[[हितोपदेशः Source: EB]]
[
[TABLE]
मुद्रक और प्रकाशक–
गङ्गाविष्णु श्रीकृष्णदास,
मालिक–“लक्ष्मीवेङ्कटेश्वर” स्टीम-प्रेस, कल्याण-बंबई.
——————————————————————
सन् १८६७ के आक्ट २५ के व मुजब रजिष्टरी सब हक्क
प्रकाशकने अपने अधीन रखा है
——————————————————————
श्रीः॥
प्रस्तावना।
—————
वरीवर्तिसर्वोपरि विश्वम्भरायामिदं भारतं वर्षम्; यत्र महर्ष्यादिप्रणीतानि नीतिशास्त्राणि तदनुवर्तिजनाश्चोपलभ्यन्ते। प्रथमं तावत्सृष्ट्युत्पत्तिवेलायां ब्रह्मणा तिरश्च आरभ्य सृष्टिः स्रष्टुमारब्धा। तत्र तत्रासंतुष्टेन मनुष्यजातिर्व्यरचि। तत्र च यदा नयकोविदाः सनकादयः सञ्जातास्तत्रापि स्वकार्यनिर्वाहकत्वानङ्गीकरणान्मन्वादीनसृजत्। तदा प्रथमं मनुना नीतिः प्रणीतोपादिश्यत। इदं च नीतिशास्त्रं साक्षाच्छ्रीमद्भगवतो लब्धं विधिना वेदोपदेशावसरे, ततो बृहस्पतिना, स च बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्यश्वावदत्। एवं परंपराप्राप्तमिदं नीतिशास्त्रमृषयः स्वस्वप्रणीतनीतिग्रन्थेषूपाजह्वुः। तथा च भगवता व्यासेनापि श्रीमन्महाभारतं सर्व नीतिमयमेव निरमायि। क्वचित्कथाअपि तिरश्चां प्रणीता उदाहरणाय रुच्युत्पादनाय च। इयमेवाग्रप्रचलिता कथानकरीतिः। एवं मनुबृहस्पतिवाल्मीकिनारदयाज्ञवल्क्यपराशरशुकादिमहर्षिभिरपि स्वस्वस्मृतौ सम्यगुपनिबद्धमेतन्नीतिशास्त्रम्। आधुनिकैस्तत्सारमुद्धृत्य बहवो नीतिग्रन्था संकलिताश्चाणक्यादिभिः।
अथ चासीत् पाटलिपुत्रे कश्चन याचकानां कल्पतरुः सुदर्शनो नामराजा। तेन स्वकीयांस्त्रीनपि पुत्रान्मूर्खान्दृष्ट्वाऽचिन्त्यत, कथामिमे शास्त्रविदो भवेयुरिति। एवं समुत्पन्नचिन्तः स्वाश्रितपण्डितजनानपृच्छत् कथमिमे मदीयाः पुत्रा नीतिशास्त्रनिपुणा भवेयुः? कोप्यस्त्यस्मदीयपण्डितजनेष्वेतान् शिक्षितुं समर्थः स्वल्पादिनैश्च? एवं पृष्टाः पण्डिताः केचन द्वादशवर्षाणि केचन ततोप्यधिकान्युक्तवन्तः। तत्र बृहस्पतिनीतितत्त्वज्ञेन विष्णुशर्मणा पण्डितप्रवरेण “मयेमे सुकुलीनास्त्वत्पुत्राः पण्डिताः क्रियन्ते षण्मासाभ्यन्तर एवेति” प्रतिज्ञातम्। तदा राज्ञा स्वसभायां संमानितः स विष्णुशर्मा पञ्चतंत्रं नाम सर्वनीतिसारोद्धृतसारं ग्रन्थं विरचय्य तान्पाठयामास। येन ते नीतिविदः कुशलिनोऽभूवन्।
ततोऽप्युद्धृतसारोऽयं हितोपदेशो नाम संक्षिप्ततमो नीतिग्रन्थःसकलजनाञ्छिक्षयितुं तेनैव पण्डितेन संकलितः। ग्रन्थश्चायं बालकानां तिर्यक्कथालोलुपानां नीतिशास्त्रज्ञानायातिपटुतरः प्रथमः सोपानः।
एवं नीतिसारमयोऽयमन्वर्थो हितोपदेशोऽस्मान् बलदेवप्रसादमिश्रपण्डितैः पुस्तकान्तरसंमेलनेन सम्यक् संशोध्य प्रेषितः। ततोऽस्माभिरयंसंशोध्य सम्यगक्षरैः सम्यङ्मुद्रितः पंडिताग्रेसरजनोपकारायेति ग्राहकास्त्वरया गृह्णन्त्वित्याशासे।
श्रीकृष्णदासात्मजः क्षेमराजश्रेष्टी.
“श्रीवेकटेश्वर” स्टीम्–मुद्रणालयाध्यक्षः
मुम्बई–स्थः।
<MISSING_FIG href="../books_images/U-IMG-1720889343Screenshot90.png"/>
——————
श्रीः॥
हितोपदेशः।
<MISSING_FIG href="../books_images/U-IMG-1720886268Screenshot6.png"/>
मङ्गलाचरणम्।
सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः।
जाह्नवीकेनलेखेव यन्मूर्ध्नि शशिनः कला॥१॥
प्रस्ताविका।
<MISSING_FIG href="../books_images/U-IMG-1720884996Screenshot९०.png"/>
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च॥२॥
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥३॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम्।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा॥४॥
संयोजयति विद्यैव नीचगापि नरं सरित्।
समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम्॥५॥
विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥६॥
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा॥७॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते॥८॥
मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते॥९॥
कथारम्भः।
अस्ति भागीरथीतीरे पाटलिपुत्रनामधेय नगरम्। तत्र सर्वस्वामिगुणोपेतसुदर्शनो नाम नरपतिरासीत्। स भूपतिरेकदा केनापि पठ्यमान श्लोकद्वयं शुश्राव–
“अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥१०॥
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्॥११॥”
इत्याकर्ण्यात्मन पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिना शास्त्राननुष्ठानेनोद्विग्नमना स राजा चिन्तयामास–
“कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम्॥१२॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदेपदे॥१३॥
किंच–
स जातो येन जातेन याति वंशः समुन्नतिम्।
परिवर्तिनि संसारे मृतः को वा न जायते॥१४॥
अन्यच्च–
गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य।
तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति॥१५॥
अपि च–
दाने तपसि शौर्ये च यस्य न प्रथितं यशः।
विद्यायामर्थलाभे च मातुरुच्चार एव सः॥१६॥
अपरंच–
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च॥१७॥
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम्।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः॥१८॥
तथा चोक्तम्–
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड्जीवलोकस्य सुखानि राजन्॥१९॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥२०॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।
भार्यारूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥२१॥
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्।
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम्॥२२॥
यस्य कस्य प्रसूतोऽपि गुणवान्पूज्यते नरः।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति॥२३॥
हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि॥२४॥
तत्कथमिदानीमेते मम पुत्रा गुणवन्त क्रियन्ताम्–
आहारनिद्राभयमैथुनं च
सामान्यमेतत्पशुभिर्नराणाम्।
धर्मो हि तेषामधिको विशेषो
धर्मेण हीनाः पशुभिः समानाः॥२५॥
यत–
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥२६॥
अत्रोच्यते–
आयुः कर्म च वित्तं च विद्या निधनमेव च।
पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः॥२७॥
किंञ्च–
अवश्यं भाविनो भावा भवन्ति महतामपि।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः॥२८॥
अपि च–
यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥२९॥
एतत्कार्याक्षमाणा केषाचिदालस्यवचनम्–
न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥३०॥
अन्यच्च–
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
दवन देयमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः॥३१॥
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिध्यति॥३२॥
यथा च–
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥३३॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥
अन्यच्च–
काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥३५॥
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥
मातृपितृकृताभ्यासो गुणितामेति बालकः।
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः॥३७॥
तथा च–
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा॥३८॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥३९॥
मूर्खोऽपि शोभते तावत्सभायां वस्त्रवेष्टितः।
तावच्च शोभते मूर्खो यावत्किंचिन्न भाषते॥४०॥"
एतच्चिन्तयित्वा स राजा पण्डितसभा कारितवान्। राजोवाच–‘भो भोःपण्डिताः। श्रूयन्ताम्। अस्ति कश्चिदेवभूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्गगामिनामनविगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुसमर्थः?यत–
काचः काञ्चनसंसर्गाद्धत्ते मारकतींद्युतिम्।
तथा सत्संनिधानेन मूर्खो याति प्रवीणताम्॥४१॥
उक्तं च–
हीयते हि मतिस्तात हीनैः सह समागमात्।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्॥४२॥
अत्रान्तरे विष्णुशर्मनामा महापण्डित सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत् “देव महाकुलसम्भूता एते राजपुत्रा मया नीति ग्राहयितुं शक्यन्ते।
यत–
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः॥४३॥
अन्यच्च–
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते।
आकरे पद्मरागाणां जन्म काचमणेः कुतः॥४४॥
अतोऽहं षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्राभिज्ञान्करिष्यामि।” राजासविनय पुनरुवाच–
“कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥
अन्यच्च–
यथोदयगिरेद्रव्यं सन्निकर्षेण दीप्यते।
तथा सत्संनिधानेन हीनवर्णोऽपि दीप्यते॥४६॥
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्य तोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥४७॥
तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तःप्रमाणम्” इत्युक्त्वातस्य विष्णुशर्मणो बहुमानपुर सर पुत्रान्समर्पितवान्।
अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्तावक्रमेण स पण्डितोऽब्रवीत् ‘भो राजपुत्रा! शृणुत–
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा॥४८॥
तद्भवता विनोदाय काककूर्मादीनां विचित्रा कथा कथयामि’। राजपुत्रैरुक्तम्– आर्य!कथ्यताम्॥
इति कथारम्भ समाप्त।
<MISSING_FIG href="../books_images/U-IMG-1721043834Screenshot२३.png"/>
मित्रलाभः।
<MISSING_FIG href="../books_images/U-IMG-1721044057Screenshot24.png"/>
विष्णुशर्मोवाच– शृणुत। संप्रति मित्रलाभःप्रस्तूयते यस्यायमाद्यश्लोक–
असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत्॥१॥
राजपुत्रा ऊचु–‘कथमेतत्?’ विष्णुशर्मा कथयति–
“
अस्ति गोदावरीतीरे विशाल शाल्मलीतरु। तत्र नानादिग्देशादागत्य रात्रौपक्षिणो निवसन्ति। अथ कदाचिदवसन्नाया रात्रावस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि लघुपतनकनामा वायसःप्रबुद्धः कृतान्तमिव द्वितीयमायान्त पाशहस्त व्याधमपश्यत्।तमवलोक्याचिन्तयत् ‘अद्यप्रातरेवानिष्टदर्शन जातम्, न जाने किमनभिमत दर्शयिष्यति’इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलित। यत–
शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्॥२॥
अन्यच्च, विषयिणामिदमवश्यं कर्तव्यम्–
उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम्।
मरणव्याधिशोकानां किमद्य निपतिष्यति॥३॥
अथ तेन व्याधेन तण्डुलकणान्विकीर्य जालं विस्तीर्णम्। स च प्रच्छन्नो भूत्वा स्थित। तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियतिविसर्पस्तास्तण्डुलकणानवलोकयामास। तत कपोतराजस्तण्डुलकणलुब्धान्कपोतान्प्रत्याह ‘कुतोऽत्र निर्जने वने तण्डुलकणानां सभंवः?तन्निरूयता तावत्, भद्रमिदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम्–
कङ्कणस्य तु लोभेन मग्नः पङ्केसुदुस्तरे।
वृद्धव्याघ्रेण संप्राप्तः पथिकः स मृतो यथा॥४॥
कपोता ऊचुः–‘कथमेतत्?’कपोतराजः कथयति।
कथा १.
अहमेकदा दक्षिणारण्ये चरन्नपश्यम्। एको वृद्धव्याघ्रः स्नात कुशहस्तःसरस्तीरे ब्रूते–‘भोभो पान्थाः। इदं सुवर्णकङ्कणं गृह्यताम्।’ ततोलोभाकृष्टेन केनचित्पान्थेनालोचितम्‘भाग्येनैतत्सभवति। किं त्वस्मिन्नात्मसन्देहे प्रवृत्तिर्न विधेया। यत–
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे॥५॥
किंतु सर्वत्रार्थार्जने प्रवृत्ति संदेह एव। तथा चोक्तम्–
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि जीवति पश्यति॥६॥
तन्निरूपयामि तावत्।’ प्रकाशं ब्रूते– ‘ कुत्र तव कङ्कणम्?’व्याघ्रो हस्तं प्रसार्य दर्शयति। पान्थोऽवदत्– ‘कथं मारात्मके त्वयि विश्वास?’व्याघ्र उवाच–“शृणु रे पान्थ। प्रागेव यौवनदशायामतिदुर्वृत्त आसम् तत अनेकगोब्राह्मणमानुषाणा वधान्मे पुत्रा मृता दाराश्च वंशहीनश्चाहम्। ततकेनचिद्धार्मिकेणाहमादिष्टः– ‘दानधर्मादिकं चरतु भवान्।’ तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तो न कथं विश्वासभूमि?उक्तं च–
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥७॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति॥८॥
मम चैतावाल्ँलोभविरहो येन स्वहस्तस्थमपि सुवर्णकङ्कणं यस्मै कस्मैचिद्दातुमिच्छामि। तथापि व्याघ्रो मानुष खादतीति लोकप्रवादो दुर्निवार। यत–
गतानुगतिको लोकः कुट्टिनीमुपदेशिनीम्।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम्॥९॥
मया च धर्मशास्त्राण्यधीतानि। शृणु–
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन॥१०॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः॥११॥
अपरं च–
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति॥१२॥
अन्यच्च–
मातृवत्परदारेषु परद्रव्येषु लोष्टवत्।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः॥१३॥
त्वं चातीव दुर्गत, तेन तत्तुभ्यं दातु सयत्नोऽहम्। तथा चोक्तम्–
दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः॥१४॥
अन्यच्च–
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः॥१५॥
तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण।” ततो यावदसौ जातविश्वासःसर स्नातुं प्रविशति तावदेव महापङ्के निमग्न’ पलायितुमक्षम। पङ्केपतितं दृष्ट्वाव्याघ्रोऽवदत्– ‘अहह!महापङ्के पतितोऽसि। अतस्त्वामहमुत्थापयामि’इत्युक्त्वाशनै शनैरुपगम्य तेन व्याघ्रेण वृत।
स पान्थोऽचिन्तयत्–
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः॥१६॥
किं च–
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रियाः।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना॥१७॥
तन्मया भद्रं न कृतम् यदत्र मारात्मके विश्वासः कृतः। तथाह्युक्तम्–
नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥१८॥
अपरं च–
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते॥१९॥
अन्यच्च–
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी।
विधुरपि विधियोगाद्ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः॥२०॥
इति चिन्तयन्नेवासौ तेन व्याघ्रेण व्यापादित खादितश्च। अतोऽहम ब्रवीमि– ‘कङ्कणस्य तु लोभेन इत्यादि। अत सर्वथाऽविचारितं कर्म न कर्तव्यम्। यत–
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकालेऽपि न याति विक्रियाम्॥२१॥
एतद्वचनं श्रुत्वा कश्चित्कपोत सदर्पमाह–‘आ। किमेवमुच्यते?
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्॥२२॥
यत–
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा॥२३॥
तथा चोक्तम्–
ईर्ष्यीघृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते दुःखभागिनः॥२४॥’
एतच्छ्रुत्वा सर्वे कपोतास्तत्रोपविष्टा। यत–
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः॥२५॥
अन्यच्च–
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥२६॥
अन्यच्च–
असंभवं हेममृगस्य जम््म तथापि रामो लुलुभे मृगाय।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति॥२७॥
अनन्तरं ते सर्वे जालेन बद्धा बभूवु। ततो यस्य वचनात्तत्रावलम्बितापक्षिणस्त सर्वे तिरस्कुर्वन्ति। तथा चोक्तम्–
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम्।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते॥२८॥
तथा चोक्तम्–
आपदां कथितः पन्था इन्द्रियाणामसंयमः।
तज्जयः सम्पदां मार्गों येनेष्टं तेन गम्यताम्॥२९॥
तस्य तिरस्कार श्रुत्वा चित्रग्रीव उवाच–“नायमस्य दोष।
यत–
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम्।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने॥३०॥
अन्यच्च–
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः॥३१॥
विपत्काले विस्मय एव कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्। यत–
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम्॥३२॥
संपदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम्।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम्॥३३॥
अन्यच्च–
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥३४॥
इदानीमप्येवं क्रियताम्, सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्। यतः–
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः॥३५॥
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः॥३६॥”
इतिविचिन्त्यपक्षिणसर्वेजालमादायोत्पतिताः। अनन्तरं सव्याधःसुदूराज्जालापहारकास्तानवलोक्यपश्चाद्धावन्त्रचिन्तयत्–
संहतास्तु हरन्त्येते मम जालं विहङ्गमाः।
यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा॥३७॥
ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्याधोनिवृत्त।
अथ लुब्धक निवृत्त दृष्ट्वा कपोता ऊचु–‘स्वमिन्! किमिदानीं कर्तुमुचितम्?’चित्रग्रीव उवाच–
“माता मित्रं पिता चेति स्वभावात्त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः॥३८॥
तदस्माक मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवनेनिवसति। दन्तबलेन सोऽस्माकं पाशाश्छेत्स्यति” इति आलोच्य सर्वेहिरण्यकविवरसमीपं गताः। हिरण्यकश्च सर्वदापायशया शतद्वारंविवरं कृत्वा निवसति–
अनागतभयं दृष्ट्वा नीतिशास्त्रविशारदः।
अवसन्मूषिकस्तत्र वृद्धः शतमुखे बिले॥३९॥
ततो हिरण्यक कपोतावपातभयाच्चकितस्तूष्णीं स्थित। चित्रग्रीव उवाच– ‘सखे हिरण्यक। किमस्मान्न सभाषसे?’ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञायससभ्रमं बहिर्निसृत्याब्रवीत्– ‘आ! पुण्यवानस्मि, प्रियसुहृन्मे चित्रग्रीवः समायात।
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान्॥४०॥
पाशबद्धाश्चैतान्दृष्ट्वा सविस्मय क्षण स्थित्वोवाच– सखे। किमेतत्?’चित्रग्रीवोऽवदत्– ‘सखे। अस्माकं प्राक्तनजन्मकर्मण फलमेतत्।
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति॥४१॥
रोगशोकपरीतापबन्धनव्यसनानि च।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्॥४२॥’
एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति। चित्रग्रीव उवाच– ‘मित्र’ मा मैवम्। अस्मदाश्रितानामेषा तावत्पाशाश्छिन्धि, तदा ममपाश पश्चाच्छेत्स्यसि।’हिरण्यकोऽप्याह– ‘अहं चाल्पशक्ति, दन्ताश्च मेकोमला., तदेतेषा पाशाश्छेत्तु कथ समर्थः? तद्यावन्मे दन्ता न त्रुट्यन्ति तवत्तवपाश छिनद्मि।’ तदनन्तरमेषामपि बन्धनं यावच्छक्य छेत्स्यामि।’ चित्रग्रीव उवाच– ‘अस्त्वेवम्। तथापि यथाशक्त्येतेषा बन्धन खण्डय।’ हिरण्यकेनोक्तम्– ‘आत्मपरित्यागेन यदाश्रिताना परिरक्षणं तन्न नीतिविदा समतम्।
यत–
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥४३॥
अन्यच्च–
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम्॥४४॥’
चित्रग्रीव उवाच– ‘सखे। नीतिस्तावदीदृश्येव, किं त्वहमस्मदाश्रितानां दुःखं सोढुंसर्वथाऽसमर्थः। तेनेदं ब्रवीमि। यत–
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति॥४५॥
अयमपरश्चासाधारणो हेतु–
जातिद्रव्यगुणानां च साम्यमेषां मया सह।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति॥४६॥
अन्यच्च–
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम्।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान्॥४७
किं च–
मांसमूत्रपुरीषास्थिनिर्मितेऽस्मिन्कलेवरे।
विनश्वरे विहायास्थां यशः पालय मित्र मे॥४८॥
अपरं च पश्य–
यदि नित्यमनित्येन निर्मलं मलवाहिना।
यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम्॥४९॥
यत–
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम्।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः॥५०॥’
इत्याकर्ण्य हिरण्यक प्रहृष्टमनाःपुलकितं सन्नब्रवीत्– ‘साधु मित्र!साधु। अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्व त्वयि युज्यते।’ एनमुक्त्वातेन सर्वेषां बन्धानि छिन्नानि। ततो हिरण्यकःसर्वान्सादर सम्पूज्याह–‘सखे चित्रग्रीव! सर्वथात्र जालबन्धनविधौ दोषमाशङ्क्यात्मन्यवज्ञा न कर्तव्या। यत’–
योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति॥५१॥
अपरं च–
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम्।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः॥५२॥
अन्यच्च–
व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि॥५३॥’
इति प्रबोध्यातिथ्य कृत्वालिङ्ग्य च चित्रग्रीवस्तेन सप्रेषितो यथेष्टदेशान्सपरिवारो ययौ।हिरण्यकोऽपि स्वविवर प्रविष्ट।
यानि कानि च मित्राणि कर्तव्यानि शतानि च।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः॥५४॥
अथ लघुपतनकनामा काक सर्ववृत्तान्तदर्शी साश्चर्यमिदमाह– ‘अहोहिरण्यक। श्लाघ्योऽसि। अतोऽहमपि त्वया सह मैत्रीमिच्छामि। अतो मामैत्र्येणानुग्रहीतुमर्हसि।’ एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाह–‘कस्त्वम्?’ स ब्रूते–‘लघुपतनकनामा वायसोऽहम्।’ हिरण्यको विहस्याह’का त्वयासह मैत्री? यत
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत्।
अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति॥५५॥
अपरं च–
भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव कारणम्।
शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः॥५६॥’
वायसोऽब्रवीत् ‘कथमेतत्?’हिरण्यक’ कथयति–
कथा २.
अस्ति मगधदेशे चम्पकावती नामारण्यानी।तस्या चिरान्महत्त्वास्नेहेन मृगकाकौनिवसत। स च मृग स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्ग केनचित्
शृगालेनावलोकित। त दृष्ट्वा शृगालोऽचिन्तयत्’ आ!कथमेतन्मास सुललित भक्षयामि। भवतु। विश्वास तावदुत्पादयामि’ इत्यालोच्योपसृत्याब्रवीत्–‘मित्र! कुशल ते?’ मृगेणोक्तम्–‘कस्त्वम्’ स ब्रूते– ‘क्षुद्रबुद्धिनामा जम्बुकोऽहम्, अत्रारण्ये बन्धुहीनो मृतवन्निवसामि। इदानीं त्वा मित्रमासाद्य पुन सबन्धुर्जीवलोक प्रविष्टोऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम्।’ मृगेणोक्तम्–
‘एवमस्तु।’ तत पश्चादस्त गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमि गतौ। तत्र चम्पकवृक्षशाखाया सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत् ‘सखे चित्राङ्ग कोय द्वितीय’ मृगो ब्रूते – ‘जम्बुकोऽयम् अस्मत्सख्यमिच्छन्नागत।’ काको ब्रूते ‘मित्र!अकस्मादागन्तुना सह मैत्री न युक्ता। तथा चोक्तम्–
अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।
मर्जारस्य हि दोषेण हतो गृध्रो जरद्भवः॥५७॥
तावाहतु – कथमेतत् १ काक कथयति–
कथा ३.
