०२ मित्रप्राप्तिकम्

अथ मित्रप्राप्तिकम् । अथेदमारभ्यते मित्रप्राप्तिकं नाम द्वितीयं तन्त्रं यस्यायमायः श्लोकः- असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः । साधयन्त्याशु कार्याणि काकाखमृगकूर्मवत् ॥ १ ॥ तद्यथानुश्रूयते - अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान्नानाविहङ्गेोपभुक्तफलः कीटैराटतकोट- रश्छायाश्वासितपथिकजनसमूहो न्यग्रोधपादपो महान् । अथवा युक्तम् । छायासुप्तमृगः शकुन्तनिव हैर्विष्वग्विलुप्तच्छदः कीटे वृतकोदरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः सर्वाङ्गै बहुजविसंघसुखदो भूभारभूतोऽपरः ।। २ ।। तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्राण- यात्रार्थं पुरमुद्दिश्य प्रचलितो यावत्पश्यति तावज्जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्ध्वकेशो यमकिंकराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कितमना व्यचिन्तयत्-यदयं दुरात्माद्य ममाश्रयवटपादपसंमु- खोऽभ्येति । तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां संक्षयो भविष्यति न वा । एवं बहुविधं विचिन्त्य तत्क्षणान्निवृत्य तमेव वटपादपं गत्वा सर्वान्विहङ्गमान्प्रोवाच - भोः अयं दुरात्मा लुब्धको जालतण्डुलहस्तः समभ्येति । तत्सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डु- लान्प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूटमदृशा द्रष्टव्याः । मित्राणां प्राप्तिरेव अभेदोपचारात मित्रसंप्राप्तिकमथवा मित्राणां सम्प्राप्तिय- स्मिन् तत् । न विद्यमानानि साधनानि येषां ते अ० । प्रशस्ता बुद्धिर्येषां ते बुद्धिमन्तः । बहु श्रुतं येषां । काकश्च आखुश्च मृगश्च कूर्मश्च का०र्मास्तैस्तुल्यम् । दक्षिणस्यां भवो दाक्षिणात्यः । तस्मिन् । महांश्चासौ उच्छ्रायश्च स विद्यतेऽस्य । नाना च ते विहगाश्च नाना० तैः उपभुक्तानि फलानि यस्य । छायया आश्वासितः पथि०हो येन । न्यक् रोहतीति न्यग्रोधः । छायायां सुप्ता मृगा यस्य । विष्वक् सर्वतः विलुप्तान्याच्छादितानि छदानि पत्राणि यस्य । बहुजीवानां संघाय सुखं ददातीति । भुवो भारी भूतः । यमकिंकरस्य इव आकारों यस्य । कालकूटं हालाहलं तेन स० ॥ १ मित्रसंप्राप्तिः २ दूरेण. ३ महान् छायावान्. ४ सत सत्तरुः ५ सत्व- संग. ६ विनाशः ७ हालाहल. 98 पञ्चतन्त्रे एवं वदतस्तस्य स लुब्धकस्तत्र वटतल आगत्य जालं प्रसार्य सिन्दुवार- सदृशांस्तण्डुलान्प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षि- णस्तत्र स्थितास्ते लघुपतनकवाक्यार्गल्या निवारितास्तांस्तण्डुलान्हा- लाहठाकुरानिव वीक्षमाणा निभृतास्तस्थुः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थ परिभ्रमंस्तांस्तण्डुलान्दूरतोऽपि पश्यंलघुपतनकेन निवार्यमाणोऽपि जिह्वालौल्याद्भक्षणार्थमपतत् । सप- रिवारो निबद्धश्च । अथवा साध्विदमुच्यते- जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ ३ ॥ अथवा दैवप्रतिकूलतया भवत्येवम् । न तस्य दोषोऽस्ति । उक्तं च- पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवा न्रामेणापि कथं न हेमहरिणस्यासंभवो लक्षितः । अक्षैश्वापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ ४ ॥ तथा च । कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ ५ ॥ अत्रान्तरे लुब्धकस्तान्बद्धान्विज्ञाय प्रहृष्टमनाः प्रोद्यतयष्टिस्तद्वधार्थं प्रधावितः । चित्रग्रीवोऽप्यात्मानं सपरिवारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान्कपोतानूचे-अहो न भेतव्यम् । उक्तं च- व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्म हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ६ ॥ संपत्तौ च विपत्तौ च महतामेकरूपता । उदये सविता रक्तो रक्तश्चास्तमये तथा ॥ ७ ॥ तत्सर्वे वयं हेलयोड्डीय सपाशजाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नी चेद्भयविक्लवाः सन्तो हेल्या समुत्पातं न करिष्यथ ततो मृत्युमवा- प्स्यथ । उक्तं च- तनवोऽप्यायता नित्यं तन्तवो बहुलाः समाः । बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ८ ॥ • वाक्यमेवाला रोधनदण्डः तया । सहस्रं परिवारो थर । लौल्ये ० प्रसक्ताः जिह्वा०तास्तेषाम् । पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यो रावणः । अन्यस्य दारा- स्तेषां हरणं तस्मिन् । प्रत्यासन्ना चासौ विपत्तिः प्र० तया मूद्रं मनो येषाम् । इेल्या लीलया । तन्तवः तनवः सूक्ष्माः आयता अपि बहुलाः समाश्चेत् बहुत्वाद्बहू- नित्यन्वयः । मित्रसंप्राप्तिकम् | 99 तथानुष्ठिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थो- ऽपि पर्यधावत् । तत ऊर्ध्वाननः श्लोकमेनमपत्- जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥ ९ ॥ लघुपतनकोऽपि प्राणयात्राक्रियां त्यक्त्वा किमत्र भविष्यतीति कुतूह- लात्तत्पृष्ठलग्नोऽनुसरति । अथ दृष्टेरगोचरतां गतान्विज्ञाय लुब्धको नि- राशः श्लोकमपनिवृत्तश्च । न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यनेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ १० ॥ तथा च । पराङ्मुखे विधौ चेत्स्यात्कथंचिद्रविणोदयः । तत्सोऽन्यदपि संगृह्य याति शङ्खनिधिर्यथा ॥ ११ ॥ तदास्तां तावद्विहङ्गामिषलोभो कुटुम्बवर्तनोपायभूतं जालमपि मे न- ष्टम् । चित्रग्रीवोऽपि लुब्धक मदर्शनीभूतं ज्ञात्वा तानुवाच - भोः निवृत्तः स दुरात्मा लुब्धकः । तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागु- त्तरदिग्भागे । तत्र मम सुहृद्धिरण्यको नाम मूषकः सर्वेषां पाशच्छेदं क रिष्यति । उक्तं च- सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते । वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न संदधे ।। १२ ।। एवं ते कपोताश्चित्रग्रीवेण संबोधिता महिलारोप्ये नगरे हिरण्यकबिल दुर्गं प्रापुः । हिरण्यकोऽपि सहस्रमुखबिलदुर्गं प्रविष्टोऽकुतोभयः सुखे- नास्ते । अथवा साध्विदमुच्यते- दंष्ट्राविरहितः सर्पों मदहीनो यथा गजः । सर्वेषां जायते वश्या दुर्गहीनस्तथा नृपः ॥ १३ ॥ तथा च । न गजानां सहस्रेण न च लक्षण वाजिनाम् । तत्कर्म सिध्यते राज्ञां दुर्गेणैकेन यद्रणे ॥ १४ ॥ शतमेकोऽपि संघत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविदो जनाः ।। १५ ।। अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच- भो भो मित्र वर्तनस्य पोषणस्य । सहस्रं मुखानि यस्य तादृग् बिलमेव दुर्गम् । १ लोभो यावत्. २ अस्मात्परमिदं पद्यं पुस्त०रे - अनागतं भयं शास्त्रविशारदः । अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ दृष्ट्वा नीति: 100 पञ्चतन्त्र हिरण्यक सत्वरमागच्छ । महती मे व्यसनावस्था वर्तते । तच्छ्रुत्वा हिरण्यकोऽपि बिलदुर्गान्तर्गतः सन्प्रोवाच - भोः को भवान् । किमर्थ- मायातः । किं कारणम् । कीदृक्ते व्यसनावस्थानम् । तत्कथ्यतामिति । तच्छ्रुत्वा चित्रग्रीव आह-भोः चित्रग्रीवो नाम कपोतराजोऽहं ते सु- हृत् । तत्सत्वरमागच्छ । गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकित- तनुः प्रहृष्टात्मा स्थिरमनास्त्वरमाणो निष्क्रान्तः । अथवा साध्विदमुच्यते- सुहृदः स्नेहसंपन्ना लोचनानन्ददायिनः । गृहे गृहवतां नित्येमागच्छन्ति महात्मनाम् ।। १६ ।। सुहृदो भवने यस्य समागच्छन्ति नित्यशः । येत्सौख्यं तस्य चित्ते स्यान्न तत्स्वर्गेपि जायते ।। १७ ।। अथ चित्रग्रीवं सपरिवारं पाशबद्धमालोक्य हिरण्यकः सविषादमिद- माह - भोः किमेतत् । स आह-भोः जानन्नपि किं पृच्छसि । वक्तं च यतः- यस्माच्च येन च यदा च यथा च यच्च यावच यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तदा च तथा च तच तावच्च तत्र च कृतान्तवशादुपैति ॥ १८ ॥ तत्प्राप्तं मयैतद्बन्धनं जिह्वालौल्यात् । सांप्रतं त्वं सत्वरं पाशविमोक्षं कुरु । तदाकर्ण्य हिरण्यकः प्राह- तथा च । ‘अध्यर्धायोजनशतादामिषं वक्षिते खगः । सोऽपि पार्श्वस्थितं दैवाद्बन्धनं न च पश्यति ॥ १९ ॥ रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च निरीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ २० ॥ तथा च । पुलका अस्याः संजाता असौ पुलकिता पु० तनुर्यस्य । यस्मात् येन च… . शुभा- शुभमात्मकर्म तस्मात् तेन च……नवः इति शेषः विधातृवशादुपैति प्राप्नोति । अध्यर्धादर्धाधिकात् । १ नित्यं ना०. २ अस्मात्परमिदं पद्यं पु० रे - आदित्यस्योदयं तात ताम्बूलं भारती कथा । इष्टा भार्यां सुमित्रं च अपूर्वाणि दिने दिने ।। ३ चित्ते च तस्य सौ- ख्यस्य न किंचित्प्रतिमं सुखम् । इ. पा. ४ तत्त्वं … पा० कुरु माविलम्बम् । ५ अर्धा०. मित्रसंप्राप्तिकम् । 101 व्योमैकान्तविचारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि । दुर्णीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणः काल: सर्वजनान्प्रसारितकरो गृह्णाति दूरादपि ॥ २१ ॥ एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-भद्र मा मैवं कुरु । प्रथमं मम भृत्यानां पाशच्छेदं कुरु । तदनु ममापि च । तछ्रुत्वा कुपितो हिरण्यकः प्राह - भोः न युक्तमुक्तं भवता यतः स्वामिनोऽनन्तरं भृत्याः । स आह-भद्र मा मैवं वद । मदाश्रयाः सर्व एते वराकाः । अपरं स्वकु- टुम्बं परित्यज्य समागताः । तत्कथमेतावन्मात्रमपि संमानं न करोमि । उक्तं च- तथा च । यः संमानं सदा क्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥ २२ ॥ विश्वासः संपदां मूलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥ २३ ॥ अपरं मम कदाचित्पाशच्छेदं कुर्वतस्ते दन्तभङ्गो भवति । अथवा दुरात्मा लुब्धकः समभ्येति । तन्नूनं मम नरकपात एव । उक्तं च- सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान्नरकं याति परत्रेह च सीदति ।। २४ ।। तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह - भोः वैश्यहं राजधर्मम् । परं मया तव परीक्षा कृता । तत्सर्वेषां पूर्वं पाशच्छेदं करिष्यामि । भवानप्यनेन विधिना बहुकपोतपरिवारो भविष्यति । उक्तं च- कारुण्यं संविभागश्च यस्य भृत्येषु सर्वदा । संभवेत्स महीपालनैलोक्यस्यापि रक्षणे ।। २५ ।। एवमुक्त्वा सर्वेषां पाशच्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह - मित्र गम्यतामधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यम् । इति तान्संप्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्र- यमगमत् । अथवा साध्विदमुच्यते- मित्रवान्साधयत्यर्थान्दुः साध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥ २६ ॥ व्योम्न एकान्तः व्यो० तत्र विचरन्तीति । अगाधं सलिलं यस्य असौ अ० लः तस्मात् । मृगाधिपत्ये स्थितोपि । संविभागो यथायथं द्रव्यादेर्विभजनम् । १ विहारिणः. २ उपयुज्यते. 102 पत्रतन्त्रे लघुपनतकोऽपि सर्व तं चित्रग्रीवबन्धमोक्षमवलोक्य विस्मितमना व्यचिन्तयत् - अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्गसामग्री च । तदीदृगेव विधिर्विहङ्गानां बन्धन मोक्षात्मकः । अहं च न कस्यचिद्विश्व- सिमि चलप्रकृतिश्च । तथाप्येनं मित्रं करोमि । उक्तं च- अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ।। २७ ।। एवं संप्रधार्य पादपादवतीर्य बिलद्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान् - एह्येहि भो हिरण्यक एहि । तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्- किमन्योऽपि कश्चित्कपोतो बन्धनशेषस्तिष्ठति येन मां व्याहरति । आह च-भोः को भवान् । स आह- अहं लघुपतनको नाम वायसः । तच्छ्रुत्वा विशेषादन्तनो हिरण्यक आह-भोः द्रुतं गम्यतामस्मात्स्थानात्। वायस आह अहं तव पार्श्वे गुरुकार्येण समागतः । तत्किं न क्रियते मया सह दर्शनम् । हिरण्यक आह–न मेऽस्ति त्वया सह संगमेन प्रयोजनमिति । स आह–भोः चित्रग्रीवस्य मया तव स- काशात्पाशमोक्षणं दृष्टम् । तेन मम महती प्रीतिः संजाता । तत्कदा- चिन्ममापि बन्धने जाते तव पार्श्वन्मुक्तिर्भविष्यति । तत्क्रियतां मया सह मैत्री । हिरण्यक आह- अहो त्वं भोक्ता । अहं ते भोज्यभूतः । तरका त्वया सह मम मैत्री । तद्गम्यतां मैत्रीविरोधभावात् । उक्तं च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तथा च । तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ २८ ॥ यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः ॥ २९ ॥ तद्गम्यतामिति । वायस आह-भो हिरण्यक एषोऽहं तव दुर्गद्वार उप- विष्टः । यदि त्वं मैत्री कैरोषि ततोऽहं प्राणयात्रां करिष्यामि । अन्यथा प्रायोपवेशनं मे स्यादिति । हिरण्यक आह-भोः त्वया वैरिणा सह कथं मैत्रीं करोमि । उक्तं च- वैरिणा न हि संदध्यात्सश्लिष्टेनापि संधिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ३० ॥ ● मोक्षात्मकः मोक्षसाधकः । ला प्रकृतिर्यस्य स • प्रकृतिः । विरोधभावात् विरुध्यते इति । १ पि वायसः २ ०ताम् । मैत्री विरोधभावात्कथम् । ३ न करोषि ततोहं आणमोक्षणं तवाग्रे क० । अथवा प्रायो ०.मित्रसंप्राप्तिकम् । 103 वायस आह - भोः त्वया सह दर्शनमपि नास्ति कुतो वैरम् । तत्किमनु- चितं वदसि । हिरण्यक आह-द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत्सहजवैरी त्वमस्माकम् । उक्तं च- कृत्रिमं नाशमभ्येति वैरं द्राकृत्रिमैर्गुणैः । प्राणदानं विना वैरं सहजं याति न क्षयम् ॥ ३१ ॥ वायस आह-भोः द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि । तत्कथ्य- ताम् । हिरण्यक आह-भोः कारणेन निर्वृत्तं कृत्रिमम् । तत्तदहापकार- करणाद्गच्छति । स्वाभाविकं पुनः कथमपि न गच्छति । तद्यथा-नकुल- सर्पाणां शष्पभुङ्गखायुधानां जलवह्नयोः देवदैत्यानां सारमेयमार्जाराणामी- श्वरदरिद्राणां सपत्नीनां सिंहगजानां लुब्धकहरिणानां श्रोत्रियभ्रष्टक्रियाणां मूर्खपण्डितानां पतित्रताकुलटानां सज्जनदुर्जनानाम् । न कश्चित्के- नापि व्यापादितस्तथापि प्राणान्संतापयन्ति । वायस आह-भोः अ- कारणमेतत् । श्रूयतां मे वचनम् । कारणान्मित्रतां याति कारणादेति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ ३२ ॥ तस्मात्कुरु मया सह समागमं मित्रधर्मार्थम् । हिरण्यक आह-भोः श्रूयतां नीतिसर्वस्वम् । सकृद्दष्टमपीष्टं यः पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३३ ॥ अथवा गुणवानहं न मे कश्चिद्वैरयातनां करिष्यत्येतदपि न संभाव्यम् । उक्तं च- सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिने- मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनीम् । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गल- मज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरां गुणैः ॥ ३४ ॥ वायस आह-अस्त्येतत् । तथापि श्रूयतामू- उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्यादर्शनात्सताम् ॥ ३५ ।। मृद्घट इव सुखभेयो दुःसंधानश्च दुर्जनो भवति । सुजनस्तु कनकघट इव दुर्भेदः सुकरसंधिश्व ॥ ३६ ॥ द्वे विधे प्रकारौ यस्य तद्विविधम् । तस्य अहः तद उपकारास्तेषां करणात् । श्रोत्रियो वेदविहितकर्मकारी । भ्रष्टा क्रिया वेदविहिता यस्य । इष्टमपि सकृत् दुष्टं व्याकोपितमित्यन्वयः । वैरस्य यातनां निर्यातनम् । दुःखेन संधानं यस्य । १ णाधाति. २ स्त्वे. 104 पञ्चतन्त्रे इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः । तद्वत्सज्जनमैत्री विपरीतानां तु विपरीता ॥ ३७ ॥ तथा च । आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध परार्धभिन्नां छायेव मैत्री खलसज्जनानाम् ॥ ३८ ॥ तत्साधुरहम् । अपरं त्वां शपथादिभिनिर्भयं करिष्यामि । स आह- न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च- शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः । अद्रोहशपथं कृत्वा वृत्रः शक्रेण सूदितः ॥ ३९ ॥ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्रिदशेन्द्रेण दितेर्गभो विदारितः ॥ ४० ॥ अन्यश्च । बृहस्पतेरपि प्राज्ञस्तस्मान्नैवात्र विश्वसेत् । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥ ४१ ॥ तथा च । सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच्च शनैः पश्चात्प्लवं सलिलपूरवत् ।। ४२ ।। न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ४३ ॥ न वैध्यते ह्यविश्वस्तो दुर्बलोऽपि बलोत्कटैः । विश्वस्ताश्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ ४४ ॥ सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेरविश्वासो नीतिसंधिविधा स्थितः ॥ ४५ ॥ तथा च । महताप्यर्थसारेण यो विश्वसिति शत्रुषु । • भार्यासु सुविरक्तामु तदन्तं तस्य जीवितम् ॥ ४६ ॥ तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामास - अहो बुद्धिप्रागल्भ्य- मस्य नीतिविषये । अथवात एवास्योपरि मैत्रीपक्षपातः । स आह-भी हिरण्यक सतां साप्तपदं मैत्रमित्याहुविबुधा जनाः । तस्मात्त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ॥ ४७ ॥ प्लवः उडुपं । अविश्वस्तोऽकृतविश्वासः । सुकृत्यं शोभनं सुचिन्तितं कृत्यं यास्मिन् । विष्णुगुप्तश्चाणक्यः । अविश्वासो जागरूकता । १ श्रूयते. २ बध्य. ३ विश्वासं समागतः ४ सख्यं साप्तपदीनं भोः ५ बलात् मित्रसंप्रातिकम् । 105 दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुणदोषसुभाषितगोष्ठी- कथाः सर्वदा कर्तव्या यद्येवं न विश्वसिषि । तच्छ्रुत्वा हिरण्यकोऽपि व्य- चिन्ततत्र - विदग्धवचनोऽयं दृश्यते लघुपतनकः सत्यवाक्यश्च । तद्युक्तं मैत्रीकरणम् । परं कदाचिन्मम दुर्गे चरणपातोऽपि न कार्यः । उक्तं च- भीतभीतः पुरा शत्रुर्मन्दं मन्दं विसर्पति । भूमौ प्रहेलया पश्चाज्जारहस्तोऽङ्गनास्विव ॥ ४८ ॥ तच्छ्रुत्वा वायस आह–भद्र एवं भवतु । ततः प्रभृति द्वौ तावपि सुभाषितगोष्ठी सुखमनुभवन्तौ तिष्ठतः परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि मांसशकलानि मेध्यानि बलिशेषाण्यन्यानि वात्सल्या- हतानि पक्वान्नविशेषाणि हिरण्यकार्थमानयति । हिरण्यकोऽपि तण्डुला- नन्यांश्च भक्ष्यविशेषांल्लघुपतनकार्थं रात्रावाहृत्य तत्कालायातस्यार्पयति । अथवा युज्यते द्वयोरप्येतत् । उक्तं च- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षडिधं प्रीतिलक्षणम् ।। ४९ ।। नोपकारं विना प्रीतिः कथंचित्कस्यचिद्भवेत् । उपयाचितदानेन यतो देवा अभीष्टदाः ॥ ५० ॥ तावत्प्रीतिर्भवेल्लोके यावदानं प्रदीयते । वत्सः क्षीरभयं दृष्ट्वा परित्यज्यति मातरम् ।। ५१ ॥ पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषी मित्रतां याति तत्क्षणात् ॥ ५२ ॥ पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेकविवर्जितस्य । दत्ते खले नु निखिलं खलु येन दुग्ध किं बहुना । नित्यं ददाति महिषी ससुतापि पश्य ।। ५३ ॥ प्रीतिं निरन्तरां कृत्वा दुर्भेयां नखमांसवत् । मूषको वायसश्चैव गतौ कृत्रिममित्रताम् ।। ५४ ।। एवं स मूषकस्तदुपकाररञ्जितस्तथा विश्वस्तो यथा तस्य पक्षमध्ये प्र- विष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽश्रुपूर्णन- गुणदोषयोः सुभाषितस्य च गोष्ठयः कथाश्च । पुरा प्रथमं । प्रहेलया सावर्श निःशकमित्यर्थः सविलासं च । उपयाचितमिष्टसिद्धये देवेभ्य उपकल्पितं वस्तु । निर्गतमन्तरं यस्यां । नखं च मासं च नखमासे तयोरिव व्वत् । १ कथादिः … कर्तव्यः. 106 पञ्चतन्त्रे यनः समभ्येत्य सगद्गदं तमुवाच-भद्र हिरण्यक विरक्तिः संजाता मे सांप्रतं देशस्यास्योपरि । तदन्यत्र यास्यामि । हिरण्यक आह-मद्र किं विरक्तेः कारणम् । स आह-भद श्रूयताम् । अत्र देशे महत्यानादृष्टया दुर्भिक्षं संजातम् । दुर्भिक्षत्वाज्जनो बुभुक्षापीडितः कोऽपि बलिमात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षितजनैर्विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमप्यायुःशेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणम् । तेनाहं विदेशं चलित इति बाष्पमोक्षं करोमि । हिरण्यक आह- अथ भवान्क्क प्रस्थितः । स आह-अस्ति दक्षिणापथे वनगहनमध्ये महासरः । तत्र त्वत्तोऽधिकः परमसुहृत्कूर्मो मन्थरको नाम । स च मे मत्स्यमांसखण्डानि दास्यति । तद्भक्षणात्तेन सह सभा- पितगोष्ठीसुखमनुभवन्सुखेन कालं नेष्यामि । नाहमत्र विहङ्गानां पाशन- न्धनेन वयं द्रष्टुमिच्छामि । उक्तं च । अनावृष्टिहते देशे शस्ये च प्रलयं गते । धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम् ।। ५५ ।। कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ ५६ ॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ १७ ॥ हिरण्यक आह- यद्येवं तदहमपि त्वया सहागमिष्यामि । ममापि मह- हुःखं वर्तते । वायस आह-भोस्तव किं दुःखम् । तत्कथय । हिरण्यक आह–भो बहु वक्तव्यमस्त्यत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथ- यिष्यामि । वायस आह-अहं तावदाकाशगतिः । तत्कथं भवतो मया सह गमनम् । स आह-यदि मे प्राणान्रक्षसि तदा स्वपृष्ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति । तच्छ्रुत्वा सानन्दं वायस आह–यद्येवं तदन्योऽहं यद्भवतापि सह तत्र कालं नयामि । अहं संपा- तादिकानष्टानुड्डीनगतिविशेषान्वेद्मि । तत्समारोह मम पृष्ठं येन सुखेन त्वां तत्सरः प्रापयामि । हिरण्यक आह-उड्डीनानां नामानि श्रोतुमि- च्छामि । स आह- । संपातं विप्रपातं च महापातं निपातनम् । वक्रं तिर्यक्तथा चोध्वंमष्टमं लघुसंज्ञकम् ॥ ५८ ॥ तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः । सोऽपि शनैः- प्रगुणीकृताः सब्जीकृताः । कः पर० नकोपीत्यर्थः । आकाशे गतिर्यस्य । मित्रसंप्राप्तिकम् | 107 शनैस्तमादाय संपातोडीनप्रस्थितः क्रमेण तत्सरः प्राप्तः । ततो लघुप- तनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देशकालविदसामान्यकाकोय- मिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थत- रुकोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तारस्वरेण प्रोवाच-भो मन्थ- रक आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सो- त्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च— किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्रगात्रस्य कलां नाईन्ति षोडशीम् ॥ १९ ॥ तथा च । केनामृतमिदं सृष्टं मित्रमित्यक्षरद्वयम् । आपदां च परित्राणं शोकसंतापभेषजम् ॥ ६० ॥ तच्छ्रुत्वा निपुणतरं परिज्ञायं सत्वरं सलिलान्निष्क्रम्य पुलकिततनु- रानन्दाश्श्रुपूरितनयनो मन्थरकः प्रोवाच–एवेहि मित्र आलिङ्गय माम् । चिरकालान्मया त्वं न सम्यक्परिज्ञातः । तेनाहं सलिलान्तः प्रविष्टः । एतं च- यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् । न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः ॥ ६१ ॥ एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्वि- दमुच्यते- अमृतस्य प्रवाहैः किं कायक्षालनसंभवैः । चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥ ६२ ॥ एवं द्वावपि तैौ विहितालिङ्गनौ परस्परं पुलकितशरीरौ वृक्षादधः समु- पविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्यासे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपत- नकमाह - भोः कोऽयं मूषकः । कस्मात्त्वया भक्ष्यभूतोऽपि पृष्ठमारोप्या- नीतः । तन्नात्र स्वल्पकारणेन भाव्यम् । तच्छ्रुत्वा लघुपतनकआह- भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्वितीयमिव जीवितम् । तत्कि बहुना । पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकतारेणवो यद्वत्संख्यया परिवर्जिताः ॥ ६३ ॥ संपातमुड्डीनं सं० तेन प्रस्थितः । चिरकालात् चिरकालादर्शनादित्यर्थः । कायस्य क्षालनँ काल० तस्मात्संभवो येषां तैः । प्रभूतजलस्नानेनेत्यर्थः । 108 पञ्चतन्त्रे गुणाः संख्यापरित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्नः संप्राप्तोऽयं तवान्किम् ॥ ६४ ॥ मन्थरक आह- किमस्य वैराग्यकारणम् । वायस आह - पृष्टो मया । परमनेनाभिहितं यद् बहु वक्तव्यमस्ति । तत्तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक इदानीं निवेद्यतामुभयोरप्यावयो- स्तदात्मनो वैराग्यकारणम् । सोऽब्रवीत्- कथा १ । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मायतनं भगवतः श्रीमहादेवस्य । तत्र च ताम्रचूडो नाम पवित्राजकः प्रतिवसति । स च नगरे भिक्षाटनं कृत्वा प्राणयात्रां समाचरति । भिक्षा- शेषं च तत्रैव भिक्षापात्रे निधाय तद्भिक्षापात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपनमण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्ध- वैर्निवेदितम् - स्वामिन् मठायतने सिद्धमन्त्रं मूषकभयात्तत्रैव भिक्षापात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरगम्यं किमपि नास्ति । तत्कि वृथाटनेनान्यत्र । अय तत्र गत्वा यथेच्छं भुन्ज्महे तव प्रसादात् । तदाकर्ण्याहं सक– लयूथपरिवृतस्तत्क्षणादेव तत्र गतः । उत्पत्य च तस्मिन्भिक्षापात्रे समारूढः । तत्र भक्ष्यविशेषाणि सेवकानां दत्वा पश्चात्स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्वगृहं गच्छामि । एवं नित्यमेव तदन्नं भक्ष- यामि । परित्राजकोऽपि यथाशक्ति रक्षति । परं यदैव निद्रान्तरितो भवति तदाहं तत्रारुह्यात्मकृत्यं करोमि । अथ कदाचित्तेन मम रक्षणार्थं महा- न्यत्नः कृतः । जर्जरवंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षापात्रं ताडयति । अहमप्यभक्षितेऽप्यन्ने प्रहारभयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रहपरस्य कालो व्रजति । अथान्यस्मिन्नहनि तस्य मडे बृहत्स्फिङ्ग्रामा परिव्राजकस्तस्य सुहत्तीर्थयात्राप्रसङ्गेन पान्थः पाघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थानविधिना संभाव्य प्रतिपत्तिपूर्वकमभ्याग तक्रियया नियोजितः । ततश्च रात्रावेकत्र कुशसंस्तरे द्वावपि प्रसुप्तौ धर्म- कथां कथयितुमारब्धैौ । अथ बृहत्स्फिक्कथागोष्ठीषु स ताम्रचूडो मूषकत्रा- संमार्ज० मण्डनानि आदो यस्य ०दिकं तत् । निद्रान्तरितो निद्रामन्नः । प्रतिपत्तिरादरः पूर्वा यस्मिन् कर्मणि तद्यथा तथा । १ प्राघूर्णिकः. मित्रप्राप्तिकम् । 109 सार्थ व्याक्षिप्तमना जर्जरवंशेन भिक्षापात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्मयो न किंचिदुदाहरति । अथासावभ्यागतः परं कोप- पागतस्तमुवाच - भोस्ताम्रचूड परिज्ञातस्त्वं सम्यक् न सहत् । तेन मया सह साह्रार्द न जल्पसि । तद्रात्रावपि त्वदीयं मत्रं त्यक्त्वान्यत्र मडे यास्यामि । उक्तं च- मागच्छ समाश्रयासनमिदं कस्माचिराट्र श्यसे का वार्ता अतिदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शमात् । एवं ये समुपागतान्प्रणयिनः प्रह्लादयन्त्यादरा- तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ।। ६५ ।। गृही यत्रागतं दृष्ट्वा दिशो वीक्षत वाव्यधः । तत्र ये सदने यान्ति ते शृङ्गरहिता वृषाः ॥ ६६ ॥ नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः । गुणदोषकथा नैव तत्र हम्य न गम्यते ॥ ६७ ॥ कम प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्नेहः । नैतद्वेत्सि यवया माश्रयव्याजेन नरकोपार्जनं कृतम् । उक्तं च– नरकाय मतिस्ते चेत्पौरोहित्यं समाचर । वर्षं यावत्किमन्येन मठचिन्तां दिनत्रयम् ॥ ६८ ।। तन्मूर्ख शोचितव्यस्त्वं गवं गतः । तदहं त्वदीयं म परित्यज्य या- स्यामि । अथ तच्छ्रुत्वा भयत्रस्तमनास्ताम्रचूडस्तमुवाच - भो भगवन् मैवं वद । न त्वत्समोऽन्यो मम सुहृत्कश्चिदस्ति । परं तछूयतां गेोष्ठी - शैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थाने घृतमपि भिक्षापात्र - हत्यारोहति भिक्षाशेषं च तत्रस्थं भक्षयति । तदभावादेव म मार्जन- क्रियापि न भवति । तन्मूषकत्रासार्थमेतेन वंशेन भिक्षापात्रं मुहुर्मुहुस्ता दयामि । नान्यत्कारणमिति । अपरमेतत्कुतूहलं पश्यास्य दुरात्मनी यम्मार्जारमर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन । बृहत्स्फिगाह - अथ ज्ञायते तस्य बिलं कस्मिंस्तत्प्रदेशे । ताम्रचूड आह-भगवन् न वेद्मि सम्यक् । स आह- नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च- ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य संभोगस्त्यागकर्मसमन्वितः ॥ ६९ ॥ शून्यमनर्थकम् । पौरोहित्यं पुरोहितस्य कर्म । प्रकर्षेण उन्नतं प्रोन्नतमत्युच्चम् । प्रकूदतें उत्पतनसंरम्भं करोति । १ जना कृता. 110 तथा च । पञ्चतन्त्र नाकस्माच्छाण्डिली मातर्विक्रीणाति तिलैस्तिलान् । ललितानितरैर्येन हेतुरत्र भविष्यति ।। ७० ।। ताम्रचूड आह- कथमेतत् । स आह- कथा २ । यदहं कस्मिंश्चित्स्थ ने प्राकाले व्रतग्रहणनिमित्तं कंचिद्राह्मणं वा सार्थं प्रार्थितवान् । ततश्च तद्वचनात्तेनापि शुश्रूषितः सुखेन देवार्चन पर- स्तिष्ठामि । अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मणब्राह्मणीसंवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह-ब्राह्मणि प्रभाते दक्षिणायन- संक्रान्तिरनन्तदानफलदा भविष्यति । तदहं प्रतिग्रहार्थं ग्रामान्तरं या- स्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किंचिद्भोजनं दात- व्यम् । अथ तच्छ्रुत्वा ब्राह्मणी परुषतरवचनैस्तं भर्त्सयमाना प्राह-कुतस्ते दारिद्रयोपहतस्य भोजनप्राप्तिः । तत्किं न लजस एवं ब्रुवाणः । अपि च न मया तव हस्तलग्रया क्वचिदपि लब्धं सुखं न मिष्टान्नस्यास्वादनं न च हस्तपादकण्ठादिभूषणम् । तच्छ्रुत्वा भयत्रस्तोऽपि विप्रो मन्दं मन्दं प्राह- ब्राह्मणि नैतयुज्यते वक्तुम् । उक्तं च- ग्रासादपि तदर्थं च कस्मान्नो दीयतेऽर्थिषु । इच्छानुरूपी विभवः कदा कस्य भविष्यति ॥ ७१ ॥ ईश्वरा भूरिदानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः ॥ ७२ ॥ दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्धया । कूपोऽन्तःस्वादुजलः प्रीत्यै लौकस्य न समुद्रः ॥ ७३ ॥ तथा च । अकृतत्यागमहिना मिथ्या किं राजराजशब्देन । गोप्तारं न निधीनां कथयन्ति महेश्वरं विबुधाः ॥ ७४ ॥ अपि च ।. सदादानैः परिक्षीणः शस्त एव करीश्वरः । अदानः पीनगात्रोऽपि निन्य एव हि गर्दभैः ।। ७५ ।। नास्ति अन्तः यस्य तदनन्तम् । दानस्य फलं दानफलं अतन्तं च तद् दान- फलंच अ०लं ददाति अन्दा । यद्विधिवद्दीयते तस्य ग्रहणं प्रतिग्रहः । लुञ्चितान् कण्डनादिना संस्कृतान् । अकृतः त्यागस्य महिमा यस्मिन् तेन । राज्ञां रराजा राज- राजो महाराजः । पक्षे राज्ञां यक्षाणां राजा कुबेरः । १ कार्यम. २ यदा. ३ नो. ४ सदा दानप, ५ अस्मात्पमिदं पद्यमधिक क्वचित्-सुशीलोऽपि सुवृत्तोऽपि यात्यदानादधो वटः । पुनः कुब्जापि काणा पि दानादुपरि कर्कटी ॥ मित्रप्रातिकम् । यच्छ जलमपि जलदो वल्लभतामेति सकललोकस्य । 111 नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ॥ ७६ ॥ एवं ज्ञात्वा दारिद्र्याभिभूतैरपि स्वल्पात्स्वल्पतरं काले पात्रे च देयम् । उक्तं च- सत्पात्रं महती श्रद्धा देशे काले यथोचिते । तथा च । यद्दीयते विवेकज्ञस्तदनन्ताय कल्पते ॥ ७७ ॥ अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य चूड भवति मस्तके ॥ ७८ ॥ ब्राह्मण्याह- कथमेतत् । स आह- । कथा ३ । अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित्पुलिन्दः । स च पापाद्ध कर्तुं वनं प्र- ति प्रस्थितः । अथ तेन प्रसर्पता महानञ्जन पर्वतशिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्टनिशितसायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासु- र्भूतलेऽपतत् । अथ लुब्धकं व्यापाव शकरोऽपि शरप्रहारवेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चिदासन्नमृत्युः शृगालो निराहारतया पीडित इतस्ततः परिभ्रमंस्तं प्रदेशमाजगाम । यावद्वराह पुलिन्दौ द्वावपि पश्यति तावत्प्रहृष्टो व्यचिन्तयत्-भोः सानुकूलो मे विधिः । तेनैतदप्यचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुच्यते- अकृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् । शुभाशुभं समभ्येति विधिना संनियोजितम् ॥ ७९ ॥ तथा च । यस्मिन्देशे च काले च वयसा यादृशेन च । कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥ ८० ॥ तदहं तथा भक्षयामि यथा बहुन्यहानि मे प्राणयात्रा भवति । तत्ताव- देवं स्नायुपाशं धनुष्कोटिगतं भक्षयामि । उक्तं च- शनैः शनैश्व भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥ ८१ ॥ प्रसारिताः कराः किरणा येन । पक्षे करो हस्तः प्रतिग्रहार्थम् । अनन्ताय निः- श्रेयसप्रयेत्यर्थः । पुलिन्दः शबरः । पापद्धिर्मृगया । प्रसर्पता भ्रमता । अञ्जनपर्वत- शिखरस्येव आकारो यस्य । बालेन्दुश्चन्द्रकला तस्येव द्युतिर्यस्य । गता असवो यस्य । तत्तावत् तस्मात्प्रथमम् । १ देशकालं यथोचितम्. २ शिखा. 112 पञ्चतन्त्रे इत्येवं मनसा निश्वित्य चा पचटितकोटिं मुखमध्ये प्रक्षिप्य नायुं भ- वितुं प्रवृत्तः । ततश्च त्रुटिते पाशे तालुदेशं विदार्य चापकोटिर्मस्तकम- येन निष्क्रान्ता । सोऽपि तद्वेदनया तत्क्षणान्मृतः । अतोऽहं ब्रवीमि – अतितृष्णा न कर्तव्या इति । स पुनरप्याह-ब्राह्मणि न श्रुतं भवत्या । आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।। ८२ ।। अथैवं सा तेन प्रबोधिता ब्राह्मण्याह-यथेवं तदस्ति मे गृहे स्तोक- तिलराशिः । ततस्तिलाल्लुचित्वा तिलचूर्णेन ब्राह्मणं भोजयिष्यामीति । ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन संमर्थ कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या गृहकर्मव्यग्रायास्तिलानां मध्ये कश्चित्सारमेयो मूत्रोत्सर्ग चकार । तं दृष्ट्वा सा चिन्तितवती- अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेर्यदेते तिला अभोज्याः कृताः । तदहुमेतान्समादाय कस्यचिगृहं गत्वा लुञ्चितैर लुञ्चितानानयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति । अथ यस्मिन्गृहेऽहं भिक्षार्थ प्रविष्टस्तत्र गृहे सापि तिलानादाय प्रविष्टा विक्रयं कर्तुम् । आइ च– गृह्णातु कश्चिदचितैलुञ्चितांस्तिलान् । अथ तद्गृहगृहिणी गृहं प्रविष्टा यावदलुचितैलुञ्चितान्गृह्णाति तावदस्याः पुत्रेण कामन्दकीशास्त्रं दृष्ट्वा व्याहृतम् - मातः अग्राह्याः खल्विमे तिलाः । नास्या अलुञ्चितैलुञ्चिता ग्राह्याः । कारणं किंचिद्भविष्यति । तेनैपालुञ्चितैलुन्वितान्प्रयच्छति । तच्छ्रुत्वा तया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमि -नाकस्माच्छा- ण्डिली मातः- इति ॥ एतदुक्त्वा स भूयोऽपि प्राह-अथ ज्ञायते तस्य क्रमणमार्गः । ताम्रचूड भाइ-भगवन् ज्ञायते । यत एकाकी न समा- गच्छति । किंत्वसंख्ययूथपरिवृतः पश्यतो मे परिभ्रमन्नितस्ततः सर्वज- मेन सहागच्छति याति च । अभ्यागत आह-अस्ति किंचित्खनित्रकम् । स आह- बाढमस्ति । एषा सर्वलोहमयी स्वहस्तिका । अभ्यागत आह तर्हि प्रत्यूषे त्वया मया सह बोद्धव्यं येन द्वावपि जनचरणामलिनायां भूमौ तत्पदानुसारेण गच्छावः । मयापि तद्वचनमाकर्ण्य चिन्तितम्-अहो विनष्टोऽस्मि यतोऽस्य साभिप्रायवचांसि श्रूयन्ते । ननं यथा निधानं ज्ञातं तथा दुर्गमप्यस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते । उक्तं च- स्तोकः तिलानां राशिः । अनेन विधिना विनिमयेनेत्यर्थः । कामन्दकीशास्त्रं कामन्दकप्रणीतं नीतिशा• । जनचरणैः चरणन्यासैः अमलिना तय । अभि- प्रायेण सहितानि साभिप्रायाणि तानि च वचांसि । अभिप्रायात् हृतभावात् । १ कर्तिते. २ स्थात.मित्रामिकम् । सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्ततुल्यापि निपुणाः पलप्रमाणं विजानन्ति ॥ ८३ ॥ वान्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुर जातकलापचिह्नः प्रत्युद्गतैरपसरन्सरसः कलापी ॥ ८४ ॥ 113 ततोऽहं भयत्रस्तमनाः सपरिवारो दुर्गमार्ग परित्यज्यान्यमार्गेण गन्तु प्रवृत्तः । सपरिजनो यावदग्रतो गच्छामि तावत्संमुखो बृहत्कायो मार्जा- रः समायाति । स च मूषकवृन्दमवलोक्य तन्मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्गगामिनमवलोक्य गईयन्तो हतशेषा रुधिरप्लावितव- सुंधरास्तमेव दुर्गं प्रविष्टाः । अथवा साध्विदमुच्यते-

छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तः पतितः करोतु विधुरे किंवा विधौ पौरुषम् ।। ८५ ।। अथाहमेकोऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रा- न्तरे स दुष्टपरित्राजको रुधिरविन्दुचचितां भूमिमवलोक्य तेनैव दुर्गमा- र्गेणागत्योपस्थितः । ततश्च स्वहस्तिकया खनितुमारब्धः । अथ तेन वनता प्राप्तं तन्निधानं यस्योपरि सदैवाहं कृतवसतिर्यस्योष्मणा महा- दुर्गमपि गच्छामि । ततो हृष्टमनास्ताम्रचूडमिदमूचेऽभ्यागतः- भो भग- बन् इदानीं स्वापहि निःशङ्कः । अस्योष्मणा मूषकरते जागरणं संपाद- यति । एवमुक्त्वा निधानमादाय मठाभिमुखं प्रस्थितौ द्वावपि । अहमपि यावन्निधानरेहितं स्थानमागच्छामि तावदरमणीयमुद्वेगकारकं तत्स्थानं वीक्षितुमपि न शक्नोमि । अचिन्तयं च-किं करोमि । क्व गच्छामि । कथं मे स्यान्मनसः प्रशान्तिः । एवं चिन्तयतो महाकष्टेन स दिवसो व्यतिक्रान्तः । अथास्तमितेऽर्के सोद्वेगो निरुत्साहस्तस्मिन्मठे सपरिवारः प्रविष्टः । हस्तेन तुला तोलनं तया । अन्यतनुजं पूर्वजन्मकृतमित्यर्थः । अजातं कलाप एव चिह्नं यस्य सः । मथुरा शिशुः प्रत्युद्वतैयथा दातपदैरपसरन् निवर्तमानः कलापी इति विज्ञायते । वृन्दं समूहं । कुत्सितोऽयथार्थत्वान्मार्गः कुमार्गः तेन गच्छतीति कुमार्गगामी तम् । रुधिरेण नाविता वसुन्धरा यैः । कूडमुन्माथः । वागुरा जाल- विशेषः । पर्यन्ते अग्निशिखाः पर्यन्ता०खाः तासां कलापः समूहस्तेन जटिल तस्मात् । विधुरे प्रतिकृले । १ करोति. २ निधानमाग० 114 पञ्चतन्त्र अथास्मत्परिग्रहशब्दमाकर्ण्य ताम्रचूडोऽपि भूयो भिक्षापात्रं जर्जरवंशेन ताडयितुं प्रवृत्तः । अथासावभ्यागतः प्राह- सखे किमद्यापि निःशङ्को न निद्रां गच्छसि । स आह–भगवन् भूयोऽपि समायातः सपरिवारः स दुष्टात्मा भूषकः । तद्भयाज्जर्जरवंशेन भिक्षापात्रं ताडयामि । ततो विह- स्याभ्यागतः प्राह-सखे मा भैषीः । वित्तेन सह गतोऽस्य कूर्दनोत्साहः । सर्वेषामपि जन्तूनामियमेव स्थितिः । उक्तं च- यदुत्साही सदा मर्त्यः पराभवति यजनान् । यदुद्धतं वदेद्वाक्यं तत्सर्वं वित्तजं बलम् ॥ ८६ ॥ अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षापात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तच्छ्रुत्वासौ मे शत्रुविहस्य ताम्रचूडमुवाच - भोः पश्य पश्य कौतूहलम् । आह च- अर्थेन बलवान्सर्वो अर्थयुक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं स्वजातेः समतां गतम् ॥ ८७ ॥ तत्स्वपिहि त्वं गतशङ्कः । यदस्योत्पतनकारणं तदावयोर्हस्तगतं जातम् । अथवा साध्विदमुच्यते- दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । तथार्थेन विहीनोऽत्र पुरुषो नामधारकः ॥ ८८ ॥ तच्छ्रुत्वाहं मनसा विचिन्तितवान् - यतोऽङ्गुलिमात्रमपि कूर्दनशक्ति- र्नास्ति तद्विगर्थहीनस्य पुरुषस्य जीवितम् । उक्तं च- अर्थेन च विहीनस्य पुरुषस्याल्पमधेसः । उच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ८९ ॥ यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ॥ ९० ॥ सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ ९१ ॥ न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि संप्राप्य तैर्विहीनः सुखे स्थितः ।। ९२ ।। शुष्कस्य कीटखातस्य वह्निदग्धस्य सर्वतः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ।। ९३ ॥ शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि प्राप्तं निःस्वं संत्यज्य गच्छति ।। ९४ ।। मर्त्यः यद्उत्साही उत्साहवान् । अल्पा मेधा यस्य सोल्पमेधाः तस्य । १ सुखैधितः. मित्रप्राप्तिकम् । उन्नम्योन्नम्य तत्रैव निर्धनानां मनोरथाः । हृदयेष्वेव लीयन्ते विधवा स्त्रीस्तनाविव ।। ९५॥ व्यक्तेऽपि वासरे नित्यं दौर्गत्यतमसावृतः । अग्रतोऽपि स्थितो यत्नान केनापीह दृश्यते ॥ ९६ ॥ 115 एवं विलप्याहं भग्नोत्साहस्तन्निधानं गण्डोपधानीकृतं दृष्टा स्वं दुग प्रभाते गतः । ततश्च मद्धत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति - अहो असमर्थोऽयमुदरपूरणेऽस्माकम् । केवलमस्य पृष्ठलग्नानां बिडाला- दिविपत्तयः । तत्किमनेनाराधितेन । उक्तं च- यत्सकाशान्न लाभः स्यात्केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ ९७ ॥ एवं तेषां वचांसि श्रुत्वा स्वदुर्गं प्रविष्टोऽहम् । यावन्न कश्चिन्मम सं- मुखेऽभ्येति तावन्मया चिन्तितम् - धिगियं दरिद्रता । अथवा साध्वि- दमुच्यते- मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यक्षस्त्वदक्षिणः ॥ ९८ ॥ एवं मे चिन्तयतस्ते भृत्या मम शत्रूणां सेवका जाताः । ते च मामे- काकिनं दृष्ट्वा विडम्बनां कुर्वन्ति । अथ मयैकाकिना योगनिद्रां गतेन भूयो विचिन्तितम् - यत्तस्य कुतपस्विनः समाश्रयं गत्वा तङ्गेण्डोपधान- वर्तिकृतां वित्तपेटां शनैः शनैर्विदार्य तस्य निद्रावशं गतस्य स्वदुर्गे तद्वि- त्तमानयामि येन भूयोऽपि मे वित्तप्रभावेणाधिपत्यं पूर्ववद्भविष्यति । उक्तं च- व्यथयन्ति परं चतो मनोरथ शतैर्जनाः । नानुष्ठानैर्धनैर्हीनाः कुलजा विधवा इव ।। ९९ ।। दौर्गत्यं देहिनां दुःखमपमानकरं परम् । येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥ १०० ॥ दैन्यस्य पात्रतामेति पराभूतेः परं पदम् । विपदामाश्रयः शश्वद्दौर्गत्यकलुषीकृतः ॥ १०१ ॥ लज्जन्ते बान्धवास्तेन संबन्धं गोपयन्ति च । मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥ १०२ ॥ मूर्तं लाघवमेवैतदपायानामिदं गृहम् । पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥ १०३ ॥ दुर्गतेर्भावो दौर्गत्यं दारिद्र्यं तदेव तमस्तेन । श्रद्धा अत्रास्तीति श्राद्धम् । गण्डोपधाने वर्तते तथा कृताम् । दौर्गत्येन कलुषीकृतो मालिन्यं प्रापितो नरः । १ यकृ०. २ तद्दण्डो. 116 पथतन्त्रे अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः । दीपखोत्थच्छायेव त्यज्यते निर्धनो जनैः ॥ १०४ ॥ शौचावशिष्टयाप्यस्ति किंचित्कार्यं क्वचिन्मृदा । निर्धनेन जनेनैव न तु किंचित्प्रयोजनम् ॥ १०५ ॥ अथनो दातुकामोऽपि संप्राप्तो धनिनां गृहम् । मन्यते याचकोऽयं धिग्दारिद्र्यं खलु देहिनाम् ॥ १०६ ॥ अतो वित्तापहारं विदधतो यदि मे मृत्युः स्यात्तथापि शोभनम् । उक्तं च- स्ववित्तहरणं दृष्ट्वा यो हि रक्षत्यसून्नरः । पितरोऽपि न गृह्णन्ति तद्दत्तं सलिलाञ्जलिम् ॥ १०७ ॥ तथा च । गवार्थे ब्राह्मणार्थे च स्त्रीवित्तहरणे तथा । प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥ १०८ ॥ एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत्तावत्प्रबुद्धो दुष्टतापसः । ततश्च जर्जरवंशप्रहारेण शिरसि ताडितः कथंचिदायुः शेषतया निर्गतोऽहं न मृतश्च । उक्तं च- प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मात्र शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥१०९ ॥ काककूम पृच्छतः - कथमेतत् । हिरण्यक आह- कथा ४ । अस्ति कस्मिश्चिन्नगरे सागरदत्तो नाम वणिक् । तत्सूनुना रूपकश- तेन विक्रीयमाणः पुस्तको गृहीतः । तस्मिंश्च लिखितमस्ति- प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥ ११०॥ तद्दृष्ट्वा सागरदत्तेन तनुजः पृष्टः - पुत्र कियता मूल्येनैष पुस्तको गृहीतः । सोऽब्रवीत् - रूपकशतेन । तच्छ्रुत्वा सागरदत्तोऽब्रवीत् - धिङ् मूर्ख त्वं लिखितैक श्लोकं पुस्तकं रूपकशतेन यद्द्धासि एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तदयप्रभृति त्वया मे गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्स्य गृहान्निः सारितः । स च तेन निवेंदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगरमासाद्यावस्थितः । अथ कतिपय- खट्टाया उत्तिष्ठतीति खट्टोत्था । दीपेन खट्टोत्थादी० सा चासौ छाया इव । शौ- चादवशिष्टा शौ०ष्टा । वित्तापहारं द्रव्यानयनम् । मित्रप्राप्तिकम् । 117 दिवसैस्तनगरनिवासिना केनचिदसौ पृष्टः- कुतो भवानागतः । किंनाम- थेयो वेति । असावब्रवीत-प्राप्तव्यमर्थं लभते मनुष्यः । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्धं नाम जातम् । अथ राजकन्या चन्द्रवती नामाभिनव- रूपयौवनसंपन्ना सखीद्वितीयैकस्मिन्महोत्सव दिवसे नगरं निरीक्षमा णास्ति । तत्रैव च कश्चिद्राजपुत्रोऽतीवरूपसंपन्नो मनोरमश्च कथमपि तस्या दृष्टिगोचरे गतः । तद्दर्शनसमकालमेव कुसुमचाणाहतया तया निज- सख्यभिहिता - सखि यथा किलानेन सह समागमो भवति तथाय स्वया यतितव्यम् । एवं च श्रुत्वा सा सखी तत्सकाशं गत्वा शीघ्रमन्त्र- वीत् - यदहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन्मम त्वदर्शनान्मनोभवेन पश्चिमावस्था कृता । तव्यदि शीघ्रमेव मद- न्तिके न समेष्यसि तदा मे मरणं शरणम् । इति श्रुत्वा तेनाभिहितम् - यद्यवश्यं मया तत्रागन्तव्यं तत्कथय केनोपायेन प्रवेष्टव्यम् । अथ स- ख्याभिहितम् - रात्रौ सौधावलम्बितया दृढवरत्रया त्वया तत्रारोढव्यम् । सोऽब्रवीत् - यद्येवं निश्चयो भवत्यास्तदहमेवं करिष्यामि । इति निश्चित्य सखी चन्द्रवतीसकाशं गता । अथागतायां रजन्यां स राजपुत्रः स्वचे- तसा व्यचिन्तयत् - अहो महदकृत्यमेतत् । उक्तं च- अपरं च । गुरोः सृतां मित्रभार्यां स्वामिसेवक गेहिनीम् । यो गच्छति पुमलोके तमाहुर्ब्रह्मघातिनम् ॥ ११३ ॥ अयशः प्राप्यते येन येन चापगतिर्भवेत् । स्वर्गाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ॥ ११२ ॥ इति सम्यग्विचार्य तत्सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यट- न्धवलगृहपार्श्वे रात्राववलम्बितवरत्रां दृष्ट्वा कौतुकाविष्टहृदयस्तामाल- म्ब्याधिरूढः । तया च राजपुत्र्या स एवायमित्याश्वस्तचित्तया स्नान- खादनपानाच्छादनादिना संमान्य तेन सह शयनतलमाश्रितया तदङ्ग- संस्पर्शसंजातहर्षरोमाञ्चितगात्रयोक्तम् - युष्मद्दर्शनमात्रानुरक्तया मया- त्मा प्रदत्तोऽयम् । त्वद्वर्जमन्यो भर्ता मनस्यपि मे न भविष्यति इति । तत्कस्मान्मया सह न ब्रवीषि । सोऽब्रवीत् - प्राप्तव्यमर्थं लभते मनुष्यः । कुसुमबाणः कामः। कुसुमानि बाणा यस्य । तदुक्तं अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पचैते पञ्चवाणस्य सायकाः ॥ ब्रह्माणं हन्तीति ब्रह्मवाती तम् । कौतुकेनाविष्टं हृदयं यस्य । तस्य अङ्गानि तदङ्गानि तेषां संस्पर्शेन संजातः तदतः स चासौ हर्षश्च तेन रोमाञ्चितानि गात्राणि यस्याः । १ नामा स्वम्. 118 पञ्चतन्त्रे इत्युक्ते तयान्योऽयमिति मत्वा धवलगृहादुत्तार्य मुक्तः । स तु खण्ड देवकु- ले गत्वा सुप्तः । अथ तत्र कयाचित्स्वैरिण्या दत्तसंकेतको यावद्दण्डपा- शकः प्राप्तस्तावदसौ पूर्वसुप्तस्तेन दृष्टो रहस्यसंरक्षणार्थमभिहितश्व- को भवान् । सोऽब्रवीत् - प्राप्तव्यमर्थं लभते मनुष्यः । इति श्रुत्वा दण्ड- पाश के नाभिहितम् - यच्छून्यं देवगृहमिदम् । तदत्र मदीयस्थाने गत्वा स्वपिहि । तथा प्रतिपद्य समतिविपर्यासादन्यशयने सुप्तः । अथ तस्य रक्ष- कस्य केन्या विनयवती नाम रूपयौवनसंपन्ना कस्यापि पुरुषस्यानुरक्ता संकेतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एवायम- स्मद्वल्लभ इति रात्रौ घनतरान्धकारव्यामोहितोत्थाय भोजनाच्छादनादि- क्रियां कारयित्वा गान्धर्वविवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाह-किमद्यापि मया सह विश्रब्धं भ- वान ब्रवीति । सोऽब्रवीत् - प्राप्तव्यमर्थं लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम् - यत्कार्यमसमीक्षितं क्रियते तस्येदृक्फलविपाको भवतीति । एवं विमृश्य सविषादया तया निःसारितोऽसौ । स च यावद्वीथीमार्गेण गच्छति तावदन्यविषयवासी वरकीर्तिर्नाम वरो महता वायशब्देनागच्छ- ति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत्प्रत्यासन्ने लग्न- समये राजमार्गासन्न श्रेष्ठिगृहद्वारि रचितमण्डपवेदिकायां कृतकौतुकम- ङ्गलवेशा वणिक्सुतास्ते तावन्मदमत्तो हस्त्यारोहकं हत्वा प्रणश्यज्जनको- लाइलेन लेोकमाकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथास्मिन्नवसरे भयतरललोचनामेका- किनीं कन्यामवलोक्य मा भैषीरहं परित्राता इति सुधीरं स्थिरी- कृत्य दक्षिणपाणौ संगृह्य महासाहसिकतया प्राप्तव्यमर्थः परुषवाक्यैई- स्तिनं निर्भत्सितवान् । ततः कथमपि दैवयोगादपयाते हस्तिनि याव- त्स सुहृद्वान्धवोऽतिक्रान्ते लग्नसमये वरकीर्तिरागच्छति तावत्तां कन्याम- न्यहस्तगतां दृष्ट्वाभिहितम् - भोः श्वशुर विरुद्धमिदं त्वयानुष्ठितं यन्मह्यं प्र- दाय कन्यान्यस्मै प्रदत्तेति । सोऽब्रवीत् भोः अहमपि हस्तिभयपलायितो भवद्भिः सहायातो न जाने किमिदं वृत्तम् । इत्यभिधाय दुहितरं प्रष्टुमार- ब्धः - वत्से न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोऽयं वृत्तान्तः । सात्र- वीत् - यदहमनेन प्राणसंशयाद्वक्षिता तदेनं मुक्त्वा मम जीवन्त्या नान्यः स्वेन ईरितुं शीलमस्याः सा स्वैरिणी तया । अतिशयेन घनः घनतरः स चासौ अन्धकारश्च तेन व्यामोहिता । वदनमेव कमलं वद० विकसितं वदनकमलं यस्याः । राजमार्गस्यासन्नं राजन्नं च तत् श्रेष्ठिगृहं च तस्य द्वारे । कृतं कौतुकं मंगल- वेशश्च यस्याः । प्राणानां संशयः प्रायः तस्मात् । १ बृहत्कन्या० २ न्धवेनाति० तिनागत्य मित्रप्राप्तिकम् । 119 पाणि ग्रहीष्यति इति अनेन वार्ताव्यतिकरेण रजनी व्युष्टा । अथ प्रा - तस्तत्र संजाते महाजनसमवाये वार्ताव्यतिकरं श्रुत्वा राजदुहिता तमुद्दे- शमागतः । कर्णपरम्परया श्रुत्वा दण्डपाश कसुतापि तत्रैवागता । अथ तँ महाजनसमवायं श्रुत्वा राजापि तत्रैवाजगाम । प्राप्तव्यमर्थं प्राह- भोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः । अथ सोऽब्रवीत्–प्राप्तव्य- मर्थं लभते मनुष्यः इति । राजकन्या स्मृत्वा प्राह–देवोऽपि तं लङ्घयितुं न शक्तः इति । ततो दण्डपाशक सुताब्रवीत् – तस्मान्न शोचामि न विस्मयो मे इति । तमखिललोकवृत्तान्तमाकर्ण्य वणिक्सुताब्रवीत् – यदस्मदीयं न हि तत्परेषाम् इति । अभयदानं दत्त्वा राजा पृथक्पृथग्टत्तान्तान्ज्ञात्वाव- गततत्त्वस्तस्मै प्राप्तव्यमर्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण सम सर्वालंकारपरिवारयुता दत्त्वा त्वं मे पुत्रोऽसीति नगरविदितं तं यौवरा- ज्येऽभिषिक्तवान् । दण्डपाशकेनापि स्वदुहिता स्वशक्त्या वस्त्रदानादिना संभाव्य प्राप्तव्यमर्थाय प्रदत्ता । अथ प्राप्तव्यमर्थेनापि स्वीयपितृमातरौ समस्त कुटुम्बावृतौ तस्मिन्नगरे संमानपुरःसरं समानीतौ । अथ सोऽपि स्वगोत्रेण सह विविध भोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवी मि - प्राप्तव्यमर्थं लभते मनुष्यः इति ॥ तवेत्सकलं सुखदुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्सकाशमानीतः । तदेतन्मे वैराग्यकार - णम् । मन्थरक आह-भद्र भवति सुहृदयमसंदिग्धं यः क्षुत्क्षामोऽपि शत्रुभूतं त्वां भक्ष्यस्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्ष- यति । उक्तं च यतः- तथा च । विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ।। ११३ ॥ विद्वद्भिः सुहृदामत्र चिक्षैरेतैरसंशयम् । परीक्षाकरणं प्रोक्तं होमाग्नरिव पण्डितैः ॥ ११४ ॥ आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् । वृद्धिकाले तु संप्राप्ते दुर्जनोऽपि सुहृद्भवेत् ।। ११५ ।। तन्ममाप्ययास्य विषये विश्वासः समुत्पन्नो यतो नीतिविरुद्वेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते- मित्रं कोऽपि न कस्यापि नितान्तं न च वैरकृत् । दृश्यते मित्रविध्वस्तः कार्याद्वैरिप्ररक्षितः ॥ ११६ ॥ सर्वै च ते अलंकाराश्च परिवारश्च तैः युताम् । शोभनं हृदयं यस्य सुहृत् । १ भाग. २ मित्रस्य सुकुलीनस्य. ३ स्तात्का० द्वैरी परीक्षित: 120 पञ्चतन्त्रे तस्म्वागतं भवतः । स्वगृहवदास्यतामत्र सरस्तीरे । यच वित्तनाशी विदेशवासश्व ते संजातस्तत्र विषये संतापो न कर्तव्यः । उक्तं च- अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः । किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ ११७ ॥ अतएव विवेकिनो जितात्मानो धनस्पृहां न कुर्वन्ति । उक्तं च- सुसंचितैजर्विनवत्सुरक्षितैर्निजेऽपि देहेन वियोजितैः क्वचित् । पुंसो यमान्तं व्रजतोऽपि निष्ठुरैरेतैर्धनैः पञ्चपदी न दीयते ।। ११८ ।। अन्यच । यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । भाकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ११९ ॥ निर्दोषमपि वित्तान्यं दोषैर्योजयते नृपः । निर्धनः प्राप्तदोषोऽपि सर्वत्र निरुपद्रवः ।। १२० ।। अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थान्कष्टसंश्रयान् ॥ १२१ ॥ अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ।। १२२ ।। अपरं विदेशवासजमपि वैराग्यं त्वया न कार्यम् । यतः - को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृती यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यदानखलाङ्गलप्रहरणः सिंहो वनं गाहते तस्मिन्नेव इतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ।। १२३ ॥ अर्थहीनः परे देशे गतोऽपि यः प्रज्ञावान्भवति स कथंचिदपि न सी- दति । उक्तं च- कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १२४ ॥ तत्प्रज्ञानिधिर्भवान प्राकृतपुरुषतुल्यः । अथवा । उत्साह संपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥ १२३ ॥ पश्चानां पदानां समाहारः पचपदी । निर्गत उपद्रवो यस्मात् । जनः मोक्षार्थी सन् तानि कष्टानि शतांशेनापि सहते चेत् मोचमाम् यादित्यन्वयः । बाह्वोः प्रता- पस्तेनार्जितम् । शोभना विद्या येषां ते सुविद्याः तेषाम् । प्राकृतश्चासौ पुरुषश्च तेनं तुल्यः । दीर्घं सूत्रमस्यासौ दीर्घसूत्रः नदी० अदीर्घ० । क्रिया च विधिश्व तो जाना- सीति तम् । १ आये. ९ वीरस्य. वै. ४ रणैः मित्र प्रामिकम् । 121 अपरं प्राप्तोऽप्यर्थः कर्मप्राप्त्या नश्यति । तदेतावन्ति दिनानि त्वदी- यमासीत् । मुहूर्तमप्यनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधि- नापहियते । अर्थस्योपार्जनं कृत्वा नैव भोगं समश्रुते । अरण्यं महदासाथ मूढः सोमिलको यथा ।। १२६ ।। हिरण्यक आह- कथमेतत् । स आह- कथा ५। कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । स चानेक- विधपट्टर चनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्युत्पादयति । परं तस्य चानेकविधपट्टरचनानिपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथ- मप्यर्थमात्रं संपद्यते । अथान्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसंपादन- विज्ञानिनो महर्द्धिसंपन्नाः । तानवलोक्य स स्वभार्यामाह-प्रिये पश्यैता- न्स्थूलपट्टकार कान्धनकनकसमृद्धान् । तदधारणकं ममैतत्स्थानम् । तद- न्यत्रो पार्जनाय गच्छामि । सा प्राह-भोः प्रियतम मिथ्या प्रलपितमे- तयदन्यत्रगतानां धनं भवति स्वस्थाने न भवति । उक्तं च- उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्रात्या नादत्तमुपतिष्ठति ।। १२७ ।। तथा च । न हि भवति यन्त्र भाव्यं भवति व भाव्यं विनापि यनेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ।। १२८ ।। यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥ १२९ ॥ शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठेत्त्वथ सहात्मना ॥ १३० ॥ यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ।। १३१ ।। तस्मादत्रैव व्यवसायपरो भव । कौलिक आह-प्रिये न सम्यगभि हितं भवत्या । व्यवसायं विना कर्म न फलति । उक्तं च- नास्ति एका विधा यरयाः सानेकविधा सा चासौ पट्टरचना च तथा रञ्जितानि । वचनायां निपुणः तस्य । स्थूलवणां संपादनस्य विज्ञानं येषाम् । महती चासो ऋद्विव तया सम्पन्नाः । १ तिष्ठति तु. 122 पत्रतन्त्रे यथैकेन न हस्तेन तालिका संप्रपयते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ॥ १३२ ॥ पश्य कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोय विना व प्रविशेत्र कथंचन ॥ १३३ ॥ तथा च । तथा च । उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैव हि दैवमिति कापुरुषा वदन्ति । ‘वैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ।। १३४ ॥ उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः । न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः ॥ १३५ ॥ उद्यमेन विना राजन्न सिद्ध्यन्ति मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ १३६ ॥ स्वशक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र वैवान्तरितपौरुषः ।। १३७ ॥ तन्मयावश्यं देशान्तरं गन्तव्यम् । इति निश्चित्य वर्धमानपुरं गर्तः । तत्र च वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयः स्वगृहं प्रस्थितः । अथार्धपथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान्रविरस्तमु- पागतः । तदासौ व्यालभय त्स्थूलतरवटस्कन्धमारुह्य यावत्प्रसुप्तस्तिष्ठति तावनिशीथे स्वप्ने द्वौ पुरुषौ रौद्राकारौ परस्परं प्रजल्पन्तावश्टणोत् । तत्रैक भाह - भोः कर्तत्वं किं सम्यङ् न वेत्सि यदस्य सोमिलकस्य भो- अनाच्छादनाभ्यधिका समृद्धिर्नास्ति । तत्किं त्वयास्य सुवर्णशतत्रयं द- त्तम् । स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनाम् । तत्र च तस्य परिणतिस्त्वदायतेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्र- न्थिमवलोकयति तावद्रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास - अहो किमेतत् । महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । तद्व्यर्थ श्रमोऽ- किंचनः कथं स्वपत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रेण सुवर्णशतपञ्चकमुपायं भूयोपि स्वस्थानं प्रति प्रस्थितः । यावदर्धपथे भूयोऽटवीगतस्य भगवान्भानुरस्तं देवेन अन्तरितं पौरुषं यस्य । शानां त्र्यं शतत्रयं सुवर्णानां श० सु०यं । अर्ध- श्वासौ पन्थाः च तम्मिन् । रौद्र आकरां ययोस्तौ । भोजनं चाच्छादनं च भो०नं ( स. द्वं०.) तस्मादभ्यधिका । १ गरबा.मित्रप्राप्तिकम् । 123 जगाम । अथ सुवर्णनाशभयात्सुश्रान्तोऽपि न विश्राम्यति । केवलं कृत- गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वा पुरुषों तादृशौ दृष्टिदेशे समा- । गच्छन्तौ जल्पन्तौ च ऋणांति । तत्रैकः प्राह- भोः कर्तः किं त्व- यैतस्य सुवर्णशतपकं प्रदत्तम् । तत्किं न वेत्सि यद्भोजनाच्छादनाभ्य- धिकमस्य किंचिन्नास्ति । स आह - भोः कर्मन मयावश्यं देयं व्यवसा- यिनाम् । तस्य परिणामस्त्वदायत्तः । तत्किं मामुपालम्भयसि । तच्छ्रु त्वा सोमिलको यावद्रन्थिमवलोकयति तावत्सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत्- अहो किं मम धनरहितस्य जीवितेन । तदत्र वटवृक्ष आत्मानमुद्बध्य प्राणांस्त्यजामि । एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत्प्र- क्षिपति तावदेकः पुमानाकाशस्थ एवेदमाह - भो भोः सोमिलक मै साहसं कुरु । अहं ते वित्तापहारकः । न ते भोजनाच्छादनाभ्यधिकां वराटिकामपि सहामि । तद्गच्छ स्वगृहं प्रति । अन्यच्च भवयसाहसे- नाहं तुष्टः । तथा मे न स्याद्वयर्थं दर्शनम । तत्प्रार्थ्यतामभीष्टो वरः कश्चित् । सौमिलक आह- यद्येवं तदेहि मे प्रभूतं धनम् । स आह- भोः किं- करिष्यसि भोगरहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्ति- रपि नास्ति । उक्तं च- किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ।। १३८ ।। सोमिलक आह- यद्यपि भोगो नास्ति तथापि भवतु मे घनम् । उक्तं च- कृपणोऽप्यकुलीनोऽपि सज्जनैर्वर्जित सदा । तथा च । सेव्यते स नरो लोके यस्य स्याद्वित्तसंचयः ॥ १३९ ॥ शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १४० ॥ पुरुष आह- किमेतत् । सोऽब्रवीत्- कथा ६ । कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महावृषभो वसति । स च म- दातिरेकात्परित्यक्तनिजपृथः शृङ्गाभ्यां नदीतटानि विदारयन्स्वेच्छया मरकतसदृशानि शष्पाणि भक्षयन्नरण्यचरो बभूव । अथ तत्रैव वने प्र- कृता गृहायोत्कण्ठा येन । भवत इदं भवदीयं साहसं तेन । तीक्ष्णे विषाणे बस्य । परित्यक्तं निजं यूथं येन । १ तस्य धनस्य भो०. २ प्रतिवसति स्म. 124 पञ्चतन्त्रे लोभको नाम शृगालः प्रतिवसति स्म । स कदाचित्स्वभार्यया सह नदीतीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणाववलोक्य श्टगाल्या शृगालोऽभिहितः स्वामिन पश्यास्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ । तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठानुयायिना भाव्यम् । श्टगाल आह-प्रिये न ज्ञायते कदाच्चिदेतयोः पतनं भविष्यति वा न वा । तत्किं वृथा श्रमाय मां नियोजयसि । अत्र- स्थस्तावज्जलार्थमागतान्मूषकान्भक्षयिष्यामि समं त्वया मार्गो ऽयं यत- स्तेषाम् । अपरं यदि त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्विदेतत्स्थानं समाश्रयिष्यति । नैतगुज्यते कर्तुम् । उक्तं च- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ १४१ ॥ श्टगाल्याह- भोः कापुरुषस्त्वम् । यत्किंचित्प्राप्तं तेनापि संतोषं करोषि । उक्तं च- सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ।। १४२ ।। तस्मात्पुरुषेण सदैवीत्साहवता भाव्यम् । उक्तं च- यत्रोत्साहसमारम्भो यत्रालस्यविनिग्रहः । नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥ १४३ ।। तद्दैवमिति संचिन्त्य त्यजेत्रोद्योगमात्मनः । अनुद्योगेन नो तैलं तिलेभ्योपि हि जायते ॥ १४४ ॥ अन्यच । यः स्तोकेनापि संतोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्ज्यते ॥ १४५ ॥ यच त्वं वदसि एतौ पतिष्यतो न वेति तदप्ययुक्तम् । उक्तं च- कृतनिश्वयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातक: को वराकोऽयं यस्येन्द्रो वारिवाहकः ।। १४६ ।। अपरं मूषकमांसस्य निर्विण्णाहम् । एतौ च मांसपिण्डौ पतनप्रायौ दृश्येते । तत्सर्वथा नान्यथा कर्तव्यम् इति । अथासौ तदाकये मूष- उत्साहेन समारम्भः । नयविक्रमयोः संयोगः । कृतः निश्चयः कृव्यः सो० स्त्येषां ते । तुङ्गिमा महत्पदम् । १ अथ यदा त्वा. २ विही नता. ३ अनुयोगं विना तैलं तिलानां नोप. ४ नः प्रशस्थते. मित्रप्राप्तिकम् । 125 कप्राप्तिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथवा सा- ध्विदमुच्यते- तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः । स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो धियते बलात् ।। १४७ ।। अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम्। अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ।। १४८ ।। एवं स तस्य पृष्ठतः सभार्यः परिभ्रमंश्विरकालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात्पञ्चदशे वर्षे श्टगालः स्वभार्यामाह- शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १४९ ॥ तयोस्तत्पश्चादपि पातो न भविष्यति । तत्तदेव स्वस्थानं गच्छावः । अतोऽहं ब्रवीमि - शिथिलौ च सुबद्धौ च इति ॥ पुरुष आह- यद्येव तद्रच्छ भूयोऽपि वर्धमानपुरम् । तत्र द्वौ वणिक्पुत्रौ वसतः । एको गुप्तधनो द्वितीय उपभुक्तधनः । ततस्तयोः स्वरूपं बुद्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभश्वितेन ततस्त्वामपि गु- प्तधनं करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधर्न करोमि इति । एवमुक्त्वादर्शनं गतः । सोमिलकोऽपि विस्मितमना भूयोऽपि वर्धमानपुरं गतः । अथ संध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्रान्धवास्तमितसूर्ये प्रविष्टः । अथासौ भार्यापुत्रसमेतेन गुप्तधनेन निर्भर्त्स्यमानो हठागृहं प्रविश्योपविष्टः । ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किंचिदशनं दत्तम् । ततश्व भुक्त्वा तत्रैव यावत्सप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह-भोः कर्तः किं त्वयास्य गुप्तधनस्या- न्योऽधिको व्ययो निर्मितो यत्सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् । स आह-भोः कर्मन न ममात्र दोषः । मया पुरुषस्य लाभप्राप्तिर्दातव्या । तत्परिणतिः पुनस्त्वदायत्ता इति । अथासौ यावदुत्तिष्ठति तावदुप्तधनो विसूचिकया खियमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः संजातः । सोमिलकोऽपि प्रभाते तद्गृहान्निष्क्रम्योपभुक्तधनगृहं गतः । तेनापि चाभ्युत्थानादिना सत्कृतो विहितभोजनाच्छादनसंमानस्तस्यैव गृहे भव्यशय्यामारुह्य सुष्वाप । ततश्व निशीथे यावत्पश्यति ताव- स्त्रिया वाक्यं स्त्रीवाक्यं तदेवाङ्क- शस्तेन विक्षुण्णः । दत्तं च तद्भोग्यं च तेन । विहितः भोजनाच्छादनेन समानी यस्य । भन्या चासौ शय्या च ताम् । 126 पञ्चतन्त्रे तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अथ तयोरेक आह-भौः कर्तः अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत्कथय कथमस्योद्धारकविधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारकगृहात्समानी- तम् । स आह- भोः कर्मन मम कृत्यमेतत् । परिणतिस्त्वदायत्ता इति । अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तमादाय समायात उप- भुक्तधनाय समर्पयामास । तद्दृष्ट्वा सौमिलकश्विन्तयामास - संचयरहि- तोऽपि वरमेष उपभुक्तधनः नासौ कदर्यो गुप्तधनः । उक्तं च- अग्निहोत्रफला वेदाः शीलवित्तफलं श्रुतम् । रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १५० ॥ तद्विधाता मां दत्तभुक्तधनं करोतु । न कार्य में गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः । अतोऽहं ब्रवीमि - अर्थस्यो- पार्जनं कृत्वा इति । तद्भद हिरण्यक एवं ज्ञात्वा धनविषये संतापो न कार्यः । अथ विद्यमानमपि धनं भोज्यबन्ध्यतया तदविद्यमानं मन्त- व्यम् । उक्तं च- गृहमध्य निखातेन धनेन धनिनो यदि । तथा च- अन्यच्च । भवामः किं न तेनैव धनेन धनिनो वयम् ।। १५१ ।। उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदर संस्थानां परीवह इवाम्भसाम् ।। १५२ ।। दातव्यं भोक्तव्यं धनविषये संचयों न कर्तव्यः । पश्येद मधुकरीणां संचितमर्थं हरन्त्यन्ये ।। १५३ ।। दानं भोगो नाशस्त्रिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।। १५४ एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं चे– सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दै फलैर्मुनिवरा गमयन्ति काल संतोष एव पुरुषस्य परं निधानम् ।। १५५ ॥ शीलमेव वित्तं शीलं च वित्तं च इति वा तत्फलमस्य । भोज्ये वन्ध्यं भो० तस्य भावः भो०ता तया । स्थित्यर्थं केवलं रक्षणार्थम् । १ अस्मात्परमिदमधिकं पद्यं पु० रे-धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखा- शया । तप्तग्रीष्मेण सेवन्ते शैत्यार्थे ते हुताशनम् ॥ मित्रप्राप्तिकम् । संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ।। १५६ ॥ पीयूषमिव संतोषं पिवतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसंतोषवतां पुनः ।। १५७ ।। निरोधाचेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते रवौ मेघैराच्छन्नाः स्युर्गभस्तयः ॥ १५८ ॥ वाच्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः । वाच्छा निवर्तते नाथैः पिपासेवाग्निसेवनैः ॥ १५९ ॥ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः । स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ।। १६० ॥ धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १६१ ॥ दानेन तुल्यो निधिरस्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् । विभूषणं शीलसमं न चान्यत् संतोषतुल्यं धनमस्ति नान्यत् ॥ १६२ ।। दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता । जरद्भवधनः शर्वस्तथापि परमेश्वरः ।। १६३ ॥ 127 एवं ज्ञात्वा भद्र त्वया संतोषः कार्यः । इति मन्थरकवचनमाकर्ण्य वायस आह–भद्र मन्थरको यदेवं वदति तत्त्वया चित्ते कर्तव्यम् । अथवा साध्विदमुच्यते- सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १६४ ॥ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥ १६५ ॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धकत्रासितस्तस्मिन्नेव सरसि प्रविष्टः । अथायान्तं ससंभ्रममवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यको निकटवर्तिनं शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थि- तः । अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्थरकमुवाच - एह्येहि स्वस्य पतिः स्वपतिः स्वपतौ साधु स्वापतेयं द्रव्यम् । वित्तस्य ईहा इच्छा । मान एव द्रव्यं तस्य यद्वा मानद्रविणयोः अल्पता । जरन् चासौ गौः जरद्गवः स धनं यस्य । १ संच्छन्नाः २ भूतिः. ३ अस्मात्परमिदम. प. क्वचित् - सकृत्कन्दुकपातेन पवत्यार्यः पवन्नपि । तथा पतति मूर्खस्तु मृत्पिण्डतनं यथा ॥ 128 पञ्चतन्त्रे सखे मन्थरक मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुषसंभवः इति । तच्छ्रुत्वा मन्थरको देशकालोचितमाह- भो लघुपतनक यथायं मृगो दृश्यते प्रभूतमुच्छ्रा समुहद्धान्तदृष्टया पृष्ठतोऽवलेोकयति तन्त्र तृषार्त एव ननं लुब्धकत्रासितः । तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वा इति । उक्तं च- भयत्रस्तो नरः श्वासं प्रभृतं कुरुते मुहुः । दिशोऽवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित् ॥ १६६ ॥ तच्छ्रुत्वा चित्राङ्ग आह-भो मन्थरक ज्ञातं त्वया सम्यये त्रा- सकारणम् । अहं लुब्धकशरप्रहारादुद्वारितः कृच्छ्रेणात्र समायातः । मम पृथं तैर्लुब्धकैर्व्यापादितं भविष्यति । तच्छरणागतस्य मे दर्शय किं- चिदगम्यं स्थानं लुब्धकानाम् । तदाकर्ण्य मन्थरक आह-भोचित्राङ्ग श्रूयतां नीतिशास्त्रम्- द्वादुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने । हस्तयोश्चानादेको द्वितीयः पादवेगजः ॥ १६७ ॥ तद्गम्यतां शीघ्रं घेनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लु- उधकाः । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच - भो मन्थरक गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । तच्चित्राङ्ग त्वं विश्रब्धो जलाद्बहिर्भव । ततस्ते चत्वारोऽपि मित्रभावमाश्रितास्त- स्मिन्सरसि मध्याह्नसमये वृक्षच्छायाया अवस्तात्सुभाषितगोष्ठी सुखमनु- भवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते– सुभाषितरसास्वादबद्ध रोमाञ्चकञ्चुकाः । विनापि संगमं स्त्रीणां सुधियः सुखमासते ।। १६८ ।। सुभाषितमयद्रव्यसंग्रहं न करोति यः । स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ।। १६९ ।। तथा च । सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य संपुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ १७० ॥ अथैकस्मिन्नहनि गोष्ठीसमये चित्राङ्गो नायातः । अथ ते व्याकुली- भूताः परस्परं जल्पितुमारब्धाः - अहो किमय सुहृन्न समायातः । किं उद्भ्रान्ता चासौ दृष्टिस्तया । विमुक्तौ विमुक्तये । सुभाषितानां रसः सुभा०सः तस्य आस्वादः सु०दः तेन बद्धा रोमाचा एवं कञ्चुकः येषाम् । सुभाषितस्य विकारी सुभा०मयं द्रव्यं तस्य संग्रहः तम् । प्रस्तावा एव यज्ञास्तेषु । न व्याकुला अव्याकुलाः : । अ० व्याकुलाः सम्पन्ना व्या०भूताः । १ सघ. २ बना. ६ कम्. ।…कवीनां सुखमेधते. ४ मृगः. मित्रप्रातिकम् । 129 सिंहादिभिः क्वापि व्यापादित उत लुब्धकैरथवाऽनले प्रपतितो गतवि- षमे वा नवतृणलौल्यादिति । अथवा साध्विदमुच्यते- स्वगृहोद्यानगतेऽपि स्निग्धैः पापं विशङ्कयते मोहात् । किमु दृष्टबह्र पायप्रतिभयकान्तारमध्यस्थे ॥ १७१ ॥ अथ मन्थरको वायसमाह-भो लघुपतनक अहं हिरण्यकश्च तावद्- द्वावप्यशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्रत्वा त्वमरण्यं शोधय यदि कुत्रचित्तं जीवन्तं पश्यसि इति । तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत्पल्वलतीरे चित्राङ्गः कूटपाशनियन्त्रितस्तिष्ठति । तं दृष्ट्वा शोकव्याकुलितमनास्तमवोचत् - भद्र किमिदम् । चित्राङ्गोऽपि वा- यसमवलोक्य विशेषेण दुःखितमना वभूव । अथवा युक्तमेतत् । अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥ १७२ ॥ ततश्च बाष्पावसाने चित्राङ्गी लघुपतनकमाह - भो मित्र संजातोऽयं तावन्मम मृत्युः । तद्युक्तं संपन्नं यद्भवता सह मे दर्शनं संजातम् । उक्तं च- प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् । तद्वाभ्यां सुखदं पश्चाज्जीवतोऽपि मृतस्य च ॥ १७३ ॥ तत्क्षन्तव्यं यन्मया प्रणयात्मुभाषितगोष्ठीष्वभिहितम् । तथा हिरण्य- कमन्थरको मम वाक्याद्वाच्यौ- अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम् । तत्क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥ १७४ ॥ तच्छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यमस्मद्विधैर्नित्रैर्विद्यमानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तं च- संपदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ।। १७५ ।। एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्वास्य यत्र हिरण्यकमन्थरको निष्ठ- तस्तत्र गत्वा सर्वं चित्राङ्गपाशपतनं कथितवान् । हिरण्यकं च चित्राङ्ग- गतरूपं विषमं तस्मिन् प्रपतितः । दृष्टाश्च ते बहवः अगयाश्च तेभ्यः प्रतिभयं यस्मिन् तत् च कान्तारं च तस्य मध्ये तिष्ठतीति ०स्थः । कूटस्य पाशरतेन निय- न्त्रितः । भुवनानां त्रयं तस्य तिलकम् । १ मया तत्क्षम्यतामद्य द्वाभ्यामपि प्रसादतः । 130 पञ्चतन्त्रे पाश्रमोक्षणं प्रति कृतनिश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्गसमीपे गतः । सोऽपि मूषक मवलोक्य किंचिज्जविताशया संश्लिष्ट भाৱ- आपन्नाशाय विबुधै कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चियोऽत्र मित्रविवर्जितः ।। १७६ ।। हिरण्यक आह-भद्र त्वं तावत्रीतिशाखज्ञो दक्षमतिः । तत्कथमत्र कूटपाशे पतितः । स आह-भोः न कालोऽयं विवादस्य । तन । यावत्स पापात्मा लुब्धकः समभ्येति तावद् द्वततरं कर्तयेमं मत्पादपा- शम् । तदाकर्ण्य विहस्याह हिरण्यकः - किं मय्यपि समायाते लुब्धका- दिभेषि । ततः शास्त्रं प्रति महती मे विरक्तिः सपना यद्भर्वाद्विधा अपि नीतिशास्त्रविद एतामवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि । स आह– भद्र कर्मणा बुद्धिरपि हन्यते । उक्तं च– कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ।। १७७ ॥ विधात्रा रचिता या सा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्ताः स्वबुद्धयाप्यतिपण्डिताः ॥ १७८ ॥ एवं तयोः प्रवदतोः सुहृद्वयसन संतप्तहृदयो मन्थरकः शनैःशनैस्तं प्रदेशमाजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकमाह- अहो न शोभन- मापतितम् । हिरण्यक आह-किं स लुब्धकः समायाति । स आह- आस्तां तावलुब्धकवार्ता । एष मन्थरकः समागच्छति । तदनीतिरनु ठितानेन यतो वयमप्यस्य कारणान्नूनं व्यापादनं यास्यामो यदि सपा- पात्मा लुब्धकः समागमिष्यति । तदहं तावत्खमुत्पतिष्यामि । त्वं पुनर्बिलं प्रविश्यात्मानं रक्षयिष्यसि । चित्राङ्गनेऽपि वेगेन दिगन्तरं यास्यति । एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि । अत्रान्तरे प्राप्तोऽयं मन्थरकः । हिरण्यक आह-भद्र न युक्तमनुष्ठितं भवता यदत्र समायातः । तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति । मन्थरक आह-भद्र किं करोमि । न शक्नोमि तत्रस्थो मित्रव्यसनाभिदाहं सोढुम् । तेनाहमत्रागतः । अथवा साध्विदमुच्यते- दयितजनविप्रयोगो वित्तवियोगश्च केन सह्याः स्युः । यदि सुमहौषधकल्पो वयग्यजनसंगमो न स्यात् ॥ १७९ ॥ वरं प्राणपरित्यागो न वियोगो भवादृशैः । प्राणा जन्मान्तरे भूयो न भवन्ति भवद्विधाः ।। १८० ॥ सुहृदो व्यसनं तेन संतप्तं हृदयं यस्य । दीयतजनस्य विप्रयोगः । सुमहत् च तदोषर्थं च तस्मादीषन्यूनः सुम०कल्पः । मित्रप्राप्तिकम् । 131 एवं तस्य प्रवदत आकर्णपूरितशरासनो लुब्धकोऽप्युपागतः । तं दृष्ट्रा झुपकेण तस्य स्नायुपाशस्तत्क्षणात्खण्डितः । अत्रान्तरे चित्राङ्गः सत्वर पृष्ठमवलेोकयन्प्रधावितः । लघुपतनको वृक्षमारूढः । हिर- प्यकश्च समीपपर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृगगमनाद्विष- ण्णवदनो व्यर्थश्रमस्तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान् । अचिन्तयच - यद्यपि कुरङ्गो धात्रापहृतस्तथाप्ययं कूर्म आहारार्थ संपा- दितः । तदव्यास्यामिषेण मे कुटुम्बस्याहार निर्वृत्तिर्भविष्यति । एवं विचिन्त्य तं दर्भैः संच्छाय धनुषि समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टमापतितम् | एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ।। १८१ ।। यत्रनं सरलं चापि तच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥ १८२ ॥ न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्रम्भस्तादृशः पुंसां यादृग्मित्रे निरन्तरे ॥ १८४ ॥ यदि तावत्कृतान्तेन मे धननाशो विहितस्तन्मार्गश्रान्तस्य मे विश्राम- भूतं मित्रं कस्मादपहृतम् । अपरमपि मित्रं परं मन्थरकसमं न स्यात् । उक्तं च- असंपत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम् ॥ १८४ ॥ सदस्य पश्चान्नान्यः सुहृन्मे । तटिंक ममोपर्यनवरतं व्यसनशरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्तनाशस्ततः परिवार भ्रंशस्ततो देश- त्यागस्ततो मित्रवियोग इति । अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवितधर्मस्य । उक्तं च- तथा च । कायः संनिहितापायः संपदः क्षणभङ्गराः । समागमाः सापगमाः सर्वेषामेव देहिनाम् ।। १८५ ॥ आकर्णं पूरितं शरासनं येन । शरा अस्यन्ते अनेनेति शरा० । समीपे वर्त इति । शुद्धश्चासौ वंशः वेणुः कुलं च तस्माज्जायते इति । संनिहिता अपाया यस्य । अपगमेन सहिताः सापगमाः । १ अस्मात्परमिदं पद्यं कचित् - यावदस्खलितं तावत्सुखं याति समे पथि । स्खलिते व समुत्पन्ने निषमं च पदे पदे ।। २ पदमापदाम् ३ सर्वभूत्यादि भङ्गुरम्. 132 पञ्चतन्त्रे क्षते प्रहरा निपतन्त्यभीक्ष्णं धनक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुल्लसंन्ति छिद्रेष्वनर्था बहुलीभवन्ति ॥ ९८६ ॥ अहो साधूक्तं केनापि - प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम् । फेन रणमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १८७ ॥ अत्रान्तरे चाक्रन्दपरौ चित्राङ्गलघुपतनको तत्रैव समायातौ । अथ हिरण्यक आह-अहो किं वृथा प्रलपितेन । तथावदेष मन्थरको दृष्टि- गोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च- व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति ।। १८८ ।। केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः । तस्योच्छेदसमारम्भो विषादपरिवर्जनम् ॥ १८९ ॥ अन्यच्च । अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च सङ्गमार्थम् । आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ १९० ॥ तच्छ्रुत्वा वायस आह- भोः यद्येवं तत्क्रियतां मद्वचः । एष चित्रा- ङ्गोऽस्य मार्गे गत्वा किंचित्पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहमप्यस्य शिरसि समारुह्य मन्दैश्वचु प्रहारैः शिर उल्लेखाये- ष्यामि येनासौ दुष्टलुब्धकोऽमुं मृतं मत्वा मम चञ्चुप्रहरणप्रत्ययेन म- न्थरकं भूमौ क्षित्वा मृगार्थं धाविष्यति । अत्रान्तरे त्वया दर्भमयबन्धे- नवेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति । चित्राङ्ग आह - भोः भद्रोऽयं त्वया दृष्टो मन्त्रः । नूनं मन्थरकोऽयं मुक्तो मन्तव्यः । उक्तं च- सिद्धं वा यदि वासिद्धं चित्तोत्साहो निवेदयेत् । प्रथमं सर्वजन्तूनां तत्प्राज्ञो वेत्ति नेतरः ॥ १९१ ॥ तदेवं क्रियतामिति । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्नपल्वल- तीरस्थं चित्राङ्गं वायस सनाथमपश्यत् । तं दृष्ट्वा हर्षितमना व्यचि- न्तयत्-ननं पाशबन्धनवेदनया वराकोऽयं मृगः सावशेषजीवितः पाशं त्रोटयित्वा कथमप्येतद्वनान्तरं यावत्प्रविष्टस्तावन्मृतः । तदृश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद् ग्रह्णामि । इत्यवधार्य कच्छपं प्रीतिश्च विश्रम्भश्च तयोः भाजनम् । उच्छेदाय समारम्भः । मार्गस्यासन्नं मार्ग- सन्नं यत्पल्वलं तस्य तीरे तिष्ठतीति ०स्थः तम् । अवशेषेण सहितं सावशेषं जीवितं यस्य । १६ व्यति. २ समुद्भवन्ति ३ प्रहार. ४ मयानि पाशानि. ५ सिद्धि… वासिद्धिं.मित्रप्राप्तिकम् । 133 भूतले प्रक्षिप्य मृगमुपाद्रवत्। एतस्मिन्नन्तरे हिरण्यकेन वज्रोपमदंष्ट्रा- प्रहरणेन तद्दर्भवेष्टनं तत्क्षणात्खण्डशः कृतम् । मन्थरकोपि तृणमध्या- निष्क्रम्य समीपवर्तिनं पल्वलं प्रविष्टः । चित्राङ्गोऽप्यप्राप्तस्यापि तस्यो- त्थाय वायसेन सह द्रुतं प्रनष्टः । एतस्मिन्नन्तरे विलक्षो विषादपरो लब्धको निवृत्तो यावत्पश्यति तावत्कच्छपोऽपि गतः । ततश्च तत्रोप- विश्येमं श्लोकमपठत् - प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत्त्वया मे हृतः संप्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुत्क्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यच्चान्यत्र कृतं कृतान्त कुरु रे तत्रापि सज्जोस्म्यहम् ॥ १९२ ॥ एवं बहुविधं विलप्य स्वगृहं गतः । अथ तस्मिन्व्या दूरतरं गते सर्वेऽपि ते काककूर्ममृगाखवः परमानन्दभाजः परस्परमालिङ्गय पुन- जतमिवात्मानं मन्यमानास्तदेव सरः संप्राप्य महासुखेन सुभाषितक- थागोष्ठीविनोदेन कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्रसंग्रहः कार्यः । न च मित्रेण सह व्याजेन वर्तितव्यमिति । उक्तं च यतः - यो मित्राणि करोत्यत्र न कौटिल्येन वर्तते । न स दुःखं पराभूतेः प्राप्नोति हि कथंचन ॥ १९३ ॥ सम तं चेदं मित्रप्राप्त्यभिधानं द्वितीयं तन्त्रम् । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके मित्रप्राप्तिकं नाम द्वितीयं तन्त्रं समाप्तम् । १ तस्य तल उत्था०. २ पलायितः ३ स्वामिन्. ४ कुरु ते तच्चापि सद्यं मया । ५ दूरीभूते ६ मृगभूषिकाः. ७ तथा मित्रेण सहाव्याजेन वर्ति- तव्यम् । ८तैः समंन पराभूर्ति संप्राप्नोति.