षयेत्प्राणान्रक्षितैस्तैर्धनं पुनः ।। १२९ ॥ सच्छ्रुत्वा तेन दुर्जन प्रकोपितेन त्वत्पक्षपातिनं मामाशङ्कमानेनेमां दशां नीतः । तत्तव पादौ सांप्रतं मे शरणम् । किं बहुना विज्ञप्तेन । यावदहं प्रचलितुं शक्नोमि तावत्त्वां तस्यावासे नीत्वा सर्ववायसक्षयं विधास्यामि इति । अथारिमर्दनस्तदाकर्ण्य पितृपितामह मागतमन्त्रिभिः सार्धं मन्त्र- यांचक्रे । तस्य च पञ्च मन्त्रिणः । तद्यथा - रक्ताक्षः क्रूराक्षी दीप्ताक्षी अनुपलब्धः अस्माकं वृत्तान्तो यैः । आगतमनतिक्रस्य यथागतम् । युष्माभिः व्यापादिता युष्मद्वयापादिता: ये प्रभूता वायसास्तेषाम् । बेतसस्येव वृत्तिर्यस्य । पतङ्गस्येव वृत्तिर्यस्य तस्य । १ आरम्भर्विघातस्त्वयुक्तः. २ स्वाम्यग्रे. ३ सान् दृष्ट्वा . ४ कुर्यात् ५ तेत्य- न्तबलो हि यस्मात्. ६ उपप्रदानेन. ७ पैतामहान् सचिवाने कत्रस्थान आकार्य तेः सह मन्त्रितवान् काकोलूकीयम् | 157 वक्रनोसः प्राकारकर्णश्चेति । तत्रादौ र काक्षमपृच्छत्-भद्र एष तावत्तस्य रिपोर्मन्त्री मम हस्तगतः । तत्किं क्रियतामिति । रक्ताक्ष भाइ-देव किमत्र चिन्त्यते । अविचारितमयं हन्तव्यः । यतः । हीनः शत्रुर्निहन्तव्यो यावन बलवान्भवेत् । प्राप्तं स्वपौरुषबलः पश्चाद्भवति दुर्जयः ॥ १२९ ॥ किं च स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च- कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् । दुर्लभः स पुनस्तेन कालकर्माचिकीर्षता ॥ १३० ॥ श्रूयते च यथा- चितिकां दीपितां पश्य फटां भग्नां ममैव च । भिन्नश्लिष्टा तु या प्रीतिर्न सा लेहेन वर्धते ।। १३१ ॥ अरिमर्दनः प्राह- कथमेतत् । रक्ताक्षः कथयति - कथा ५। अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन्दिवसे स ब्राह्मण उष्णका- कावसाने घर्मार्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तोऽनतिदूरे वल्मीको- परि प्रसारितं बृहत्फटायुक्तं भीषणं भुजङ्गमं दृष्ट्वा चिन्तयामास - नून- मेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषिकर्म विफली- भवति । तदस्या अहं पूजामय करिष्यामि । इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगम्योवाच - भोः क्षेत्रपाल मयैतावन्तं कालं न ज्ञातं यत्त्वमत्र वससि । तेन पूजा न कृता । तत्सां- प्रतं क्षमस्व इति । एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदि- नमेकाकी समागत्य तस्मै क्षीरं ददाति एकैकं च दीनारं गृह्णाति । अथै- कस्मिन्दिवसे वल्मीके क्षीरनयनाय पुत्रं निरूप्य ब्राह्मणों ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारमेकं च दृष्ट्वा गृहीत्वा च चिन्तितवान्- नूनं सौवर्णदीनारपूर्णोऽयं वल्मीकः । तदेनं हत्वा सर्वमेकवारं ग्रही- व्यामि । इत्येवं संप्रधार्यान्येयुः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन काले कर्म कालकर्म तदचिकीर्षता कर्तुमनिच्छता । भिन्नलिष्टा आदौ भिन्ना पश्चात् श्लिष्टा । उष्णश्चासौ कालश्च तस्यावसाने । बृहती चासौ फटा च बृहत्फटा तया युक्ते । सुवर्णस्येमे सौवर्णाः सौवर्णाश्च ते दीनाराश्च तैः पूर्णः । १ नाम एते तस्य चत्वारः सचिवाः २ स जात. 158 पञ्चतन्त्रे शिरसि ताडितः । ततः कथमपि दैववशादमुक्तजीवित एवं रोषात्तमेव तीत्रैविषदशनैस्तथादशत् यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नाति- दूरे क्षेत्रस्य काष्ठसंचयैः संस्कृतः । अथ द्वितीयविने तस्य पिता समा- यातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच - भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ।। १३२ ।। पुरुषैरुक्तम् - कथमेतत् । ब्राह्मणः कथयति– कथा ६ । अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्य- माणं पद्मसरो नाम सरस्तिष्ठति । तत्र च प्रभूता जाम्बूनदमया हंसा- स्तिष्ठन्ति । षण्मासे पण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सर- सि सौवर्णी बृहत्पक्षी समायातः । तैश्वौक्तः - अस्माकं मध्ये त्वया न वस्तव्यं येन कारणेनास्माभिः षण्मासान्ते पिच्छेकैकदानं कृत्वा गृही- समेतत्सरः । एवं च किं बहुना परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-देव एते पक्षिण एवं वदन्ति यदस्माकं राजा किं करिष्यति । न कस्याप्यावासं दद्मः । मया चोक्तम्- न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यानन्त्रवीत् - भो भोः गच्छत । सर्वान्पक्षिणी गतासुन्कृत्वा शीघ्रमा- नयत । राजादेशानन्तरमेव प्रचेलुस्ते । अथ लगुडहस्तान्राजपुरुषान्दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्- भोः स्वजनाः न शोभनमापतितम् । ततः सर्वैरेकमतीभूय शीघ्रमुत्पतितव्यम् । तैश्च तथानुष्ठितम् । अतोऽहं ब्रवी- मि-भूतान्यो नानुगृह्णाति इति ॥ इत्युक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तारस्वरेण सर्पमस्तौत् । तदा सर्पश्चिरं वल्मीकद्वारा- न्तलीन एव ब्राह्मणं प्रत्युवाच - त्वं लोभावनागतः पुत्रशोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मदेनाहं ताडितः । मया स दष्टः । कथं मया लगुडप्रहारो विस्मर्तव्यः त्वया । तीव्रं च तद्विषं च तीव्रविषं तेन युक्ताः दशना तीव्र ०-नाः तैः । भूताश्च ते अर्थाश्च । पद्मप्रधानं सरः पद्मसरः । पिच्छस्य एकैकस्य दानं पिच्छेकैकदानं । राज्ञः आदेशस्तस्यानन्तरम् । यौवनस्य उन्मदस्तेन । १ तीक्ष्णाग्रदशनेन. २ गृह्णाति ३ मानुषैः. ४ सर्प प्रत्यायनार्थं निवेदितवान् यतो मम पुत्रः कुबुध्या पचस्वमुपागतः । च पुत्रशोकदुःखं कथं तस्मै दत्त्वा अतःपरं काकोलूकीयम् । 159 विस्मर्तव्यम् । इत्युक्त्वा बहुमूल्य हीरकमाण पुनस्त्वया नागन्तव्यमिति पुनरुक्त्वा विवरान्त- र्गतः । ब्राह्मणश्च मणि गृहीत्वा पुत्रबुद्धिं निन्दन्स्वगृहमागतः । अतोऽहं ब्रवीमि - चितिकां दीपितां पश्य इति ॥ तदस्मिन्हते अयनादेव राज्य- मकण्टकं भवतो भवति । तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र त्वं तु किं मन्यसे । सोऽ- ब्रवीत् - देव निर्दयमेतव्यदनेनाभिहितम् । यत्कारणं शरणागतो न वध्य- ते । सुष्टु खल्विदमाख्यातम् । श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथान्यायं स्वैश्व मांसैनिवेदितः ॥ १३३ ॥ अरिमर्दनोऽब्रवीत् - कथमेतत् । क्रूराक्षः कथयति - अथवा । कथा ७ । कश्चित्क्षुद्रसमाचारः प्राणिनां कालसन्निभः । विचचार महारण्ये घोरः शकुनिलुब्धकः ।। १३४ ॥ नैव कश्चित्सुहृत्तस्य न सम्बन्धी न बान्धवः । स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ।। १३५ ॥ ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ १३६ ॥ स पन्जरकमादाय पाशं च लगुडं तथा । नित्यमेव वनं याति सर्वप्राणिविहिंसकः ॥ १३७ ॥ अन्येशुभ्रंमतस्तस्य वने कापि कपोतिका । जाता हस्तगता तां स प्राक्षिपत्पव्जरान्तरे ॥ १३८ ॥ अथ कृष्णा दिशः सर्वा वनस्थस्याभवन्धनैः । वातवृष्टिश्च महती क्षयकाल इवाभवत् ।। १३९ ।। ततः संत्रस्तहृदयः कम्पमानो मुहुर्मुहुः । अन्वेषयन्परिणमाससाद वनस्पतिम् ॥ १४० ॥ क्षुद्रः समाचारः यस्य । अथ वनस्थस्य तस्य सर्वा दिशः घनैः कृष्णा अभवन् इत्यन्वयः । १ निमन्त्रितः २ अस्मात्परं अस्ति कस्मिंश्चिदधिष्ठाने-इत्यधिकं पु-न्तरे. ३ हिं- सकाः. ४ अथ पर्यटता तेन प्राप्ता चैका कपोतिका । स तां पञ्जरके क्षिध्वा विचचार क्षुधार्दितः ॥ इ. पा. 160 पञ्चतन्त्रे मुहूर्तं पश्यते यावद्वियद्विमलतारकम् । प्राप्य वृक्षं वदत्येव योऽत्र तिष्ठति कश्चन ॥ १४१ ॥ तस्याहं शरणं प्राप्तः स परित्रातु मामिति । शीतेन भिद्यमानं च क्षुधया गतचेतसम् ।। १४२ ।। अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । भार्याविरहितस्तिष्ठन्विललाप सुदुःखितः ॥ १४३ ॥ वातवर्षो महानासीन चागच्छति मे प्रिया । तया विरहितं तच्छून्यमद्य गृहं मम ॥ १४४ ॥ पतित्रता पतिप्राणा पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ।। १४५ ।। ने गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥ १४६ ॥ पञ्जरस्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः । कपोतिका सुसंतुष्टा वाक्यं चेदमथाह सा ॥ १४७ ॥ न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥ १४८ ॥ दावाग्निनों विदग्धेव सपुष्पस्तबका लता । भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥ १४९ ।। मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ।। १५० ।। पुनश्वाब्रवीत्- श्रूयते च । भ्टणुष्ववहितः कान्त यत्ते वक्ष्याम्यहं हितम् । प्राणैरपि त्वया नित्यं संरक्ष्यः शरणामतः ।। १५१ ॥ एष शाकुनिकः शेते तवावासं समाश्रितः । शीतार्तश्च क्षुधार्तश्व पूजामस्मै समाचर ।। १५२ ।। यः सायमतिथिं प्राप्तं यथाशक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥ १५३ ॥ विमलाः तारका यस्मिन् । सुचिरमुषितः सुचिरोषितः । वातेन युक्तो वर्षः । पतिरेव प्राणा यस्याः । पुष्षाणि च स्तबकाश्च तैः सहिता । १ यावदास्त मुहूर्तेक… । स तु प्राप्यावदद्बुध्या देवता शरणं मम ॥ २ भाय- मपश्यन्सुचिरात्. ३ यस्य भार्यां गृहे नास्ति सदृत्ता प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा वनम् ॥ इति पद्यमस्य स्थाने पु० न्तरे. ४ नेव निर्दग्धा. ५ शृणोत्ववहितः कान्तः. काकोलूकीयम् । मा चास्मै त्वं कृथा द्वेषं बद्धानेनेति मत्प्रिया । स्वकृतैरेव बद्वाहं प्राक्तनैः कर्मबन्धनैः ।। १५४ ।। दारिद्र्यरोग दुःखानि बन्धनव्यसनानि च । आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥ १५५ ॥ तस्मात्त्वं द्वेषमुत्सृज्य मद्बन्धनसमुद्भवम् । धर्मे मनः समाधाय पूजयैनं यथाविधि ॥ १५६ ॥ तस्यास्तद्वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ।। १५७ ।। भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते । संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ।। १५८ ।। तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् । कपोत खलु शतिं मे हिमत्राणं विधीयताम् ।। १५९ ।। स गत्वाङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु वर्णेषु तमाशु समदीपयत् ।। १६० ।। सुसंदीप्तं ततः कृत्वा तमाह शरणागतम् । प्रतोपयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयैः ॥ १६१ ॥ उद्गतेन च जीवामो वयं सर्वे वनौकसः । न चास्ति विभवः कश्चित्राशये येन ते क्षुधम् ।। १६२ ।। सहस्रं भरते कश्चिच्छतमन्यो दशा परः । मम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥ १६३ ॥ एकस्याप्यतिथेरनं यः प्रदातुं न शक्तिमान् । तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ।। १६४ ॥ तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे ॥ १६५ ॥ स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः । उवाच तर्पयिष्ये त्वां मुहूर्त प्रतिपालय ।। १६६ ॥ 161 अनेन मत्प्रिया बद्धा इति अनेन हेतुना स्वमस्मै द्वेषं मा कृथाः । दारिद्र्यं च रो- गाश्च दुःखानि च दारि० नि आत्मनोपराध एव वृक्षः । मम बन्धनं मद्बन्धनं तस्मा- रसमुद्भवा यस्य । ‘धर्मश्च युक्तिश्च ताभ्यां समन्वितम् । मे शीतं भवति । हिमात् त्राणं हि० । ततः स गत्वा अङ्गारकं नीत्वानीय शुष्केषु पत्रेषु पावकं पातयामास तमाशु समदीपयत् च । अनेके परिक्लेशा यत्र तस्मिन् । दुःखेन जीवितं यस्य । १ प्रतापय च. २ अतः परं - अथापनीतशीतो लुब्धकोब्रवीत् क्षुधा मां बाधते सुतरां शीघ्रं मे भक्ष्यं देहि । तत् श्रुत्वा विहंगोब्रवीत् । इत्यधिकं क्वचित् । ३ चाप्त वि० येन ते नश्यति क्षुधा इ. पा. 162 पञ्चतन्त्र एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना । तमग्निं संपरिक्रम्य प्रविवेश स्त्रवेश्मवत् ॥ १६७ ॥ ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ।। १६८ ॥ यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । ने आत्मना हि कृतं पापमात्मनैव हि भुज्यते ॥ १६९ ॥ सोऽहं पापमतिचैव पापकर्मरतः सदा । पतिष्यामि महाघोरे नरके नात्र संशयः ।। १७० ।। नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः । प्रयच्छता स्वमांसानि कपोतेन महात्मना ॥ १७१ ॥ अब प्रभृति देहं स्वं सर्वभोगविवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मः शेोषयिष्याम्यहं पुनः ।। १७२ ॥ शीतवातातपसहः कृशाङ्गो मलिनस्तथा । उपवासैर्बहुविधैश्वरिष्ये धर्ममुत्तमम् ॥ १७३ ॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कपोतीं च मुमोच ताम् ॥ १७४ ॥ लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् । कपोती विललापात शोकसंतप्तमानसा ।। १७५ ।। न कार्यमद्य मे नाथ जीवितेन त्वया विना । दीनायाः पतिहीनायाः किं नार्या जीविते फलम् ।। १७६ ।। मानो दर्पस्त्वहंकारः कुलपूजा च बन्धुषु । दासभृत्यजनेष्वाज्ञा वैधव्येन प्रणश्यति ।। १७७ ।। एवं विलप्य बहुशः कृपणं भृशदुःखिता । पतिव्रता सुसंदीप्तं तमेवाग्निं विवेश सा ॥ १७८ ॥ ततो दिव्याम्बरधरा दिव्याभरणभूषिता । भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ।। १७९ ।। ततः स लुब्धकः तं कपोतमग्नौ पतितं दृष्ट्वा भृशं कृपया पीडित एतद्वाक्य- मभाषत इत्यन्वयः । तस्यात्मा ध्रुवं प्रियो न । स आत्मद्वेष्टैव । पापकर्मणि रतः । शीतं च वातश्चातपश्च शीतवातातपान्सहते इति सहः । शोकेन संतप्तं मानसं यस्याः । दिव्यं च तदम्बरं च दिव्याम्बरं । धरतीति धरा दिव्याम्बरस्य धरा दि० । १ तस्यात्मा ध्रुवमप्रियः २ अस्मात्परं - व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् । तथा स्त्री पतिमुद्धृत्य स्वर्गे लोके महीयते ॥ इत्यादयः षडधिकाः श्लोकाः पुस्तकान्तरे ।काकोलूकीयम् । सोऽपि दिव्यतनुर्भूत्वा यथार्थमिदमब्रवीत् । अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥ १८० ॥ तिस्रः कोव्योऽर्धकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥। १८१ ॥ कपोतदेवः सूर्यास्ते प्रत्यहं सुखमन्वभूत् । कपोतदेववत्सासीत्प्राक्पुण्यप्रभवं हि तत् ।। १८२ ॥ हर्षाविष्टस्ततो व्याधो विवेश च वनं घनम् । प्राणिहिंसां परित्यज्य बहुनिर्वेदवान्भृशम् ।। १८३ ।। तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्धकल्मषो भूत्वा स्वर्गसौख्यमवाप्तवान् ॥ १८४ ॥ अतोऽहं ब्रवीमि - श्रूयते हि कपोतेन इति ।। 163 तच्छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान् - एवमवस्थिते किं भवान्मन्यते । सोऽब्रवीत् - देव न हन्तव्य एवायम् । येतचौरस्याप्युपकारिणः श्रेय- श्चिन्त्यते । किं पुनर्न शरणागतस्य । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीयरन्ध्रदर्शनाय वेति । अनेन कारणेनायम- वध्यः इति । एतदाकयरिमर्दनोऽन्यं सचिवं वक्रनासं प्रपच्छ-भद्र सांप्रतमेवं स्थिते किं कर्तव्यम् । सोऽब्रवीत्-देव अवध्योऽयम् । यतः । शत्रवोऽपि हितायैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ।। १८५ ॥ अरिमर्दनः प्राह- कथमेतत् । वक्रनासः कथयति- कथा ८ । अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणः प्रतिग्रहधनः सततं विशिष्ट वस्त्रानुलेपनगन्धमाल्यालंकारताम्बूलादि भोगपरिवर्जितः प्ररूढ- दिव्या तनुर्यस्य । विरता आशयाः संकल्पा यस्य । निर्दग्धं कल्मषं यस्य । तेषामिमानि तदीयानि । तदीयानि रन्ध्राणि तेषां दर्शनाय । प्रतिग्रह एव प्रतिय- हेण वा धनं यस्य । विशिष्टेति वस्त्राणि च अनुलेपनानि च गन्धं च माल्यं च अलङ्काराश्च ताम्बूलश्च वस्त्रानु… ताम्बूलाः । विशिष्टाश्च ते वस्त्रा०लाः विशि०- लाः ते आदौ येषां ते विशिष्ट… दयः भोगाः तैः परिवर्जितः । १ यतः या ममोद्विजते नित्यमित्यादि चतुर्थतन्त्रे २५ पृष्ठे निवेशिता कथात्र. २ एतन्नास्ति कचित्. 164 पञ्चतन्त्रे