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान्पर्कटीवृक्ष। तस्य कोटरे दैवदुर्विपाकाद्गलितनखनयनो जरद्रवनामा गृध्रः प्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिन पक्षिण स्वाहारात्किचित्किचिदुद्धृत्य ददति। तेनासौ जीवति। शावकरक्षा च करोति। अथ कदाचिद्दीर्घकर्णनामा मार्जार पक्षिशावकान्भक्षितुं तत्रागत। ततस्तमायान्त दृष्ट्वा पक्षिशावकैर्भयार्ते कोलाहल कृत। तच्छ्रुत्वा जरद्गवेनोक्तम्–‘कोऽयमायाति?’ दीर्घकर्णो गृध्रमवलोक्य सभयमाह – ’ हा। हतोऽस्मि। यत –
तावद्भयस्य भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम्॥५८॥
अधुनास्य सनिधाने पलायितुमक्षम। तद्यथा भवितव्य तद्भवतु। तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि।’ इत्यालोच्योपस यात्रवीत्–‘आर्य!त्वामभिवन्दे।’ गृध्रोऽवदत्–
‘कस्त्वम्?’ सोऽवदत्–‘मार्जारोऽहम्’ । गृध्रो ब्रूते ‘दूरमपसर। नो चेद्धन्तव्योऽसि मया।’ मार्जारोऽवदत्– ‘श्रूयता तावदस्मद्वचनम्। ततो यद्यहं वध्यस्तदा हन्तव्य। यत–
जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथ वा भवेत्॥५९॥
गृधो ब्रूते– ‘ब्रूहि। किमर्थमागतोऽसि?’ सोऽवदत्–‘अहमत्र गङ्गातीरेनित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरस्तिष्ठामि। यूयं धर्मज्ञानरता’विश्वासभूमय इति पक्षिण सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भयो विद्यावयोवृद्धेभ्यो धर्म श्रोतुमिहागत, भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यता।
गृहस्थधर्मश्चैष–
अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः॥६०॥
यदि वान्न नास्ति तदा प्रीतिवचसाप्यतिथि पूज्य एव। यत–
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥६१॥
अन्यच्च–
बालो वा यदि वा वृद्धो युवा वा गृहमागतः।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः॥६२॥
अपरं च–
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः॥६३॥
अन्यच्च–
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति॥६४॥
अन्यच्च–
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः॥६५॥
गृध्रोऽवदत्–‘मार्जारो हि मांसरुचि, पक्षिशावकाश्चात्र निवसन्ति, तेनाहमेवं ब्रवीमि।’ तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च–‘मयाधर्मशास्त्र श्रुत्वा वीतरागेणेद दुष्करं व्रत चान्द्रायणमव्यवसितम्। परस्परं विवदमानानामपि धर्मशास्त्राणाम् ‘अहिंसा परमो धर्म’इत्यत्रैकमत्यम्। यत–
सर्वहिंसानिवृत्ता ये नराः सर्वंसहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥६६॥
अन्यच्च–
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति॥६७॥
किंच–
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥६८॥
अपि च–
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम्॥६९॥
शृणु पुन–
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत्॥७०॥
एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः॥ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटर आनीय प्रत्यहं खादति। अथ येषामपत्यानि खादितानितै शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा। तत्परिज्ञाय मार्जार कोटरान्निसृत्य बहि पलायित। पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरेशावकास्थीनि प्राप्तानि। अनन्तर ते ऊचु– ‘अनेनैव जरद्गवेनास्माकं शावका खादिता ‘इति सर्वे पक्षिभिर्निश्चित्य गृध्रो व्यापादित। अतोऽहं ब्रवीमिअज्ञातकुलशीलस्य इत्यादि॥
इत्याकर्ण्य स जम्बुक सकोपमाह– ‘मृगस्य प्रथमदर्शनदिने भवानप्यज्ञातकुलशील एवासीत्। तत्कथं भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तर वर्धते–
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते॥७१॥
अन्यच्च–
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥७२॥
यथायं मृगो मम बन्धुस्तथा भवानपि।’मृगोऽब्रवीत् ‘किमनेनोत्तरेण?सर्वैरेकत्र विश्रम्भालापैः सुखिभिः स्थीयताम्। यत–
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा॥७३॥’
काकेनोक्तम्–‘एवमस्तु’अथ प्रातः सर्वे यथाभिमतदेश गता। एकदा निभृतंशृगालो ब्रूते– ‘सखे! अस्मिन्वनैकदेशे सस्यपूर्णक्षेत्रमस्ति, तदहं त्वां नीत्वादर्शयामि।’ तथा कृते सति मृगःप्रत्यहं तत्र गत्वा सस्यं खादति। ततो दिनकतिपयेन गतेन क्षेत्रपतिना तं दृष्ट्वा पाशो योजितः। अनन्तरं पुनरागतो मृगस्तत्र चरन् पाशबद्धोऽचिन्तयत्– ‘को मामित कालपाशादिव व्याधपाशात् त्रातुं मित्रादन्यः समर्थ?’ तत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्– ‘फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धिः। एतस्योत्कृत्यमानस्य मांसासृग्लिप्तान्यस्थीनि मयाऽवश्यं प्राप्तव्यानि। तानि बाहुल्येन भोजनानि भविष्यन्ति।’स चमृगस्तं दृष्ट्वोल्लासितो ब्रूते– ‘सखे! छिन्धितावन्मम बन्धनम्। सत्वरं त्रायस्व माम्। यत–
आपत्सु मित्रं जानीयाद्युद्धे शूरमृणे शुचिम्।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्॥७४॥
अपरं च–
उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥७५॥’
जम्बुको मुहुर्मुहु पाशं विलोक्याचिन्तयत्– ‘दृढबन्धनबद्धोऽस्ति तावदयं मृग’ ब्रूते– च ‘सखे।स्नायुनिर्मिता एते पाशा, तदद्य भट्टारकवारे कथमेतान्दन्तैःस्पृशामि? मित्र।यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यम्।इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थित स। अनन्तर स काकः प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्यन् तथाविधदृष्ट्वोवाच– ‘सखेकिमेतत्?’मृगेणोक्तम्–‘अवधीरितसुहृद्वाक्यस्य फलमेतत्। तथा चोक्तम्–
सुहृदां हितकामानां यः शृणोति न भाषितम्।
विपत्संनिहिता तस्य स नरः शत्रुनन्दनः॥७६॥’
काको ब्रूते– ‘स वञ्चक क्वास्ते?’ मृगेणोक्तम्– ‘मन्मासार्थीतिष्ठत्यत्रैव’। काको ब्रूते– ‘उक्तमेव मया पूर्वम्–
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि॥७७॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥७८॥’
ततःकाको दीर्घं निश्वस्य ‘अरे वञ्चक!किं त्वया पापकर्मणा कृतम्। यतः-
संलापितानां मधुरैर्वचोभि
मिथ्योपचारैश्च वशीकृतानाम्।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति॥७९॥
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि॥८०॥
दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत्।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्॥८१॥
अथवा स्थितिरियं दुर्जनानाम्–
प्राक्पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम्।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति॥८२॥
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्॥८३॥
अथ प्रभाते क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन्काकेनावलोकित। तमालोक्य काकेनोक्तम्– ‘सखे मृग!त्वमात्मान मृतवत्संदर्श्यवातेनोदर पूरयित्वापादान् स्तब्धीकृत्य तिष्ठ, यदाहं शब्दं करोमि तदा त्वमुत्थाय सत्वरं पलायिष्यसे।’मृगस्तथैव काकवचनेन स्थित। ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेनतथाविधो मृग आलोकित।‘आ! स्वयं मृतोऽसि’इत्युक्त्वा मृग बन्धनान्मोचयित्वा पाशान्ग्रहीतुं सयत्नो बभूव। तत कियद्दूरेऽन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं श्रुत्वा ससम्भ्रमं समुत्थाय पलायित। तमुद्दिश्य तेन क्षेत्रपतिनाक्षिप्तेन लगुडेन शृगालो व्यापादित। तथा चोक्तम्–
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्रुते॥८४॥
अतोऽहं ब्रवीमि– ‘भक्ष्यभक्षकयोः प्रीतिः’ इत्यादि॥काक पुनराह–
‘भक्षितेनापि भवता नाहारो मम पुष्कलः।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ॥८५॥
अन्यच्च–
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम्।
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते॥८६॥
किं च–
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया॥८७॥
हिरण्यको ब्रूते– ‘चपलस्त्वम्। चपलेन सह स्नेह सर्वथा न कर्तव्य।
तथा चोक्तम्–
मार्जारो महिषो मेषः काकः कापुरुषस्तथा।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः॥८८॥
किं चान्यत्। शत्रुपक्षो भवानस्माकम्। उक्तं चैतत्–
शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना।
सुतप्तमपि पानीयं शमयत्येव पावकम्॥८९॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयङ्करः॥९०॥
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत्।
नोदके शकटं याति न च नौर्गच्छति स्थले॥९१॥
अपरं च–
महताप्यर्थसारेण यो विश्वसिति शत्रुषु।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम्॥९२॥
लघुपतनको ब्रूते– ‘श्रुतं मया सर्वम्। तथापि मम चैतावान्संकल्पस्त्वया सहसौहृद्यमवश्यं करणीयमिति। नो चेदनाहारेणात्मानं तव द्वारि व्यापादयिष्यामि।
तथा हि–
मृद्घटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति।
सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु सन्धेयः॥९३॥
किंच–
द्रवत्वात्सर्वलोहानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात्सताम्॥९४॥
किं च–
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः।
अन्ये बदरिकाकारा बहिरेव मनोहराः॥९५॥
एतज्ज्ञात्वा सतां संगतिरिष्यते–
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम्।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः॥९६॥
अन्यच्च–
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥९७॥
एतैर्गुणैरुपेतो भवदन्यो मया क सुहृत्प्राप्तव्य?’इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिर्निसृत्याह– ‘आप्यायितोऽहं भवतामनेन वचनामृतेन।
तथा चोक्तम्–
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम्।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम्॥९७॥
अन्यच्च–
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम्॥९९॥
अनेन वचनक्रमेण तदेकदूषणमपि त्वयि न लक्ष्यते। यतः–
पटुत्वं सत्यवादित्वं कथायोगेन बुध्यत।
अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते॥१००॥
अपरं च–
अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः॥१०१॥
मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद्दुरात्मनाम्।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्॥१०२॥
तद्भवतु भवतोऽभिमतमेव।’इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायस सतोष्य विवरं प्रविष्ट। वायसोऽपि स्वस्थानं गत। ततः प्रभृतितयोरन्योन्याहारप्रदानेन कुशलप्रश्नैर्विश्रम्भालापैश्च कियान् कालोऽतिवर्तते॥
एकदा लघुपतनको हिरण्यकमाह– ‘सखे वायस!कष्टतरलभ्याहारमिदंस्थानम्। तदेतत् परित्यज्य स्थानान्तरं गन्तुमिच्छामि।’
हिरण्यको ब्रूते– ‘मित्र! क्वगन्तव्यम्?तथा चोक्तम्–
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः।
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत्॥१०३॥’
काको ब्रूते–‘मित्र!
कापुरुषस्य वचनमेतत्। यतः–
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः॥१०४॥
अन्यच्च–
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः॥१०५॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्।
मासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्॥१०६॥
अस्ति सुनिरूपितस्थानम्।’हिरण्यकोऽवदत् ‘किं तत्?’वायसो ब्रूते‘अस्ति दण्डकारण्ये कर्पूरगौराभिधान सर। तत्र चिरकालोपार्जितःप्रियसुहृन्मे मन्थराभिधानसहजधार्मिक प्रतिवसति। यत–
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः॥१०७॥
स च भोजनविशेषैर्मासंवर्धयिष्यति।’ हिरण्यकोऽप्याह–तत्किमत्रावस्थाय मया कर्तव्यम्?यत–
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत्॥१०८॥
अपरं च–
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्॥१०९॥
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम्॥११०॥
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम्।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥१११॥
ततो मामपि तत्र नय।’वायसोऽवदत् ‘एवमस्तु’। अथ वायसस्तेनमित्रेण सह विचित्रालापै सुखेन तस्य सरसः समीप ययौ। ततो मन्थरोदूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्यं विधाय मूषिकस्यातिथिसत्कारं चकार। यत–
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥११२॥
वायसोऽवदत्– ‘सखे मन्थर! सविशेषपूजामस्मै विधेहि। यतोऽयं पुण्यकर्मणा धुरीण कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराज। एतस्य गुणस्तुतिजिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितुं समर्थः स्यात्। इत्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान्।’ततो मन्थर सादर हिरण्यक संपूज्याह– ‘भद्र! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि।’हिरण्यकोऽवदत्– ‘कथयामि।श्रूयताम्–
कथा ४.
अस्ति चम्पकाभिधानाया नगर्या परित्राजकावसथ। तत्र चूडाकर्णोनाम परिव्राट्प्रतिवसति। स च भोजनावशिष्ट भिक्षान्नसहितं भिक्षापात्रंनागदन्तकेऽवस्थाप्य स्वपिति। अहं च तदन्नमुल्लुत्य प्रत्यहं भक्षयामि। अनन्तरं तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजक समायातः। तेन सह कथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवशखण्डेन चूडाकर्णो भूमिमताडयत्। तदृष्ट्वा वीणाकर्ण उवाच– ‘सखे! किमिति मम कथाविरक्तोऽन्यासक्तो भवान्?यतः–
मुखं प्रसन्नं विमला च दृष्टिः
कथासु (नु) रागो मधुरा च वाणी।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्यम्॥११३॥
अतुष्टिदानं कृतपूर्वनाशनम्
अमाननं दुश्चरितानुकीर्त्तनम्।
कथाप्रसङ्गेन च नामविस्मृति
विरक्तभावस्य जनस्य लक्षणम्॥११४॥
चूडाकर्णेनोक्तम्– ‘मित्र!नाहं विरक्त!किं तु पश्यायं मूषिको ममापकारीसदा पात्रस्थ भिक्षान्नमुत्प्लुत्य भक्षयति।’वीणाकर्णो नागदन्तकं विलोक्याह–‘कथं मूषिकस्वल्पबलोऽप्येतावद्दूरमुत्पतति?तदत्र केनापि कारणेन भवितव्यम्। तथा चोक्तम्–
अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति।
पतिं निर्दयमालिङ्गय हेतुरत्र भविष्यति॥११५॥
चूडाकर्ण पृच्छति– ‘कथमेतत्’? वीणाकर्ण’कथयति–
कथा ५.
अस्ति गौडीये कौशाम्बी नाम नगरी। तस्या चन्दनदासनामा वणिङ् महाधनो निवसति। तेन पश्चिमे वयसि वर्तमानेन कामाधिष्ठितचेतसा धनदर्पात्लीलावतीनाम्नी वणिक्पुत्री परिणीता। सा च मकरकेतोर्विजयवैजयन्तीवयौवनवती बभूव। स च वृद्धपतिस्तस्या सतोषाय नाभवत्। यत–
शशिनीव हिमार्तानां घर्मार्तानां रवाविव।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ॥११६॥
अन्यच्च–
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः॥११७॥
स च वृद्धपतिस्तस्यामतीवानुरागवान्। यतः–
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी॥११८॥
अपि च–
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी।
अस्थि निर्देशनः श्वेव जिह्वया लेढि केवलम्॥११९॥
अथ सा लीलावती यौवनदर्पादतिक्रान्तकुलमर्यादा केनापि वणिक्पुत्रेणसहानुरागवती बभूव। यत–
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति–
र्गोष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः
पत्युर्वार्धकमीर्षितं प्रवसनं नाशस्य हेतुः स्त्रियाः॥१२०॥
अपरं च–
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्।
स्वप्रश्चान्यगृहे वासो नारीणां दूषणानि षट्॥१२१॥
किं च–
स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः॥
तेन नारद नारीणां सतीत्वमुपजायते॥१२२॥
अन्यच्च–
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवंनवम्॥१२३॥
अपरं च–
स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम्।
ताश्चापि रक्षिता येषां ते नराः सुखभागिनः॥१२४॥
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद्घृतं च वह्निं च नैकत्र स्थापयेद्बुधः॥१२५॥
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः॥१२६॥
अपि च–
पिता रक्षति कौमारे भर्त्ता रक्षति यौवने।
पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥१२७॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति॥१२८॥
एकदा सा लीलावती रत्नावलीकिरणकर्बुरे पर्यङ्केतेन वणिक्पुत्रेण सहविश्रम्भालापैसुखासीना तमलक्षितोपस्थित पतिमवलोक्य सहसोत्थाय केशेष्वाकृष्य गाढमालिङ्ग्यचुम्बितवती।तत्रावसरे जारश्चपलायित। उक्तं च–
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः।
स्वभावेनैव तच्छास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम्॥१२९॥
तदालिङ्गनमवलोक्य समीपवर्तिनी कुट्टिन्यचिन्तयत्–‘अकस्मादियमेनमुपगूढवती’इति। ततस्तया कुट्टिन्या तत्कारण जार परिज्ञाय सा लीलावतीगुप्तेन दण्डिता। अतोऽहं ब्रवीमि–**‘अकस्माद्युवती वृद्धम् ’**इत्यादि॥
मूषिकबलोपस्तम्भेन केनापि कारणेनात्र भवितव्यम्।’ क्षण विचिन्त्यपरिव्राजकेनोक्तम्–‘कारण चात्र वनबाहुत्यमेव प्रतिभाति। यत–
धनवान्बलवाल्ँलोके सर्वः सर्वत्र सर्वदा।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते॥१३०॥’
तत खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिरसंचितं मम धनंगृहीतम्। ततः प्रभूति निजशक्तिहीनसत्वोत्साहरहितः स्वाहारमप्युत्पादयितुमक्षमः सत्रास मन्दं मन्दमुपसर्पश्चूडाकर्णेनावलोकितः।’ ततस्तेनोक्तम्–
‘धनेन बलवान्सर्वो धनाद्भवति पण्डितः।
पश्यैनं मूषिकं पापं स्वजातिसमतां गतम्॥१३१॥
किं च–
अथन तु विहीनस्य पुरुषस्याल्पमेधसः।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा॥३२॥
अपरं च–
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाल्ँलोके यस्यार्थाः स हि पण्डितः॥१३३॥
अन्यच्च–
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता॥१३४॥
अपरं च–
दारिद्र्यान्मरणाद्वापि दारिद्र्यमवरं स्मृतम्।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुस्सहम्॥१३५॥
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वद (च ) नं तदेव।
अर्थोष्मणा विरहितः पुरुषः स एव
ह्यन्यः क्षणेन भवतीति विचित्रमेतत्॥१३६॥
एतत्सर्वमाकर्ण्य मयालोचितम्– ‘ममात्रावस्थानमयुक्तमिदानीम्, यच्चान्यस्माएतद्वृत्तान्तकथनम्, तदप्यनुचितम्–
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥१३७॥
अपि च–
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम्।
तपोदानापमानं च नव गोप्यानि यत्नतः॥१३८॥
तथा चोक्तम्–
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम्॥१३९॥
अन्यच्च–
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति।
अपि निर्वाणमायाति नानलो याति शीतताम्॥१४०॥
किं च–
कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वनेऽथवा॥१४१॥
यच्चात्रैव याञ्चया जीवन तदतीव गर्हितम्। यतः–
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः॥१४२॥
अन्यच्च–
दारिद्र्याद्ध्रियमेतिह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निस्सत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकनिहतो बुद्धचा परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥१४३॥
किं च–
वरं मौनं कार्यंन च वचनमुक्तं यदनृतं
वरं क्लैब्यंपुंसां न च परकलत्राभिगमनम्।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि–
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम्॥१४४॥
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः॥१४५॥
अपि च–
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम्।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति॥१४६॥
इति विमृश्य ‘तत्किमह परपिण्डेनात्मान पोषयामि ? कष्ट भो ! तदपि द्वितीय मृत्युद्वारम्। यतः–
पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम्।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः॥१४७॥
रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥१४८॥
इत्यालोच्यापि लोभात् पुनरपि तदीयान्न ग्रहीतुं ग्रहमकरवम्। तथाचोक्तम्–
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः॥१४९॥
ततोऽहं मन्दमन्दमुपसर्पस्तेन वीणाकर्णेन जर्जरवशखण्डेन ताडितश्चाचिन्तयम्–
धनलुब्धो ह्यसंतुष्टोऽनियतात्माऽजितेन्द्रियः।
सर्वा एवापदस्तस्य यस्य तुष्ट न मानसम्॥१५०॥
तथा च–
सर्वाः संपत्तयस्तस्य सन्तुष्टं यस्य मानसम्।
उपानद्गूढपादस्य ननुचर्मावृतेव भूः॥१५१॥
अपरं च–
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥१५२॥
किंञ्च–
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम्॥१५३॥
अपि च–
असेवितेश्वरद्वारमदृष्टविरहव्यथम्।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम्॥१५४॥
यत–
न योजनशतं दूरं बाध्यमानस्य तृष्णया।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥१५५॥
तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान्। उक्तं च–
को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः॥१५६॥
तथा च–
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः।
अपरिच्छेदकर्तॄणां विपदः स्युः पदेपदे॥१५७॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत्॥१५८॥
अपरं च–
पानीयं वा निरायासं स्वाद्वन्नंवाऽभयोत्तरम्।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥१५९॥
इत्यालोच्याह निर्जनवनमागत। यत–
वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयः पक्वफलाम्बुभोजनम्।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवनम्॥१६०॥
ततोऽस्मत्पुण्योदयादनेन मित्रेणाहं स्नेहानुवृत्त्यानुगृहीत। अधुना च पुण्यपरंपरया भवदाश्रय स्वर्ग एव मया प्राप्त। यत–
संसारविषवृक्षस्य द्वे एव रसवत्फले।
काव्यामृतरसास्वादः सङ्गमः सुजनैः सह॥१६१॥
अपरं च–
सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम्।
असारे खलु संसारे त्रीणि साराणि भावयेत्॥१६२॥’
मन्थर उवाच–
‘अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम्
आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम्।
धर्मं यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१६३॥
युष्माभिरतिसचय’ कृत, तस्याय दोष। शृणु–
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परवाह इवाम्भसाम्॥१६४॥
अन्यच्च–
यदधोधः क्षितौ वित्तं निचखान मितंपचः।
तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः॥१६५॥
अन्यच्च–
निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति।
परार्थभारवाहीव क्लेशस्यैव हि भाजनम्॥१६६॥
अपरं च-–
दानोपभोगहीनेन धनेन धनिनो यदि।
पृथ्वीखातनिखातेन धनेन धनिनो वयम्॥१६७॥
अन्यच्च–
दानभोगविहीनाश्च दिवसा यान्ति यस्य वै।
स कर्मकारभस्त्रेव श्वसन्नपि न जीवति॥१६८॥
धनेन किं यो न ददाति नाश्नुते
बलेन कि यश्च रिपून्नबाधते।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत्॥१६९॥
असंभोगेन सामान्यं कृपणस्य धनं परैः।
अस्येदमिति सम्बन्धो हानिर्दुःखेन गम्यते॥१७०॥
न देवाय न विप्राय न बन्धुभ्यो न चात्मने।
कृपणस्य धनं यानि वह्नितस्करपार्थिवैः॥१७१॥
अन्यच्च–
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति॥१७२॥
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।
वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके॥१७३॥
उक्तं च–
कर्तव्यः सञ्चयो नित्यं कर्तव्यो नातिसञ्चयः।
पश्य सञ्चयशीलोऽसौ धनुषा जम्बुको हतः॥१७४॥
तावाहतु–‘कथमेतत्?’। मन्थरंकथयति–
कथा ६.
आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः। स चैकदा मासलुब्धोधनुरादाय मृगमन्विष्यमाणो विन्ध्याटवीं गतवान्। ततस्तेन व्यापादितमृगमादाय गच्छता घोराकृतिःसूकरो दृष्ट। ततस्तेन व्याधेन मृग भूमौनिधाय सूकर शरेण हत। सूकरेणापि घनघोरगर्जन कृत्वा स व्याधोमुष्कदेशेहतः सछिन्नद्रुम इव भूमौ निपपात। यत–
जलमग्निर्विषं शस्त्रं क्षुब्द्याधिः पतनं गिरेः।
निमित्तं किञ्चिदासाद्य देही प्राणैर्वियुज्यते॥१७६॥
अथ तयो पादास्फालनेन सर्पोऽपि मृतः। अथानन्तरं दीर्घरावोनाम जम्बुकःपरिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पसूकरानपश्यत्। अचितयच्च ‘अहो भाग्यमद्य महद्भोज्यं मे समुपस्थितम्। अथ वा–
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते॥१७६॥
तद्भवतु, तेषा मासैर्मासत्रय मे सुखेन गमिष्यति–
मासमेकं नरो याति द्वौ मासौ मृगसूकरौ।
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः॥१७७॥
ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डाटनीलग्नं स्नायुबन्धन खादामि, इत्युक्त्वा तथा कृते सति च्छिन्ने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नःस दीर्घरावः पञ्चत्वं गत। अतोऽहं ब्रवीमि–‘कर्तव्यः संचयो नित्यम्’ इत्यादि। तथा च–
यद्ददाति यदश्नाति तदेव धनिनो धनम्।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि॥१७८॥
यातु। किमिदानीमतिक्रान्तोपवर्णनेन?यत–
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः॥१७९॥
तत्सखे!सर्वदा त्वया सोत्साहेन भवितव्यम्। यतः -
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान्पुरुषः स विद्वान्।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम्॥१८०॥
अन्यच्च–
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः॥१८१॥
तदत्र सखे!दशाविशेषेण शान्ति करणीया। एतदप्यतिकष्टं त्वया नमन्तव्यम्। अपरं च–
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः।
सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः॥१८२॥
अन्यच्च–
सुखमापतितं सेव्यं दुःखमापतितं तथा।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च॥१८३॥
अन्यच्च–
उत्साहसम्पन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम्।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं याति निवासहेतोः॥१८४॥
विशेषतश्च–
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यथैः परिभवपदं याति कृपणः।
स्वभावादुद्भूतां गणसमुदयाच्चातिविपुलां
धृतिं सैही किं श्वाधृतकनकमालोऽपि लभते॥१८५॥
धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥१८६॥
अपरं च–
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च॥१८७॥
वृत्त्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ॥१८८॥
अपि च सखे!
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति॥१८९॥
अपरं च– सता रहस्य शृणु, मित्र!
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु।
मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः॥१९०॥
अपरं च–
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्॥१९१॥
यतः-
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
भक्ष्यते सलिले नक्रैस्तथा सर्वत्र वित्तवान्॥१९२॥
राजतः सलिलादग्नेश्वोरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥१९३॥
तथा हि–
जन्मानि क्लेशबहुले किं नु दुःखमतः परम्।
इच्छा सम्पद्यतो नास्ति यच्चेच्छा न निवर्तते॥१९४॥
अन्यच्च भ्रात!शृणु–
धनं तावन्न सुलभं लब्धं कृच्छ्रेण रक्ष्यते।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत्॥१९५॥
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥१९६॥
अपरं च–
यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्त्तते।
प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते॥१९७॥
किं बहुना मम पक्षपातेन?मयैव सहात्र कालो नीयताम्। यतः–
आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः।
परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥१९८॥
इति श्रुत्वा लघुपतनको ब्रूते– ‘धन्योऽसि मन्थर!सर्वथा श्रयणीयोऽसि। यत–
सन्त एव सतां नित्यमापदुद्धरणक्षमाः।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः॥१९९॥
गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः।
अलिरेति वनात्कमलं न हि भेकस्त्वेकवासोपि॥२००॥
अपरं च–
श्लाघ्यःस एको भुवि मानवानां
स उत्तमः सत्पुरुषः स धन्यः।
यस्यार्थिनो वा शरणागता वा
नाशाभिभङ्गाद्विमुखाः प्रयान्ति॥२०१॥
तदेव ते स्वेच्छाहारविहार कुर्वाणा सन्तुष्टाःसुख निवसन्ति॥
अथ कदाचिञ्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः। ततः पश्चादायान्त भयहेतु सचिन्त्य मन्थरो जल प्रविष्ट। मूषिकश्च विवर गत। काकोऽप्युड्डीय वृक्षमारूढः। ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोऽप्यायातीत्यालोचितम्। पश्चात्तद्वचनादागत्य पुनःसर्वे मिलित्वा तत्रैवोपविष्टाः। मन्थरेणोक्तम्‘भद्र मृग!स्वागतम्, स्वेच्छयोदकाद्याहारोऽनुभूयताम्। अत्रावस्थाने वनमिद सनाथीक्रियताम्। चित्राङ्गो ब्रूते– ‘लुब्धकत्रासितोऽहं भवतां शरणमागत।
लोभाद्वापि भयाद्वापि यस्त्यजेच्छरणागतम्।
ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः॥२०२॥
भवद्भिःसह सख्यमिच्छामि। हिरण्यकोऽवदत्– ‘मित्रत्व तावदस्माभिःसहायत्नेनैव निष्पन्न भवतः।
औरसं कृतसम्बन्धं तथा वंशक्रमागतम्।
रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम्॥२०३॥
तदत्र भवता स्वगृहनिर्विशेष स्थीयताम्।’तच्छ्रुत्वा मृग सानन्दो भूत्वास्वेच्छाहार कृत्वा पानीयं पीत्वा जलासन्नवटतरुच्छायायामुपविष्ट। यत–
कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकागृहम्।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम्॥२०४॥
अथ मन्थरेणोक्तम्–‘सखे मृग! एतस्मिन्निर्जने वने केन त्रासितोऽसि?कदाचित्कि व्याधा सचरन्ति?’ मृगेणोक्तम्– ‘अस्ति कलिङ्गविषये रुक्माङ्गदोनाम नरपति। स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समावासितकटको वर्तते। प्रातश्च तेनात्रागत्य कर्पूरसर समीपे भवितव्यमिति व्याधाना मुखात्किवदन्ती श्रूयते। तदत्रापि प्रातरवस्थानभयहेतुकमित्यालोच्य यथावसरकार्यमारभ्यताम्।’ तच्छ्रुत्वा कर्म सभयमाह– ‘मित्र! जलाशयान्तरंगच्छामि।’काकमृगावयुक्तवन्तौ– ‘एवमस्तु।’ ततो हिरण्यको विहस्याह– ‘जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम्। स्थले गच्छत कःप्रतीकारः? यतः–
अम्भांसि जलजन्तूनां दुर्गंदुर्गनिवासिनाम्।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम्॥२०५॥
सखे लघुपतनक! अनेनोपदेशेन तथा भवितव्यम्–
स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुड्मलम्।
वणिक्पुत्रोऽभवद्दुःखी त्वं तथैव भविष्यसि॥२०६॥
त ऊचुः–‘कथमेतत्?’ हिरण्यकः कथयति–
कथा ७.
अस्ति कान्यकुब्जविषये वीरसेनो नाम राजा। तेन वीरपुरनाम्नि नगरेतुङ्गबलो नाम राजपुत्रो भोगपति कृत। स च महाधनस्तरुण एकदास्वनगरे भ्राम्यन्नतिप्रौढयौवना लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास। तत स्वहर्म्य गत्वा स्मराकुलितमतिस्तस्या कृते दूतीं प्रेषितवान्। यतः–
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जांतावद्विधत्ते विनयमपि समालम्बते तावदेव।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥२०॥
सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदेकचित्ताऽभवत्। तथा ह्युक्तम्–
असत्यं साहसं माया मात्सर्यं चातिलुब्धता।
निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः॥२०८॥
अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच–‘अह पतिव्रता परपुरुषस्पर्शमात्रमपिन करोमि। यतः–
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥२०९
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम्।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥२१०॥
अन्यच्च–
न सा भार्येति वक्तव्या यस्या भर्त्ता न तुष्यति।
तुष्टे भर्तरि नारीणां सन्तुष्टाः सर्वदेवताः॥२११॥
ततो यद्यदादिशति मे प्राणेश्वरस्तदेवाहमविचारितं करोमि।’दूत्योक्तम्– सत्यमेतत्।’ लावण्यवत्युवाच– ‘ध्रुव सत्यमेतत्।’ ततो दूतिकया गत्वा तत्तत्सर्वं तुङ्गबलस्याग्रेनिवेदितम्। तच्छ्रुत्वा तुङ्गबलोऽवदत्। विषमेषुणा व्रणितहृदयस्तां विना कथमह जीविष्यामि?कुट्टिन्याह‘– स्वामिन्नानीय समर्पयितव्येति। स प्राह ‘कथमेतच्छक्यम्?कुट्टिन्याह–‘उपाय क्रियताम्। तथा चोक्तम्–
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना॥२१२॥
राजपुत्रः पृच्छति कथमेतत्?सा कथयति–
कथा ८.
अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती। तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म–यद्ययं केनाप्युपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत्। ततःतत्रैकेन वृद्धशृगालेन प्रतिज्ञा कृता–‘मया बुद्धिप्रभावादस्य मरण साधयितव्यम्।’ अनन्तर स वञ्चकःकर्पूरतिलकसमीपंगत्वा साष्टाङ्गपात प्रणम्योवाच–‘देव!दृष्टिप्रसाद कुरु।’ हस्ती ब्रूते– ‘कस्त्वम्?कुतःसमायातः?’ सोऽवदत्– ‘जम्बुकोऽहम्। सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाश प्रस्थापित। यद्विना राज्ञाऽवस्थातुं न युक्त तदत्राटवीराज्येअभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपित। यतः–
यः कुलाभिजनाचारैरतिशुद्धः प्रतापवान्।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥२१३॥
अपरं च पश्य–
राजानं प्रथमं विन्देत्ततो भार्या ततो धनम्।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्॥२१४॥
अन्यच्च–
पर्जन्य इव भूतानामाधारः पृथिवीपतिः।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ॥२१५॥
नियतविषयवर्त्ती प्रायशो दण्डयोगा–
ज्जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः।
कृशमपि विकलं वा व्याधितं वाऽधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति॥२१६॥
तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यता देवेन।’इत्युक्त्वोत्थाय चलित’। ततोऽसौ राज्यलोभाकृष्ट कर्पूरतिलकःशृगालदर्शितवर्त्मना धावन्महापङ्के निमग्न’। हस्तिनोक्तम्– ‘सखे शृगाल!किमधुना विधेयम्?महापङ्के निपतितोऽहं म्रिये, परावृत्य पश्य।’ शृगालेन विहस्योक्तम्‘देव!मम पुच्छकाग्रावलम्बन कृत्वोत्तिष्ठ। यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनुभूयतामशरणं दुहखम्। तथा चोक्तम्–
यदासत्सङ्गरहितो भविष्यसि भविष्यसि।
तदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि॥२१७॥
ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षित। अतोऽहं ब्रवीमि–‘उपायेन हि यच्छक्यम्’ इत्यादि॥
तत कुट्टिन्युपदेशेन त चारुदत्तनामानं वणिक्पुत्रं स राजपुत्रः सेवक चकार। ततोऽसौ तेन सर्वविश्वासकार्येषु नियोजितः।
एकदा कुट्टिन्युपदेशेन तेन राजपुत्रेण स्नातानुलिप्तेनकनकरत्नालङ्कारवारिणा प्रोक्तम्। चारुदत्त!मया मासमेक गौरीव्रतं कर्तव्यम्। तदद्यारभ्यप्रतिरात्रमेकांकुलीनां युवतीमानीय समर्पय। सा मया यथोचितेनविधिना पूजयितव्या। तत स चारुदत्तस्तथाविधा नवयुवतीमानीय समर्पयति। पश्चात्प्रच्छन्नः सन् किमयं करोतीति निरूपयति। स च तुङ्गबलस्तां युवतीमस्पृशन्नेव दूराद्वस्त्रालंकारगन्धचन्दनैः सम्पूज्य रक्षकं दत्त्वा तत्क्षणमेव प्रस्थापयति। अथ तेन वणिक्पुत्रेण तद्दृष्ट्वोपजातविश्वासेन लोभाकृष्टमनसा स्ववधू
लावण्यवती समानीय समर्पिता। स च तुङ्गबलस्तां हृदयप्रियां लावण्यवतींविज्ञाय ससभ्रममुत्थाय निर्भरमालिङ्ग्यानन्दनिमीलिताक्षः प्रहृष्टमना बहुविधामनङ्गक्रीडा विधाय पर्यङ्के तया सह सुष्वाप। तदालोक्य वणिक्पुत्रश्चित्रलिखित इवेतिकर्तव्यतामूढ पर विषादमुपगत। अतोऽहं ब्रवीमि–**‘स्वयं वीक्ष्य’**इत्यादि। तथा त्वयापि भवितव्यम्, इति। तद्धितवचनमवधार्य महता भयेन विमुग्ध इव त जलाशयमुत्सृज्य मन्थरश्चलित। तेऽपि हिरण्यकादयःस्नेहादनिष्टशङ्कमाना मन्थरमनुगच्छन्ति। तत स्थले गच्छन्केनापि व्याधेन कानन पर्यटतास मन्थर प्राप्त। प्राप्य त गृहीत्वोत्थाप्य धनुषि बध्वा धन्योस्मीत्यभिवाय भ्रमन्क्लेशात्क्षुत्पिपासाकुल स्वगृहाभिमुखं चलितः। अथ ते मृगवायसमूषका परंविषाद गच्छन्तस्तमनुजग्मु। ततो हिरण्यको विलपति–
‘एकस्य दुःखस्य न यावदन्तं
गच्छाम्यहं पारमिवार्णवस्य।
तावद्वितीयं समुपस्थितं मे
छिद्रेष्वनर्था बहुलीभवन्ति॥२९८॥
स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति॥२१९॥
अपि च–
न मातरि न दारेषु न सौदर्ये न चात्मजे।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे॥२२०॥
इति मुहुर्विचिन्त्य ‘अहो दुर्दैवम्!यतः–
स्वकर्मसन्तानविचेष्टितानि
कालान्तरावर्तिशुभाशुभानि।
इहैवदृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि॥२२१॥
अथ वा इत्थमेवैतत्–
कायः संनिहितापायः सम्पदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम्॥२२२॥’
पुनरवमृश्याह–
‘शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्॥२२३॥
किंञ्च–
मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद्दुर्लभम्।
ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला–
स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत्॥२२४॥
इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह– ‘यावदयं व्याधो वनान्ननिःसरति तावन्मन्थर मोचयितुं यत्न क्रियताम्।’तावूचतु– ‘सत्वर यथाकार्यमुपदिश।’ हिरण्यको ब्रूते– ‘चित्राङ्गो जलसीपं गत्वा मृतमिवात्मानं निश्चेष्ट दर्शयतु। काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु, नूनमनेन मृगमासार्थिना लुब्धकेन तत्र कच्छप परित्यज्य सत्वर गन्तव्यम्। ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि। संनिहिते लुब्धके भवद्भया पलायितव्यम्।’ अथचित्राङ्गलघुपतनकाभ्या शीघ्रं गत्वा तथानुष्ठिते सति स व्याधश्रान्त पानीयं पीत्वा तरोरधस्तादुपविष्टस्तथाविधमृगमपश्यत्। तत कच्छप जलसमीपे निधायकर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलित। अत्रान्तरे हिरण्यकेनागत्य मन्थरस्य बन्धन छिन्नम्। स कूर्म सत्वरं जलाशय प्रविवेश। स मृग आसन्नतव्याध विलोक्योत्थाय द्रुत पलायितः। प्रत्यावृत्य लुब्धको यावत्तरुतलमायाति तावत्कूर्ममपश्यन्नचिन्तयत्–‘उचितमेवैतन्ममासमीक्ष्यकारिण। यत–
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि’॥२२५॥
ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः। मन्थरादयः सर्वे मुक्तापदःस्वस्थानं गत्वा यथासुखमास्थिताः॥
** **अथ राजपुत्रै सानन्दमुक्तम्– ‘सर्वं श्रुतवन्त सुखिनो वयम्। सिद्धं नः समीहितम्।’विष्णुशर्मोवाच–‘एतावता भवतामभिलषितं सम्पन्नम्। अपरमपीदमस्तु–
मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः॥२२६॥
**इति विष्णुशर्म संगृहीते हितोपदेशेमित्रलाभः प्रथमः॥१॥ **
** <MISSING_FIG href="../books_images/U-IMG-1720895746screenshot222.png"/>**
<MISSING_FIG href="../books_images/U-IMG-1720895397Screenshot१२३.png"/>
सुहृद्भेदः।
<MISSING_FIG href="../books_images/U-IMG-1720895974Screenshot333.png"/>
अथ राजपुत्रा ऊचुः– ‘आर्य! मित्रलाभः श्रुतस्तावदस्माभिः। इदानींसुहृद्भेद श्रोतुमिच्छाम।’विष्णुशर्मोवाच– ‘सुहृद्भेदं तावच्छृणुत, यस्यायमाद्य श्लोकः–
वर्धमानो महास्नेहो मृगेन्द्रवृषयोर्वने।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१॥’
राजपुत्रैरुक्तम्–‘कथमेतत् ?’विष्णुशर्मा कथयति–
अस्ति दक्षिणापथे सुवर्णवती नाम नगरी। तत्र वर्धमानो नाम महाधनः वणिङ्निवसति। तस्य प्रचुरेऽपि वित्तेऽपरान्बन्धूनतिसमृद्धान्समीक्ष्य पुनरर्थवृद्धिः स्मरणीयेति मतिर्बभूव। यतः–
अधोऽधः पश्यतः कस्य महिमा नोपचीयते।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति॥२॥
अपरं च–
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते॥३॥
अन्यच्च–
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनम्।
प्रमदेव हि वृद्धपतिं नेच्छत्युपगूहितुं लक्ष्मीः॥४॥
किंञ्च–
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम्।
संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य॥५॥
यतः–
संपदा सुस्थिरम्मन्यो भवति स्वल्पयापि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥६॥
अपरं च–
निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम्।
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्॥७॥
तथा चोक्तम्–
अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया।
रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत्॥८॥
यतो लब्धुमिच्छतोऽर्थयागादर्थस्य प्राप्तिरेव। लब्धस्याप्यरक्षितस्य निधेरपिस्वयं विनाशः। अपि च, अवर्धमानश्चार्थःकालेन स्वल्पव्ययोऽप्यञ्जनवत्क्षयमेति। अनुपभुज्यमानश्च निष्प्रयोजन एव सः। तथा चोक्तम्–
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम्।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु॥९॥
इति सचिन्त्य वर्द्धमानः नन्दकसञ्जीवकनामानौ वृषभौ धुरि नियोज्य शकटंनानाविधद्रव्यपूर्ण कृत्वा वाणिज्येन गतः काश्मीरं प्रति। यत–
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥१०॥
अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतित। एतदालोक्य वर्धमानोऽचिन्तयत्–
‘करोतु नाम नीतिज्ञो व्यवसायमितस्ततः।
फलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम्॥११॥
किंतु–
विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम्।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम्॥१२॥’
इति सञ्चिन्त्य सञ्जीवक तत्र परित्यज्य वर्धमान पुन स्वयं धर्मपुर नामनगरं गत्वा महाकायमन्य वृषभमेक समानीय धुरि नियोज्य चलितः। ततःसजीवकोऽपि कथकथमपि खुरत्रये भर कृत्वोत्थितः। यत–
निमग्नस्य पयोराशौ पर्वतात्पतितस्य च।
तक्षकेणापि दष्टस्य स्वायुर्मर्माणि रक्षति॥१३॥
अपरं च–
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति॥१४॥
यतः–
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति॥१५॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहार कृत्वारण्यं भ्राम्यन् हृष्टपुष्टाङ्गो बलवन्ननाद। तस्मिन्वने पिङ्गलनामा सिंहः स्वभुजोपार्जितराज्यसुखमनुभवन्निवसति। तथा चोक्तम्–
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता॥१६॥
स चैकदा पिपासाकुलित पानीयं पातुं यमुनाकच्छमगच्छत्। तेन च तत्र सिंहेनाननुभूतपूर्वमकालघनगर्जितमिव सजीवकनर्दितमश्रावि। तच्छ्रुत्वा पानीयमपीत्वा सचकित परावृत्य स्वस्थानमागत्य किमिदमित्यालोचयस्तूष्णीं स्थितः।स च तथाविधःकरटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्यां शृगालाभ्यां दृष्टः। त तथाविधदृष्ट्वा दमनकः करटकमाह– ‘सखे करटक!किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दमवतिष्ठते। करटको ब्रूते–‘मित्र दमनक!अस्मन्मतेनास्य सेवैव न क्रियते। यदि तथा भवति तर्हिकिमनेन स्वामिचेष्टानिरूपणेनास्माकम्– यतोऽनेन राज्ञा विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्दुःखमनुभूतम्–
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम्।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम्॥१७॥
अपरं च–
शीतवातातपक्केशान्सहन्ते यान्पराश्रिताः।
तदंशेनापि मेधावी तपस्तत्वा सुखी भवेत्॥१८॥
अन्यच्च–
एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता।
ये पराधीनतां यातास्ते वै जीवन्ति के मृताः॥१९॥
अपरं च–
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥२०॥
किं च–
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम्।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः॥२१॥
अन्यच्च–
या प्रकृत्यैव चपला निपतत्यशुचावपि।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः॥२२॥
अपरं च–
मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥२३॥
विशेषतश्च–
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान्।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः॥२४॥
दमनको ब्रूते– ‘मित्र!सर्वथा मनसापि नैतत्कर्तव्यम्। यत–
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान्॥२५॥
अन्यच्च पश्य–
कुतः सेवाविहीनानां चामरोद्धूतसंपदः।
उद्दण्डधवलच्छत्रं वाजिवारणवादिनी॥२६॥
करटको ब्रूते–‘तथापि किमनेनास्माकं व्यापारेण? यतोऽव्यापारेषुव्यापार सर्वथा परिहरणीयः। पश्य–
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति।
स भूमौ निहतः शेते कीलोत्पाटीव वानरः॥२७॥’
दमनकःपृच्छति–‘कथमेतत्?’करटक कथयति–
कथा १.
मगधदेशे धर्मारण्यसनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन प्रासादःकर्तुमारब्ध। तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद्दूरस्फाटितस्य काष्ठखण्डद्वयमन्येकीलकः सूत्रधारेण निहित, तत्र बलवान्वानरयूथः क्रीडन्नागतः। तेषु एकोवानरः कालप्रेरित इव तकीलक हस्ताभ्यां धृत्वोपविष्ट। तत्र तस्य मुष्कद्वयंलम्बमान काष्ठखण्डद्वयाभ्यन्तरे प्रविष्टम्। अनन्तरं स चसहजचपलतया महताप्रयत्नेन तत् कीलकमाकृष्टवान्, आकृष्टे च कीलके काष्ठाभ्यां चूर्णिताण्डद्वयं पञ्चत्वं गतः। अतोऽहं ब्रवीमि– **‘अव्यापारेषु व्यापारम्’**इत्यादि॥
दमनको ब्रूते– ‘तथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम्।’ करटको ब्रूते‘सर्वस्मिन्नधिकारे य एव नियुक्त प्रधानमन्त्री स करोतु। यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या। पश्य–
पराधिकारचर्चां यः कुर्यात्स्वामिहितेच्छया।
स विषीदति चीत्काराद्गर्दभस्ताडितो यथा॥२८॥
दमनकः पृच्छति–‘कथमेतत्’? करटको ब्रूते–
कथा २.
‘अस्ति वाराणस्यां कर्पूरपटो नाम रजकः। स चैकदाभिनववयस्कया वध्वासह चिरं निधुवन कृत्वा निर्भरमालिङ्गय प्रसुप्त। तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरःप्रविष्टः। तस्य प्राङ्गणे गर्दभो बद्धस्तिष्टति, कुक्कुरश्चोपविष्टोऽस्ति। अथ गर्दभ श्वानमाह– ‘सखे!भवतस्तावदय व्यापार, तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिन न जागरयसि?’कुक्कुरो ब्रूते– ‘भद्र! मम नियोगस्य
चर्चा त्वया न कर्तव्या। त्वमेव किं न जानासि, यथा तस्याहर्निशं गृहरक्षां करोमि, यतोऽयं चिरान्निर्वृतो ममोपयोग न जानाति। तेनाधुनापि ममाहारदाने मन्दादरः। विना विधुरदर्शनस्वामिन उपजीविषु मन्दादरा भवन्ति।’ गर्दभोब्रूते– ‘शृणु रे बर्बर!
याचते कार्यकाले यः स किं भृत्यः स किं सुहृत्।’
कुक्कुरो ब्रूते–
यो न सम्भावयेद्भृत्यान् कार्यकाले स किं प्रभुः॥२९॥
किं च–
आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः॥३०॥’
ततो गर्दभ सकोपमाह– ‘अरे दुष्टमते!पापीयास्त्वम्, यद्विपत्तौ स्वामिकार्येउपेक्षा करोषि। भवतु तावत्। यथा स्वामी जागरिष्यति तन्मया कर्तव्यम्। यत–
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम्।
स्वामिनं सर्वभावेन परलोकममायया॥३१॥’
इत्युक्त्वातीव चीत्कारशब्द कृतवान्। ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभ लगुडेन ताडयामास। ततस्तेन ताडनेन गर्दभःपञ्चत्वमगमत्। अतोऽहं ब्रवीमि–‘पराधिकारचर्चा’ इत्यादि॥
पश्य। पशूनामन्वेषणमेवास्मन्नियोगः।स्वनियोगचर्चा क्रियताम्।’ (विमृश्य)‘किं त्वद्य तया चर्चया न प्रयोजनम्। यत आवयोर्भक्षितशेषाहार प्रचुरोऽस्ति।’ दमनकः सरोषमाह– ‘कथमाहारार्थी भवान्केवल राजानसेवते?एतदयुक्तमुक्त त्वया। यतः–
सुहृदामुपकारकारणात्
द्विषतामप्यपकारकारणात्।
नृपसंश्रय इष्यते बुधै–
र्जठरं को न बिभर्ति केवलम्॥३२॥
जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः।
सफलं जीवितं तस्य आत्मार्थे को न जीवति॥३३॥
अपि च–
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु।
बकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम्॥३४॥
पश्य–
पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते॥३५॥
यतः–
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम्।
प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते॥३६॥
तथा चोक्तम्–
वाजिवारणलोहानां काष्ठपाषाणवाससाम्।
नारीपुरुषतोयानामन्तर महदन्तरम्॥३७॥
तथाहि–
स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिक
श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वःकृच्छ्रगतोऽपि वाञ्छति जनःसत्त्वानुरूपं फलम्॥३८॥
अपरं च सेव्यसेवकयोरन्तरं पश्य–
लांगूलचालनमधश्चरणावपातं
भूमौनिपत्य वदनोदरदर्शनं च।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते॥३९॥
किं च–
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै–
र्विज्ञानविक्रमयशोभिरभज्यमानम्।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते॥४०॥
अपरमपि–
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्चको विशेषः॥४१॥’
करटको ब्रूते– ‘आवां तावदप्रधानौ। ततोऽप्यावयो किमनया विचारणया?’दमनको ब्रूते– ‘कियता कालेनामात्याःप्रधानतामप्रधानतां वा लभन्ते। यतः–
न कस्यचित्कश्चिदिह स्वभावा–
द्भवत्युदारोऽभिमतः खलो वा।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति॥४२॥
किं च–
आरोप्यते शिला शैले यत्नेन महता यथा।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः॥४३॥
तद्भद्रम्, स्वयत्नायत्तो ह्यात्मा सर्वस्य–
यात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥४४॥’
करटको ब्रूते–‘अथ भवान्किं ब्रवीति?’स आह– ‘अयं तावत्स्वामीपिङ्गलकः पानीयमपीत्वा कुतोऽपि भयात्सचकित परावृत्त्योपविष्टः!’करटकोब्रूते– ‘कि तत्त्वं जानासि?दमनको ब्रूतेकिं प्रज्ञावतामविदितमस्ति।
उक्तं च–
उदीरितोऽर्थः पशुनापि गृह्यते
हयाश्च नागाश्च वहन्ति चोदिताः।
अनुक्तमप्यूहतिपण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः॥४५॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च।
नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः॥४६॥
अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेन स्वामिनमात्मीयं करिष्यामि। यतः–
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम्।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः॥४७॥’
करटको ब्रूते–‘सखे!त्वं सेवानभिज्ञ!पश्य–
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः॥४८॥
दमनको ब्रूते–‘भद्र!कथमहं सेवानभिज्ञ’?पश्य–
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम्।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्॥४९॥
यत–
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥५०॥
अन्यच्च–
कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः॥५१॥
अपरं च–
अल्पेच्छुर्धृतिमान्प्राज्ञश्छायेवानुगतः सदा।
आदिष्टो न विकल्पेत स राजवसतौ वसेत्॥५२॥
करटको ब्रूते ‘कदाचित्वामनवसरप्रवेशादवमन्यते स्वामी।’ स चाह– ‘अस्त्वेवम्, तथाप्यनुजीविना स्वामिसान्निध्यमवश्यं करणीयम्। यतः–
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम्।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते॥५३॥
पश्य–
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमपण्डितं वा।
प्रायेण भूमिपतयः प्रमदा लताश्च
यः पार्श्वतो वसति तं परिवेष्टयन्ति॥५४॥
करटको ब्रूते– ‘अथ तत्र गत्वा किं वक्ष्यति भवान्। स आह–‘**शृणु।**किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि।’ करटको ब्रूते– ‘किंतज्ज्ञानलक्षणम्?’ दमनको ब्रूते–‘शृणु–
दूरादेवेक्षणं हासः संप्रश्रेष्वादरो भृशम्।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु॥५५॥
असेवके चानुरक्तिर्दानं सुप्रियभाषणम्।
अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः॥५६॥
अन्यच्च–
कालयापनमाशानां वर्धनं फलखण्डनम्।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः॥५७॥
एतज्ज्ञात्वा यथा चायं ममायत्तो भविष्यति तथा करिष्यामि। यत–
अपायसन्दर्शनजां विपत्ति
मुपायसन्दर्शनजां च सिद्धिम्।
मेधाविनो नीतिविधिप्रयुक्तां
पुरः स्फुरन्तीमिव दर्शयन्ति॥५८॥
अपरं च–
दोषा गुणा गुणा दोषा दोषा दोषा गुणा गुणाः।
रक्ते विरक्ते मध्यस्थे स्वामिनि त्रिविधा गुणाः॥५९॥
करटको ब्रूते–‘तथा प्राप्ते प्रस्तावे न वक्तुमर्हसि।यत–
अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन्।
प्राप्नुयाद्बुद्ध्यवज्ञानमपमानं च शाश्वतम्॥६०॥
दमनको ब्रूते–‘मित्र!
मा भैषी। नाहमप्राप्तावसर वचनं वदिष्यामि। यतः–
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
अपृष्टेनापि वक्तव्यं भृत्येन हितमिच्छता॥६१॥
यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम्। यत–
कल्पयति येन वृत्तिं येन लोके प्रशस्यते सद्भिः।
स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च॥६२॥
तद्भद्र!अनुजानीहि माम्। पिङ्गलकसमीपं गच्छामि।’ करटको ब्रूते– ‘शुभमस्तु। यथाभिलषितमनुष्ठीयताम्–
गम्यतामर्थलाभाय क्षेमाय विजयाय च।
शत्रुपक्षविनाशाय पुनरागमनाय च॥६३॥’
ततो दमनको विस्मित इव पिङ्गलकसमीप गत’॥
अथ दूरादेव सादरं राज्ञा प्रवेशित साष्टाङ्गं प्रणिपत्योपविष्टः। राजाह– ‘चिरादूदृष्टोऽसि।’दमनको ब्रूते– ‘यद्यपि मया सेवकेन श्रीमद्देवपादानानकिचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सान्निध्यमवश्य कर्तव्यमित्यागतोऽस्मि। किञ्च–
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि।
तृणेन कार्यं भवतीश्वराणां
किमङ्गवाक्पाणिमता नरेण॥६४॥
यद्यपि चिरेणावधीरितस्य देवपादैर्मे बुद्धिनाशः शङ्क्यते, तदपि न शङ्कनीयम्। यतः–
मणिर्लुठति पादेषु काचः शिरसि धार्यते।
क्रयविक्रयवेलायां काचः काचो मणिर्मणिः॥६५॥
कदर्थितस्यापि च धैर्यवृत्ते
र्बुद्धेर्विनाशो नहि शङ्कनीयः।
अधःकृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिदेव॥६६॥
देव! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम्। यतः–
निर्विशेषो यदा राजा समं सर्वेषु वर्तते।
तदोद्यमसमर्थानामुत्साहः परिहीयते॥६७॥
किं च–
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु॥६८॥
यत–
स्थान एव हि योज्यन्ते भृत्याश्चाभरणानि च।
न हि चूडामणिः पादे नूपुरं शिरसा तथा॥६९॥
अपि च–
कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता॥७०॥
अन्यच्च–
मुकुटे रोपितः काचश्चरणाभरणे मणिः।
न हि दोषो मणेरस्ति किं तु साधोरविज्ञता॥७१॥
पश्य–
बुद्धिमाननुरक्तोऽयमिहोभयगुणो जनः।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः॥७२॥
तथा हि–
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च॥७३॥
अन्यच्च–
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि॥७४॥
यतः–
अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनः
ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः।
बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती
विपन्नायां नीतौ सकलमवशं सीदति जगत्॥७५॥
अपरं च–देव!
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम्।
नृपेणावमतो यस्तु स सर्वैरवमन्यते॥७६॥
किं च–
बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः।
रवेरविषये किं नुप्रदीपस्य प्रकाशनम्॥७७॥’
पिङ्गलकोऽवदत्–‘भद्र दमनक! किमेतत्? त्वमस्मदीयप्रधानामात्यपुत्र सुधीरियन्तं काल यावत्कुतोऽपि खलवाक्यान्नागतोऽसि। इदानीं यथाभिमत ब्रूहि।’दमनको ब्रूते– ‘देव!पृच्छामि किचित् उच्यताम्। उदकार्थी स्वामी पानीयमपीत्वाकिमिति विस्मित इव तिष्ठति।’पिङ्गलकोऽवदत्‘भद्रमुक्त त्वया। किंवेतद्रहस्यं वक्तुंकाचिद्विश्वासभूमिर्नास्ति। त्वं तु तथाविध, ततः शृणु। संप्रति वनमिदमपूर्वसत्वाधिष्ठितमतोऽस्माकं त्याज्यम्। अनेन हेतुना विस्मतोऽस्मि। तथा च श्रुतस्त्वयापि महानपूर्व शब्दः। शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम्। दमनको ब्रूते– ‘देव! अस्ति तावदयं महान्भयहेतु, स शब्दोऽस्माभिरप्याकर्णित। किं तु स किम्मन्त्री यः प्रथम मन्त्राभावेन भूपतिभूमित्याग युद्ध चोपदिशति। देव!अस्मिन्कार्यसंदेहे भृत्यानामुपयोग एव ज्ञातव्यः। यतः–
बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः।
आपन्निकषपाषाणे नरो जानाति सारताम्॥७८॥
सिंहो ब्रूते– ‘भद्र!महती शङ्का मा बाधते।’ दमनक पुनराह (स्वगतम्)‘अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मा सभाषसे।’ (प्रकाशं ब्रूते)देव!
यावदहं जीवामि तावद्भयं न कर्तव्यम्। कि तु करटकादयोऽप्याश्वास्यन्ताम्, यस्मादापत्प्रतीकारकाले दुर्लभः पुरुषसमवायः।
ततस्तौ दमनककरटकौ राज्ञा महाप्रसादेन पूजितौ भयप्रतीकार प्रतिज्ञायचलितौ। करटको गन्छन् दमनकमाह– ‘सखे! किं शक्यप्रतीकारो भयहेतुरशक्यप्रतीकारी वेति न ज्ञात्वा भयोपशम प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः। यतोऽनुपकुर्वाणो न कस्याप्युपायन गृह्णीयाद्विशेषतो राज्ञ। पश्य–
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥७९॥
तथा हि–
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥८०॥
दमनको विहस्याह–‘ मित्र!
