०० कथामुखम्

मो नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः ॥ ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेर- श्चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरुवीभुजङ्गाः । सिद्धा नयोऽश्विनौ श्रीदितिरादतिसुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यज्ञा गणवसुमुनयः पान्तु नित्यं ग्रहाश्च ॥ इति पयं क्वचित । भनवे वाचस्पतये शुक्राय पराशराय सत्रुताय । चाणक्याय व विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ १ ॥ सकलार्थशास्त्र सारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ २ ॥ तद्यथानुश्रूयते - अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरं नृपमुकुटमणिमरीचिम• झरीचयचर्चितचरणयुगलः सकलकलापारंगतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्ति रुपशक्तिरनेकश• किश्चेति नामानो बभूवुः । अथ राजा ता शास्त्रविमुखानालोक्य सचिवान हूय प्रोवाच भोः ज्ञातमेतद्भवद्भिर्यन्ममैते त्रयोपि पुत्राः ससुताय व्याससहिताय । सकलं च तदर्यशास्त्रं च तस्य सारः तम् । अर्थिनां सार्थः अर्थिसार्थः याचकसमूहः । सकउचासौ अथिसार्थञ्च तस्य कल्पद्रुम इवं स्थितः । प्रवराश्च ते नृपांश्च तेषां मुकुंद ये मणयस्तेषां मरो- चीनां किरणानां मअर्यस्तासां चयेन संघातेन चर्चितं चरणयुगलं यस्य । परमं दुष्टा मेवा येषां ते परमदुर्मेवसः । विगतं मुखं येषां ते विमुखाः । शास्त्रेभ्यो १ इदमधिकं कचित्-नमो मनुबृहस्पतिव्यासवाल्मीकिप्रभृतिभ्यः । २ एतत्स्थाने- बन्दे सरस्वतीं नित्यं वाङ्मनः कायकर्मभिः । वाक्समुद्रो यया नद्धो दुस्तर • स्त्रिदशैरिव ॥ प्रणम्य विघ्नहर्तारं गणाधीशमुमासुतम् । नीतिशास्त्रमिदं वक्ष्ये कथामार्गविवर्धनम् ॥ इमे पधे पुस्तकान्तरे । पञ्चतन्त्र शास्त्रविमुखा विवेकरहिताश्च । तदेतान्पश्यतो मे महदपि राज्य न सौख्यमावहति । अथवा साध्विदमुच्यते- अजान मृतमूर्खेभ्यो मृताजातो सुतौ वरम् । बतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ३ ॥ वरं गर्भबावो वरमृतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति र्म चाविद्वान्रूपद्रविणगुणयुक्तोऽपे तनयः ॥ ४॥ किं तया क्रियते धेन्वा या न सुते न दुग्धदा | कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ५ ॥ 4 तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च महत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । सतो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयताम् इति । तत्रैकः प्रोवाच देव द्वादशभिर्वर्षव्यकरणं भूयते । ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायना- दीनि । एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति । अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह - अशाश्वतोऽयं जीवितव्यविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत्संक्षेपमात्रं शास्त्रं किंचिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः- अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्व विघ्नाः । सारं ततो माह्यमपास्य फल्गु हंसैर्यथा क्षीरनिवाम्बुध्यात् ॥ ६ ॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारंगम छत्र संसदि लब्ध गतिः । तस्मै समर्पयतु एतान् । स नूनं द्राक्प्रबुद्धान्करिष्यति इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच भो भगवन् विमुखाः शा० । यावत् जीवस्तावत् । वृतिर्वर्तनजीवने इत्यमरः । मन्वादीनि मनुस्मृत्यादीनि । अविद्यमानः अन्तः यस्य तादृशः पारः यस्य तत् । अन्यैः सदृशा न भवन्तीति अनन्यसदृशाः तान् सर्वोत्कृटानित्यर्थः । शासनं राजदत्तावृतिः । १ अस्मात्परं-वरमिह वा सुतमरणं मा मुर्खत्वं कुलप्रसूतस्य । येन विबुधजनमध्ये जारज इन लज्जते मनुजः ॥ गुणिगणगणनारम्भे म पतति कठिणी ससंभ्रमा प्रस्य । तेनाम्बा यदि सुतिनी वद दन्ध्या कीडशी भवति ॥ इत्यधि. कोको.कथामुखम् । अथ मदनुग्रहार्थमेतानर्थ शास्त्रं प्रति द्राग्ययानन्यसदृशान्दिवासि तथा कुरु । तदाहं त्वां शासनशनेन योजयिष्यामि । विष्णुशर्मा तं गजानमूचे देव श्रूपतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान्मासषट्केन यदि नीतिशास्त्रज्ञान करोमि ततः स्वनामत्यागं करोमि ।

अथासौ राजा तां ब्राह्मणस्यासंभाव्यां प्रतिज्ञां श्रुत्वा समचित्रः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान्कुमारान्समध्ये परं निर्वृतिमा- जगाम । विष्णुशर्मणापि तानादाय तदर्थे मित्रभेद-मित्रप्राप्ति का को- लूकीय - लब्धप्रणाश-अपरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मासत्रट्केन यथोक्ताः सं- वृत्ताः । ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थे भूतले प्रवृत्तम् । किं बहुना । अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च । न पराभवमाप्नोति शक्रारपि कहराचन ॥ ७ ॥ इति कथामुखम् ।