केशश्मश्रुनखरोमोपचितः शीतोष्णवातवर्षादिभिः परिशोषितशरीरः । तस्य च केनापि यजमानेनानुकम्पया शिशुगोयुगं दत्तम् । ब्राह्मणेन च बालभावादारभ्य याचितघृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच दृष्ट्वा सहसैव कश्चिचौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गोयुग मिदमपह- रिष्यामि । इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा यावत्प्रस्थितस्ता- वदर्धमार्गे प्रविरलतीक्ष्णदन्त परुिन्नत नासावंशः प्रेकटरक्तान्तनयन उप- चितत्रायुसंततिर्नतगात्रः शुष्ककपोलः सुहुतहुतवह पिङ्गलश्मश्रुकेशशरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्रभयत्रस्तोऽपि चौरोऽब्रवीत् को भवान् इति । स आह- सत्यवचनोऽहं ब्रह्मराक्षसः । भवानप्यात्मानं निवेदयतु । सोऽ. ब्रवीत् - अहं क्रूरकर्मा चौरः । दरिद्रब्राह्मणस्य गोयुगं हर्तुं प्रस्थितोऽस्मि । अथ जातप्रत्ययो राक्षसोऽब्रवीत् - भद्र षष्ठानकालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि । तत्सुन्दरमिदम् । एककार्याविवावाम् । अथ तौ तत्र गत्वैकान्ते कालमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्भक्ष- णार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र नैष न्यायो यतो गोपुगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय । सोऽब्रवीत् - कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् । चौरोऽप्यब्रवीत्- तवापि यदि भक्षणायोपस्थितस्यान्तर एकोऽप्यन्तरायः स्यात् तदाहमपि न शक्नोमि गोयुगमपहर्तुम् । अतः प्रथमं मयापहृते गोयुगे पश्चात्वया ब्राह्मणो भक्षयितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरववशाद्भाह्मणो जजागार । अथ तं चौरोऽब्रवीत् - ब्राह्मण त्वामे. वायं राक्षसो भक्षयितुमिच्छति । राक्षसोऽप्याह-ब्राह्मण चौरोऽयम् । गोयुगं तेऽपहर्तुमिच्छति । एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट- केशाश्च श्मश्रूणि च नखानि च रोमाणि च केश… रोम । प्ररूढं च केश…. रोम च तेनोपचितः । ( स. द्वं.). शीतं च उष्णं च वातश्च वर्षे च एतानि आदौ येषां तैः । प्रविरला च तीक्ष्णा च दन्तानां पंक्तिर्यस्य । उन्नतः नासावंशो यस्य । प्रकटौ रक्तौ च अन्तौ ययोस्ते प्रकटरक्तान्ते प्र० नयने यस्य । उपचिता स्नायुसंत- तिर्यस्य । सुहुतश्वासौ हुतवह: अग्निश्च सुहु०-हः तद्वत् पिङ्गलानि श्मश्रूणि केशाश्च यस्य तादृक् शरीरं यस्य । षष्ठः अन्नकालो यस्य स षष्ठान्नकालिकः । अनर्थकः अविद्यमानः अर्थों यस्य । अहमहमिकया अहमहं शब्दोस्त्यत्र अहम- हर्मिका परस्पराहंकारः । १ विषमीकृतनयन उपाच०. काकीयम् । 165 देवतामन्त्राध्यानेनात्मानं राक्षसादुद्गणंलगुडेन च चौरागोयुगं ररक्ष । अतोऽहं ब्रवीमि - शत्रवोऽपि हितायैव इति ॥ अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकार कर्णमपृच्छत्- कथय । किमत्र मन्यते भवान् । सोऽब्रवीत्-देव अवध्य एवायं यतो रक्षितेनानेन कदाचित्परस्परप्रीत्या कालः सुखेन गच्छति । उक्तं च- परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ ९८६ ॥ अरिमर्दनोऽब्रवीत् - कथमेतत् । प्राकारकर्णः कथयति- कथा ९ । अस्ति कस्मिंश्चिन्नंगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठरवल्मी- काश्रयेणारगेण प्रतिदिनं प्रत्यङ्ग क्षीयते । अनेकोपचारैः सद्वैयैः सच्छा- स्त्रोपदिष्टौषधयुक्यापि चिकित्स्यमानो न स्वास्थ्यमाप्नोति । अथासौ राजपुत्री निर्वेदाद्देशान्तरं गतः । कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्ति- कमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्–विजयस्व महाराज यस्य प्रसादात्सर्वं सुखं लभ्यते । द्वितीया तु विहितं भुङ्क्ष्व महाराज इति ब्रवीति । तच्छ्रुत्वा प्रकुपितो राजान्रवीद-भो मन्त्रिण एतां दुष्टभाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत येन निजविहितमियमेव भुङ्क्ते । अथ तथा इति प्रतिपद्याल्पपरिवारा सा कुमारिका मन्त्रिभि- स्तस्यै देवकुलाश्रितराजपुत्रस्य प्रतिपादिता । सापि प्रहृष्टमानसा तं पतिं देववत्प्रतिपद्यादाय चान्यविषयं गता । ततः कस्मिंश्चिहूरतरनगर प्रदेशे तडागतटे राजपुत्रमावासरक्षायै निरूप्य स्वयं च घृततैललवणतण्डुला- दिक्रयानिमित्तं सपरिवारा गता । कृत्वा च क्रयविक्रयं यावदागच्छति तावत्स राजपुत्रो वल्मीको परिकृतमूर्धा प्रसुप्तः । तस्य च मुखाद्भुजगः इष्टा चासौ देवता च इष्ट० तस्या मन्त्राणां चाध्यानेन । उद्द्भूर्णश्वासौ लगुडश्च तेन । वल्मकिं च उदरं च वल्मी०दरे तत्र सर्पों व० प ताभ्यां तुल्यम् । जठर- मेव वल्मीकं तदाश्रयो यस्य । सन्ति शास्त्राणि सच्छास्त्राणि तेषु उपदिष्टानि औष- धानि सच्छा०नि तेषां युत्तया विधानेन । देवकुलमाश्रितः देवकुलाश्रितः स चासौ राजपुत्रश्च तस्य । अतिशयेन दूरं दूरतरं दूरतरं च तन्नगरं च तस्य प्रदेशः तस्मिन् । वल्मीकस्योपरि कृतः मूर्धा येन । १ अस्मात्परं - उत्पन्नकर्मकथनादि त्यधिकं २ महोदये न०. ३ अनेकप्रकारे: ४ कर्म भु०. ५ तस्य दरिद्रस्य भिक्षावृत्तेः । 166 पञ्चतन्त्रे फणां निष्क्राम्य वायुमभाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् । अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलोचनयोर्मध्याद्वल्मी- कस्थेन सर्पेणोक्तम्- भो भो दुरात्मन् कथं सुन्दरसर्वाङ्ग राजपुत्रमित्थं कदर्थयसि । मुखस्थोऽहिरब्रवीत् - भो भोः त्वयापि दुरात्मनास्य वल्मी- कस्य मध्ये कथमिदं दूषितं हाटंकपूर्ण कलशयुगलम् । इत्येवं परस्परस्य मर्माण्युद्धाटितवन्तौ । पुनर्वल्मीकस्थोऽहिरब्रवीत् - भो दुरात्मन् भेषज- मिदं ते किं कोऽपि न जानाति यज्जीर्णोत्कालित कञ्जिकाराजिकापानेन भवान्विनाशमुपयाति । अथोदरस्थोऽहिरब्रवीत् - तवाप्येतद्वेषजं किं क चिदपि न देत्ति यदुष्णतैलेन महोष्णोदकेन वा तव विनाशः स्यात् इति । एवं च सा राजकन्या विटपान्तरिता तयोः परस्परालापान मर्ममयाना- कर्ण्य तथैवानुष्ठितवती । विधायाव्यङ्गं नीरोगं भर्तारं निधिं च परममा- साथ स्वदेशाभिमुखं प्रायात् । पितृमातृस्वजनैः प्रतिपूजिता विविधोप- भोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि परस्परस्य मर्माणि इति ॥ तच्च श्रुत्वा स्वयमरिमर्दनोऽप्येवं समर्थितवान् । तथा चानुष्ठितं दृष्ट्वान्त- लीनं विहस्य रक्ताक्षः पुनरब्रवीत् कष्टम् । विनाशितोऽयं भवद्भिरन्या- येन स्वामी । उक्तं च- अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ।। १८७ ॥ तत्सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्विदमुच्यते- मित्ररूपा हि रिपवः संभाव्यन्ते विचक्षणैः । तथा च । ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः ॥ १८८ ॥ सन्तोऽप्यर्था विनश्यन्ति देशकालविरोधिनः । अप्राज्ञान्मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥ १८९ ॥ ततस्तद्वचोऽनादृत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य स्वदुर्गमानेतुमारब्धाः । अथानीयमानः स्थिरजीव्याह-देव अव्याकिंचित्करेणैतदवस्थेन किं क्रोधेन संरक्ते लोचने ययोः तौ क्रोध० नौ तयोः । सर्वाणि अङ्गानि स०णि सु- न्दराणि स०णि यस्य । जीर्णां उत्कालिता च या कञ्जिका तया सह राजिकापानेन । विटपैः अन्तरिता विटपान्तरिता । विहितस्योपभोगः तम् । मित्राणामिव रूपं येषां ते मित्ररूपाः । विपरीतरमुपसेवन्त इति । सन्त इति - अप्राज्ञान् मन्त्रिणः प्राप्य देशकालविरोधिनः नृपस्य सन्तोप्यर्थं विनश्यन्ति इत्य० । एषा अवस्था यस्य स एतदवस्थस्तेन । १ राजिकाकञ्जिकां महिषतकेण. काकोलूकीयम् । 167 मयोपसंगृहीतेन यत्कारणमिच्छामि दीप्तं वह्निमनुप्रवेष्टुम् । तदर्हसि माम- निप्रदानेन समुद्धर्तुम् । अथ रक्ताक्ष स्वस्यान्तर्गतभावं ज्ञात्वाब्रवीद- किमर्थमभिपतनामेच्छासे । सोऽब्रवीद-अहं तावद्युष्मदर्थं इमामापदं मेघवर्णेन प्रापितः । तदिच्छामि तेषां वैरयातनार्थमुलूकत्वमिति । तच श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राह-भद्र कुटिलस्त्वं कृतकवचनतुरश्र । सखमुलूकयोनिगतोऽपि स्वकीयामेव वायसयोनिं बहुमन्येते । अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्त्रदुर्गमुपनीतः । नीयमानश्वान्तली नमवहस्य स्थिरजीवी व्यचिन्तयत्- हन्यतामिति येनोक्तं स्वामिनो हितवादिना । स एवैकोऽत्र सर्वेषां नीतिशास्त्रार्थतत्त्ववित् ॥ १९० ॥ तयदि तस्य वचनमकरिष्यनेते ततो न स्वल्पोऽप्यनर्थोऽभविष्य देतेषाम् । अथ दुर्गद्वारं प्राप्यारिमर्दनोऽब्रवीत् भो भोः हितैषिणोऽस्य स्थिरजीविनो यथासमीहितं स्थानं प्रयच्छत । तच्च श्रुत्वा स्थिरजीवी व्यचिन्तयत्- मया तावदेतेषां वधोपायश्चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचारयन्तस्तेऽपि सावधाना भविष्यन्ति । तदुर्गद्वारमधिश्रितोऽभिप्रेतं साधयामि । इति निश्चित्योलूकपतिमाह- देव युक्तमिदं यत्स्वामिना प्रोक्तम् । परमहमपि नीतिज्ञस्तेऽहितश्च । यय- प्यनुरक्तः शुचिस्तथापि दुर्गमध्य आवासो नाईः । तदहमत्रैव दुर्गद्वा- रस्थः प्रत्यहं भवत्पादपद्म रजः पवित्रीकृततनुः सेवां करिष्यामि । तथा इति प्रतिपन्ने प्रतिदिनमुलुकपतिसेवकास्ते प्रकाममाहारं कृत्वोलूकर- जादेशात्प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैरेवा- होभिर्मयूर इव स बलवान्संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानं च प्रत्याह- अहो मूर्खोऽयं मन्त्रि- जनो भवांश्वेत्येवमहमवगच्छामि। उक्तं च- तावदहं मूर्खो द्वितीयः पाशबन्धकः । ततो राजा च मन्त्री च सर्वं वै मूर्खमण्डलम् ॥। १९१ ।। ते प्राहुः - कथमेतत् । रक्ताक्षः कथयति- कथा १० । अस्ति कस्मिंश्चित्पर्वतैकदेशे महान्वृक्षः। तत्र च सिम्भुकनामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णमुत्पद्यते । अथ कदा चत्त वैरस्य यातनं निर्यातनं तदर्थम् । नीतिशास्त्रस्य अर्थ तत्वानि च वेत्तीति । १ अस्मात्परं श्रूयते चैतदाख्यानम् - सूर्य भर्तारमित्यादिः चतुर्थतन्त्रोपनिबद्धा कथा २० पृष्ठे द्रष्टव्या. 168 पञ्चतन्त्रे मुद्दिश्य व्याधः कोऽपि समाययौ । स च पक्षी तदग्रत एव पुरीषमुत्स- सर्ज । अथ पातसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्- अहो मम शिशुकालादारभ्य शकुनिबन्धव्यसनिनोऽशीतिर्वर्षाणि समभू- वन् । न च कदाचिदपि पक्षिपुरीषे सुवर्ण दृष्टम् । इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुप- विष्टः । तत्कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान । अथ चिन्तयामास किमनेन सापायेन पक्षिणाहं करिष्यामि । यदि कदाचित्कोऽप्यसुमीदृशं ज्ञात्वा राज्ञे निवेदयि- ष्यति तन्नूनं प्राणसंशयो मे भवेत् । अतः स्वयमेव पक्षिणं राज्ञे निवेदया- मि । इति विचार्य तथैवानुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा सितनयनवदनकमलः परां तुष्टिमुपागतः । प्राह चैवम् - हंहो रक्षापुरुषाः विक- एनं पक्षिणं यत्नेन रक्षत। अशनपानादिकं चास्य यथेच्छं प्रयच्छत । अथ मन्त्रिणाभिहितम् - किमनेनाश्रद्धेयव्याधवचन प्रत्यय मात्रपरिगृहीनेनाण्ड- जैन । किं कदाचित्पक्षिपुरीषे सुवर्णं संभवति । तन्मुच्यतां पञ्जरबन्ध- नादयं पक्षी । इति मन्त्रिवचनाद्राज्ञा मोचितोऽसौ पक्ष्युन्नतद्वारतोरणे समुपविश्य सुवर्णमयीं विष्ठां विधाय पूर्वं तावदहं सूर्खः - इति श्लोकं प- ठित्वा यथासुखमाकाशमार्गेण प्रायात् । अतोऽहं ब्रवीमि - पूर्वं तावदहं मूर्खः इति ॥ अथ ते पुनरपि प्रतिकूलदैवतया हितमपि रक्ताक्षवचनमना- दृत्य भूयस्तं प्रभूतमांसादिविविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्ववर्गमाइय रहः प्रोवाच - अहो एतावदेवास्मद्भूपतेः कुशलं दुर्गं च । तदुपदिष्टं मया यत्कुलक्रमागतः सचिवोऽभिधत्ते । तद्वयमन्यत्पर्वतदुर्गं संप्रति समाश्रयामः । उक्तं च यतः- अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् ।
- वनेऽत्र संस्थेस्य समागता जरा चिलस्य वाणी न कदापि मे श्रुता ।। १९२ ॥ ते प्रोचुः - कथमेतत् । रक्ताक्षः कथयति- कथा ११ । कस्मिंश्विर्द्वनेद्दिशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचि- दितश्चेतश्च परिभ्रमन्त्क्षामण्डो न किंचिदपि सत्त्वमाससाद । तत- श्वास्तमनसमये महतीं गिरिगुहामासाद्य प्रविष्ठश्चिन्तयामास - नूनमेतस्यां १ गतः प्राह-अही. २ स्वस्थश्च जरामुपागतः ३ नः ४ वनप्रदेशे ५ क्षामः काकोलूकीयम् । 169 गुहायां रात्रौ केनापि सस्वैनागन्तव्यम् । तत्रिभृतो भूत्वा तिष्ठामि । एवं- स्मिन्नन्तरे तत्स्वामी दचिपुच्छो नाम भ्टगालः समायातः । स च यावत्प- इति तावत्सिंहपदपद्धतिर्गुहायां प्रविष्टा न च निष्क्रान्ता । ततश्चाचि- न्तयत्- अहो विनष्टोऽस्मि । नूनमस्यामन्तर्गतेन सिंहेन भाव्यम् । तत्कि करोमि । कथं ज्ञास्यामि । एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः- अहो बिल अहो बिल इत्युक्त्वा तूष्णींभूय भूयोऽपि तथैव प्रत्यभाषत - भोः किं न स्मरसि यन्मया त्वया सह समयः कृतोऽस्ति । यन्मया बाह्या- त्समागतेन त्वं वक्तव्यः । लया चाहमा कारणीय इति । तद्यदि मां नाह- यसि ततोऽहं द्वितीयं बिलं यास्यामि । अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्- नूनमेषा गुहास्य समागतस्य सदा समाह्वानं करोति । परमय मद्भयान्न किंचिद्धते । अथवा साध्विदमुच्यते- भयसंत्रस्तमनसां हस्तपादादिकाः क्रियाः । प्रवर्तन्ते न वाणी च वेपथुश्वाधिको भवेत् ॥ ९९३ ॥ तदहमस्याह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां या- स्यति । एवं संप्रधार्य सिंहस्तस्याह्वानमकरोत् । अथ सिंहशब्देन सा गुहा प्रतिरवसंपूर्णान्यानपि दूरस्थानरण्यजीवांस्त्रासयामास । गाली- ऽपि पलायमान इमं श्लोकमपत्- अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता १९४॥ तदेवं मत्वा युष्माभिर्मया सह गन्तव्यमिति । एवमभिधायात्मानुया- यिपरिवारानुगतो दूरदेशान्तरं रक्ताक्षो जगाम । अथ रक्तोंक्षे गते स्थिरजीव्यतिहृष्टमना व्यचिन्तयत्-अहो कल्याण- मस्माकमुपस्थितं यद्रक्ताक्षो गतः । यतः स दीर्घदर्शी । एते च मूंदम- नसः । मम सुखघात्याः संजाताः । उक्तं च यतः- न दीर्घदर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः । १९९ ॥ अथवा साध्विदमुच्यते- सिंहपदानां पद्धतिः ०द्धतिः । भयेन संत्रस्तं मनो येषाम् । आत्मनः अनुया- यिनः परिवारश्च तैरनुगतः । न चिरात् शीघ्र मित्यर्थः । १ ननु. २ एवं तस्य तत्र स्थितस्याधिपुच्छौ नाम तत्स्वामी लोपाशकः ३ निष्क्र- मणं गता. ४ यास्या०. ५ वेत्सि. ६ त्वया सहेकः समयधर्मोस्ति. ७ द्विती यां गुहां. ८ प्रविश्य मम भ० ९ लोपाशकोपि पलायनपरः १० नः ११ ०धाय सपरिवारो वक्रनासः १२ वकनासे. १३ मूढतमाः सुवध्या मे सं०. 170 पञ्चतन्त्र मन्त्रिरूपा हि रिपवः संभाव्यास्ते विचक्षणैः । ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ।। १९६ ॥ एवं विचिन्त्य स्वकुलाय एकैकां वनकाधिकां गुहाप्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति यदेष कुलायमस्मद्दहाय वृद्धिं नयति । अथवा साध्विदमुच्यते- अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति चै । शुभं वेत्यशुभं पापं भद्रं दैवहतो नरः ॥ १९७ ॥ अथ कुलायव्याजेन दुर्गद्वारे कृते कोष्ठनिचये संजाते सूर्योदयेऽन्धतां प्राप्तेषूलकेषु स्थिरजीवी शीघ्रमृष्यमूकं गत्वा मेघवर्णमाह– स्वामिन् दाह- साध्या कृता विपुगुहा । तत्सपरिवारः समेत्यैकैकां वनकाष्ठिकां ज्वलन्तीं गृहीत्वा गुहाद्वारेऽस्मत्कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाकनैरकप्रा- येण दुःखेन म्रियन्ते । तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात कथयात्म- तान्तम् । चिरादय दृष्टोऽसि । स आह-वत्स नायं कथनस्य कालः । यतः कदाचित्तस्य रिपोः कश्चित्प्रणिधिर्ममहागमनं निवेदयिष्यति । तज्ज्ञानादन्धोप्यन्यत्रापसरणं करिष्यति । तत्त्वर्यताम् । उक्तं च- शीघ्रकृत्ये समुत्पन्ने विलम्बयति यो नरः । तथा च । । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥ १९८ ॥ यस्य कैस्य हि कार्यस्य फलितस्य विशेषतः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ १९९ ॥ सद्गृहयातस्य ते हतशत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि । अथासौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलन्तीं वनकाधिकां चन्च्वग्रेण गृहीत्वा तदुहाद्वारं प्राप्य स्थिरजीविकुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्षवाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिः- सरन्तो गुहामध्ये कुम्भीपाकन्यायमापन्ना मृताश्च । एवं शत्रून्निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोधपादपदुर्गं जगाम । ततः सिंहास- नस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनमपृच्छत् - तात कथं देवेन हतो दैवहतो नरः… शुभमशुभं वेत्ति पापं भद्रं वेत्ति इत्य० । १ व्यन्ते. २ स्मदुद्द्योतनाय. ३ यः । मित्राणि तस्य नश्यन्ति ह्यमित्रं नष्टमेव च ॥ इ. पा. अस्य स्थानेयं श्लोकः पु० रे - कृतान्तपाशबद्धानां दैवोपहत- चेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ ४ प्रभूतकाष्ठसंभारे. ५ प्रान्ते गृ० ६ सर्वशत्रूणां ७ ० नरकन्यायो भवति. ८ कालो वक्तव्यस्य. ९ कृत्येषु कार्येषु. १० तत्कृत्ये देवता तस्य कौपाद्विप्न प्रयच्छति. ११यस्य. १२ स्यापायमापन्नाः. काकोलुकीयम । 171 स्वया शत्रुमध्ये गतेनैतावत्का को नीतः । सदत्र कौतुकमस्माकं वर्तते । तत्कथ्यताम् । यतः । वरमग्नौ प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् । म चारिजनसंसर्गे मुहूर्तमपि सेवितः ॥ २०० ॥ तदाकर्ण्य स्थिरजीव्याह-भद्र आगामिफलवान्छ्या कष्टमपि सेवको न जानाति । उक्तं च यतः- कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते । सर्वेषां प्राणिनामेव नात्रकार्या विचारणी ॥ २०१ ॥ शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वाक्यवज्रविषमे क्षुद्रेऽपि पापे जने । दवव्यग्रकरेण धूममलिनेनायासयुक्तेन च भीमेनातिबलेन मत्स्यभवने किं मोषितं सुदवत् ॥ २०२ ॥ यद्वा तद्वा विषमपतितं साधु वा गर्हितं वा कालापेक्षी हृदयनिहितं बुद्धिमान्कर्म कुर्यात् । किं गाण्डीवस्फुरदुरुर्गुणास्फालनक्रूपाणि- नसील्लीलानटनविलसन्मेखलः सव्यसाची ॥ २०३ ॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवविधिषु स्थैर्यं प्रकार्यं क्रमात् । देवेन्द्रद्रविणेश्वरान्तकसमैरप्यन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं विराटभवने श्रीमान धर्मात्मजः ॥ २०४ ॥ रूपाभिजनसंपन्नौ माद्रीपुत्रौ बलान्वितौ । गोकर्मरक्षाव्यापारे विराटप्रेष्यतां गतौ ।। २०५ ॥ पुण्यानि कर्माणि येषां तेषां । अरीणां जनोरिजनः । आगामि च तत्फलं च तस्य वाच्छया । अमृतायते अमृतवदाचरति । अन्योनुकुलः कालः कालान्तरं तदपेक्षत इति०पेक्षी तेन । वाक्यं वज्र इव तेन विषमे । दर्व्या व्यग्रः करो यस्य । विषमं पतितं वि०तं कठिनमित्यर्थः । गाण्डीवस्य स्फुरन् यः उरुः गुणः तस्य आस्फालनं तेन क्रूरौ कठिनौ पाणी यस्य सः । लीलया यद् नटनं तस्मिन् विलसन्ती मेखला यस्य । सत्त्वं च उत्साहश्च सत्त्वात्साह अस्य विद्येते तेन सत्त्वोत्साहवता | देवेन्द्र इन्द्रः द्रविणेश्वरः कुबेरः । गवां कर्म सेवेत्यर्थः । रक्षा च तद्व्यापारे । १ अस्मात्परमिदमधिकं पद्यं क्वचित्-उपनतभयैर्यो यो मार्गों हितार्थकरो भवे- त्स स निपुणया बुद्धया सेव्यो महान्कृपणोऽपि वा । करिकरनिभौ ज्याघाताङ्को महार्थविशारदौ रचितवलयौ स्त्रीवद्वद्वौ करौ हि किरीटिना । २ सदा नरेन्द्र. १ वज्रपात ४ घना. ५ णोपमै बहुगुणै:. ६ त्रिदण्डमहत्. ७ पूर्व. ८ कुन्ती. 172 पञ्चतन्त्रे रूपेणाप्रतिमेन यौवनगुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव यात्र सापि विदशां कालक्रमादागता । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाख्यातया द्रौपद्या ननु मत्स्यराजभवने घृष्टं न किं चन्दनम् ॥ २०६ ॥ मेघवर्ण आह-तात असिधाराव्रतमिदं मन्ये यदरिणा सह संवासः । सोऽब्रवीत् - देव एवमेतत् । परं न तादृङ्मूर्खसमागमः क्वापि मया दृष्टः । न च महाप्रज्ञमनेकशास्त्रेष्वप्रति हतबुद्धिं रक्ताक्षं विना धीमान् । यत्कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महामूर्खा मन्त्रिमात्रव्यपदेशोपजीविनोऽसत्त्व कुशला यैरिदमपि न ज्ञातम् । यतः । अरितोऽभ्यागतो भृत्यो दुष्टस्तत्सङ्गतत्परः । अपसर्पः स धर्मत्वान्नित्योद्वेगी च दूषितः ॥ २०७ ॥ आसने शयने याने पानभोजनवस्तुषु । दृष्ट्वां दृष्ट्वा प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ॥ २०८ ॥ तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः । आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति ।। २०९ ।। साधु चेदमुच्यते- संतापयन्ति कमपथ्यभुजं न रोगा दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः । कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषयाः परिपीडयन्ति ।। २१० ॥ लैब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । आक्षेपेण सहितं यथा तथा साक्षेपम् । असिधाराव्रतं असिधारायां स्थितिरिव दुष्करं व्रतम् । तादृशां मूर्खाणां समागमो मिलनम् । यद्वा तादृगिति भिन्नं पदम् । महती प्रज्ञा यस्य स महाप्रज्ञस्तम् । मन्त्रिमात्रस्य व्यपदेशो म०ज्ञाः तमुपजी- वन्तीति । तत्वकुशला न भवन्तीत्यतत्वकुशलाः । सोपसर्पः चरः धर्मत्वादपसर्प- धर्मत्वात् । पानं च भोजनं च तयोः वस्तूनि तेषु । प्रमत्तेषु अरिषु सत्सु तद् दष्ट्वा दृष्ट्वा इत्यन्वयः । कम् । न पथ्यमपथ्यं अ० भुनक्तीति अ०क् तं । न संता- पयन्ति अपि तु सर्वमेव सन्तापयन्तीत्यर्थः । एवमन्यत्र । १ आज्ञ तया. २ दृष्टादृष्टप्र० ३ स्त्रीकृ० ४ स्तब्ध. ५ विषम.काकोलूकीयम् । विद्या च कुव्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ।। २११ ॥ 173 तद्राजन् असिधारावतं मयाचरितमरिसंसर्गादिति यद्भवतोक्तं तन्मया साक्षादेवानुभूतम् । उक्तं च- अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ।। २१२ ।। स्कन्धेनापि वहेच्छत्रं कालमासाद्य बुद्धिमान् । महता कृष्णसर्पण मण्डूका बहवो हताः ।। २१३ ।। मेघवर्ण आह- कथमेतत् । स्थिरजीवी कथयति - कथा १२ । अस्ति वरुणादिसमीप एकस्मिन्प्रदेशे परिणतवया मन्दविषो नाम कृष्णसर्पः । स एवं चित्ते संचिन्तितवान् कथं नाम मया सुखोपा- यवृत्त्या वर्तितव्यमिति । ततो बहुमण्डूकं हृदमुपगम्य धृतिपरी- तमिवात्मानं दर्शितवान् । अथ तथा स्थितः स उदकप्रान्तगतेनैकेन मण्डूकेन पृष्टः - माम किमय यथापूर्वमाहारार्थं न विहरसि । सोऽब्रवीत्-भद्र कुतो मे मन्दभाग्यस्याहाराभिलाषः । यत्कारण- मय रात्रौ प्रदोष एव मयाहारार्थं विहरंमाणेन दृष्ट एको मण्डूकः । तग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्या- यप्रसक्तानां ब्राह्मणानामन्तरपक्रान्तो न विभावितो मया क्वापि गतः । तत्सादृश्य मोहितचित्तेन मया कस्यचिद्भाह्मणस्य स्नोईदतटजलान्तः- स्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा - दुरात्मन् त्वया निरपराधो मत्सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहन भविष्यसि । तत्प्रसादलब्धजीविकया वतप्यसे इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि । तेन च सर्वम- ण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्टमनोभिः सर्वैरेव गत्वा जलपाद- नष्ट ० - नष्टा क्रिया यस्य । अर्थः परं यस्य तस्य । प्रमत्ताः सचिवा यस्य । अप- मानं पुरस्कृत्य । अपमानमेवापेक्षमाण इत्यर्थः । वरुणाद्रिः पश्चिमाचलः । परिणतं वयो यस्य । सुखः उपायो यस्याः तादृशी वृत्तिस्तया । बहु० - बहवो मण्डूका यस्मिन् । उदकस्य प्रान्त उद० तं गतः उदन्तः तेन । तस्य सादृश्यं तत्सादृश्यं तेन मोहितं चित्तं यस्य तेन । ह्रदस्य तटं ह्रदतंटं तत्र जलं ह्र० लं तस्यान्तः तिष्ठतीति ॰स्थः । तेषां प्रसादः तत्प्र० तेन लब्धा चासौ जीविका च तया । १ विद्याफलं व्य. २ चित्तेन समर्थितवान् ३ स्थिते तस्मिन्. ४ अन्तरमप; मध्येप. 174 पञ्चतन्त्रे I नानो दर्दुरराजस्य विज्ञप्तम् । अथासावपि मन्त्रिपरिवृतोऽत्यद्भुतमिद- मिति मन्यमानः ससंभ्रमं इदादुत्तीयं मन्दविषस्य फणिनः फणप्रदेशम- धिरूढः । शेषा अपि यथोज्येष्ठं तत्पृष्ठोपरि समारुरुहुः । किं बहुना तदुपरि स्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्ट्यर्थमनेक प्रकारान्गतिविशेषानदर्शयत् । अथ जलपादो लब्धैसुख- स्तमाह- न तथा करिणा यानं तुरगेण रथेन वा । नरयानेन वा यानं यथा मन्दविषेण मे ॥ २१४ ॥ अथान्येयुर्मन्दविषश्छद्मना मन्दं मन्दं विसर्पति । तच दृष्ट्वा जलपा. दोऽब्रवीत् - भद्र मन्दविष यथापूर्वं किमय साधु नोह्यते । मन्दविषोऽन वीद — देव अग्राहारवैकल्यान्न मे वोढुं शक्तिरस्ति । अथासावब्रवीव- भद्र भक्षय क्षुद्रमण्डूकान् । तच्छ्रुत्वा प्रहर्षित सर्वगात्रो मन्दविषः ससं- भ्रममब्रवीत् - ममायमेव विप्रशापोऽस्ति । तत्तवानेनानुज्ञावचनेन प्री- सोऽस्मि । ततोऽसौ नैरन्तर्येण मण्डूकान्भक्षयन्कति पयैरेवाहो भिर्बलवा- न्संवृत्तः । प्रहृष्टश्चान्तर्लीन मवहस्येदमब्रवीत् - मण्डूका विविधा होते छलपूर्वोपसाधिताः । क्रियन्तं कालमक्षीणा भवेयुः खादिता मम ।। २१५ ॥ जलपादोऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः किमपि नावबु- ध्यते । अत्रान्तरेऽन्यो महाकायः कृष्णसर्पस्तमुद्देशं समायातः । तं च मण्डूकैर्वाह्यमानं दृष्ट्वा विस्मयमगमत् । आह च-वयस्य यदस्माकमशनं तैः कथं वाह्यसे । विरुद्धमेतत् । मन्दविषोऽब्रवीत्- सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः । किंचित्कालं प्रतीक्षऽहं घृतान्धो ब्राह्मणो यथा ।। २१६ ।। सोऽब्रवीत् - कथमेतत् । मन्दविषः कथयति- कथा १३ । अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्च- ० जेष्ठमनतिक्रम्य यथा जेष्ठम् । जेष्ठानुक्रमेणेत्यर्थः । आहारस्य वैकल्यमाद्दा तस्मात् । प्रह० - प्रहर्षितानि सर्वाणि अङ्गानि यस्य । प्रहर्ष एषां संजातः प्रह- र्षितानि । छलं पूर्वं यस्मिन्कर्मणि तथोपसाधिताः वशमानीता इत्यर्थः । कियन्तं कालमक्षीणा भयेधुः । अचिरादेव क्षीणा भवेयुरित्यर्थः । कृतकेन वचनेन व्यामो- हितं चित्तं यस्य । घृतेनान्धो घृतान्धः । अन्यस्मिन् आसक्तं मनो यस्याः । १ यथानुक्रमं २ अनाप्नुवन्तः, ३ तदङ्गसंस्पर्श. ४ वहतः १ परीक्षे, प्रतीक्ष्यः. काफोलूकीयम् । 175 व्यन्यासक्तमना अजस्रं विटीय सखण्ड घृतान्घृतपूरान्कृत्वा भर्तुचौरिक या प्रयच्छति । अथ कदाचिद्धर्ता दृष्ट्वाब्रवीत् भद्रे किमेतत्परिपच्यते । कुत्र वाजस्रं नयसीदम् । तत्कथय सत्यम् । सा चोत्पन्नप्रतिभा कृतकवच- नैर्भर्तारमब्रवीत् - अस्त्यत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राह- मुपोषिता सती बालें भक्ष्यविशेषांश्चापूर्वान्नयामि । अथ तस्य पश्यतो गृहीत्वा तत्सकलं देव्यायतनाभिमुखी प्रतस्थे । यत्कारणं देव्या निवेदि- तेनानेन मदीयो भतैव मंस्यते यन्मम ब्राह्मणी भगवत्या कृते भक्ष्यविशे- पान्नित्यमेव नयतीति । अथ देव्यायतने गत्वा स्नानार्थ नव्यामवतीर्य यावत्नानक्रियां करोति तावद्भर्ता मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्यो Saतस्थे । अथ सा ब्राह्मणी लावा देव्यायतमागत्य स्नानानुलेपनमाल्य- धूपबलिक्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति केन प्रका- रेण मम भर्तान्धो भविष्यति । तच्छ्रुत्वा स्वरभेदेन देवी पृष्ठस्थितो ब्राह्मणो जगाद - यदि त्वमजस्रं घृतपूरादिभक्ष्यं तस्मै भनेँ प्रयच्छसि ततः शीघ्रमन्धो भविष्यति । सा तु बन्धकी कृतकवचनवञ्चितर्मानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथान्येद्युर्ब्राह्मणेनाभिहितम् — भद्रे नाहं सुतरां पश्यामि । तच्छ्रुत्वा चिन्तितमनया- देव्याः प्रसादोऽयं प्राप्तः इति । अथ तस्या हृदयवल्लभो विटस्तत्सकाशमन्धी भूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कः प्रतिदिनमभ्येति । अथान्येद्युस्तं प्रवि- शन्तमभ्यासगतं दृष्ट्वा केशैर्गृहीत्वा लगुडपाणिप्रभृतिप्रहारैस्ताव दताडयत् यावदसौ पञ्चत्वमाप । तामपि दुष्टपत्नीं छिन्ननासिकां कृत्वा विससर्ज । अतोऽहं ब्रवीमि - सर्वमेतद्विजानामि इति ॥ अथ मन्दवि- षोऽन्तनमवहस्य पुनरपि मण्डूकाँ विविधास्वादा इति तमेवमब्रवीत् । अथ जलपादस्तच्छ्रुत्वा सुतरां व्यग्रहृदयः किमनेनाभिहितम् इति तम- पृच्छत्-भद्र किं त्वयाभिहितमिदं विरुद्धं वचः । अथासावाकारप्रच्छा- इनार्थ न किंचित् इत्यब्रवीत् । तथैव कृतकवचनव्यामोहितचित्तो जलपा- दस्तस्य दुष्टाभिसंधिं नावबुध्यते । किं बहुना । तथा तेन सर्वेऽपि भक्षिता यथा बीजमात्रमपि नावशिष्टम् । अतोऽहं ब्रवीमि - स्कन्धेनापि उत्पन्ना प्रतिभा यस्याः । स्नानं च अनुलेपनं च माल्यं च धूपश्च बलिक्रिया च आदौ यस्य तत् स्ना० - दिकं । लगुडश्च पाणी च लगुडपाष्णैयः प्रभृतयो येषां ते ल०तयस्तेषां प्रहारैः । दुष्टश्चासावभिसन्धिश्च दुष्टाभिसन्धिः तम् । १ विविधसगुडघुतपूर्णा भक्ष्याविशेषान्. २ जारायप्र० ३ दृश्यते ४ निभृतः, ५ घृतखण्ड, ६ मनाः, कानू, विविधानास्वादयति. 176 पञ्चतन्त्रे वहेच्छत्रुमिति । अथ राजन् यथा मन्दविषेण बुद्धिबलैन मण्डूका निह- तास्तथा मयापि सर्वेऽपि वैरिणः । साधु चेदमुच्यते- वने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति । से मूलोन्मूलनं कुर्याद्वायुर्यो मृदुशीतलः ॥ २१७ ।। मेघवर्ण आह-तात सत्यमेवैतत् । ये महात्मानो भवन्ति ते महासत्त्वा आपद्रता अपि प्रारब्धं न स्यजन्ति । उक्तं च यतः — महत्त्वमेतन्महतां नयालङ्कारधारिणाम् । तथा च । न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ।। २१८ ।। प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विन्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ।। २१९ ॥ तत्कृतं निष्कण्टकं मम राज्यं शत्रून्निःशेषतां नयता त्वया । अथवा युक्तमेतन्नयवेदिनाम् । उक्तं च यतः– ऋणशेष चाग्निशेषं शत्रुशेषं तथैव च । व्याधिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ।। २२० ।। सोऽब्रवीत्-देव भाग्यवांस्त्वमेवासि यस्यारब्धं सर्वमेव संसिध्यति । तत्र न केवलं शौर्य कृत्यं साधयति किंतु प्रज्ञया यत्क्रियते तदेव विजयाय भवति । उक्तं च- शस्त्रैहता न हि हता रिपवो भवन्ति प्रज्ञाहतास्तु रिपवः सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ २२१ ॥ तदेव प्रज्ञापुरुषकाराभ्यां युक्तस्यायत्नेन कार्यसिद्धयः संभवन्ति । प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः स्त्रयमुपनयन्नर्थान्मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमक्षुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ २२२ ॥ तथा च । नयत्यागशौर्य संपन्ने पुरुषे राज्यमिति । उक्तं च- नय एवालंकारस्तं धारयन्तीति तेषाम् । व्यसनानामुदयो यस्मात् तस्मिन् । नयश्च त्यागश्च शौर्य च तैः सम्पन्नस्तस्मिन् । १ वृक्षमू० २ समूलमुन्मूलयति. ३ स्पृहा. काकोलकीयम् । त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति । 177 गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ २२३ ॥ मेघवर्ण आह- नूनं सद्यः फलाति नीतिशास्त्राणि यस्वयानुकृत्येनानुप्र- विश्यारिमर्दनः सपरिजनो निःशेषितः । स्थिरजीव्याह- तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थः तस्याप्यादौ संश्रयः साधुयुक्तः । उत्तुङ्गाग्रः सारभूतो वनानां मान्याभ्यर्च्यश्छियते पादपेन्द्रः ।। २२४ ॥ अथवा स्वामिन किं तेनाभिहितेन यदनन्तरकाले क्रियारहितमसुखसाध्यं वा भवति । साधु चेदमुच्यते- अनिश्चितैरध्यवसाय भीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ||२२५ ॥ न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यतः । शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्य- मत्रादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्तमनसः परितापदुःख- मापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ।। २२६ ॥ तदय जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति । उच्यते चैतत्- निःसर्पे बद्धसर्पे वा भवने सुप्यते सुखम् । तथा च । सदा दृष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते ।। २२७ ।। विस्तीर्णव्यवसायसाध्यमहतां स्निग्धैप्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छा पवारोहिणाम् । मानोत्लेक पराक्रमव्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ।। २२८ ।। सद्यः फलं येषां तानि । अनु अनुकूलं कृत्यमस्य तेन । तीक्ष्णश्चासावुपायश्च तस्य प्राप्तिः तया गम्यः । साधुश्चासौ युक्तश्च । उत्तुंगानि अग्राणि यस्य । अध्यबसा० - अध्यवसायाद्भीरुणि दोषाणां शतानि दोषश० दर्शयन्तीति तैः । परिहास० - परिहास पदत्वम् । इदं कर्तुं शक्ष्यामि इदमल्पमगुरु इदं यत्नं विनापि साध्यमित्यन्वयः । आपदः प्रसङ्गस्तत्र सुलभम् । विस्तीर्णाश्चते व्यवसायाश्च वि०- यास्तै साध्यानि अत एव महान्ति तेषाम् । त्रिग्धैः प्रयुक्ता आशिषो यत्र तेषाम् । नयश्च साहसं च उन्नतिश्च न-तयः विद्यन्ते येषां तेषाम् । इच्छापढमारोहन्तीति तेषाम् । मानश्च उत्सेकश्च पराक्रमश्च मानो०मास्तेषु व्यसनं येषां ते । अवकाशो विषयो यस्याः सा । १ आनुकूल्येन. २ दृष्टनष्टे. ३ स्त्रिग्धोपभु०, 178 पञ्चतस्त्रे तेदवसितकार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तदिदमधुना निहत- कण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाचलच्छत्रासन- श्रीश्चिरं भुङ्क्ष्व । अपि च । प्रजा न रञ्जयेयस्तु राजा रक्षादिभिर्गुणैः । अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ॥ २२९ ॥ गुणेषु रागो व्यसनेष्वनादरी रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुङ्के चलचामरांशुकां सितातपत्राभरणां नृपश्रियम ॥ २३०॥ न च त्वया प्राप्तराज्योऽहमिति मत्वा श्रीमदेनात्मा व्यंसयितव्यः । यत्का- रणं चला हि राज्ञो विभूतयो वंशारोहणवद्राज्यलक्ष्मीर्दुरारोहा क्षणावनि- पातरता प्रयत्नशतैरपि धार्यमाणा दुर्धरा प्रशस्ताराधिताप्यन्ते विप्रल- म्भिनी वानरजातिरिव विद्रुतानेकचित्ता पद्मपत्रोदकमिवाघटितसंश्लेषा पवनगतिरिवातिचपला अनार्यसंगतिरिवास्थिरा आशीविष इव दुरुपचारा संध्याभ्रलेखेव मुहूर्तरागा जलबुदबुदावलीव स्वभावभङ्गरा शारप्रकृतिरिव कृतघ्ना स्वप्रलब्धद्रव्यराशिरिव क्षणदृष्टनष्टा । अपि च । यदैव राज्ये क्रियतेऽभिषेकस्तदैव बुद्धिर्व्यसनेषु योज्या । घटा हि राज्ञामभिषेककाले सहाम्भसैवापरमुद्गिरन्ति ॥ २३१ ॥ न च कश्चिदनधिगमनीयो नामास्त्यापदाम् । उक्तं च- रामस्य व्रजनं बळेर्नियमनं पाण्डोः सुतानां वनं वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं संचिन्त्य लङ्केश्वरे सर्व कालवशाज्जनोऽत्र सहते कः कं परित्रायते ॥ २३२ ॥ क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्वतः क्व स जलनिधेवलां बड़ा नृपः सगरस्तथा । अवसितः कार्यस्यारम्भो यस्य । अचल० – छत्रं चासनं च श्रीश्च छत्रासन- श्रियः । न चलन्त्यः अच० । अचलन्त्यः छत्राव्य यस्यः सः । चलन्ति चामराणि अंशुकानि च यस्यां । यद्वा चलतां चामराणामशवा यस्यां ताम् । सितं च तदात- पत्रं च सिता• सिता० आभरणं यस्याः ताम् । वंशस्यारोहणं तेन तुल्यं वं०णवत् । क्षणेन यः विनिपातस्तत्र रता । प्रशस्तं यथा तथाराधिता । विद्रुतानि अनेकेषां चित्तानि यया । अघटितः संश्लेषो यस्याः । क्षणं दृष्टा चासौ नष्टा च । नाट्यस्या- चार्यकम् । महेन्द्रसुहृद्भूत्वा क्व गतः । १ असद्गुणेषु व्य०. २ सुनीतेषु. ३ शुभां. ४ नाशयितव्यः. ५ चञ्चला हि राज्ञां चित्तवत्तयः काकोलीयम् । कस करतलाजातो वैण्यः क्व सूर्यतनुर्मनु- अपि च । तु बलवता कालेनैते प्रबोध्य निमीलिताः ।। २३३ ॥ मांधाता क्व गतस्त्रिलोकविजयी राजा क्व सत्यत्रतो देवानां नृपतिर्गतः क्व नहुषः सच्छास्त्रवोन्केशवः । मन्यन्ते सरथाः सकुञ्जरवराः शक्रासमाध्यासिनः 179 कालेनैव महात्मना नैनु कृताः कालेन निर्वासिताः ॥ २३४ ॥ स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि । स च ते च ताश्च तानि च कृतान्तदृष्टानि नष्टानि ॥ २३५ ॥ एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीमवाप्य न्यायैकनिष्ठो भूत्वोप- भुङ्क्ष्व ।। समाप्तं चेदं सन्धिविग्रहादिषाडुण्यसम्बद्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके काको- लूकीयं नाम तृतीयं तन्त्रं समाप्तम् ॥ THE TEXT AS GIVEN IN THE B. S. S. ED. from p. 60 last line- रक्ताक्षः क्रूराक्षी दीप्ताक्षो वक्रनास एते तस्य चत्वारः सचिवाः । तत आदौ रक्ताक्षं पृष्टवान् । भद्र तावदेष तस्य रिपोर्मन्त्री मम हस्तगतः । तत्किं क्रियताम् । स आह-देव एष तस्यायो मन्त्री यद्यपि वेळामुहूर्त- गुणेन दुर्जनोक्तेन वाक्येन वियोजितस्तदप्यस्य वाक्यं श्रोतव्यं यतो न सदैव विग्रहासक्तेन भूभुजा भाव्यम् । उक्तं च- कोषक्षयो न निद्रा च न विलासेषु च स्पृहा । विग्रहासक्तचित्तानां न रतिः क्वापि जायते ।। १२९ ।। तस्मादस्य द्वारेण तेन सह सान्ना वर्तितव्यम् । उक्तं च- सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयंभुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥ १३० ॥ सूर्यात् तनुर्यस्य । शक्रस्यासनं शक्रासनं तदध्यासते श० सिनः । वेलाया मुहूर्तस्तस्य गुणः । विग्रहे आसक्तं चित्तं येषां तेषां कोषक्षयो भवति । न निद्रा इ० । साम आदिर्यस्य सामादिः । दण्डः पर्यन्तो यस्य दण्ड० । सामादिश्वासौ दण्डपर्यन्तश्च । १ वि. २ त्वनुकुता. 180 तथा च । पत्रतन्त्रे सामसिद्धानि कार्याणि विकृतिं यान्ति न क्वचित् । सज्जनानां मनांसीव भवन्ति प्रमुदे सदा ॥ १३१ ॥ सामसाध्येषु कार्येषु यो दण्डं योजयेद्बुधः । स पित्ते शर्कराशाम्ये पटोलं कटुकं पिबेत् ॥ १३२ ॥ यत्केचिच्चैव वदन्ति यच्छत्र वो दण्डसाध्याः स्युर्न सामसाध्यास्तदप्य- युक्तम्-उक्तं च- अन्यच्च । पर्णशब्दमपि श्रुत्वा त्रस्यन्ति हरिणाश्च ये । तेपि सान्नात्र वध्यन्ते लुब्धकैः पश्य सर्वदा ।। १३३ ।। शत्रोरुच्छेदनार्थाय न सान्नास्त्यन्यदौषधम् । हेमन्ते हिमपातेन पद्मिनी किं न दह्यते ॥ १३४ ॥ तयदि मद्वचः प्रमाणं तत्संधानाय वधाय वा रिपोः साम प्रयोक्तव्यं यतो नीतावप्ययुक्तम् । शनैः शनैर्ददात्येष पादौ भूतानुकम्पया । अहो जलचर प्राणी बकः परमधार्मिकः ॥ १३५ ॥ एवं तस्याभिप्रायं बुद्धा क्रूराक्षमाह–भद्र तवाभिप्रायमपि श्रोतुमि- च्छामि । एवंविधे कृत्ये समुपस्थिते किं मम कृत्यं भवति । स आह- देव तेन निसर्गवैरिणा यत्सामप्रयोजनं तन्मम न भाति । उक्तं च- चतुर्थोपायसाध्ये तु शत्रौ सान्त्वमपक्रिया । स्वेद्यमानज्वरं प्राज्ञः कोम्भसा परिषिञ्चति ॥ १३६ ॥ तद्भेदसाध्यो दुष्टोपि रिपुभर्वति । उक्तं च- अपि वीर्योत्कटः शत्रुर्यता भेदेन सिध्यति । तस्माद्भेदः प्रयोक्तव्यः शत्रूणां विजिगीषुणा ।। १३७ ।। असाध्यं शत्रुमालोक्य दायादं तस्य भेदयेत् । राज्यकामं समर्थं च यथा रामो विभीषणम् ।। १३८ ।। कूटलेख्यैर्धनोत्सर्गे र्दूपये च्छत्रुपक्षजम् । प्रधानपुरुषं यद्वद्विष्णुगुप्तेन राक्षसः ।। १३९ ।। भेदयेच्च बलं राजा दुर्भेयमपि वित्ततः । यतः सुखेन भज्येत घुणोत्कीर्णसुदारुवत् ।। १४० ।। साम्ना सिद्धानि सामसिद्धानि । शत्रुपश्चजं प्रधानपुरुषं । कुटानि च तानि लेख्यानि कूटले० तैः । दूषयेदित्यन्वयः । घुणया उत्कीर्ण घुगोत्कीर्णं घुणं च तत्सुदारु च । तद्वत् । काकोलूकीयम् । 181 एवं ज्ञात्वा विवेकिना शत्रुसाधनाय भेदः प्रयोक्तव्यः । सर्वो विजिगी- पुर्गुणयुक्तोपि शत्रुर्भेदात्तव वश्यो भवति । उक्तं च- अत्यच्छेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिनेन संप्राप्तं मौक्तिकेनापि बन्धनम् ॥ १४१ ॥ तद्यदि मम मतमनुष्ठीयते तदा स्वपक्षे भेदो रक्ष्यः परपक्षे प्रयोक्तव्यः । एवं तस्याभिप्रायं विदित्वा दीप्ताक्ष माह-भद्र अत्र विषये तव कोभि- प्रायः । स आह- देव मम सामभेदौ द्वावपि न प्रतिभासेते यतो न सान्ना न च भेदेन तथा शत्रुः सिध्यति यथोपप्रदानलुब्ध उपप्रदानेन विश्वास्य वध्यः स्यात् । उक्तं च- लोभाविष्टो नरो वित्तं वीक्षते न स चापदम् । दुग्धं पश्यति मार्जारो यतो न लकुटाहतिम् ॥ १४२ ॥ शत्रु वाच्छाविघाताय बुद्धियुक्तो महीपतिः । साम्यं नयति सौम्येन यथैवाग्निं महोदधिः ॥ १४३ ॥ अपि स्यात्पितृहा वैरी सोपि दानविलोभितः । गत्वा विश्वासभावं स शत्रोरात्मानमर्पयेत् ।। १४४ ।। दुर्गस्था अपि वध्यन्ते शत्रवो दानसंश्रयात् । स्वल्पमांसप्रदानेन कैवतैस्तिमयो यथा ।। १४५ ॥ अपरं यच्छत्रोरुपप्रदानं वर्जयन्ति तदप्ययुक्तं यत उपप्रदानव्याजाच्छत्रु- निर्मूलतां याति । उक्तं च- उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा । गुडेन वर्वितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ १४६ ॥ एवं तद्वचनमाकर्ण्य वनासमूचे भी निवेद्यतामात्मनोभिप्रायः । स आह- देव किं वदामि यत्रयाणामध्येषां मध्यान्नैकेनापि नीतिशास्त्राश्रय- उपप्रदानाय लुब्धः उप० । लकुटेनाहतिः लकुटा । पितरं हृन्तीति पितृहा । दानस्य संश्रयस्तस्मात् । 182 पञ्चतन्त्रे मभिहितं यतोऽशक्तानामेते सामभेदोप प्रदानोपायाः शक्तानां पुनः शत्रुवि- षये दण्ड एव । उक्तं च- दण्डं मुक्त्वा नृपो योन्यानुपायान्योजयेद्विपोः । सतं भीतमिव ज्ञात्वा स्वैरं तं प्रति धावति ।। १४७ ।। अपरं सामादिभिर्या लक्ष्मीर्भूभुजां दण्डं विना सा लक्ष्मीविरं न प्रभव- ति । उक्तं च- अकृत्वा पौरुषं या श्रीर्विकासिन्यपि किं तया । जरद्रवोपि चाभाति दैवादुपगतं तृणम् ॥ १४८ ॥ मनसा सर्वलोकानां लक्ष्मीर्हस्तगतैव हि । कर्मणोदामदण्डानामेव स्याद्वशवर्तिनी ।। १४९ ॥ दुर्लभा जीव चित्तेन लक्ष्मीः संसेव्यतेलसैः । पण्यस्त्रीवाद्यतैश्चैव युद्धे वीर्यधनप्रदैः ।। १५० ।। किरीटमणिचित्रेषु मूर्धसूत्ज्ञानरश्मिषु । नादत्त्वा द्विषतां पादं पुरुषः श्रियमभूते ।। १५१ ।। हेलाकृष्टस्फुरत्खङ्गदीप्तांशुपरिपिञ्जरैः । श्रीमत्करिकराकारैराहार्यन्ते भुजैः श्रियः ॥ १५२ ॥ पराक्रमपरामर्शवशीकृत रिपोस्त्वसौ । लक्ष्मीरन्याङ्कः सप्तैव स्वयं गृहकुटुम्बिनी ॥ १५३ ॥ शत्रोः श्रियं सदोत्थायी सैंहीं वृत्तिं समाश्रितः । कचग्रहेण भुञ्जीत दुर्विनीतामिव स्त्रियम् ।। १५४ ॥ एवं चतुर्थी वक्रनासमन्त्रो दण्डसाध्यः । ततस्तस्यापि वचः समाकर्ण्य उहतं दाम यस्मात्स उद्दामा । उद्दामा दण्डो येषाम् । वशे वर्तते असौ वश० । पण्या स्त्री पण्यस्त्री । वीर्यमेव धनं तत्प्रददतीति वयिधनप्रदाः तैः । किरीटानां मणयः तैः चित्रेषु । उत्ताना रश्मयो यत्र । हेलया कृष्टः हे० ष्टः यः स्फुरन् खङ्गः तस्य दीप्ताश्च ते अंशवश्च दीपांशवस्तैः पिअरास्तैः । श्रीमान् यः करी तस्य करः तस्य इव आकारो येषाम् । पराक्रमस्य परामर्शन वशीकृतः रिपु० पराः । तस्य सदा उत्थातुं शीलमस्य स सदो० । दण्डेन साध्यं यस्मिन् ।काकोलूकीयम् । 183 प्राकारकर्णमुदासीनं वृद्धसचिवमाह-भो अभिधीयतामात्मनोभिप्रायः । स आह-देव अवध्यायं विशेषात्तव पक्षाश्रयः शरणागतश्च । तदेनं स्व- दुर्गे नीत्वा संमानय । ततोनेनाग्रसरेण शत्रवो व्यापादनीयाः स्युः ॥ उक्तं च- मत्स्यो मत्स्यमुपादत्ते ज्ञातिर्ज्ञातिमसंशयम् । रावणोच्छित्तये रामो विभीषणमपूजयत् ॥ १५५ ॥ अपरमस्य वधान्महापातकमस्ति । उक्तं च- वदत्सु दैन्यं शरणागतेषु बहुप्रहारेषु भयेन युक्ताः । दयाविहीनाः प्रहरन्ति येत्र ते रौरवादीनि निषेवयन्ति ॥ १५६ ॥ अपरं च । दक्षिणादिसमृद्दस्य वाजिमेधस्य यत्फलम् । तत्फलं लभते सम्यग्यो रक्षेच्छरणागतम् ॥ ११७ ॥ एवं पञ्चमः प्राकारकर्णस्य मन्त्रः । अथ तस्य तदाकर्ण्य स्वयमरि- मर्दनोभिहितवान्- भो ममाप्ययमभिप्रायः । एष तावत्कपटी न भवति । मदर्थं स्वामिना तिरस्कृतः । तद्युज्यते स्वे दुर्गे नेतुम् । युक्तमुक्तं प्राकार- कर्णेन । यदि पुनरेष त्यज्यते हन्यते वा ततः कृतघ्नतादोषो भवति । तथा च । तथा च । ब्रह्मघ्ने च सुरापे च चौरे भगवते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।। १५८ ॥ सत्कृताश्च कृतार्थाश्च कृतज्ञा न भवन्ति ये । मृतानामपि नो काकास्तेषां मांसानि भुञ्जते ॥ १६९ ॥ तस्मादस्याहं संमानं करिष्यामि । तच्छ्रुत्वा वक्रनास आह–देव न युक्त- मेतच्छत्रुपक्षपातिनां दुर्गदर्शनम् । उक्तं च- बहवः प्रहारा येषां तेषु । दक्षिणा आदौ येषां तै समृद्धः तस्य । शत्रोः पक्षः शत्रुपक्षस्तत्र पातो येषां तेषाम् । 184 पञ्चतन्त्रे अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः । दुर्गं तस्य न संदेहः प्रविशन्ति द्रुतं द्विषः ॥ १६० ॥ तच्छ्रुत्वारिमर्दन आह—भो न युक्तमुक्तं भवता । दुर्गं दुर्गमिति कातर- प्रवादोयम् । शराणां तु स्वभुजवीर्यपञ्जरं दुर्गम् । उक्तं च- यस्य स्यात्सहजं वीर्यं हन्यते स तु नारिभिः । मणिदीपस्य नोग्रोपि वायुर्बाधयते शिलाम् ॥ १६१ ॥ दुर्गाश्रयोपि कालेन नाशं यास्यति । उक्तं च- स्थानं त्रिकूटं परिखा समुद्रो रक्षांसि योधा धनदश्च वितम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणः कालवशाद्विपन्नः ॥ १६२॥ इत्युक्त्वा तमुवाच - भोः स्थिरजीविन् मया त्वं तावत्परिग्रहासं मतेनापि रक्षितो गृहीतश्च । तदागम्यतां मे दुर्गम् । तत्र च यत्तव कुलोचितं तत्कु- रुष्व । सोप्यन्तर्विहस्य तमुवाच - भोः स्थिरजीविनः किमतिबहुना व्यर्थप्रलपनेन । मदीयकुलीनतां फलेन ज्ञास्यति भवान् । तच्छ्रुत्वा वक्र. नासः प्रोवाच - भो विनष्टं कुलमस्माकम् । सा सा संपयते बुद्धिः सा मतिः सा च भावना । सहायास्तादृशा ज्ञेया यादृशी भवितव्यता ॥ १६३ ॥ कौशिकानां राजदोषेण विनाशः समागतः । तत्कस्य कथ्यते । उक्तं च- दोषमातों जनः कृत्स्नं पार्थिवाय निवेदयेत् । यदा स्याद्दोषवान्भूपस्तदा कस्तं निषेधयेत् ॥ १६४ ॥ एवं तमनादृत्य स्थिरजीविनमादाय स्वदुर्गमाससादोलुकपतिः । स्थिर- जीव्यपि तद्दुर्गविषमतामालोक्य स्वचित्तेचिन्तयत् । एतदुर्गं तावयथोक्तं दुर्गविषमं परमसारं नास्ति । तदन्तर्मृत्युपाशबद्धा मम वशे संजाताः । कातराणां प्रवादः कातर० । स्वभुजयोः वीर्य स्व० तदेव पञ्जरम् । परमः सारो यस्य तत्परम० ।। अन्तर्यो मृत्युस्तस्य पाशेन बद्धाः । काकोलुकीयम । 185 येन मन्त्रिणा वक्रनासेन स्वस्वामी मां प्रति स्थिरजीवी वध्यतामित्युक्त- स्तत एषामुकानां मध्ये नीतिशोयं हितश्च । अन्ये तु मूढतमाः स्वामि- ना सह । अथ त उलूकास्तेनोलकपतिनोक्ताः । यदहो स्थिरजीविनो भद्रतर आश्रयः समर्पणीय इति । स्थिरजीवी तच्छ्रुत्वा व्यचिन्तयत् । मया तावदेषां वधोपायश्चिन्तितव्यः । ततः स मया मध्यस्थितेन न भ- विष्यत्येतेपि यतः सावधानाभविष्यन्ति । तदेतदुर्गद्वारमाश्रयामि येनात्र स्थितोभिप्रेतं करोमि । ततश्चकभूपमाह-देव तवैतद्युक्तम् । परम- हमपि नीतिज्ञो हितश्च । यद्यपि तत्त्वानुरक्तः शुचिस्तथापि स्वदुर्गमध्ये न वासो ममाहः । तदहमत्रैव दुर्गद्वारे स्थितः सदा भक्तिसेवां करिष्यामि । तथानुष्ठिते वक्रनासः स्ववर्गीयानाहय प्रोवाच । भो एतावत्कालं यावदे- तद्दुर्गं कुशलं चास्माकं भूपतेरभूत्-परं संप्रत्यन्यं पर्वतमाश्रित्य वयं सर्वेन्यदुर्गं संश्रयामः । उक्तं च- अनागतं यः कुरुते &c. ॥ १६५ ॥ p. 72 द्रौपद्यान किं चन्दनम् ॥ sl. 206 p. 76 omitting slokas 200, 203, 203. तत्स एव नीतिज्ञो भवति योपमानमपि सहित्वा कार्यं साधयति । उक्तं च- महत्त्वमेतन्महतां नयालङ्कारधारिणाम् । न मुञ्चन्ति यदारम्भं प्राप्तेपि व्यसनोदये ।। १७७ ॥ तथा च- प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १७८ ॥ मेघवर्ण आह । तत्कृतं निष्कण्टकं मे राज्यं शत्रून्निःशेषतां नयता त्वया । अथवा युक्तमेतन्नयवादिनाम् । उक्तं च- तत्त्वनानुरक्तस्तत्त्वानुरक्तः । नय एवालंकारस्तं धारयन्तीति तेषाम् ! 186 पञ्चतन्त्र ऋ णशेषं चानिशेषं शत्रुशेषं तथैव च । पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत् ॥ १८९ ॥ तन्नास्ति त्वत्समोन्यो मन्त्री बुद्धिमान्येन शस्त्रमोक्षणं विनापि स्वबुद्ध्या शत्रवो हताः । अथवा साध्विदमुच्यते- शस्त्रैर्हतास्तु रिपवो न हता भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्व हन्ति ।। १८० ।। स्थिरजिव्याह । स देव प्रतापभावोयं भविष्यद्वृद्विसूचकः । वयं पुन- र्मुकाः कृत्यानुष्ठानमात्राः । उक्तं च– प्रसरति मनः कार्यारम्भे दृढीभवति स्पृहा स्वयमुपनयनर्थान्मन्त्रो न गच्छति विप्लवम् । फलति सकलं कृत्यं चितं समुन्नतिमश्रुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ।। १८१ ॥ तत्तव भविष्यतो विपक्षस्य भवितव्यतेति बुद्धिविपर्यासेन ज्ञात मया । ये विज्ञा भवन्ति पुरुषाणां भविष्यतामभविष्यतां च व्यवहारा- देव जानन्ति । उक्तं च– वान्छैव सूचयति पूर्वतरं भावेष्यं पुंसोन्यजन्मसुकृतं यदि वेतरच । विज्ञायते शिशुरजात कलापचिह्नः प्रत्यक्पदैरपसरन्सरसः कलापी ॥ १८२ ॥ तयस्य विधिः संमुखो भवति स त्वमिव बुद्धिसंपन्नो भवति । उक्तं च देवस्य प्रतापः देव तस्य भावः । भविष्यन्ती वृद्धिः भवि० तस्याः सूचकः । ० कृत्यस्यानुष्ठानमेव येषां ते कृत्या० त्राः । अन्यत् जन्म तस्न्सुिकृतम् । अजात कलाप एव चिह्नं यस्य | कलापोरय विद्यते असौ कलापी मयूरः । काकोलूकीयम् । न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं तु वर्धितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥ १८३ ॥ न देवाः शस्त्रमादाय निघ्नन्ति रिपुवत्कुधा । यं तु हिंसितुमिच्छन्ति बुद्ध्या विश्लेषयन्ति तम् ॥ १८४ ॥ बुद्धौ कलुषभूतायां विनाशे पर्युपस्थिते । अनयो नयसंकाशी हृदयानापसर्पति ।। १८५ ॥ तथा तव रिपोः संजातो बुद्धिविश्लेषः ॥ समाप्तं चेदं काकोलूकीयं नाम तृतीयं तन्त्रम् ॥ 187 पशुपालेन तुल्यं पशुपालवत् । कलुषा भूता कलुषभूता तस्याम् । बुद्धे: विश्लेषः बुद्धिविश्लेषः ।