तूष्णीमास्यताम्, ज्ञात मया भयकारणम्। बलीवर्दनर्दित तत्। वृषभाश्चास्माकमपि भक्ष्या, किं पुनः सिंहस्य। करटको ब्रूते–‘यद्येव तदा किं पुन स्वामित्रासस्तत्रैव किमिति नापनीत?’दमनको ब्रूते–“यदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमयं महाप्रसादलाभः स्यात्। अपरं च–
निरपेक्षो न कर्तव्यो भृत्यैः स्वामी कदाचन।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद्दधिकर्णवत्॥८१॥
करटकः पृच्छति कथमेतत्?दमनकःकथयति–
कथा ३.
अस्युत्तरापथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाममहाविक्रम सिंहः।तस्य पर्वतकन्दरमधिशयानस्य केशराग्रकश्चिन्मूषकः प्रत्यहं छिनत्ति। ततः स केसराग्र लूत दृष्ट्वा कुपितो विवरान्तर्गत मूषकमलभमानोऽचिन्तयत्– किं विधेयमत्र भवति। एवं श्रूयते–
क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते।
तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः॥८२॥
इत्यालोच्य तेन ग्राम गत्वा विश्वास कृत्वा दधिकर्मनामा बिडालो यत्नेनानीय मांसाहार दत्त्वा स्वकन्दरे स्थापितः। अनन्तरं तद्भयान्मूषकोऽपि बिलान्न
निःसरति। तेनासौ सिंहोऽक्षतकेसर सुखं स्वपिति। मूषकशब्दं यदा यदाशृणोति तदा तदा मांसाहारदानेन त बिडाल सविशेष संवर्धयति। अथैकदा समूषकःक्षुधापीडितो बहिः संचरन् बिडालेन प्राप्तो व्यापादितःखादितश्च। अनन्तरं स सिंहोऽनेककाल यावन्मूषकशब्दंनशुश्राव, तदोपयोगाभावात्तस्य बिडालस्याहारदाने मन्दादरो बभूव। ततोऽसावाहारविरहाद् दुर्बलोदधिकर्णोऽवसन्नो बभूव। अतोऽहं ब्रवीमि– ‘निरपेक्षो न कर्तव्यः’ इत्यादि॥
ततो दमनककरटको सञ्जीवकसमीप गतौ। तत्र करटकस्तरुतले साटोपमुपविष्ट। दमनक सञ्जीवकसमीपं गत्वाब्रवीत्– ‘अरे वृषभ! एषोऽहं राज्ञापिङ्गलकेनारण्यरक्षार्थं नियुक्त सेनापतिः करटक समाज्ञापयति– सत्वरमागच्छ, न चेदस्मदरण्याद्दूरमपसर। अन्यथा ते विरुद्धं फल भविष्यति। न जाने क्रुद्धःस्वामी किं विधास्यति।’ तच्छ्रुत्वा सञ्जीवकश्चायात्। यतः–
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः।
पृथक्शय्या च नारीणामशस्त्रविहितो वधः॥८३॥
ततो देशव्यवहारानभिज्ञ सञ्जीवक सभयमुपसृत्य साष्टाङ्गपातं करटक प्रणतवान्। तथा चोक्तम्–
मतिरेव बलाद्गरीयसी
यदभावात्करिणामियं दशा।
इति घोषयतीव डिण्डिमः
करिणो हस्तिपकाहतः क्वणन्॥८४॥
अथ सञ्जीवक साशङ्कमाह– ‘सेनापते!किं मया कतर्व्यम्?तदभिधीयताम्।’करटको ब्रूते– ‘वृषभ! अत्र कानने तिष्ठसि। अस्मद्देवपादारविन्दप्रणम।’ सञ्जीवको ब्रूते– ’तदभयवाच मे यच्छ, गच्छामि।’ करटको ब्रूते–‘शृणुरे बलीवर्द!अलमनया शङ्कया। यत–
प्रतिवाचमदत्त कशवः
शपमानाय न चेदिभूभुजे।
अनु हुंकुरुते घनध्वनिं
न हि गोमायुरुतानि केसरी॥८५॥
अन्यच्च–
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वतः।
समुच्छ्रितानेव तरून् प्रबाधते
महान्महत्येव करोति विक्रमम्॥८६॥
ततस्तौ सजीवक कियद्दूरे संस्थाप्य पिङ्गलकसमीप गतौ। ततो राज्ञासादरमवलोकितौ प्रणम्योपविष्टौ। राजाह– ‘त्वया स दृष्ट’? दमनको ब्रूते– ‘देव!
कि तु यद्देवेन ज्ञात तत्तथा। महानेवासौ देवं द्रष्टुमिच्छति। तत् सज्जीभूयोपविश्यताम्, शब्दमात्रादेव न भेतव्यम्। तथा चोक्तम्–
शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम्।
शब्दहेतुं परिज्ञाय कुट्टिनी गौरवं गता॥८७॥’
राजाह– ‘कथमेतत्।’ दमनक कथयति–
कथा ४.
अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम्। तच्छिखरप्रदेशे घण्टाकर्णोनाम राक्षसः प्रतिवसतीति जनप्रवाद श्रूयते। एकदा घण्टामादाय पलायमानः कश्चिच्चोरो व्याघ्रेण व्यापादित, तत्पाणिपतिता घण्टा वानरैः प्राप्ता। वानरास्तां घण्टामनुक्षणं वादयन्ति। ततो नगरजनै स चोरः खादितो दृष्ट’, प्रतिक्षणं घण्टारवश्च श्रूयते। अनन्तरं घण्टाकर्णःकुपितो मनुष्यान् खादति, घण्टा च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिता। तत करालनाम्न्याकुट्टिन्या विमृश्यानवसरोऽयं घण्टावाद। तत्किं मर्कटा घण्टा वादयन्तीतिस्वयं विज्ञाय राजा विज्ञापित– ‘देव!
यदि कियद्धनोपक्षय क्रियते, तदाहमेनं घण्टाकर्णं साधयामि।’ ततो राज्ञा तस्यै धनं दत्तम्। कुट्टिन्या च मण्डल कृत्वातत्रगणेशादिपूजागौरव दर्शयित्वा स्वयं वानरप्रियफलान्यादाय वन प्रविश्यफलान्याकीर्णानि। ततो घण्टा परित्यज्य वानराः फलासक्ता बभूवुः। कुट्टिनीच घण्टा गृहीत्वा नगरमागता सर्वजनपूज्याभवत्। अतोऽहं ब्रवीमि–‘शब्दमात्रान्न भेतव्यम्’ इत्यादि॥
तत सजीवक आनीय दर्शनं कारित। पश्चात्तत्रैव परमप्रीत्या निवसति॥
अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंह समागत। तस्यातिथ्यंकृत्वा समुपवेश्य पिङ्गलकस्तदाहाराय पशुं हन्तुं चलितः। अत्रान्तरे संजीवकोवदति– ‘देव! अद्य हतमृगाणां मासानि क्व?’राजाह ‘दमनककरटकौजानीत।’ सजीवको ब्रूते– ‘ज्ञायता किमस्ति नास्ति वा?‘सिंहो विमृश्याह– ‘नास्त्येव तत्।’ सजीवको ब्रूते– ‘कथमेतावन्मास ताभ्या खादितम्? राजाह– ‘खादित व्ययितमवधीरित। प्रत्यहमेष क्रम।’ सजीवको ब्रूते– ‘कथ श्रीमद्देवपादानामगोचरेणेव क्रियते?राजाह– ‘मदीयागोचरेणैव क्रियते।’अथ सजीवको ब्रूते– ‘नैतदुचितम्। तथा चोक्तम्–
नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिदपि स्वयम्।
कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः॥८८॥
अन्यच्च–
कमण्डलूपमोऽमात्यस्तनुत्यागो बहुग्रहः।
नृपते किंक्षणो मूर्खो दरिद्रः किंवराटकः॥८९॥
स ह्यमात्यः सदा श्रेयान्काकिणीं यः प्रवर्धयेत्।
कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥९०॥
किं चान्यैर्न कुलाचारैः सेव्यतामेति पूरुषः।
धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः॥९१॥
एतच्च राज्ञ प्रधान दूषणम्। पश्य–
अतिव्ययोऽनवेक्षा च तथार्जनमधर्मतः।
मोक्षणं दूरसंस्थानां कोशव्यसनमुच्यते॥९२॥
यत–
क्षिप्रमायमनालोच्य व्ययमानः स्ववाञ्छया।
परिक्षीयत एवासौ धनी वैश्रवणोपमः॥९३॥
तदाकर्ण्य स्तब्धकर्णो ब्रूते– ‘शृणु भ्रातः!
चिराश्रितावेतौ दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ। अपरं चनियोगप्रस्तावे यन्मया श्रुत तत्कथ्यते–
ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति॥९४॥
नियुक्तः क्षत्रियो द्रव्ये खङ्गं दर्शयते ध्रुवम्।
सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः॥९५॥
अपराधेऽपि निःशङ्को नियोगी चिरसेवकः।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः॥९६॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते।
उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति॥९७॥
उपांशु क्रीडितोऽमात्यः स्वयं राजायते यतः।
अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम्॥९८॥
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल॥
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते॥९९॥
सदामात्यो न साध्यः स्यात्समृद्धः सर्व एव हि।
सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी॥१००॥
प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम्।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम्॥१०१॥
नियोगार्थग्रहोपायो राज्ञां नित्यपरीक्षणम्।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः॥१०२॥
निपीडिता वमन्त्युच्चैरन्तःसारं महीपते।
दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः॥१०३॥
मुहुर्नियोगिनो बोध्या वसुधारा महीपते।
सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्द्रुतं पयः॥१०४॥
एतत्सर्व यथावसरं ज्ञात्वा व्यवहर्तव्यम्। ‘सिहो ब्रूते — ‘अस्ति तावदेवम्, किं त्वेतौ सर्वथा न मम वचनकारिणौ। ‘स्तब्धकर्णो ब्रूते — ‘एतत्सर्वमनुचित सर्वथा। यत —
आज्ञाभङ्गकरान् राजा न क्षमेत्स्वसुतानपि।
विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च॥१०५॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य॥१०६॥
अपर च—
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात्।
नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि॥१०७॥
भ्रात । ‘सर्वथास्मद्वचन क्रियताम्। व्यवहारोऽप्यस्माभिः कृत एव। अयं सजीवक सस्यभक्षकोऽर्थाधिकारे नियुज्यताम्।’ एतद्वचनात्तथानुष्ठिते सति तदारभ्य पिङ्गलकसजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्य चिन्तयत। तदाह दमनक करटकम् — ‘मित्र। किं
कर्तव्यम्? आत्मकृतोऽयं दोष’, स्वयं कृतेऽपि दोषे परिदेवनप्यनुचितम्। तथा चोक्तम् —
स्वर्णरेखामहं स्पृष्ट्वा बद्धात्मानं च दूतिका।
आदित्सुश्च मणिं साधुः स्वदोषाद्दुःखिता इमे॥१०८॥’
करटको ब्रूते — ‘कथमेतत्?’ दमनकः कथयति —
कथा ५
अस्ति कञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा। तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमि नीयमान कन्दर्पकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन नायं हन्तव्य इत्युक्त्वा वस्त्राञ्चले वृत। राजपुरुषा ऊचु — ‘किमिति नायं वध्य? ’ स आह — ‘श्रूयताम्।’ ‘स्वर्णरेखामह स्पृष्ट्वा’ इत्यादि पठति। त आहु — ‘कथमेतत्?’ परिव्राजकः कथयति— अस्ति सिंहलद्वीपे भूपतेर्जीमूतकेतो पुत्र कन्दर्पकेतुर्नाम। एकदा केलिकाननावस्थितेन मया पोतवणिङ्मुखाच्छ्रुत यदत्र समुद्रमध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावली किरणकर्बुरपर्यङ्के स्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीणा वादयन्ती कन्या काचिद् दृश्यत इति। ततोऽहं पोतवणिजमादाय पोतमारुह्य तत्र गतः । अनन्तर तत्र गत्वा पर्यङ्केऽर्धमग्ना
तथैव साऽवलोकिता। ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्त। तदनन्तरं कनकपत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के स्थिता विद्यावरीभिरभिनवयौवनाभिरुपास्यमाना मयालोकिता । तयाप्यहं दूरादेव दृष्ट्वा सखीं प्रस्थाप्यसादर सभाषित। तत्सख्या च मया पृष्टया समाख्यातम् — ‘एषा कन्दर्पकेलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते। यः कनकपत्तनं स्वचक्षुषागत्य पश्यति स एव पितुर्गोचरोऽपि मां परिणेष्यतीति मनसः सकल्पः। तदेना गान्धर्वविवाहेन परिणयतु भवान्। ‘अथ तत्र वृत्ते गान्धर्वविवाहे तया सह रममाणस्तत्राह तिष्ठामि। ततः एकदा रहसि तयोक्तम् — ‘स्वामिन्। स्वेच्छया सर्वमिदमुपभोक्तव्यम्, किन्तु एषा चित्रगता स्वर्णरेखा नाम विद्यावरी न कदाचित्स्प्रष्टव्या।’ पश्चादुपजातकौतुकेन माता स्वर्णरेखा स्वहस्तेन मया स्पृष्टा। तया चित्रगतयाप्यहंचरणपद्मेन ताडितं आगत्य स्वराष्ट्रे पतित। अथ दुःखार्तोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्निमा नगरीमनुप्राप्तः। अत्र चातिक्रान्ते दिवसे गोपगृहे सुप्तः सन्नपश्यम्। प्रदोषसमये सुहृदा पालनं कृत्वा स्वगेहमागतो गोपः स्ववधू
दूत्या सह किमपि मन्त्रयन्तीमपश्यत्। ततस्तां गोपीं ताडयित्वा स्तम्भे ब
द्ध्वा सुप्त। ततोऽर्धरात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीमुपेतावदत् — ‘तव विरहानलदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षरिव वर्तते। तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता। तदहमत्रात्मानं बद्ध्वा तिष्ठामि त्वं तत्र गत्वा तं सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदत्, ‘इदानीं त्वंजारान्तिकं कथं न यासि?’ ततो यदासौ न किञ्चिदपि ब्रुते तदा क्रुद्धो गोप ‘दर्पान्मम वचसि प्रत्युत्तरमपि न ददासि’ इत्युक्त्वा कोपेन तेन कर्त्रिकामादायास्या नासिका छिन्ना। तथा कृत्वा पुनः सुप्तो गोपो निद्रामुपगतः । अथागत्य गोपी दूतीमपृच्छत् — ‘का वार्ता? ’ दूत्योक्तम्— ‘पश्य माम्, मुखमेव वार्ता कथयति।’ अनन्तर सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता। इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता। ततः प्रातरेवानेन नापितेन क्षुरभाण्ड याचिता सती सा तस्मै क्षुरभाण्डमदत्त्वा क्षुरमेकं
प्रादात्। ततः समुपजातकोपोऽयं नापितस्तं क्षुरं दूरादेव गृहे क्षिप्तवान्। अथ कृतार्तरावेय विनाऽपराधेनमें नासिकानेन च्छिन्नेत्युक्त्वा धर्माधिकारिसमीपमेनमानीतवती। सा च गोपी तेन गोपेन पुन पृष्टोवाच ‘अरे पाप’ को मा महासती विरूपयितुं समर्थ? मम व्यवहारमकल्मषमष्टौ लोकपाला एव
जानन्ति। यतः —
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्व
।
अहश्च रात्रिश्चउभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम्॥१०९॥
यद्यहं परमसती स्याम्, त्वां विहायान्य न जाने, पुरुषान्तरं स्वप्नेऽपि नहि भजे, तेन धर्मेण छिन्नापि मम नासिकाऽच्छिन्नास्तु। मया त्वं भस्मं कर्तुं शक्यसे, किं तु स्वामी त्वम्, लोकभयादुपेक्षे, पश्य मन्मुखम्। ततो यावदसौ गोपो दीपं प्रज्वाल्य तन्मुखमवलोकते तावदुन्नसं मुखमवलोक्य तच्चरणयोः पतितः — ‘धन्योऽहं
यस्येदृशी भार्या परमसाध्वी’ इति। योऽयमास्ते साधुरेतद्वृत्तान्तमपि कथयामि। अयं स्वगृहान्निर्गतो द्वादशवर्षैर्मलयोपकण्ठादिमां नगरीमनुप्राप्तः। अत्र वेश्यागृहे सुप्तः। तस्याःकुट्टिन्या गृहद्वारि स्थापितकाष्टघटितवेतालस्य मूर्धनि रत्नमेकमुत्कृष्टमास्ते। तत्र लुब्धेनानेन साधुना रात्रावुत्थाय तत्र हस्तो दत्तः। तदा तेन वेतालेन सूत्रसचारितबाहुभ्यां पीडितः सन्नार्तनादमयं चकार। पश्चादुत्थाय कुट्टिन्योक्तम् — ‘पुत्र! मलयोपकण्ठादागतोऽसि तत्सर्वरत्नानि प्रयच्छास्मै,नो चेदनेन न त्यक्तव्योऽसि। इत्थमेवायं चेटकः।’ ततोऽनेन सर्वरत्नानि समर्पितानि यथायमपहृतसर्वस्वोऽस्मासु समागत्य मिलितः।’ एतत्सर्वं श्रुत्वा राजपुरुषैर्न्याये धर्माधिकारी प्रवर्तितः। अनन्तर तेन नापितवधूर्मुण्डिता, गोपी च शासिता, कुट्टिनी दण्डिता, साधोर्धनानि च प्रदत्तानि। अतोऽहं ब्रवीमि— ‘स्वर्णरेखामहं स्पृष्ट्वा’ इत्यादि॥
अथ स्वयं कृतोऽयं दोषः। अत्र विलपनं नोचितम्। (क्षण विमृश्य ) मित्र! यथानयोः सौहार्दं मया कारितः तथा मित्रभेदोऽपि मया कार्यः। यतः —
अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः॥११०॥
अपरं च —
उत्पन्नेष्वपि कार्येषु मतिर्यस्य न हीयते।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा॥१११॥
करटकः पृच्छति — ‘कथमेतत्?’ दमनकः कथयति —
कथा ६
अस्ति द्वारवत्या पुर्यां कस्यचिद्गोपस्य वधूर्बन्धकी। सा ग्रामस्य दण्डनायकेन तत्पुत्रेण च समं रमते। तथा चोक्तम् —
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः॥११२॥
अन्यच्च —
न दानेन न मानेन नार्जवेन न सेवया।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः॥११३॥
यतः—
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शीलगुणादिहीनम्॥११४॥
अपरं च—
न तादृशी प्रीतिमुपैति नारी
विचित्रशय्यां शयितापि कामम्।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तसङ्गात्॥११५॥
अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति। अथ दण्डनायकोऽपि रन्तु तत्रागत। तमायान्तं दृष्ट्वा तत्पुत्र कुसूले निक्षिप्य दण्डनायकेन
सह तथैव क्रीडति। अनन्तर तस्या भर्ता गोपो गोष्ठात्समागतः। तमालोक्य गोप्योक्तम्— ‘दण्डनायक! त्वंलगुडं गृहीत्वा कोप दर्शयन्सत्वरं गच्छ।’ तथा तेनानुष्ठिते गोपेन गृहमागत्य भार्या पृष्टा ‘केन कार्येण दण्डनायकः समागत्यात्र स्थित?’ सा ब्रूते — ‘अयं केनापि कार्येण पुत्रस्योपरि क्रुद्धः, स च पलायमानोऽप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः, तत्पित्रा चान्विष्यात्र न दृष्टः अत एवायं दण्डनायकः क्रुद्ध एव गच्छति। तत सा तत्पुत्र कुसूलाद्बहिष्कृत्य दर्शितवती। तथा चोक्तम् —
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥११६॥
अतोऽहं ब्रवीमि — “उत्पन्नेष्वपि कार्येषु” इत्यादि॥
करटको ब्रूते — ‘अस्त्वेवम्, किं त्वनयोर्महानन्योन्यनिसर्गोपजातस्नेहः कथं भेदयितुं शक्यः?’ दमनको ब्रूते — ‘उपाय क्रियताम्। तथा चोक्तम् —
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।
काक्या कनकसूत्रेण कृष्णसर्पो निपातितः॥११७॥
करटकः पृच्छति — ‘कथमेतत्?’ दमनकः कथयति —
कथा ७
कस्मिश्चित्तरौ वायसदंपती निवसतः। तयोश्चापत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि। ततः पुनर्गर्भवती वायसी वायसमाह ‘नाथ! त्यज्यतामयं तरुः। अत्रावस्थितकृष्णसर्पेणावयोः सततिः कदाचिदपि न भविष्यति। यतः —
दुष्टा भार्या शठं मित्रं भृत्याश्चोत्तरदायकाः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः॥११८॥
वायसो ब्रूते — ‘प्रिये! न भेतव्यम्। वारवारं मयैतस्य महापराधः सोढः। इदानीं पुनर्न क्षन्तव्य। ‘वायस्याहं — ‘कथमेतेन बलवता सार्धं भवान्विग्रहीतुं समर्थः?’ वायसो ब्रूते— ‘अलमनया शङ्कया। यतः —
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः॥११९॥’
वायसी विहस्याह — ‘कथमेतत्?’। वायसः कथयति —
कथा ८
अस्ति कन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः। स च सर्वदा पशूनां वधं कुर्वन्नास्ते। ततः सर्वैः पशुभिर्मिलित्वा स सिहो विज्ञप्तः — ‘मृगेन्द्र! किमर्थमेकदा बहुपशुघातः क्रियते? यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः।’ ततः सिंहेनोक्तम् — ‘यद्येतदभिमत भवता तर्हि भवतु तत्।’ ततः प्रभृत्येकैकं पशुमुपकल्पितभक्षयन्नास्ते। अथ कदाचिद्वृद्ध शशकस्य वारं समायातः। सोऽचिन्तयत् —
‘त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया।
पञ्चत्वं चे
द्ग
मिष्यामि किं सिंहातुनयेन मे॥१२०॥
तन्मन्दंमन्दं गच्छामि।’ ततः सिंहोपि क्षुधापीडितः कोपात्तमुवाच — ‘कुतस्त्व विलम्ब्य समागतोसि?" शशकोऽब्रवीत् — ‘देव! नाहमपराधी। आगच्छन्पथि सिंहान्तरेण बलाद्धृतः, तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽस्मि।’ सिंहः सकोपमाह — ‘सत्वरं गत्वा दुरात्मानं दर्शय, क्व
स दुरात्मा तिष्ठति?’ ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः। तत्रागत्य स्वयमेव पश्यतु स्वामी’ इत्युक्त्वा तस्मिन्कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान्। ततोऽसौ क्रोधाध्मातो दर्पात्तम्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः। अतोऽहं ब्रवीमि - ‘बुद्धिर्यस्य बलम्’ इत्यादि॥
वायस्याह — ‘श्रुतं मया सर्वम्, संप्रति यथा कर्तव्यं तद्ब्रूहि।’ वायसोऽवदत् — ‘प्रिये। अत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति। स्नानसमये तदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वाविधृत्यानीयास्मिन्कोटरे धारयिष्यसि।’ अथ कदाचित्कनकसूत्रं दृषदि संस्थाप्य स्नातुं जल प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम्। अथ कनकसूत्रानुसरणप्रवृत्तैः राजपुरुषैस्तत्र तरुकोटरे निरूप्यमाण कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि — ‘उपायेन हि यच्छक्यम्’ इत्यादि ॥
करटको ब्रूते — ‘यद्येव तर्हि गच्छ। शिवास्ते सन्तु पन्थानः। ‘ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच — ‘देव! आत्ययिकंकिमपि महाभयकारि कार्यं मन्यमानं समागतोऽस्मि। यतः —
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥१२१॥
अन्यच्च —
भोगस्य भाजनं राजा मन्त्री कार्यस्य भाजनम्।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते॥१२२॥
तथा हि पश्य। अमात्यानामेषः क्रमः’—
वरं प्राणपरित्यागः शिरसो वापि कर्तनम्।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम्॥१२३॥
पिङ्गलकः सादरमाह — ‘अथ भवान्किं वकुमिच्छति?’ दमनको ब्रूते — ‘देव! सजीवकस्तवोपर्यसदृशव्यवहारीव लक्ष्यते। तथा चास्मत्सन्निधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलषति। एतच्छ्रुत्वा पिगलकः सभयं साश्चचर्यंमत्वा तूष्णीं स्थितः। दमनकः पुनराह — ‘देव! सर्वामात्यपरित्यागं कृत्वैक एवायं यत्त्वया सर्वाधिकारी कृतः स एव महान् दोषः। यतः —
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः।
सा स्त्रीस्वभावादसहाभरस्य
तयोर्द्वयोरेकतरं जहाति॥१२४॥
अन्यच्च —
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाच्छ्रयते मदः स च मदालस्येन निर्भिद्यते।
निर्भिन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं द्रुह्यति॥२५॥
अन्यच्च—
विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम्॥१२६॥
किंच-
यः कुर्यात्सचिवायत्तां प्रियं तद्व्यसने सति।
सोऽन्धवज्जगतीपालः सीदेत्संचारकैर्विना॥१२७॥
सर्वकार्येषु स्वेच्छातः प्रवर्तते। तदत्र प्रमाणं स्वामी। एतच्चाहं जानामि।
न सोस्ति पुरुषो लोके यो न कामयते श्रियम्।
परस्य युवतिं रम्यां साकाङ्क्षं वीक्षते न कः॥१२८॥
सिंहो विमृश्याह — ‘भद्र! यद्यप्येव तथापि सजीवकेन सह मम महान् स्नेहः।
पश्य—
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः॥१२९॥
अन्यच्च-
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः॥१३०॥
दमनकः पुनरेवाह — ‘देव स एवातिदोषः। यतः —
यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः।
सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः॥१३१॥
शृणु देव!
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः।
वक्ता श्रोता च यत्रास्ते रमन्ते तत्र सम्पदः॥१३२॥
त्वया च मूलभृत्यानपास्यायमागन्तुकःपुरस्कृतः। एतच्चानुचितं कृतम्। यतः —
मूलभृत्यान्परित्यज्य नागन्तून्प्रति मानयेत्।
नातः परतरो दोषो राज्यभेदकरो यतः॥१३३॥
सिंहो ब्रूते — ‘महदाश्चर्यम्, मया यदभयवाच दत्त्वानीतः सवर्धितश्च तत्कथं मह्यं द्रुह्यति’ ‘दमनको ब्रूते — ‘देव’
,
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम्॥१३४॥
अपरं च —
स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः।
मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः॥१३५॥
अन्यच्च-
वर्धनं वाथ सम्मानं खलानां प्रीतये कुतः।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः॥१३६॥
अतोऽहं ब्रवीमि -
अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम्।
एष एव सतां धर्मो विपरीतमतोऽन्यथा॥१३७॥
तथा चोक्तम्-
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यानुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते।
सा श्रीर्या न मदं करोति स सुखो यस्तृष्णया मुच्यते
तन्मित्रं यदकृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः॥१८३॥
यदि सजीवकव्यसनादितो विज्ञापितोऽपि स्वामी न निवर्तते तदा भूत्यस्यन दोषः। तथा च —
नृपः कामासक्तो गणयति न कार्यं न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान्क्षिपति न निजं वेत्त्यविनयम्॥१३९॥
पिंगलकः — (स्वगतम्)
न परस्यापराधेन परेषां दण्डमाचरेत्।
आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा॥१४०॥
तथा चोक्तम् —
गुणदोषावनिश्चित्य विधिर्न ग्रहनिग्रहे ।
स्वनाशाय यथान्यंस्तो दर्पात्सर्पमुखे करः॥१४१॥
प्रकाशं ब्रूते — ‘तदा संजीवकः किंप्रत्यादिश्यताम्? दमनकः ससम्भ्रममाह — ‘देव! मा मैवम्। एतावता मन्त्रभेदो जायते। तथा ह्युक्तम्
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति॥१४२॥
किं च-
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥१४३॥
तदवश्य समारब्धः महता प्रयत्नेन सपादनीयम्। किंच —
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया॥१४४॥
यद्यसौ दृष्टदोषोऽपि दोषान्निवर्त्य सधातव्यस्तदतीवानुचितम्। यतः —
सकृद्दि्वष्टंतु यो मित्रं पुनः सन्धातुमिच्छति।
स मृत्युमेव गृह्णाति गर्भमश्वतरी यथा॥१४५ ॥
सिहो ब्रूते- ‘ज्ञायता तावत्किमस्माकमसौ कर्तुं समर्थः। ’ दमनकः आह- ’ देव \।
अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ १४६ ॥’
सिंहो पृच्छति — ‘कथमेतत्?’ दमनकः कथयति —
कथा ९
दक्षिणसमुद्रतीरे टिट्टिभदंपती निवसतः। तत्र चासन्नप्रसवा टिट्टिभीभर्तारमाह — ‘नाथ! प्रसवयोग्यस्थानं निभृतमनुसन्धीयताम्।’ टिट्टिभोऽवदत् नन्विदमेव स्थानं प्रसूतियोग्यम्। सा ब्रूते — ‘समुद्रवेलया व्याप्यते स्थानमेतत्।’ टिट्टिभोऽवदत् ‘किमहं निर्बलः? यन्मम गृहावस्थितानि अण्डानि समुद्रेणापहर्तव्यानि।’ टिट्टिभी विहस्याह — ‘स्वामिन्! त्वया समुद्रस्य च महदन्तरम्। अथवा —
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति॥१४७॥
अपि च —
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि॥१४८॥
ततः कृच्छ्रेण स्वामिवचनात्सा तत्रैव प्रसूता। एतत्सर्वं श्रुत्वा समुद्रेणापि तच्छक्तिज्ञानार्थं तदण्डान्यपहृतानि। ततष्टिट्टिभी शोकार्ता भर्त्तारमाह ‘नाथ!.कष्टमापतितम्। तान्यण्डानि मे नष्टानि। ‘टिट्टिभोवऽदत् ‘प्रिये! मा भैषीः।’ इत्युक्त्वा पक्षिणा मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः। तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम् — ’ देव। समुद्रेणाहं स्वगृहावस्थितो विनापरावेनैव निगृहीतः।’ ततस्तद्वचनमाकर्ण्य गरुत्मता प्रभुर्भगवान्नारायणः सृष्टिस्थितिप्रलयहेतुविज्ञप्तः। स समुद्रमण्डदानायादिदेश। ततो भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि। अतोऽहं ब्रवीमि ‘अङ्गाङ्गिभावमज्ञात्वा’ इत्यादि॥
राजाह — ‘कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति?’ दमनको ब्रूते — ‘यदासौ सदर्पं शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी’ एवमुक्त्वासजीवकसमीपं गतः। तत्र गतश्च मन्दमन्दमुपसर्पन्विस्मितमिवात्मानमदर्शयत्।सजीवकेन
सादरमुक्तम्— ‘भद्र! कुशलं ते।’ दमनको ब्रूते — ‘अनुजीविनाकुतः कुशलम्? यतः —
संपत्तयः पराधीनाः सदा चित्तमनिर्वृतम्।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः॥१४९॥
अन्यच्च-
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
श्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः ।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ १५० ॥
सजीवकेनोक्तम्- ’ सखे । ब्रूहि किमेतत् १ १ दमनकः आह- ’ किं ब्रवीमि मन्दभाग्यः । पश्य-
मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम् \।
न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि संप्रति ॥ १५१ ॥
यतः-
एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः ।
किं करोमि क्व गच्छामि पतितो दुःखसागरे ॥ १५२ ॥
इत्युक्त्वा दीर्घ निश्वस्योपविष्ट। सजीवको ब्रूते — ‘मित्र! तथापि सविस्तरं मनोगतमुच्यताम्।’ दमनकः सुनिभृतमाह — ‘यद्यपि राजविश्वासो न कथनीयस्तथापि भवानस्मदीयप्रत्ययादागतः। मया परलोकार्थिनावश्य तव हितमाख्येयम्। शृणु, अयं स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान् — ‘सजीवकमेव हत्वास्वपरिवारं तर्पयामि।’ एतच्छ्रुत्वा सजीवकः परं विषादमगमत्। दमनकः पुनराह — ‘अलं विषादेन प्राप्तकाल कार्यमनुष्ठीयताम्।’ सजीवकः क्षणं विमृश्याह ‘सुष्ठु खल्विदमुच्यते। यतः —
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा।
कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च॥१५३॥
नीचमाश्रयते लक्ष्मीरकुलीनं सरस्वती।
अपात्रं भजते नारी गिरौ वर्षति वासवः॥१५४॥
( स्वगतम्) किमिदमेतावद्विचेष्टितं न वा इति एतद्व्यवहारात् निर्णेतुं नशक्यते। यतः —
कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम्॥१५५॥
तत्र विचिन्त्योक्तम्, कष्टं किमिदमापतितम्। यतः —
आराध्यमानो नृपतिः प्रयत्ना-
न्न तोषमायाति किमत्र चित्रम्।
अयं त्वपूर्वप्रतिमाविशेषो
यः सेव्यमानो रिपुतामुपैति॥१५६॥
तदयमशक्यार्थ प्रमेय। यतः —
निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥१५७॥
किं मयापकृतः राज्ञः? अथ वा निर्निमित्तापकारिणश्च भवन्ति राजानः। दमनको ब्रूते — ‘एवमेतत्, शृणु —
,
विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित्
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति।
चित्रंचित्रं किमथ चरितं नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥१५८॥
अन्यच्च-
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम्॥१५९॥
किं च —
चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः।
गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि॥१६०॥
अन्यच्च —
मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भिल्लैः।
नास्त्येव तच्चन्दनपादपस्य
यन्नाश्रितं दुष्टतरैश्च हिस्रैः॥१६९॥
अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः। यतः —
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः।
अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः॥१६२॥
तथा हि-
पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः।
इत्थं तद् भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः॥१६३॥
सजीवकः (स्वगतम्) ‘कष्ट भो। कथमहंसस्यभक्षकःसिंहेन निपातयितव्यः। यतः —
ययोरेव समं वित्तं ययोरेव समं बलम्।
तयोर्विवादो मन्तव्यो नोत्तमाधमयोः कचित्॥१६४॥
(पुनर्विचिन्त्य) केनायं राजा ममोपरि विकारितः, न जाने, भेदमुपगताद्राज्ञ सदा भेतव्यम्। यतः —
मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित्।
वलयं स्फटिकस्येव को हि सन्धातुमीश्वरः॥१६५॥
अन्यच्च —
वज्रं च राजतेजश्च द्वयमेवातिभीषणम्।
एकमेकत्र पतितं पतत्यन्यत्समन्ततः॥१६६॥
ततः सग्रामे मृत्युरेव वरम्। इदानीं तदाज्ञानुवर्तनमयुक्तम्। यतः —
मृतः प्राप्नोति वा स्वर्गं शत्रुं हत्वा सुखानि वा।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ॥१६७॥
युद्धकालश्चायम् —
यत्र युद्धे ध्रुवं मृत्युर्युद्धे जीवितसंशयः।
तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः॥१६८॥
अयुद्धे हि यदा पश्येन्न किञ्चिद्धितमात्मनः।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह॥१६९॥
जये च लभते लक्ष्मीं मृतेनापि सुराङ्गनाम्।
क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे॥१७०॥
एतच्चिन्तयित्वा सञ्जीवकः आह— ‘भो मित्र! कथमसौ मा जिघासुर्ज्ञातव्यः?’ दमनको ब्रूते — यदासौ पिङ्गलकः समुन्नतलागूल उन्नतचरणो विवृतास्यस्त्वां पश्यति तदा त्वमेव स्वविक्रमं दर्शयिष्यसि। यतः—
बलवानपि निस्तेजाः कस्य नाभिभवास्पदम्।
निःशङ्कं दीयते लोकैः पश्य भस्मचये पदम्॥१७१॥
किन्तु सर्वमेतत्सुगुप्तमनुष्ठातव्यम्, नो चेन्न त्वं नाहम्’ इत्युक्त्वा दमनकःकरटकसमीपं गतः। करटकेनोक्तम् — ‘किं निष्पन्नम्?’ दमनकेनोक्तम् — ‘निष्पन्नोऽसावन्योन्यभेदः।’ करटको ब्रूते — ‘कोत्र सन्देहः?। यतः —
बन्धुः को नाम दुष्टानां कुप्यते को न याचितः।
को न हृप्यति वित्तेन कुकृत्ये को न पण्डितः॥१७२॥
अन्यच्च —
दुर्वृत्तः क्रियते धूर्तैः श्रीमानात्मविवृद्धये।
किं नाम खलसंसर्गः कुरुते नाश्रयाशवत्॥१७३॥
ततो दमनकः पिङ्गलकसमीपं गत्वा ‘देव! समागतोऽसौ पापाशयततः सज्जीभूय स्थीयताम्’ इत्युक्त्वा पूर्वोक्ताकार कारयामास। सञ्जीवकोऽप्यागत्य तथाविध विकृताकारं सिंहं दृष्ट्वा स्वानुरूप विक्रम चकार। ततस्तयोर्युद्धेसञ्जीवकःसिंहेन व्यापादितः। अथ सञ्जीवकः सेवकः पिङ्गलको व्यापाद्य विश्रान्तःसशोक इव तिष्ठति। ब्रुते च — ‘किं मया दारुण कर्म कृतम्? यतः—
परैः संभुज्यते राज्यं स्वयं पापस्य भाजनम्।
धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव॥१७४॥
अपरं च —
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः॥१७५॥
दमनको ब्रूते — ‘स्वामिन्! कोऽयं नूतनो न्याय? यदराति हत्वा सन्तापःक्रियते। तथा चोक्तम् —
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत्।
प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता॥१७६॥
अपि च —
धर्मार्थकामतत्वज्ञो नैकान्तकरुणो भवेत्।
न हि हस्तस्थमप्यन्नं क्षमावान्मक्षितुं क्षमः॥१७७ ॥
किञ्च—
क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम्।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम्॥१७८॥
अपरं च —
राज्यलोभादहङ्कारादिच्छातः स्वामिनः पदम्।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम्॥१७९॥
अन्यच्च —
राजा घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्प्रकृतिः सहायः।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या इमे यश्च कृतं न वेत्ति॥१८०॥
विशेषतश्च—
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुररत्नधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा॥१८१॥
इति कपटवचनेन दमनकेन सन्तोषितः पिङ्गलकः स्वा प्रकृतिमापन्न सिंहासने समुपविष्टः। दमनकः प्रहृष्टमनां भूत्वा राजानमाह ‘विजयतां महाराज। शुभमस्तु सर्वजगताम्’ इत्युक्त्वा यथासुखमवस्थितः॥
विष्णुशर्मोवाच — ‘सुहृद्भेदःश्रुतस्तावद्भवद्भिः।’ राजपुत्रा ऊचुः — ‘भवत्प्रसादाच्छ्रुतः। सुखिनो वयम्।’ विष्णुशर्माब्रवीत् — ‘अपरमपीदमस्तु —
सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः।
जनो नित्यं भूयात्सकलसुखसंपत्तिवसतिः
कथारम्भे रम्ये सततमिह बालोऽपि रमताम्॥१८२॥
इतेि विष्णुशर्मसंगृहीते हितोपदेशे सुहद्भेदो द्वितीयः॥२॥
विग्रहः ।
<MISSING_FIG href="../books_images/U-IMG-172113925182.jpg"/>
पुनः कथारम्भकाले राजपुत्रा ऊचुः — ‘आर्य! राजपुत्राः वयम् — तद्विग्रहंश्रोतुं न कुतूहलमस्ति’। विष्णुशर्मणोक्तम् — ‘यदेव भवद्भ्यो रोचते कथयामि।विग्रहं श्रूयताम्। यस्यायमाद्य श्लोकः —
हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे॥१॥
राजपुत्राः ऊचुः — ‘कथमेतत्’ विष्णुशर्मा कथयति —
अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयः सरः। तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति। स च सर्वैर्जलचरपक्षिभिर्मिलित्वा पक्षिराज्येऽभिषिक्तः। यतः —
यदि न स्यान्नरपतिः सम्यङ् नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥२॥
अपर च —
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम्।
वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत्॥३॥
एकदासौ राजहंसः सुविस्तीर्णकमलपर्यङ्के सुखासीन परिवारपरिवृतस्तिष्ठति।ततः कुतश्चिद्देशादागत्य दीर्घमुखो नाम बकं प्रणम्योपविष्टः। राजोवाच — ‘दीर्घमुख! देशान्तरादागतोऽसि, वार्ता कथय। स ब्रूते — ‘देव! अस्ति महतीवार्ता, तां वक्तुं सत्वरमागतोऽहम्, श्रूयताम् — अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः,तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति। तस्यानुचरैश्चरद्भिः पक्षिभिरह दग्धारण्यमध्ये चरन्नवलोकितः पृष्टश्च ‘कस्त्वं कुतः समागतोऽसि? तदा मयोक्तम्’ कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य राजहंसस्यानुचरोऽहम्। कौतुकाद्देशान्तरं द्रष्टुमागतोऽस्मि’ इति। एतच्छ्रुत्वा पक्षिभिरुक्तम् — अनयोर्देशयोः को देशो भद्रतरो राजा च?’ मयोक्तम् — ‘आ। किमेवमुच्यते, महदन्तरम्, यत कर्पूरद्वीपः स्वर्ग एव, राजहंसश्च द्वितीयः स्वर्गपतिः, कथं वर्णयितुं शक्यते? अत्र मरुस्थले पतिता यूयं किं कुरुथ,? आग —
च्छतास्मदेशे गम्यताम्।’ ततोऽस्मद्वचनमाकर्ण्य सर्वे सकोपा बभूवु।
तथा चोक्तम् —
पयःपानं भुजङ्गानां केवलं विषवर्धनम्।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये॥४॥
अन्यच्च —
विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः॥५॥
राजोवाच — ‘कथमेतत्।’ दीर्घमुखः कथयति —
कथा १
अस्ति नर्मदातीरे पर्वतोपत्यकायाःविशालः शाल्मली तरुः। तत्र निर्मितनीडक्रोडे पक्षिणो निवसन्ति सुखेन। अथैकदा वर्षासु नीलपटलैरावृतनभस्तलेवारासारैर्महती वृष्टिर्बभूव। ततो वानरांश्च तरुतलेऽवस्थिताञ्छीताकुलान्कम्पमानानवलोक्य कृपया पक्षिभिरुक्तम्— ‘भोभो वानराशृणुत —
अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः।
हस्तपादादिसंयुक्ता यूयं किमिति सीदथ॥६॥
तच्छ्रुत्वा वानरैर्जातामर्षैरालोचितम् — ‘अहो निर्वातनीडगर्भावस्थिता’ सुखिनः पक्षिणोऽस्मान्निन्दन्ति, भवतु तावद्वृष्टेरुपशम।’ अनन्तरं शान्ते पानीयवर्षेतैर्वानरैर्वृक्षमारुह्य सर्वे नीडा भग्नास्तेषामण्डानि चाधः पातितानि। अतोऽहं ब्रवीमि — ’ विद्वानेवोपदेष्टव्यः’ इत्यादि ॥
राजोवाच — ‘ततस्तैः किं कृतम्।’ बकः कथयति — ‘ततस्तैःपक्षिभिः कोपादुक्तम् ’ केनासौ राजहंसो राजा कृतः?’
। ततो मयोपजातकोपेनोक्तम् —
‘अययुष्मदीयमयूरः केन राजाकृतः?’ तच्छ्रुत्वा ते सर्वे मां हन्तुंमुद्यता। ततो मयापि स्वविक्रमो दर्शितः। यतः —
अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम्।
पराक्रमः परिभवे वैयात्यं सुरतोष्विव ॥७॥’
राजा विहस्याह —
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम्।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः॥८॥
अन्यच्च-
सुचिरं हि चरन्नित्यं क्षेत्रे सस्यमबुद्धिमान्।
द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्गर्दभो हतः॥९॥ '
बकः पृच्छति — ‘कथमेतत्?’ राजा कथयति —
कथा २.
अस्ति हस्तिनापुरे विलासो नाम रजकः। तस्य गर्दभोऽतिवहनादुर्बल मुमूर्षुरिवाभवत्। ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपेसस्यक्षेत्रे मोचितः। ततो दूरात्तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः पलायन्ते।अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनु काण्ड सज्जीकृत्यानतकायेनैकान्ते स्थितम्। तं च दूरादृष्ट्वा गर्दभः पुष्टाङ्गो यथेष्टसस्यभक्षणजातबलो गर्दभीयमिति मत्वोच्चै शब्दःकुर्वाणस्तदभिमुख धावितः। ततस्तन सस्यरक्षकेण चीत्कारशब्दान्निश्चित्य गर्दभोऽयमिति लीलयैव व्यापादितः। अतोऽहंब्रवीमि — ‘सुचिरं हि चरन्नित्यम्’ इत्यादि॥
दीर्घमुखो ब्रूते — ‘ततः पक्षिभिरुक्तम् — अरे पाप दुष्ट बक! अस्माकंभूमौ चरन्नस्माकं स्वामिनमधिक्षिपसि तन्न क्षन्तव्यमिदानीम् इत्युक्त्वा सर्वेमां
चञ्चुभिर्हत्वा सकोपाः ऊचुः ‘पश्य रे मूर्ख। स हंसस्तव राजा सर्वथा मृदुः तस्य राज्याधिकारो नास्ति। यतः एकान्तमृदुः करतलस्थमन्यर्थं रक्षितुमक्षम।स कथं पृथिवीं शास्ति, राज्यं वा तस्य किम्? किन्तु त्वं च कूपमण्डूकः। तेन तदाश्रयमुपदिशसि। शृणु —
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात्फलं नास्ति च्छाया केन निवार्यते॥१०॥
अन्यच्च-
हीनसेवा न कर्तव्या कर्तव्यो महादाश्रयः।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते॥११॥
अजा सिंहप्रसादेन वने चरति निर्भयम्।
राममासाद्य लङ्कायां लेभे राज्यं विभीषणः॥१२॥
अन्यच्च -
महानप्यल्पतां याति निर्गुणे गुणविस्तरः।
आधाराधेयभावेन गजेन्द्र इव दर्पणे॥१३॥
विशेषतश्च-
व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे।
शशिनो व्यपदेशेन शशकाः सुखमासते॥१४॥
मयोक्तम्— ‘कथमेतत्?’ पक्षिणः कथयन्ति —
कथा ३.
कदाचित् वर्षासु वृष्टेरभावात्तृषार्तो गजयूथो यूथपतिमाह — ‘नाथ’कोऽभ्युपायोऽस्माकं जीवनाय? नास्ति क्षुद्रजन्तूनां निमज्जनस्थानम्, वयं चनिमज्जनस्थानाभावान्मृतार्हा इव। किं कुर्मः क्व यामः ?’ ततो हस्तिराजोनातिदूरं गत्वा निर्मलं हृदं दर्शितवान्। ततो दिनेषु गच्छत्सु तत्तीरावस्थितागजपादाहतिभिश्चूर्णिता क्षुद्रशशकाः। अनन्तर शिलीमुखो नाम शशकश्चिन्तयन्नाह — ‘अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम्, अतोविनश्यत्यस्मत्कुलम्।’ ततो विजयो नाम वृद्धशशकोऽवदत् — ‘मा विषीदत,मयात्र प्रतीकार कर्तव्य।’ ततोऽसौ प्रतिज्ञाय चलितः, गच्छता च तेनालोचितम्— ‘कथं गजयूथसमीपे, स्थित्वा वक्तव्यम्? यतः —
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः।
पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः॥१५॥
अतोऽहं पर्वतशिखरमारुह्य यूथनाथ संवादयामि।’ तथानुष्ठिते यूथनाथः उवाच — ‘कस्त्वम् कुतः समायातः?’ स ब्रूते — ‘शशकोऽहम्, भगवता चन्द्रेणभवदन्तिक प्रेषितः।’ यूथपतिराह — ‘कार्यमुच्यताम्।’ विजयो ब्रूते —
‘उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा।
सदैवावध्यभावेन यथार्थस्य हि वाचकः॥१६॥
तदहंतदाज्ञया ब्रवीमि, शृणु । यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तदनुचितंकृतम्, यतो रक्षकास्ते शशकाः मदीयाः, अत एव मे शशाङ्कइति प्रसिद्धि’ एवमुक्तवति दूते यूथपतिर्भयादिदमाह — ‘प्रणिधे इदमज्ञानतःकृतम्, पुनर्न गमिष्यामि।’ दूतः उवाच — ‘यद्येव तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य प्रसाद्य गच्छ।’ ततो रात्रौ यूथपति नीत्वा जले चञ्चलं चन्द्रविम्बंदर्शयित्वा यूथपति प्रणामः कारितः, उक्तं च तेन — ‘देव! अज्ञानादनेनापराधः कृतः, ततः क्षम्यताम्, नैव वारान्तरं विधास्यते’ इत्युक्त्वा तेनशशकेन स यूथपतिः, प्रस्थापितः। अतोऽहं ब्रवीमि ‘व्यपदेशेऽपि सिद्धिःस्यात्’ इति॥
ततो मयोक्तम् — ‘स एवास्मत्प्रभू राजहंसो महाप्रतापोऽतिसमर्थः। त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं
पुना राज्यम्’ इति। तदाह तैः पक्षिभिः ‘दुष्ट! कथमस्मद्भूमौ चरसि’ इत्यभिधाय राज्ञश्चित्रवर्णस्य समीप नीतः। ततोराज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम् — ‘देव! वध्यतामेषः दुष्टो बकः, यदस्मद्देशे चरन्नपि देवपादानधिक्षिपतिराजाह— ‘कोऽयं कुतः समायातः?’ तेऊचुः — ‘हिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपादागतः।’ अथाह गृध्रेणमन्त्रिणा पृष्टः — ‘कस्तत्र मुख्यो मन्त्री’? इति । मयोक्तम् —’ सर्वशास्त्रार्थपारंग सर्वज्ञो नाम चक्रवाकः। ‘गृध्रो ब्रूते ‘युज्यते, स्वदेशजोऽसौ । यतः —
स्वदेशजं कुलाचारविशुद्धमथ वा शुचिम्।
मन्त्रज्ञमव्यसनिनं व्यभिचारविवर्जितम् १७॥
अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम्।
अर्थस्योत्पादकं चैव विदध्यात्मंत्रिणं नृपः॥१८॥ ‘
अत्रान्तरे शुकेनोक्तम् — ‘देव! कर्पूरद्वीपादयोः लघुद्वीपाः जम्बूद्वीपान्तर्गताएव, तत्रापि देवपादानामेवाधिपत्यम्।’ ततो राज्ञाप्युक्तम् —’ एवमेव। ’ यतः —
राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः।
अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत्॥१९॥
ततो मयोक्तम्— ‘यदि वचनमात्रेणैव देवपादानामधिपत्य सिद्ध्यति, तदाजम्बूद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति।’ शुको ब्रूते — ‘कथमत्र
निर्णयः?’ मयोक्तम् — ‘सग्राम एव। ’ राज्ञा विहस्योक्तम् — ‘स्वस्वामिनं गत्वासज्जीकुरु।’ तदा मयोक्तम् — ‘स्वदूतोऽपि प्रस्थाप्यताम्’ राजोवाच — ’ कःप्रयायति दौत्येन? यत एवभूतो दूतः कार्यः —
भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी।
ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान्॥२०॥’
गृध्रो वदति — ‘सन्त्येव दूताः बहवः, किंतु ब्राह्मणएव कर्तव्यः। यतः —
प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति।
कालिमा कालकूटस्य नापैतीश्वरसङ्गमात्॥२१॥’
राजाह - ‘ततः शुक एव व्रजतु। शुक! त्वमेवानेन सह गत्वास्मदभिलषितं ब्रूहि। ‘शुको ब्रूते — ‘यथाज्ञपयति देवः, किन्त्वयं दुर्जनो बकः,तदनेन सहन गच्छामि। तथा चोक्तम् —
खलः करोति दुर्वृत्तं नूनं फलति साधुषु।
दशाननोऽहरत्सीतां बन्धनं च महोदधेः॥२२॥
अपर च-
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित्।
काकसङ्गाद्धतो हंसस्तिष्टन् गच्छंश्च वर्तकः॥२३॥’
राजोवाच — ‘कथमेतत्। ‘शुकः कथयति —
कथा ४.
परूयुज्जयिनीवर्त्मप्रान्तरे महान् प्लक्षतरुः। तत्र हंसकाकौनिवसतः।कदाचिद्ग्रीष्मसमये परिश्रान्तःकश्चित्पथिकस्तत्र तरुतले धनुष्काण्डं संनिधाय सुप्तः। तत्र क्षणान्तरे तन्मुखाद्वृक्षच्छायापगता। ततः सूर्यतेजसा तन्मुखंव्याप्तमवलोक्य तद्वृक्षस्थितेन हंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता।ततो निर्भरनिद्रासुखिना पथि श्रमेणाकुलेन परिश्रान्तेन पान्थेन मुखव्यादानं कृतम्। अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन सः काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः। ततो यावदसौ पान्थःउत्थायोर्ध्वंववंवंनिरीक्षते तावत्तेनावलोकितोहंसः काण्डेन हतः, अतोऽहं ब्रवीमि ‘न स्थातव्यम्’ इत्यादि। तथाहि —
त्यज दुर्जनसंसर्गं भज साधुसमागमम्।
कुरु पुण्यमहोरात्रं स्मरन्नित्यमनित्यताम्॥२४॥
कथा ५.
देव! वर्तककथामपि कथयामि। एकः काको वृक्षशाखायां स्वपिति,वर्त्तकश्वाधस्ताद्भूमौ निवसति। एकदा भगवतो गरूडस्य यात्राप्रसङ्गेन सर्वेपक्षिणः समुद्रतीरं गताः। ततःकाकेन सह वर्तकश्चलितः। अथ गच्छतोगोपालस्य मस्तकस्थितदधिण्डाद्वारंवारंतेन काकेन दधि खाद्यते। ततोयावदसौ दविभाण्डं भूमौ निधायोर्ध्वमवलोकते तावत्तेन काकवर्तकौ दृष्टौ। ततस्तेन खेदितः काकः पलायितः। वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तोव्यापादितः। अतोऽहं ब्रवीमि— ‘न स्थातव्यं न गन्तव्यम्’ इत्यादि।
ततो मयोक्तम् — ‘भ्रात शुक!किमेव ब्रवीषि? मां प्रति यथा श्रीमद्देवस्तथा भवानपि।’ शुकेनोक्तम् — ‘अस्त्वेवम्। किंतु —
दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि।
अकालकुसुमानीव भयं संजनयन्ति हि॥२५॥
दुर्जनत्वं च भवतो वाक्यादेव ज्ञातम्, यदनयोर्भूपालयोर्विग्रहे भवद्वचनमेवनिदानम्। पश्य —
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति।
रथकारो निजां भार्यां सजारां शिरसाऽकरोत्॥२६॥’
राज्ञोक्तम् — ‘कथमेतत्?’ शुकः कथयति —
कथा ६.
अस्ति श्रीनगरे मन्दमतिर्नाम रथकारः। स च स्वभार्यां बन्धकींजानाति, किन्तु जारेण सम स्वचक्षुषा नैकस्थाने पश्यति। ततोऽसौ रथकारः ‘अहमन्यं ग्रामं गच्छामि’ इत्युक्त्वा चलितः। कियद्दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतः स्थितः। अथ रथकारो ग्रामान्तरं गतः इत्युपजातविश्वासयातद्वध्वा स जारं सध्याकाल एवाहूतः। पश्चात्तेन समं तस्मिन् पर्यङ्के क्रीडमानाश्रर्यङ्कतलस्थितस्य भर्तुः किंचिदङ्गस्पर्शात्स्वामिनं मायाविनमिति विज्ञाय विषण्णा —
भवत्। ततो जारेणोक्तम् — ‘किमिति त्वमद्य मया सह निर्भरं न रमसे? विस्मितेव प्रतिभासि मे त्वम्।’ तयोक्तम्— ‘अनभिज्ञोऽसि मम प्राणेश्वरो येन ममकौमार सख्य सोऽद्य ग्रामान्तरं गतः, तेन विना सकलजनपूर्णोऽपि ग्रामो मांप्रत्यरण्यवद्भाति, किं भावि तत्र परस्थाने किं खादितवान्, कथं वा प्रसुप्तः? इत्यस्मद्हृदयं विदीर्यते। जारो ब्रूते — तव किमेव स्नेहभूमिः? स ते भर्ता कलहकारः।बन्धक्यवदत् ‘रे बर्बर, किं वदसि। शृणु —
परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा।
सुप्रसन्नमुखी भर्तुः सा नारी धर्ममागिनी॥२७॥
अपर च —
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः॥२८॥
अन्यच्च —
भर्ता हि परमं नार्या भूषणं भूषणैर्विना।
एषा विरहिता तेन शोभनापि न शोभना॥२९॥
त्वं जार पापमति। मनोलौल्यात्पुष्पताम्बूलसदृशःकदाचित्सेव्यसे च। सच स्वामी मां विक्रेतुं देवेभ्यो ब्राह्मणेभ्योऽपि दातुमीश्वरः। किं बहुना? तस्मिञ्जीवति जीवामि, तन्मरणे चानुमरणे करिष्यामीति प्रतिज्ञा वर्तते। यतः —
तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति॥३०॥
अन्यच्च —
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ।
तद्वद्भर्तारमादाय स्वर्गलोके महीयते ॥ ३१ ॥
अपरं च —
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहमात्मनः।
कृत्वापि पापं शतसङ्ख्यमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात्॥३२॥
यतः —
यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत्॥३३॥’
एतत्सर्वं श्रुत्वा मन्दमती रथकारोऽवदत्— ध
न्योऽहम्, यस्येद्दृशी प्रियवादिनीस्वामिवत्सला भार्या’ इति मनसिनिधाय तां खट्वा स्त्रीपुरुषसहिता मूर्ध्निं कृत्वासानन्दं ननर्त। अतोऽहं ब्रवीमि — ‘प्रत्यक्षेऽपि कृते दोषे’ इत्यादि ॥
ततोहं तेन राज्ञा यथाव्यवहारं सम्पूज्य प्रस्थापितः। शुकोऽपि मम पश्चादागच्छन्नान्ते, एतत्सर्वं परिज्ञाय यथाकर्तव्यमनुसन्धीयताम्।’ चक्रवाको विहस्याह — ‘देव! बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति राजकार्यमनुष्ठितम्।किन्तु देव! स्वभाव एष मूर्खाणाम्। यतः —
शतं दद्यान्न विवदेदिति विज्ञस्य लक्षणम्।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम्॥३४॥’
राजाह — ‘किमतीतोपालम्भनेन? प्रस्तुतमनुसन्धीयताम्। चक्रवाको ब्रूते— ‘देव! विजने ब्रवीमि । यतः —
वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः।
अप्यूहन्ति मनो धीरास्तस्माद्रहासि मन्त्रयेत्॥३५॥’
राजा मन्त्री च तत्र स्थितौ, अन्येऽन्यत्र गता। चक्रवाको ब्रूते — ‘देव अहमेव जानामि, कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम्। यतः —
वैद्यानामातुरः श्रेयान् व्यसनी यो नियोगिनाम् ।
विदुषां जीवनं मूर्खः सद्वृन्दो नृपतेर्जनः॥३६॥
राजाब्रवीत् — ‘भवतु। कारणमत्र पश्चान्निरूपणीयम्। सप्रति यत्कर्तव्यं तन्निरूप्ययताम्।’ चक्रवाको ब्रूते — ‘देव! प्रणिधिस्तावत्प्रहीयताम्। ततस्तदनुष्ठान बलाबलं च जानीमः। तथाहि —
भवेत्स्वपरराष्ट्राणां कार्याकार्यावलोकने।
चारचक्षुर्महीभर्तुर्यस्य नास्त्यन्ध एव सः॥३७॥
स च द्वितीय विश्वासपात्रं गृहीत्वा यातु, तेनासौ स्वयं तत्रावस्थाथ द्वितीयतत्रत्यमन्त्रकार्य सुनिभृतः निश्चित्य निगद्य प्रस्थापयति। तथा चोक्तम् —
तीर्थाश्रमरसुस्थाने शास्त्रविज्ञानहेतुना।
तपस्विव्यञ्जनोपेतैः स्वचरैः सह संवदेत्॥३८॥
गूढश्वारश्च यो जले स्थले चरति ततोऽसावेव बको नियुज्यताम्। एतादृशएव कश्चिद्बको द्वितीयत्वेन प्रयातु, तद्गृहलोकाश्च राजद्वारे तिष्ठन्तु। किंतु देव!एतदपि सुगुप्तमनुष्ठातव्यम्। यतः —
षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तस्य वार्तया।
इत्यात्मना द्वितीयेन मन्त्रः कार्यो महीभृता॥३९॥
यतः —
मन्त्रभेदेऽपि ये दोषा भवन्ति पृथिवीपतेः।
न शक्यास्ते समाधातुमिति नीतिविदां मतम्॥४०॥
राजा विमृश्योवाच — ‘प्राप्तस्तावन्मयोत्तम प्रणिधि’ मन्त्री ब्रूते — ‘तदासग्रामविजयोऽपि प्राप्तः’ अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच— ‘देव! जम्बूद्वीपादागतो द्वारि शुकस्तिष्ठति। राजा चक्रवाकमालोकते। चक्रवाकेणोक्तम् ‘तावद्गत्वावासेतिष्ठतु पश्चादानीय द्रष्टव्यः। प्रतीहारस्तमावासस्थानं नीत्वा गतः। राजाह — ‘विग्रहस्तावत्समुपस्थितः’ चक्रवाको ब्रूते — ‘देव! सहसा प्रागेव विग्रहो न विधिः। यतः —
स किं भृत्यः स किं मन्त्री य आदावेव भूपतिम्।
युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम्॥४१॥
अपरं च —
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन।
अनित्यो विजयो यस्माद्दृश्यते युद्ध्यमानयोः॥४२॥
अन्यच्च —
साम्ना दानेन भेदेन समस्तैरथवा पृथक्।
साधितुं प्रयतेतारीन्न युद्धेन कदाचन॥४३॥
अपरं च —
सर्व एव जनः शूरो ह्यनासादितविग्रहः।
अदृष्टपरसामर्थ्यः सदर्पः को भवेन्न हि॥४४॥
किञ्च —
न तथात्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत्॥४५॥
किं तु। विग्रहमुपस्थितंविलोक्य व्यवह्नियताम्। यतः —
यथाकालकृतोद्योगात्कृषिः फलवती भवेत्।
तद्वन्नीतिरियं देव चिरात्फलति रक्षणात्॥४६॥
अपरं च —
महतो दूरभीरुत्वमासन्ने शूरता गुणः।
विपत्तौ च महाल्ँलोके धीरतामनुगच्छति॥४७॥
अन्यच्च
प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतम्॥४८॥
विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा। यतः —
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
तद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत्॥४९॥
अन्यच्च-
स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते।
कलिर्बलवता सार्धं कीटपक्षोद्यमो यथा॥५०॥
किं च-
कौर्मं संकोचमास्थाय प्रहारमपि मर्षयेत्।
प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत्॥५१॥
महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः।
समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः॥५२॥
अतस्तद्वृतोऽप्याश्वास्य तावद्ध्रियता यावद्दुर्ग, सज्जीक्रियते। यतः —
एकः शतं योधयति प्राकारस्थो धनुर्धरः।
शतं शतसहस्राणि तस्माद्दुर्ग विशिष्यते॥५३॥
किं च-
अदुर्गो विषयः कस्य नारेः परिभवास्पदम्।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत्॥५४॥
दुर्गंकुर्यान्महाखातमुच्चप्राकारसंयुतम्।
सयन्त्रं सजलं शैलसरिन्मरुवनाश्रयम्॥५५॥
विस्तीर्णतातिवैषम्यं रसधान्येध्मसंग्रहः।
प्रवेशश्चापसारश्च सप्तैता दुर्गसंपदः॥५६॥’
राजाह — ‘दुर्गानुसंधाने को नियुज्यताम्?’ चक्रवाको ब्रूते —
‘यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत्।
कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति॥५७॥
तदाहूयता सारस।’ तथानुष्ठिते सत्यागतः सारसमालोक्य राजोवाच— ‘भो सारस। त्वं सत्वरं दुर्गमनुसंधेहि।’ सारसःप्रणम्योवाच — ‘देव!दुर्ग तावदिदमेव चिरात्सुनिरूपितमास्ते महत्सरः। किं त्वत्र मध्यवर्तिद्वीपे भक्ष्यद्रव्यसंग्रहः क्रियताम्। यतः —
धान्यानां संग्रहो राजन्नुत्तमः सर्वसंग्रहात्।
निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम् ५८॥
किं च —
ख्यातः सर्वरसानां हि लवणो रस उत्तमः।
गृहीतं च विना तेन व्यञ्जनं गोमयायते॥५९॥ '
राजाह — ‘सत्वरं गत्वा सर्वमनुतिष्ठ।’ पुन प्रविश्य प्रतीहारो ब्रूते — ‘देव! सिंहलद्वीपादागतो मेघवर्णोनाम वायसः सपरिवारो द्वारि तिष्ठति। देवपादं द्रष्टुमिच्छति। ‘राजाह — ‘काका पुनः सर्वज्ञा बहुद्रष्टारश्च। तद्भवति सग्राह्यइत्यनुवर्तते। ‘चक्रो ब्रूते — ’ देव! अस्त्येवम्। किं तु अस्मद्विपक्षःकाकस्थलचरः। तेनास्मद्विपक्षे नियुक्तः कथं सग्राह्यः। तथा चोक्तम् —
“आत्मपक्षं परित्यज्य परपक्षेषु यो रतः।
स परैर्हन्यते मूढो नीलवर्णशृगालवत्॥६०॥’
राजोवाच— ‘कथमेतत्? ’ मन्त्री कथयति —
कथा ७.
कश्चिच्छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन्नीलीभाण्डे पतितः। पश्चात्तत उत्थातुमसमर्थः प्रातरात्मान मृतवत्सदर्श्य स्थितः। अथ नीलीभाण्डस्वामिना मृतः इति ज्ञात्वा तस्मात्समुत्थाप्य दूरे नीत्वापसारितस्तस्मात्पलायितः।ततोऽसाैवनं गत्वा स्वकीयमात्मानं नीलवर्णमवलोक्याचिन्तयत् — ‘अहमिदानीमुत्तमवर्ण। तदाह स्वकीयोत्कर्षं किं न साधयामि? इत्यालोच्य शृगालानाहूय तेनोक्तम्— ‘अहं भगवत्या वनदेवतया स्वहस्तेनारण्यराज्ये सर्वोषधिरसेनाभिषिक्तः। पश्यन्तु मम वर्णम्, तदद्यारभ्यारण्येऽस्मदाज्ञया व्यवहारः कार्यः। शृगालाश्च तं विशिष्टवर्णमवलोक्य साष्टाङ्गपात प्रणम्योचु— ‘यथाज्ञापयति देव’ इत्यनेनैवक्रमेण सर्वेष्वाप्यरण्यवासिष्वाधिपत्य तस्य बभूव। ततस्तेन स्वज्ञातिभिरावृतेनाधिक्यसाधितम्। ततस्तेन व्याघ्रसिहाढीनुत्तमपरिजनान्प्राप्य सदसि शृगालानवलोक्य लज्जमानेनावज्ञया स्वज्ञातय सर्वे दूरीकृता। ततो विषण्णान् शृगालानवलोक्य केनचिद्वृद्धशृगालेनैतत्प्रतिज्ञातम् — ’ मा विषीदत यदनेनानभिज्ञेनमर्मज्ञा वयं स्वसमीपात्परिभूतास्तद्यथायं नश्यति तन्मया विधेयम्। यतोऽमीव्याघ्रादयो वर्णमात्रविप्रलब्धा. शृगालमज्ञात्वा राजानमिम मन्यन्ते। तद्यथायंपरिचितो भवति तथा कुरुत। तत्रैवमनुष्ठेयम् । यतः सर्वे सन्ध्यासमये सनिधाने महारावमेकदेव करिष्यथ। ततस्तं शब्दमाकर्ण्य जातिस्वभावात्तेनापि शब्दःकर्तव्यः। यतः —
यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः।
श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम्॥६१॥
ततः शब्दादभिज्ञाय व्याघ्रेण हन्तव्यः। तथानुष्ठित सति तद्वृत्तम्।तथा चोक्तम् —
छिद्रं मर्म च वीर्यं च सर्व वेत्ति निजो रिपुः।
दहत्यन्तर्गतश्चैव शुष्कं वृक्षमिवानलः॥६२॥
अतोऽहं ब्रवीमि — ‘आत्मपक्षं परित्यज्य’ इत्यादि॥
राजाह — ‘यद्येव तथापि दृश्यता तावदयं दूरादागतः। तत्सग्रहे विचारःकार्यः। ‘चक्रो ब्रूते — ‘देव । प्रणिधि प्रहितो दुर्गश्च सज्जीकृतः। अतःशुकोऽप्यानीय प्रस्थाप्यताम्। किन्तु —
नन्दं जघान चाणक्यस्तीक्ष्णदूतप्रयोगतः।
तद्दूरान्तरितं दूतं पश्येद्धीरसमन्वितः॥६३॥
ततः सभां कृत्वाहूतः शुकः काकश्च। शुकः किञ्चिदुन्नतशिरा दत्तासनं उपविश्य ब्रूते— ‘भो हिरण्यगर्भ! महाराजाधिराजः श्रीमच्चित्रवर्णस्त्वां समाज्ञापयति यदि जीवितेन श्रिया वा प्रयोजनमस्ति तदा सत्वरमागत्यास्मच्चरणौ प्रणम,न चेदवस्थातुं स्थानान्तर चिन्तय।’ तच्छ्रुत्वा राजा सकोपप्राह — ‘आ! कोऽप्यस्माकं पुरतः सभाया नास्ति यः एनं गलहस्तयति। ततः उत्थाय मेघवर्णोब्रूते — ‘देव! आज्ञापय। हन्मि दुष्ट शुकम्।’ सर्वज्ञो राजानं काकं च सान्त्वयन्ब्रूते — ‘भद्र! मैवम्। शृणु तावत् —
न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम्।
धर्मः स नो यत्र न सत्यमस्ति
सत्यं न तद्यच्छलमभ्युपैति॥६४॥
यतो धर्मश्चैष —
दूतो म्लेच्छोऽप्यवध्यः स्याद्राजा दूतमुखो यतः।
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा॥६५॥
किंच —
स्वापकर्षं परोत्कर्ष दूताक्तैर्मन्यते तु कः।
सदैवावध्यभावेन दूतः सर्वंहि जल्पति॥६६॥’
ततो राजा काकश्च स्वा प्रकृतिमापन्नौ। शुकोऽप्युत्थाय चलितः। पश्चाच्चक्रवाकेणानीय प्रबोध्य कनकालकारादिकं दत्त्वा संप्रेषितो स्वदेशं ययौ। शुकोऽपिविन्ध्याचलं गत्वा राजानं चित्रवर्णं प्रणतवान्। तमालोक्य राजोवाच — ‘शुक!का वार्ता। कीदृशोऽसौ देशः?’ शुको ब्रूते — ‘देव! सक्षेपादिय वार्ता। सप्रति
युद्धोद्योगःक्रियताम्। देशश्चासौ कर्पूरद्वीपः स्वर्गैकदेशो राजा च द्वितीयः स्वर्गपतिः। कथं वर्णयितुं शक्यते?’ ततः सर्वाञ्छिष्टानाहूय राजा मन्त्रयितुमुपविष्टः। आह च — ‘सम्प्रति यत्कर्तव्यःतद्ब्रूतः। विग्रहः पुनरवश्यं कर्तव्यः।
तथा चोक्तम् —
असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्चमहीभुजः।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः॥६७॥’
दूरदर्शी नाम गृध्रो ब्रूते— ‘देव! व्यसनितया विग्रहो न विधिः। यतः —
मित्रामात्यसुहृद्वर्गा यदा स्युर्दृढभक्तयः।
शत्रूणां विपरीताश्च कर्तव्यो विग्रहस्तदा॥६८॥
अन्यच्च —
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम्।
यदैतन्निश्चितं भावि कर्तव्यो विग्रहस्तदा॥६९॥
राजाह — ‘मद्बलं तावदवलोकयतु मन्त्री। तदैतेषामुपयोगो ज्ञायताम्। एवमाहूयतामौहूर्तिकः। सः निर्णीययात्रार्थं शुभलग्नं ददातु। मन्त्रीब्रूते — ‘तथापि सहसा यात्राकरणमनुचितम्। यतः —
विशन्ति सहसा मूढा येऽविचार्य द्विषद्बलम्।
खड्गधारापरिष्वङ्गं लभन्ते ते सुनिश्चितम्॥७०॥
राजाह — ‘मन्त्रिन् । ममोत्साहभङ्ग सर्वथा मा कृथाः। विजिगीषुर्यथा परभूमिमाक्रमति तथा कथय। ‘गृध्रो ब्रूते— ‘तत्कथयामि। किं तु तदनुष्टितमेवफलप्रदम्। तथा चोक्तम् —
किं मन्त्रेणाननुष्ठानाच्छास्त्रवित्पृथिवीपतेः।
न ह्यौषधपरिज्ञानाह्व्याधेः शान्तिः क्वचिद्भवेत्॥७२॥
राजादेशश्चानतिक्रमणीयः। यथाश्रुतः तन्निवेदयामि, शृणु —
नद्यद्रिवनदुर्गेषु यत्रयत्र भयं नृप।
तत्रतत्र च सेनानीर्यायाद्व्यूहीकृतैर्बलैः॥७२॥
बलाध्यक्षः पुरो यायात्प्रवीरपुरुषान्वितः।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद्बलम्॥७३॥
पार्श्वयोरुभयोरश्वा अश्वानां पार्श्वतो रथाः।
रथानां पार्श्वयोर्नागा नागानां च पदातयः॥७४॥
पश्चात्सेनापतिर्यायात्खिन्नानाश्वासयञ्छनैः।
मन्त्रिभिः सुभटैर्युक्तः प्रतिगृह्य बलं नृपः॥७५॥
समेयाद्विषमं नागैर्जलाढ्यं स महीधरम्।
सममश्वैर्जलं नौभिः सर्वत्रैव पदातिभिः॥७६॥
हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे।
तदन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि॥७७॥
शैलेषु दुर्गमार्गेषु विधेयं नृपरक्षणम्।
स्वयोधै रक्षितस्यापि शयनं योगिनिद्रया॥७८॥
नाशयेत्कर्षयेच्छत्रून्दुर्गकण्टकमर्दनैः।
परदेशप्रवेशे च कुर्यादाटविकान्पुरः॥७९॥
यत्र राजा तत्र कोशो विना कोशान्न राजता।
स्वभृत्येभ्यस्ततो दद्यात्को हि दातुर्न युध्यते॥८०॥
यतः —
न नरस्य नरो दासो दासस्त्वर्थस्य भूपते।
गौरवं लाघवं वापि धनाधननिबन्धनम्॥८१॥
अभेदेन च युध्येत रक्षेच्चैव परस्परम्।
फल्गु सैन्यं च यत्किंचिन्मध्ये व्यूहस्य कारयेत्॥८२॥
पदातीश्च महीपालः पुरोऽनीकस्य योजयेत्।
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत्॥८३॥
स्यन्दनाश्वैः समे युध्येदनूपे नौर्द्विपैस्तथा।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले॥८४॥
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्।
भिन्द्याच्चैव तडागानि प्राकारान्परिखांस्तथा॥८५॥
बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः।
निजैरवयवैरेव मातङ्गोऽष्टायुधः स्मृतः॥८६॥
बलमश्वश्चसैन्यानां प्राकारो जङ्गमो यतः।
तस्मादश्वाधिको राजा विजयी स्थलविग्रहे॥८७॥
तथा चोक्तम् —
युद्धयमाना हयारूढा देवानापि दुर्जयाः।
अपि दूरस्थितास्तेषां वैरिणो हस्तवर्तिनः॥८८॥
प्रथमं युद्धकारित्वं समस्तबलपालनम्।
दिड्मार्गाणां विशोधित्वं पत्तिकर्म प्रचक्षते॥८९॥
स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम्।
प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः॥९०॥
यथा प्रभुकृतान्मानाद्युध्यन्ते भुवि मानवाः।
न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते॥९१॥
वरमल्पबलं सारं न कुर्यान्मुण्डमण्डलीम्।
कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम्॥९२॥
अप्रसादोऽनधिष्ठानं देयांशहरणं च यत्।
कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम्॥९३॥
आपीडयन्बलं शत्रोर्जिगीषुरभिषेणयेत्।
सुखसाध्यं द्विषां सैन्यं दीर्घयानप्रपीडितम्॥९४॥
दायादादपरो मन्त्रो नास्ति भेदकरो द्विषाम्।
तस्मादुत्थापयेद्यत्नाद्दायादं तस्य विद्विषः॥९५॥
संधाय युवराजेन यदि वा मुख्यमन्त्रिणा।
अन्तःप्रकोपनं कार्यमभियोक्तुः स्थिरात्मनः॥९६॥
क्रूरमित्रं रणे चापि भङ्गं दत्त्वा विघातयेत्।
अथवा गोग्रहाकृष्ट्या तल्लक्ष्याश्रितबन्धनात्॥९७॥
स्वराज्यं वासयेद्राजा परदेशावगाहनात्।
अथ वा दानमानाभ्यां वासितं धनदं हि तत्॥९८॥
राजाह — ‘आ! किं बहुनोदितेन?’
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतार्यते॥९९॥’
मन्त्रिणा विहस्योच्यते— ‘सर्वं सत्यमेतत्। किं तु —
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुत॥१००॥
ततः उत्थाय राजा मौहूर्तिकावेदितलग्ने प्रस्थितः। अथ प्रहितप्रणिधिर्हिरण्यगर्भसमीपमागत्यप्रणम्योवाच — देव! समागतप्रायो राजा चित्रवर्णः। संप्रतिमलयपर्वताधित्यकाया समावसितकटकोऽनुवर्तते। दुर्गशोधन प्रतिक्षणमनुसधातव्यः यतोऽसौ गुध्रो महामन्त्री। किं च केनचित्सह तस्य विश्वासकथाप्रसङ्गेनैवतदिङ्गितमवगतः मया यदनेन कोऽप्यस्मद्दुर्गे प्रागेव नियुक्तः। ‘चक्रो ब्रूते — ‘देव! काकः एवासौ संभवति।’ राजाह — ‘न कदाचिदेतत्। यद्येव तदा कथंतेन शुकस्याभिभवोद्योगः कृतः। अपरं च शुकस्यागमनात्तस्य विग्रहोत्साहः। स चिरादत्रास्ते।’ मन्त्री ब्रूते — तथाऽप्यागन्तुं शङ्कनीयः। ‘राजाह — ‘आगन्तुका हि कदाचिदुपकारकाः दृश्यन्ते। शृणु —
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः।
अहितो देहजो व्याधिर्हितमारण्यमौषधम्॥१०१॥
अपरं च —
आसीद्वीरवरो नाम शूद्रकस्य महीभृतः।
सेवकः स्वल्पकालेन स ददौ सुतमात्मनः॥१०२॥’
चक्रः पृच्छति— ‘कथमेतत्’ राजा कथयति —
कथा ८.
अहं पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहंसस्य पुत्र्याः कर्पूरमञ्जर्याः सहानुरागवानभवम्। तत्र वीरवरो नाम महाराजपुत्रःकुतश्चिद्देशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाच — ‘अहं तावदद्देवनार्थी राजपुत्रः।मां राजदर्शनं कारय।’ ततस्तेनासौ राजदर्शनं कारितो ब्रूते — ‘देव ! यदिमया सेवकेन प्रयोजनमस्ति तदास्मद्वर्तन क्रियताम्। ‘शृद्रक उवाच — ’ किं ते,
वतनम्? ‘वीरवरो ब्रूते — ‘प्रत्यहंसुवर्णपञ्चशतानि देहि’। राजाह — ‘का तेसामग्री? वीरवरो ब्रूते — ’ द्वौ बाहू तृतीयश्व खड्गः " राजाह — ‘नैतच्छक्यम्।‘तच्छ्रुत्वा वीरवरश्चलितः। अथ मन्त्रिभिरुक्तम् — ‘देव। दिनचतुष्टयस्य वर्तनंदत्त्वा ज्ञायतामस्य स्वरूपं किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णात्यनुपयुक्तो वेति’।ततो मन्त्रिवचनादाहूय वीरवराय ताम्बूलं दत्वा पञ्चशतानि सुवर्णानि दत्तानि तद्विनियोगश्च राज्ञा सुनिभृतः निरूपितः। तदर्धंवीरवरेण देवेभ्यो ब्राह्मणेभ्योदत्तम्। स्थितस्यार्धदुखितेभ्यः। तदवशिष्ट भोग्यव्ययविलासव्ययाय। एतत्सर्वंनित्यकृत्य कृत्वा राजद्वारमहर्निशं खड्गपाणि सेवते। यदा च राजा स्वयंसमादिशति तदा स्वगृहमपि याति। अथैकदा कृष्णचतुर्दश्याः रात्रौ राजा सकरुणक्रन्दनध्वनिः शुश्राव। शूद्रकः उवाच — ‘कः कोऽत्र द्वारि’। तेनोक्तम्— ‘देव! अहं वीरवरः। राजोवाच — ‘क्रन्दनानुसरणं क्रियताम्’ वीरवर — ‘यथाज्ञापयति देव’ इत्युक्त्वा चलितः। राज्ञा च चिन्तितम् — ‘अयमेकाकी राजपुत्रोमया सूचीभेद्ये तमसि प्रेरितः, नैतदुचितम्, अहमपि गत्वा किमेतदिति निरूपयामि।’ ततो राजापि खड्गमादाय तदनुसरणक्रमेण नगराद्बहिर्निर्जगाम।गत्वा च वीरवरेण सा रुदती रूपयौवनसंपन्ना सर्वालंकारभूषिता काचित्स्त्रीदृष्टा पृष्टा च — ‘का त्वम्, किमर्थं रोदिषि?’ स्त्रियोक्तम् — ‘अहमेतस्य शूद्रकस्य राजलक्ष्मी, चिरादेतस्य भुजच्छायायाः महता सुखेन विश्रान्ता। देव्यपराधेन तृतीये दिवसे राजा पचत्वं यास्यति। अहमनाथा भविष्यामि। इदानींनोऽत्र स्थास्यामीति रोदिमि।’ वीरवरो ब्रूते — ‘कथं पुनरिहावासो भगवत्या भवति ?’ लक्ष्मीरुवाच — ‘यदि त्वमात्मनः पुत्रस्य शक्तिधरस्य द्वात्रिंशल्लक्षणोपेतस्य मस्तकं स्वहस्तेन छित्त्वा भगवत्याः सर्वमङ्गलायाः उपहारीकरोषि, तदा राजा शतायुर्भविष्यति, अहं च सुचिरं सुखं निवसामि’ इत्युक्त्वाऽदृश्याभवत्।
ततो वीरवरेण स्वगृहं गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च। तौनिद्रा परित्यज्योत्थायोपविष्टौ। वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान्। तच्छ्रुत्वासानन्दः शक्तिधरो ब्रूते — ‘धन्योऽहमेवभूतं स्वामिराज्यरक्षार्थं यन्ममोपयोगः।तत्कोऽधुना विलम्बस्य हेतु? कदापि तावदेवविधेः कर्मणि देहस्य विनियोगःश्लाघ्यः। यतः —
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
सन्निमित्ते वरं त्यागो विनाशे नियते सति॥१०३॥
शक्तिधरमातोवाच — ‘अस्मत्कुलोचितः यद्येतन्न कर्तव्यः तदा गृहीतराजवर्तनस्य निस्तारं कथं भविष्यति?’ इत्यालोच्य सर्वे सर्वमङ्गलायाः स्थानंगता। तत्र सर्वमङ्गलां संपूज्य वीरवरो ब्रूते— देवि! प्रसीद विजयतां विजयतांशूद्रको महाराज’,गृह्यतामुपहारः’ इत्युक्त्वा पुत्रस्य शिरश्चिच्छेदः। ततोवीरवरश्चिन्तयामास — ‘गृहीतराजवर्तनस्य निस्तारः कृतः, अधुना निष्पुत्रस्यजीवनेनालम्’ इत्यालोच्यात्मनः शिरश्छेदःकृतः। ततःस्त्रियापि स्वामिपुत्रशोकार्तया तदनुष्ठितम्। एतत्सर्वं दृष्ट्वा राजा साश्वर्यं चिन्तयामास —
‘जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति॥१०४॥
तदेतेन परित्यक्तेन मम राज्येनाप्यप्रयोजनम्। ततः शूद्रकेणापि शिरछेत्तुं खड्गःसमुत्थापितः। अथ भगवत्या सर्वमंगलया प्रत्यक्षभूतया राजा हस्तेधृत उक्तंश्च — ‘पुत्र । प्रसन्नास्मि ते, एतावता साहसेनालम्, इदानीं ते राज्यभङ्गो नास्ति।’ राजा च साष्टाङ्गपात प्रणम्योवाच — ’ देवि। किं मे राज्येन,जीवितेन वा किं प्रयोजनम्? यद्यहमनुकम्पनीयस्तदा ममायुः शेषेणाय सदारपुत्रो वीरवरो जीवतु। अन्यथाहं यथाप्राप्ता गतिं गच्छामि।’ भगवत्युवाच — ‘पुत्र। अनेन ते सवोत्कर्षेण भृत्यवात्सल्येन च सर्वथा तुष्टास्मि गन्छ,विजयी भव, अयमपि सपरिवारो राजपुत्रो जीवतु’ इत्युक्त्वा देव्यदृश्याभवत्।ततो वीरवरःसपुत्रदारो प्राप्तजीवनः स्वगृहं गतः’। राजापि तैरलक्षितः सत्वरमन्तः पुरं प्रविष्टः। अथ प्रभाते वीरवरो द्वारस्थ पुनर्भूपालेन पृष्टः सन्नाह — ‘देव!। सा रुदती स्त्री मामवलोक्यादृश्याभवत्, न काप्यन्या वार्ताविद्यते। तद्वचनमाकर्ण्य संतुष्टो राजा साश्चर्यमचिन्तयत् — ‘कथमयं श्लाघ्योमहासत्त्व। यतः
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः।
दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः॥१०५॥
एतन्महापुरुषलक्षणमेतस्मिन्सवमस्ति।’ ततः स राजा प्रातः शिष्टसभांकृत्वा सर्ववृत्तान्तं प्रस्तुत्य प्रसादात्तस्मै कर्णाटराज्यं ददौ। तत्किमागन्तुकोजातिमात्राष्टः। तद्दुत्राप्युत्तमाधममध्यमाः सन्ति । चक्रवाको ब्रूते —
योऽकार्यं कार्यवच्छास्ति स किं मन्त्री नृपेच्छया।
वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः॥१०६॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदः।
शरीरधर्म्म
कोशेभ्यः क्षिप्रं स परिहीयते॥१०७॥
शृणु देव —
पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति।
हत्वा भिक्षुं महालोभान्निध्यर्थी नापितो हतः॥१०८॥’
राजा पृच्छति — ‘कथमेतत्?’ मन्त्री कथयति —
कथा ९.
अस्त्ययोध्यायाःचूडामणिर्नाम क्षत्रियः। तेन धनार्थिना महताकायक्लेशेन भगवाश्चन्द्रार्धचूडामणिश्चिरमाराधितः। ततः क्षीणपापोऽसौ स्वप्नेदर्शनं दत्त्वा भगवादेशाद्यक्षेश्वरेणादिष्टः— ‘यत्त्वमद्यदा प्रातः क्षौरं कृत्वा लगुडहस्तः सन् गृहद्वारि निभृतः स्थास्यसि ततोऽस्मिन्नेवाङ्गणे समागतं यं भिक्षुंपश्यसि तं निर्दयं लगुडप्रहारेण हनिष्यसि । ततोऽसौ भिक्षुकस्तत्क्षणात् सुवर्ण-पूर्णकलशो भविष्यति । तेन त्वया यावज्जीवं सुखिना भवितव्यम्।’ ततस्तथानुष्ठिते तद्वृत्तम्। तत्र क्षौरकरणायानीतेन नापितेन तत्सवमालोक्य चिन्तितम् — ’ अये। निधिप्राप्तेरयमुपायः तदहमप्येव किं न करोमि। ततः प्रभृतिनापितः प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतः भिक्षोरागमनं प्रतीक्षते।एकदा तेन तथा प्राप्तो भिक्षुर्लगुडेन व्यापादितः। तस्मादपराधात्सोऽपि नापितोराजपुरुषैर्व्यापादितः। अतोऽहं ब्रवीमि — ‘पुण्याल्लब्धं यदेकेन ‘ इत्यादि।
राजाह —
‘पुरावृत्तकथोद्गारैः कथं निर्णीयते परः।
स्यन्निष्कारणबन्धुर्वा किं वा विश्वासघातकः॥१०९॥
यातु, प्रस्तुतमनुसंधीयताम्। मलयाधित्यकाया समासितो वर्तते चित्रवर्णो राजा तदधुना किं विधेयम्।’ मन्त्री वदति — ‘देव! आगतप्रणिधिमुखान्मया श्रुतं तन्महामन्त्रिणो गृध्रस्योपदेशे यच्चित्रवर्णेनानादरः कृतः। ततोऽसौ मूढो जेतुं शक्यः। तथा चोक्तम् —
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः।
मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः॥११०॥
ततोऽसौ यावदस्मद्दुर्गद्वाररोधं न करोति तावन्नद्यद्रिवनवर्त्मसु तद्बलानि हन्तुं पारसादयं सेनापतयो नियुज्यन्ताम्। तथा तोक्तम् —
दीर्घवर्त्मपरिश्रान्तं नद्यद्रिवनसंकुलम्।
घोराग्निभयसन्त्रस्तं क्षुत्पिपासार्दितं तथा॥१११॥
प्रमत्तं भोजनव्यग्रं व्याधिदुर्भिक्षपीडितम्।
असंस्थितमभूयिष्ठं वृष्टिवातसमाकुलम्॥११२॥
पङ्कपांसुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतम्।
एवंभूतं महीपालः परसैन्यं विघातयेत्॥११३॥
अन्यच्च-
अवस्कन्दभयाद्राजा प्रजागरकृतश्रमम्।
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकम्॥११४॥
अतस्तस्य प्रमादिनो बलं गत्वा यथावकाशं दिवानिशं घ्नन्त्वस्मत्सेनापतयः। तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश्च बहवो निहताः। ततश्चित्रवर्णो विषण्णः स्वमन्त्रिणं दूरदर्शिनमाह — ‘तात। किमित्यस्मादुपेक्षा क्रियते। किं क्वाप्यविनयो ममास्ति। तथा चोक्तम् —
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्॥११५॥
अपरं च —
दक्षः श्रियमधिगच्छति पथ्याशी कल्पतां सुखमरोगी।
उद्युक्ता विद्यान्तं धर्मार्थयशांसि च विनीतः॥११६॥
गृध्रोऽवदत् ‘देव। शृणु —
अविद्वानपि भूपालो विद्यावृद्धोपसेवया।
परां श्रियमवाप्नोति जलासन्नतरुर्यथा॥११७॥
अन्यच्च-
पानं स्त्रीमृगया द्यूतमर्थदूषणमेव च।
वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम्॥११८॥
किं च —
न साहसैकान्तरसानुवर्तिना
न चाप्युपायोपहतान्तरात्मना।
विभूतयः शक्यमवाप्तुमूर्जिता
नये च शौर्ये च वसन्ति सम्पदः॥११९॥
त्वया स्वबलोत्साहमवलोक्य साहसैकवासिना मयोपन्यस्तेष्वपि मन्त्रेष्वनवधान वाक्पारुष्य च कृतम्। अतो दुर्नीते फलमिदमनुभूयते। तथा चोक्तम् —
दुर्मंत्रिणं कमुपयान्ति न नीतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगा।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परितापयन्ति॥१२०॥
अपरं च —
मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान्सुकृतं कृतघ्नता।
प्रियोपपत्तिः शुचमापदं
नयः
श्रियः समृद्धा अपि हन्ति दुर्नयः॥१२१॥
ततो ममाप्यालोचितम् — ‘प्रज्ञाहीनोऽयं राजा। नो चेत्कथं नीतिशास्त्रकथाकौमुदी वागुल्काभिस्तिमिरयति। यतः —
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं कीरष्यति॥१२२॥
इत्यालोच्य तूष्णीं स्थितः। अथ राजा बद्धाञ्जलिराह — ‘तात। अस्त्ययं ममापराधः इदानीं यथावशिष्टबलसहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि तथोपदिश।’ गृध्र स्वगत चिन्तयति — ‘क्रियतामत्र प्रतीकारः। यतः —
देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च।
नियन्तव्यः सदा कोपो बालवृद्धातुरेषु च॥१२३॥
मन्त्री प्रहस्य ब्रूते — ‘देव! मा भैषी। समाश्वसिहि। शृणु, देव!
मन्त्रिणां भिन्नसंधाने भिषजां सान्निपातके।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः॥१२४॥
अपरं च —
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः॥१२५॥
तदत्र भवत्प्रतापादेव दुर्गं भङ्क्त्वा कीर्तिप्रतापबलसहित त्वामचिरेण कालेन विन्ध्याचलं नेष्यामि।’ राजाह — ‘कथमधुना स्वल्पबलेन तत्सपद्यते? ‘गृध्रो वदति — ‘देव ! सर्वं भविष्यति। यतो विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्यभाविलक्षणं तत्सहसैव दुर्गावरोधः
क्रियताम् ’ अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य तत्कथितम् ‘देव! स्वल्पबल एवायं राजा चित्रवर्णो गृधस्य मन्त्रोपष्टम्भेन दुर्गावरोधः करिष्यति। राजाह — ‘सर्वज्ञ! किमधुना विधेयम्?’ चक्रो ब्रूते — ‘स्वबले सारासारविचारः क्रियताम्’ तज्ज्ञात्वा सुवर्णवस्त्रादिकं यथार्हं प्रसादप्रदानं क्रियताम्। यतः —
यः काकिणीमप्यपथप्रपन्नां
समुद्धरेनिष्कसहस्रतुल्याम्।
कालेषु कोटिष्वपि मुक्तहस्त-
स्तं राजसिंहं न जहाति लक्ष्मीः॥१२६॥
अन्यच्च —
क्रतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे।
प्रियासु नारीष्वधनेषु बान्धवे-
ष्वतिव्ययो नास्ति नराधिपाष्टसु॥१२७॥
यतः —
मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि।
कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिसाध्वसात्॥१२८॥
राजाह — ‘कथमिह समयेऽतिव्ययो युज्यते?
उक्तं च — ‘आपदर्थे धनं रक्षेत्’ इति॥
मन्त्री ब्रूते — ‘श्रीमतःकथमापदः? राजाह — कदाचिच्चलते लक्ष्मीः।
मन्त्री ब्रूते — संचितापि विनश्यति।’
तदेव! कार्पण्यं विमुच्य दानमानाभ्यां स्वभटाः पुरस्क्रियन्ताम्। तथा चोक्तम् —
परस्परं सुसंहृष्टास्त्यक्तुं प्राणान्सुनिश्चिताः।
कुलीनाः पूजिताः सम्यग्विजयन्ते द्विषद्बलम्॥१२९॥
अपरं च —
सुभटाः शीलसंपन्नाः संहताः कृतनिश्चयाः।
अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम्॥१३०॥
किञ्च —
शिष्टैरप्यविशेषज्ञ उग्रश्चकृतनाशकः।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मंभरिर्नरः॥१३१॥
यतः —
सत्यं
शौर्यं
दया त्यागो नृपस्यैते महागुणाः।
एभिर्मुक्तो महीपालः प्राप्नोति खलु वाच्यताम्॥१३२॥
ईदृशि प्रस्तावेऽमात्यास्तावदेव पुरस्कर्तव्या। तथा चोक्तम् —
यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी ।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ १३३ ॥
यतः —
धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः।
अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति॥१३४॥
शृणु देव !
हर्षक्रोधौसमौ यस्य कोशः स्वल्पव्ययेन च।
नित्यं भृत्यानुपेक्षा च तस्य स्याद्धनदा धरा॥१३५॥
येषां राज्ञा सह स्यातामुच्चयापचयौ ध्रुवम्।
अमात्या इति तात्राजा नावमन्येत्कदाचन॥१३६॥
यतः —
महीभुजो मदान्धस्य मज्जतोऽकार्यसागरे।
स्खलतो हि करालम्बः सुहृत्सचिवचेष्टितम्॥१३७॥
अथागत्य प्रणम्य मेघवर्णो ब्रूते — ‘देव! दृष्टिप्रसाद कुरु’ इदानीं विपक्षो युद्धार्थी दुर्गद्वारि वर्तते। तद्देवपादादेशाद्बहिर्नि सृत्य स्वविक्रमं दर्शयामि तेन देवपादानामानृण्यमुपगच्छामि। ‘चक्रवाको ब्रूते — ‘मैवम्, यदि बहिर्नि सृत्य योद्धव्य तदा दुर्गाश्रयणमेव निष्प्रयोजनम्।
अपरं च —
विषमो हि यथा नक्रः सलिलान्निर्गतोऽवशः।
वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छृगालवत्॥१३८॥
देव! स्वयं गत्वा दृश्यता युद्धम्। यतः —
पुरस्कृत्य बलं राजा योधयेदवलोकयन्।
स्वामिनाधिष्ठितःश्वापि किं न सिहायते ध्रुवम्॥१३९॥’
अथ ते सर्वे दुर्गद्वारं गत्वा महाहव कृतवन्तः। अपरेद्युश्चित्रवर्णो राजा गृध्रमुवाच — ‘तात! स्वप्रतिज्ञातमधुना निर्वाहय।’ गृध्रो ब्रूते — ‘देव! शृणु। तावत् —
अकालसहमत्यल्पं मूर्खव्यसनिनायकम्।
अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते॥१४०॥
तत्तावदत्र नास्ति —
उपजापश्चिरारोधोऽवस्कन्धस्तीव्रपौरुषम्।
दुर्गस्य लंघनोपायाश्चत्वारः कथिता इमे॥१४१॥
अत्र यथाशक्ति क्रियते यत्नः\। चित्रवर्णः कथयति ‘एवमेव। ‘ततोऽनुदित एव भास्करे चतुर्ष्वपि दुर्गद्वारेषु वृत्ते युद्धे दुर्गाभ्यन्तरगृहेष्वेकदा काकैरग्निर्निक्षिप्तः। ततः— ‘गृहीत गृहीत दुर्गम् ’ इति कोलाहलं श्रुत्वाऽनेकगृहेषु च
पावकम्प्रदीप्तः प्रत्यक्षेणावलोक्य राजहससैनिकाः बहवो दुर्गवासिनश्च सत्वरं हृढं प्रविष्टा । यतः —
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्।
कार्यकाले यथाशक्ति कुर्यान्न तु विचारयेत्॥१४२॥
राजहंसः स्वभावान्मन्दगति सारसद्वितीयश्च चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः हिरण्यगर्भः सारसमाह — ‘सारस सेनापते! ममानुरोधादात्मानं कथं व्यापादयिष्यसि त्वमधुना गन्तुं शक्तः। तत्कृत्वा जल प्रविश्यात्मान परिरक्ष।अस्मत्पुत्र चूडामणिनामान सर्वज्ञसमत्या राजान करिष्यसि। ‘सारसो ब्रूते — ‘देव न वक्तव्यमेव दुःसह वचा, यावच्चन्द्रार्कौ दिवि तिष्ठतस्तावद्विजयता देवः। अहं देव! दुर्गाधिकारी। मन्मासासृग्विलिप्तेन द्वारवर्त्मना प्रविशतु शत्रुः। अपरं च देव!
दाता क्षमी गुणग्राही स्वामी भाग्येन लभ्यते।’
राजाह — ‘सत्यमेवैतत्। किं तु —
शुचिर्दक्षोऽनुरक्तश्च जानेभृत्योऽपि दुर्लभः॥१४३॥
सारसो ब्रूते — ‘शृणु देव!
यदि समरमपास्य नास्ति मृत्यो —
र्भयमिति युक्तमितोऽन्यतः प्रयातुम्।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियेत॥१४४॥
अन्यच्च —
भवेऽस्मिन्पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे।
जायते पुण्ययोगेन परार्थे जीवितव्ययः॥१४५॥
देव! त्वं च स्वामी सर्वथा रक्षणीय। यतः —
स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत्।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च॥१४६॥
अपि च —
प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति।
अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि॥१४७॥
अपरं च —
नरेशे जीवलोकोऽयं निमीलति निमीलति।
उदेत्युदीयमाने च रवाविव सरोरुहम्॥१४८॥’
अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतरनखाघातः कृतः। तदा सत्वरमुपसृत्य सारसेन स्वदेहान्तरितो राजा। अथ कुक्कुटनखप्रहारजर्जरीकृतेन सारसेन स्वाङ्गेनाच्छाद्य राजा जले प्रक्षिप्तः कुक्कुटोऽपि सेनापतिना सारसेन स्वचञ्चुप्रहारेण व्यापादितः। पश्चात् सारसोऽपि बहुभिः पक्षिभिः सम्भूय व्यापादितः। अथ चित्रवर्णो दुर्गं प्रविश्य दुर्गावस्थितः द्रव्यं ग्राहयित्वा वन्दिभिर्जयशब्दैरानन्दितः, स्वस्कन्धावारं जगाम॥
अथ राजपुत्रैरुक्तम् — ‘तस्मिन् राजहंसबले स पुण्यवान्सारस एव, येन स्वदेहत्यागेन स्वामीं रक्षितः। उक्तं चैतत्—
जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन्।
विषाणोल्लिखितस्कन्धं काचिदेव गवां पतिम्॥१४९॥’
विष्णुशर्मोवाच — ‘स तावत् सत्त्वक्रीतानक्षयाल्ँलोकान्विद्याधरीपरिजनोऽनुभवतु महासत्त्वः। तथा चोक्तम् —
आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः।
भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः॥१५०॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः।
अक्षयाल्लँभते लोकान्यदि क्लैब्यं न गच्छति॥१५१॥
विग्रहः श्रुतो भवद्धिः।’ राजपुत्रैरुक्तम् — ‘श्रुत्वा सुखिनो वयम् । विष्णुशर्माऽब्रवीत् ‘अपरमप्येवमस्तु।
विग्रहः करितुरङ्गपत्तिभि-
र्नो कदापि भवतां महीभुजाम्।
नीतिमन्त्रपवनैः समाहताः
संश्रयन्तु गिरिगह्वरं द्विषः॥१५२॥’
इति श्रीविष्णुशर्मकृते हितोपदेशे विग्रहस्तृतीयः॥३॥
<MISSING_FIG href="../books_images/U-IMG-1721832758109.png"/>
सन्धिः।
<MISSING_FIG href="../books_images/U-IMG-1721838934110.png"/>
पुनः कथारम्भकाले राजपुत्रैरुक्तम् — ‘आर्य! विग्रह श्रुतोऽस्माभिः। सन्धिरधुनाभिधीयताम्’। विष्णुशर्मणोक्तम् — ‘श्रूयताम्। सन्धिमपि कथयामि। यस्यायमाद्य श्लोकः —
वृत्ते महति सङ्ग्रामे राज्ञार्निहतसेनयोः।
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतः क्षणात्॥१॥
राजपुत्रा ऊचुः — कथमेतत्? विष्णुशर्मा कथयति —
ततस्तेन राजहंसेनोक्तम् — केनास्मद्दुर्गे निक्षिप्तोऽग्नि — किं पारक्येण किं वास्मदुर्गवासिना केनापि विपक्षप्रयुक्तेन? चक्रवाको ब्रूते ‘देव! भवतो निष्कारणबन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते। तन्मन्ये तस्यैव विचेष्टितमिदम्। ‘राजा क्षणं विचिन्त्याह — ‘अस्ति तावदेव, मम दुर्दैवमेतत्। तथा चोक्तम् —
अपराधः स दैवस्य न पुनर्मन्त्रिणामयम्।
कार्यं सुचरितं क्वापि दैवयोगाद्विनश्यति॥२॥’
मन्त्री ब्रूते — ‘उक्तमेवैतत् —
विषमां हि दशां प्राप्य दैवं गर्हयते नरः।
आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः॥३॥
अपरं च —
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति॥४॥’
राजाह — ‘कथमेतत्?’ मन्त्री कथयति —
कथा १
अस्तिमगधदेशे फुल्लोत्पलाभिधानः सरः। तत्र चिरंसंकटविकटनामानौ हंसौ निवसतः । तयोर्मित्र कम्बुग्रीवनामा कूर्मश्च प्रतिवसति। अथैकदा धीवरैरागत्य तत्रोक्तम् — ‘यद
त्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्या ‘। तदाकर्ण्य कूर्मो हसावाह —‘सुहृदौ!, श्रुतोऽयं धीवरालापः। अधुना
किं मया कर्तव्यम्? ‘हंसावाहतुः — “ज्ञायताम्। पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम्। कुर्मो ब्रूते — ‘मैवम्। यतो दृष्टव्यतिकरोऽहमत्र। तथा चोक्तम् —
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥५॥’
तावाहतुः — ‘कथमेतत्? कूर्मः कथयति —
कथा २
पुरास्मिन्नेव सरस्येवविधेषु धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम्। तत्र अनागतविधाता नामैको मत्स्यः। तेनालोचितम् — ‘अहं तावज्जलाशयान्तरं गच्छामि’ इत्युक्त्वा हृदान्तरं गतः। अपरेण प्रत्युत्पन्नमतिनाम्ना। मत्स्येनाभिहितम् — ‘भविष्यदर्थे प्रमाणाभावात्कुत्र मया गन्तव्यम्? तदुत्पन्ने यथाकार्यं तदनुष्ठेयम् । तथा चोक्तम् —
उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान्।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा॥६॥’
यद्भविष्यः पृच्छति — ‘कथमेतत्। प्रत्युत्पन्नमति कथयति —
कथा ३.
विक्रमपुरे समुद्रदत्तो नाम वणिगस्ति। तस्य रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते।
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवंनवम्॥७॥
अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता। ततः सा बन्धकी सत्वरं भर्तुः समीपं गत्वाह — ‘नाथ। एतस्य सेवकस्य महती निर्वृति। यतोऽयं चोरिकां कृत्वा कर्पूरं खादतीति मयास्य मुखमाघ्राय ज्ञातम्।’ तथा चोक्तम् —
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥८॥’
तच्छ्रुत्वा सेवकेन प्रकुप्योक्तम् — ‘नाथ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम्? यत्र प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ‘ततोऽसावुत्थाय चलितः, साधुना यत्नात्मबोध्य धृतः। अतोऽहं ब्रवीमि — ‘उत्पन्नामापदम्’ इत्यादि॥
ततो यद्भविष्येणोक्तम् —
‘यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥९॥
ततः प्रातर्जालेन बद्धःप्रत्युत्पन्नमतिर्मृतवदात्मानं संदर्श्य स्थितः। ततो जालादपसारितो यथाशक्त्युत्प्लुत्य गभीरं नीर प्रविष्टः। यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः। अतोऽहं ब्रवीमि — अनागतविधाता’ इत्यादि॥
तद्यथाहमन्यहृदं प्राप्नोमितथा क्रियताम्। हसावाहतुः— ‘जलाशयान्तरंप्राप्तेतव कुशलम्। स्थले गच्छतस्ते को विधिः? कूर्मः आह — ‘यथाहं भवद्भया सहाकाशवर्त्मना यामि स उपायो विधीयताम्। ‘हंसौ ब्रूतः — ‘कथमुपायः संभवति? कच्छपो वदति — ‘युवाभ्यां चंचूधृतं काष्ठखण्डमेकं मया मुखेनावलम्ब्य गन्तव्यम्। युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम् । ‘हंसौ ब्रूतः — ‘संभवत्येष उपायः। किं तु —
उपायं चिन्तयन्प्राज्ञो ह्यपायमपि चिन्तयेत्।
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः प्रजाः॥१०॥
कूर्मः पृच्छति — ‘कथमेतत्?’ तौ कथयतः —
कथा ४
अस्त्युत्तरापये गृध्रकूटो नाम पर्वतः। तत्रैव रेवातीरे न्यग्रोधपादपे बकाः निवसन्ति। तस्य वृक्षस्याधस्ताद्विवरे सर्पस्तिष्ठति। स च बकानां बालापत्यानि खादति। अथ शोकार्तानां बकानां विलापं श्रुत्वा केनचिद्बकेनाभिहितम् — ‘भो! एवं कुरुत, यूयं मत्स्यानुपादाय नकुलविवरादारभ्य सर्पविवरं
यावदेकैकशो मत्स्यान् पंक्तिक्रमेण विकिरतः, ततस्तदाहारलुब्धैर्नकुलैस्तद्वर्त्मनागत्य सर्पो द्रष्टव्यः स्वभावद्वेषाद्व्यापादयितव्यश्च। ‘तथानुष्ठिते तद्वृत्तम्। ततस्तत्र वृक्षे नकुलैर्बकशावकराव श्रुतः, पश्चात्तैर्वृक्षमारुह्य बकशावकाः खादिताः।अतः आवां ब्रूवः - ‘उपायं चिन्तयन्’ इत्यादि ॥
आवाभ्यां नीयमानः त्वामवलोक्य लोकैः किञ्चिद्वक्तव्यमेव। तदाकर्ण्य यदि त्वमुत्तरं दास्यसि तदा त्वन्मरणम्, तत्सर्वथात्रैव स्थीयताम्। ‘कूर्मो वदति — ’ किमहमप्राज्ञः? नाहमुत्तरं दास्यामि किमपि न वक्तव्यम्। तथानुष्ठिते तथाविधं कूर्ममालोक्य सर्वे गोरक्षकाः पश्चाद्धावन्ति वदन्ति च — “अहो महदाश्चर्यम्! पक्षिभ्यां
कूर्मः समुह्यते। कश्चिद्वदति — ‘यद्ययं कूर्मः पतति तदात्रैव पक्त्वा खादितव्यः’। ‘कश्चिद्वदति — ‘अत्रैव सरस्समीपे दग्ध्वा खादितव्योऽयम्। ‘कश्चिद्वदति — गृहं नीत्वा भक्षणीयः’ इति। तत्परुषवचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसस्कारः प्राह — ‘युष्माभिर्भस्म भक्षितव्यम्। ‘इति वदन्नेव पतितस्तैर्व्यापादितश्च। अतोऽहं ब्रवीमि ‘सुहृदां हितकामानाम्’ इत्यादि॥
अथ प्रणिधिर्बकस्तत्रागत्योवाच — ‘देव! प्रागेव मया निगदितम्। दुर्गशोधन हि प्रतिक्षणं कर्तव्यमिति तच्च युष्माभिर्न कृतम्, तदनवधानस्य फलमनुभूतम्। दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रयुक्तेन कृतः। ‘राजा निश्वस्याह —
‘प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु।
स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुद्धयते॥११॥’
प्रणिधिरुवाच — ‘इतो दुर्गदाहं विधाय गतो मेघवर्णस्तदा चित्रवर्णेन प्रसादितेनोक्तम् — ‘अयं मेघवर्णोऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम्। तथा चोक्तम् —
कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत्।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत्॥१२॥’
चक्रवाको ब्रूते — देव! श्रुतः यत्प्रणिधिः कथयति? राजाह — ‘ततस्ततः’।’ प्रणिधिरवोचत् ततः प्रधानमन्त्रिणा गृध्रेणाभिहितम् — ’ देव! नेदमुचितम्। प्रसादान्तरं किमपि क्रियताम्। यतः —
अविचारयतो युक्तिकथनं तुषखण्डनम्।
नीचेषूपकृतं राजन्वालुकास्विव मूत्रितम्॥१३॥
महतामास्पदे नीचः कदापि न कर्तव्यः। तथा चोक्तम् —
नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुमिच्छति।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा॥१४॥’
चित्रवर्णः पृच्छति — ‘कथमेतत्?’ मन्त्री कथयति —
कथा ५.
अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः। तत्र तेनाश्रमसन्निधाने मूषिकशावकः काकमुखाद्भ्रष्टो दृष्टः। ततःस्वभावदयात्मना तेन मुनिना नीवारकणैस्संवर्द्धितः। तं च मूषिकं खादितुमनुधावन् बिडालो मुनिना दृष्टः। पश्चात् तपः प्रभावात् तेन मुनिना स मूषिको बलिष्ठो बिडालः कृतः। स बिडालः कुक्कुराद्बिभेति। ततोऽसौ कुक्कुरः कृतः। कुक्कुरस्य ततो व्याघ्रान्महद्भयमभूत्। तदनन्तरं सः व्याघ्रःकृतः। अथ तं व्याघ्रं मुनिर्मूषिकनिर्विशेषं पश्यति। अतः सर्वे तत्रत्या व्याघ्रं दृष्ट्वा वदन्ति। अनेन मुनिना मूषिको व्याघ्रता नीतः । एतच्छ्रुत्वा सः व्याघ्रः सव्यथमचिन्तयत् — यावदनेन मुनिना जीवितव्यः तावदिदं मेस्वरूपाख्यानमकीर्तिकरं न पलायिष्यते इत्यालोच्य मुनिं हन्तुं समुद्यतः। मुनिस्तस्य चिकीर्षितं ज्ञात्वा ‘पुनर्मूषिको भव’ इत्युक्त्वा मूषिक एव कृत। अतोहं ब्रवीमि — ‘नीचः श्लाघ्यपदम्’ इत्यादि ॥
अपरं च देव। सुकरमिदमिति न मन्तव्यम्। शृणु —
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान्।
अतिलोभाद्बकः पश्चान्मृतः कर्कटकग्रहात्॥१५॥’
चित्रवर्णः पृच्छति — ‘कथमेतत्?’ मन्त्री कथयति —
कथा ६.
अस्ति मालवदेशे पद्मगर्भनामधेयः सरः। तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नमिवात्मानं दर्शयित्वा स्थितः। सः च केनचित्कुलीरेण दृष्टःदूरादेव
पृष्टश्च — ‘किमिति भवानत्राहारत्यागेन तिष्टति?’ बकेनोक्तम् — ’ मत्स्या मम जीवनहेतव। ते कैवर्तैरागत्य व्यापादयितव्या इति नगरोपान्ते कैवर्तालापो मया श्रुतः। अतो वर्तनाभावादेवास्मन्मरणमुपस्थितमिति ज्ञात्वाहारेऽप्यनादरः कृतः। ततो मत्स्यैरालोचितम् — ‘इह समये तावदुपकारक एवायंलक्ष्यते तदयमेव यथाकर्तव्य पृच्छ्यताम्। तथा चोक्तम् —
उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः॥१६॥
मत्स्या ऊचुः — ‘भो बक! कोऽत्रास्माकं रक्षणोपाय’ बको ब्रूते — ‘अस्ति रक्षणोपायो जलाशयान्तराश्रयणम्, तत्राहमेकैकशो युष्मान्नयामि।’ मत्स्या भयादाहु — ‘एवमस्तु।’ ततोऽसौ बकस्तान्मत्स्यानेकैकशो नीत्वा कस्मिश्चिद्देशे खादित्वा पुनरागत्य वदति’ ते मया जलाशयान्तरे प्रस्थापिताः।’ अनन्तरं कुलीरस्तमुवाच — ‘भो बक। मामपि तत्र नय।’ ततो बकोऽप्यपूर्वकुलीरमासार्थी सादरं तं नीत्वा स्थले वृतवान्। कुलीरोऽपि मत्स्यकण्टकाकीर्णं तत्स्थलमालोक्याचिन्तयत् — ‘हा । हतोऽस्मि मन्दभाग्यं। भवतु। इदानीं समयोचितं व्यवहरिष्यामि। यतः —
तावद्भयात्तु भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य प्रहर्तव्यमभीतवत्॥१७॥
अपरं च —
अभियुक्तो यदा पश्येन्न किञ्चिद्धितमात्मनः।
युद्ध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह॥१८॥
इत्यालोच्य कुलीरस्तस्य ग्रीवां चिच्छेदः। सः बकः पञ्चत्वगतः। अतोऽहं ब्रवीमि — ‘भक्षयित्वा बहून्मत्स्यान्’ इत्यादि॥
ततश्चित्रवर्णोऽवदत् ‘शृणु तावन्मन्त्रिन्। मयैतदालोचितमस्ति। अत्रावस्थितेन मेघ
वर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्यस्माकमुपनेतव्यानि। तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम्।’ दूरदर्शीविहस्याह — ‘देव !
अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति।
स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा॥१९॥
राजाह — ‘कथमेतत्?’ मन्त्री कथयति —
कथा ७.
अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः। तेन महाविषुवत्सक्रान्त्या सक्तुपूर्णशराव एक प्राप्तः। तमादायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः। ततः सक्तुरक्षार्थं हस्ते दण्डमेकमादायाचिन्तयन् — “यद्यहं सक्तुशरावं विक्रीय दशकपर्दकान्प्रास्यामि तदात्रैव तै कपर्दकैर्घटशरावादिकमुपक्रीयानेकधा वृद्धैस्तद्धनैः पुनः पुनः, पूगवस्त्रादिकमुपक्रीय विक्रीय वाणिज्यं कृत्वा लक्षसंख्यानि धनानि कृत्वा विवाहचतुष्टयं करिष्यामि, अनन्तरं तासु सपत्नीषु रूपयौवनवती या तस्यामधिकानुरागं करिष्यामि, सपत्न्यो यदान्योन्यं द्वन्द्वं करिष्यन्ति तदा कोपाकुलोऽहं तां लगुडेन ताडयिष्यामि” इत्यभिधाय लगुडं क्षिप्तः’। तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि। ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्यवलोक्य ब्राह्मणस्तिरस्कृतो मण्डपाद्बहिष्कृतश्च। अतोऽहं ब्रवीमि — ‘अनागतवती चिंताम् ’ इत्यादि॥
ततो राजा रहसिगृध्रमुवाच — ‘तात! यथा कर्तव्यं तथोपदिश। '
गृध्रो ब्रूते —
मदोद्धतस्य नृपतेः संकीर्णस्येव दन्तिनः।
गच्छन्त्युन्मार्गयातस्य नेतारः खलु वाच्यताम्॥२०॥
शृणु देव! किमस्माभिर्बलदर्पाद्दुर्ग भग्नम्, न। किं तु तव प्रतापाधिष्ठितेनोपायेन। ‘राजाह — ‘भवतामुपायेन। गृध्रो ब्रूते —
यद्यस्मद्वचनं क्रियते तदा स्वदेशे गम्यताम्। अन्यथा वर्षाकाले प्राप्ते तुल्यबलेन सह पुनर्विग्रहे सत्यस्माकं परभूमिष्ठानां स्वदेशगमनमपि दुर्लभं भविष्यति। सुखशोभार्थं सधाय गम्यताम्। दुर्गः भग्नः कीर्तिश्च लब्धैव मम समत तावदेतत्। यतः —
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये।
अप्रियाण्याह तथ्यानि तेन राजा सहायवान्॥२१॥
अन्यच्च —
सुहृ
द्ब
लं तथा राज्यमात्मानं कीर्तिमेव च।
युधि सन्देहदोलास्थं को हि कुर्यादबालिशः॥२२॥
अपरं च —
संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि।
न हि संशयितं कुर्यादित्युवाच बृहस्पतिः॥२३॥
अपि च —
युद्धे विनाशो भवति कदाचिदुभयोरपि।
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम्॥२४॥
राजोवाच —
‘कथमेतत्?’ मन्त्री कथयति —
कथा ८
.
पुरा दैत्यौ महोदरौ सुन्दोपसुन्दनामानौ महता क्लेशेन त्रैलोक्यकामनया चिराच्चन्द्रशेखरमाराधितवन्तौ। ततस्तयोर्भगवान्परितुष्टः ‘वर वरयतम्’ इत्युवाच। अनन्तरं तयोः कण्ठाधिष्ठितया सरस्वत्या तावन्यद्वक्तुकामावन्यदभिहितवन्तौ, यद्यावयोर्भवान्परितुष्टस्तदा स्वप्रिया पार्वती परमेश्वरो ददातु। अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया विचारमूढयोः पार्वती प्रदत्ता। ततस्तस्याः रूपलावण्यलुब्धाभ्यां जगद्धातिभ्यां मनसोत्सुकाभ्यां पापतिमिराभ्यां मम ममेत्यन्योन्यकलहाभ्यां प्रमाणपुरुषः कश्चित्पृच्छ्यतामिति मतौ कृतायाः स एव भट्टारको वृद्धद्विजरूपं समागत्य तत्रोपस्थितः। अनन्तरम् आवाभ्यामियं स्वबललब्धा। कस्येयमावयोर्भवति?’ इति ब्राह्मणमपृच्छताम्।
ब्राह्मणो ब्रूते —
‘ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवानपि।
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया॥२५॥
तद्युवा शत्रुधर्मानुगौ। युद्ध एव युवयोर्नियमः। ‘इत्यभिहिते सति साधूक्तमनेन’ इति कृतान्योन्यतुल्यवीर्यौ समकालमन्योन्यघातेन विनाशमुपगतौ। अतोऽहं ब्रवीमि — ‘संधिमिच्छेत्समेनापि’ इत्यादि॥
राजाह — ‘प्रागेव किं नोक्तं भवद्भिः? ‘मंत्री ब्रूते — ‘मद्वचन किमवसानपर्यन्तं श्रुत भवद्भिः। तदापि मम संमत्या नायं विग्रहारम्भः। साधुगुणयुक्तोऽयं हिरण्यगर्भो न विग्राह्यः। तथा चोक्तम् —
सत्यार्यौ
धार्मिकोऽनार्यो भ्रातृसंघातवान्बली।
अनेकयुद्धविजयी संधेयाः सप्त कीर्तिताः॥२६॥
सत्योऽनुपालयेत्सत्यं सन्धितो नैति विक्रियाम्।
प्राणबाधेऽपि सुव्यक्तमार्यो नायात्यनार्यताम्॥२७॥
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते।
प्रजानुरागाद्धर्माच्च दुःखोच्छेद्यो हि धार्मिकः॥२८॥
सन्धिः कार्योऽप्यनार्येण विनाशे समुपस्थिते।
विना तस्याश्रयेणार्यो न कुर्यात्कालयापनम्॥२९॥
संहतत्वाद्यथा वेणुर्निबिडैः कण्टकैर्वृतः।
न शक्यते समुच्छेत्तुं भ्रातृसंघातवांस्तथा॥३०॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
प्रतिवातं न हि घनः कदाचिदुपसर्पति॥३१॥
जमदग्नेः सुतस्यैव सर्वः सर्वत्र सर्वदा।
अनेकयुद्धजयिनः प्रतापादेव भुज्यते॥३२॥
अनेकयुद्धविजयी सन्धानं यस्य गच्छति।
तत्प्रतापेन तस्याशु वशमायान्ति शत्रवः॥३३॥
तत्र तावद्बहुभिर्गुणैरुपेतः सन्धेयोऽयं राजा। चक्रवाकोऽवदत् — ‘प्रणिधे! सर्वत्रावव्रज सर्वमवगतम्। गत्वा पुनरागमिष्यसि। ‘अथ राजा चक्रवाकं पृष्टवान्— ‘मन्त्रिन्! असन्धेयाः कति तान्छ्रोतुमिच्छामि? ‘मंत्री ब्रूते — ‘देव! कथयामि। शृणु —
बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः।
भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा॥३४॥
विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान्।
अनेकचित्तमंत्रस्तु देवब्राह्मणनिन्दकः॥३५॥
दैवोपहतकश्चैव तथा देवपरायणः।
दुर्भिक्षव्यसनोपेतो बलव्यसनसंकुलः॥३६॥
अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न।
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी॥३७॥
एतैः सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम्।
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम्॥३८॥
बालस्याल्पप्रभावत्वान्न लोको योद्धुमिच्छति।
युद्धायुद्धफलं यस्माज्ज्ञातुं शक्तो न बालिशः॥३९॥
उत्साहशक्तिहीनत्वाद्वृद्धो दीर्घामयस्तथा।
स्वैरेव परिभूयेते द्वावप्येतावसंशयम्॥४०॥
सुखोच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः।
त एवैनं विनिघ्नन्ति ज्ञातयस्त्वात्मसात्कृतः॥४१॥
भीरुर्युद्धपरित्यागात्स्वयमेव प्रणश्यति।
तथैव भीरूपुरुषः संग्रामे तैर्विमुच्यते॥४२॥
लुब्धस्यासंविभागित्वान्न युद्ध्यन्तेऽनुयायिनः।
लुब्धानुजीविकैरेष दानभिन्नैर्निहन्यते॥४३॥
संत्यज्यते प्रकृतिभिर्विरक्तप्रकृतिर्युधि।
सुखाभियोज्यो भवति विषयेष्वतिसक्तिमान्॥४४॥
अनेकचित्तमन्त्रस्तु भेद्यो भवति मंत्रिणा।
अनवस्थितचित्तत्वात्कार्यतः स उपेक्ष्यते॥४५॥
सदा धर्मबलीयस्त्वद्देवब्राह्मणनिन्दकः।
विशीर्यते स्वयं ह्येष दैवोपहतकस्तथा॥४६॥
संपत्तेश्च विपत्तेश्च दैवमेव हि कारणम्।
इति दैवपरो ध्यायन्नात्मानमपि चेष्टते॥४७॥
दुर्भिक्षव्यसनी चैव स्वयमेव विषीदति।
बलव्यसनयुक्तस्य योद्धुं शक्तिर्न जायते॥४८॥
अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते।
ग्राहोऽल्पीयानपि जले गजेन्द्रमपि कर्षति॥४९॥
बहुशत्रुस्तु संत्रस्तः श्येनमध्ये कपोतवत्।
येनैव गच्छति पथा तेनैवाशु विपद्यते॥५०॥
अकालसैन्ययुक्तस्तु हन्यते कालयोधिना।
कौशिकेन हतज्योतिर्निशीथ इव वायसः॥५१॥
सत्यधर्मव्यपेतेन संदध्यान्न
कदाचन।
स संधितोऽप्यसाधुत्वादचिराद्याति विक्रियाम्॥५२॥
अपरमपि कथयामि। संधिविग्रहयानामनसश्रयद्वैधीभावाःषाड्गुण्यम्, कर्मणामारम्भोपायः पुरुषद्रव्यसपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः, सामदानभेददण्डाश्चत्वारः उपायाः, उत्साहशक्ति-र्मन्त्रशक्तिःप्रभुशक्तिश्चेति शक्तित्रयम् एतत्सर्वमालोच्य नित्य विजिगीषवो भवति महान्तः। यतः —
या हि प्राणपरित्यागमूल्येनापि न लभ्यते।
सा श्रीनीतिविदं पश्य चञ्चलापि प्रधावति॥५३॥
तथा चोक्तम् —
वित्तं यदा यस्य समं विभक्तं
गूढश्चरः सन्निभृतश्च मन्त्रः।
न चाप्रियं प्राणिषु यो ब्रवीति
स सागरान्तां पृथिवी प्रशास्ति॥५४॥
किंतु यद्यपि महामंत्रिणा गृध्रेण संधानमुपन्यस्तं तथापि तेन राज्ञा संप्रति भूतजयदर्पान्न मन्तव्यम्। देव! तदेव क्रियताम्। सिंहलद्वीपस्य महाबलो नाम सारसो राजास्मन्मित्र जम्बूद्वीपे कोपं जनयत। यतः —
सुगुप्तिमाधाय सुसंहतेन
बलेन वीरो विचरन्नरातिम्।
संतापयेद्येन समं सुतप्त-
स्तप्तेन सन्धानमुपैति तप्तः॥५५॥’
राज्ञा ‘एवमस्तु’ इति निगद्य विचित्रनामा बकःसुगुप्तलेखं दत्त्वा सिंहलद्वीपःप्रहितः। अथ प्रणिधिः पुनरागत्योवाच — ‘देव! श्रूयतां तावत् तत्रत्यप्रस्तावः। एव तत्र गृध्रेणोक्तम्— ‘देव! यन्मेघवर्णस्तत्र चिरमुषितः स वेत्ति किंसधेयगुणयुक्तो हिरण्यगर्भो न वा इति। ततोऽसौ चित्रवर्णेन राज्ञा समाहूय पृष्टः ‘वायस! कीदृशोऽसौ हिरण्यगर्भः? चक्रवाको मन्त्री वा कीदृश?’ वायसः उवाच — ‘देव’ हिरण्यगर्भो राजा युधिष्ठिरसमो महाशयः। सत्यवाक् चक्रवाकसमो मन्त्री न क्वाप्यवलोक्यते। ‘राजाह — ‘यद्येव तदा कथमसौ त्वया वञ्चितः? विहस्य मेघवर्णः प्राह — ‘देव !
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता।
अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम्॥५६॥
शृणु देव! तेन मन्त्रिणाहं प्रथमदर्शन एव ज्ञातः। किं तु महाशयोऽसौराजा। तेन मया विप्रलब्धः। तथा चोक्तम् —
आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम्।
स तथा वञ्चयते धूर्तैर्ब्राह्मणश्छागतो यथा॥५७॥’
राजोवाच ‘कथमेतत्?’ मेघवर्णःकथयति —
कथा ९.
अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद्ब्रह्मणः। स च यज्ञार्थं ग्रामान्तरंगत्वा छागमुपक्रीय स्कन्धे नीत्वा गच्छन्धूर्तत्रयेणावलोकितः। ततस्ते धूर्ताःयद्येष च्छाग केनाप्युपायेन लभ्यते तदा मतिप्रकर्षो भवतीति समालोच्य प्रान्तरवृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः। तत्रैकेनधूर्तेन गच्छन्स ब्राह्मणोऽभिहितः । ’ भो ब्राह्मण! किमिति कुक्कुरः स्कन्धेनोह्यते?’ विप्रेणोक्तम् — नायं श्वा, किंतु यज्ञच्छागः। अथानन्तरं पुनर्द्वितीयेन धूर्तेन
क्रोशमात्रस्थितेन तथैवोक्तम्। तदाकर्ण्य ब्राह्मणश्छागः भूमौ निधाय मुहुर्निरीक्ष्यपुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः। यतः —
मतिर्दोलायते सत्यं सतामपि खलोक्तिभिः।
ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत्॥५८॥’
राजाह — ‘कथमेतत्!’ स कथयति —
कथा १०
अस्ति कस्मिश्चिद्देशे मदोत्कटो नाम सिंहः। तस्य सेवकास्त्रयः.काको व्याघ्रो जम्बुकश्च। अथ तैर्भ्रमद्भिः कश्चिदुष्ट्रो दृष्टः पृष्टश्च — ‘कुतो भवानागतः?स चात्मवृत्तान्तमकथयत्। ततस्तैर्नीत्वा सिंहेऽसौ समर्पितः, तेनाभयवाचं दत्त्वा चित्रकर्ण इति नाम कृत्वा स्थापितः। एव कालोगच्छति। अथ कदाचित्सिंहस्य शरीरवैकल्याद्भूरिवृष्टिकारणाच्चाहारमलभमानास्तेव्यग्राः बभूवुः। ततस्तैरालोचितम् — ‘चित्रकर्णमेव यथा स्वामी व्यापादयतितथानुष्ठीयताम्। किमनेन कण्टकभुजा।’ व्याघ्रः उवाच — ‘स्वामिनाभयवाचं दत्त्वाऽनुगृहीतस्तकथमेव
संभवति काको ब्रूते — ‘इह समये परिक्षीण स्वामीपापमपि करिष्यति। यतः —
त्यजेत्क्षुधार्ता महिला स्वपुत्रं
खादेत्क्षुधार्ता भुजगी स्वमण्डम्।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति॥५९॥
अन्यच्च —
मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित्॥६०॥’
इति सञ्चिन्त्य सर्वे सिंहान्तिक जग्मुः । सिंहेनोक्तम्— ‘आहारार्थं किञ्चित्प्राप्तम्?तैरुक्तम्- ’ यत्नादपि न प्राप्तं किञ्चित्। सिंहेनोक्तम् — ‘कोऽधुनाजीवनोपायः। काको वदति — देव! स्वाधीनाहारपरित्यागात्सर्वनाशोऽयमुपस्थितः।’ सिंहेनोक्तम् — ‘अत्राहारः कः स्वाधीनः? काकः कर्णे कथयति —
चित्रकर्णः ’ इति। सिंहो भूमिं स्पृष्ट्वा कर्णो स्पृशति ब्रूते च अभयवाचं दत्त्वाधृतोऽयमस्माभिः। तत्कथमेव सम्भवति। तथा च —
न भूप्रदानं न सुवर्णदानं
न गोप्रदानं न तथान्नदानम्।
यथा वदन्तीह महाप्रदानं
सर्वेषु दानेष्वभयप्रदानम्॥६१॥
अन्यच्च —
सर्वकामसमृद्धस्य अश्वमेधस्य यत्फलम्।
तत्फलं लभते सम्यग्रक्षिते शरणागते॥६२॥
काको ब्रूते — ‘नासौ स्वामिना व्यापादयितव्यः। किं त्वस्माभिरेव तथाकर्तव्यः यथासौ स्वयमेव स्वदेहदानमङ्गीकरोति’ सिंहस्तच्छ्रुत्वा तूष्णीं स्थितः।ततोऽसौ लब्धावकाशः कूटं कृत्वा सर्वानादाय सिंहान्तिकः गतः। अथ काकेनोक्तेम् — ‘देव! यत्नादप्याहारो न प्राप्तः। अनेकोपवासखिन्नः स्वामी। तदिदानीं मदीयमासमुपभुज्यताम्। यतः —
स्वामिमूला भवन्त्येव सर्वाः प्रकृतयः खलु।
समूलेष्वपि वृक्षेषु प्रयत्नः सफलो नृणाम्॥६३॥’
सिंनोक्तम् — ‘वरं प्राणपरित्यागः॥ न पुनरीदृशि कर्मणि प्रवृत्तिः। जम्बुकेनापि तथोक्तम्। ततःसिंहेनोक्तम् — ‘मैवम्’ अथ व्याघ्रेणोक्तम् — ‘मद्देहेनजीवतु स्वामी’ सिंहेनोक्तम् — ‘न कदाचिदेवमुचितम्’। अथ चित्रकर्णोऽपिजात विश्वासस्तथैवात्मदानमाह। ततस्तद्वचनात्तेन व्याघ्रेणासौ कुक्षि विदार्य व्यापादितः सर्वैर्भक्षितः। अतोऽहं ब्रवीमि — ‘मतिर्दोलायते सत्यम्’ इत्यादि ॥
ततस्तृतीयधूर्तवचनं श्रुत्वा स्वमतिभ्रमं निश्चित्य च्छागं त्यक्त्वा ब्राह्मणः स्नात्वा गृहं ययौ। स च्छागस्तैर्धूर्तैर्नीत्वा भक्षितः। अतोहं ब्रवीमि — ‘आत्मौप्रम्येन यो वेत्ति’ इत्यादि ॥
राजाह — ‘मेघवर्ण! कथं शत्रुमध्ये त्वया चिरमुषितम्। कथं वा तेषामनुनयः कृतः।’ मेववर्णः उवाच — ‘देव! स्वामिकार्यार्थिना स्वप्रयोजनवशाद्वा किंन क्रियते। पश्य —
लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम्।
क्षालयन्नपि वृक्षांघ्रिं नदीवेगो निकृन्तति॥६४॥
तथा चोक्तम् —
स्कन्धेनापि वहेच्छत्रून् कार्यमासाद्य बुद्धिमान्।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः॥६५॥
राजाह — ‘कथमेतत्?’ मेघवर्णः कथयति —
कथा ११.
अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोऽतिजीर्णतयाहारमप्यन्वेष्टुमक्षमः सरस्तीरे पतित्वा स्थितः। ततो दूरादेव केनचिन्मण्डूकेन दृष्टः पृष्टश्च— किमिति त्वमाहारं नान्विष्यसि?’ सर्पोऽवदत् ‘गच्छ भद्र। मम मन्दभाग्यस्यवृत्तान्तप्रश्नेन किम्? ततः सजातकौतुकः सःभेकः ‘सर्वथा कथ्यताम्’ इतितं सर्पमाह। सर्पोप्याह — ‘भद्र! अत्र ब्रह्मपुरे कौण्डिन्यनाम्नः श्रोत्रियस्य विंशतिवर्षीयः पुत्रः सर्वगुणसम्पन्नो दुर्दैवान्मया नृशसेन दष्टः। ततस्तं पुत्रं सुशीलनामानं मृतमालोक्य कौण्डिन्यः शोकेन मूर्च्छितःपृथ्वीतले लुलोठ। अनन्तरंब्रह्मपुरवासिनः बान्धवास्तत्रागत्योपविष्टाः। तथा चोक्तम् —
उत्सवे व्यसने युद्धे दुर्भिक्षे शत्रुनिग्रहे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥६६॥
तत्र कपिलो नाम स्नातकोऽवदत् — ‘अरे कौण्डिन्य! मूढोऽसि येनैवविलपसि। शृणु —
क्रोडीकरोति प्रथमं यथा जातमनित्यता।
धात्रीव जननी पश्चात्तथा शोकस्य कः क्रमः॥६७॥
क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः।
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति॥६८॥
प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
आमकुम्भ इवाम्भःस्थो विशीर्णः सम्विभाव्यते॥६९॥
आसन्नतरतामेति मृत्युर्जन्तोर्दिनेदिने।
आघातं नीयमानस्य वध्यस्येव पदेपदे॥७०॥
यतः —
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः।
ऐश्वर्यं प्रियसंवासो मुह्येत्तत्र न पण्डितः॥७१॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥७२॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेतद्वद्भूतसमागमः॥७३॥
अन्यच्च —
पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना॥७४॥
यावतः कुरुते जन्तुः संबन्धान्मनसः प्रियान्।
तावन्तोऽपि निखन्यन्ते हृदये शोकशंकवः॥७५॥
नायमत्यन्तसंवासो लभ्यते येन केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित्॥७६॥
अपि च —
संयोगो हि वियोगस्य संसूचयति संभवम्।
अनतिक्रमणीयस्य जन्म मृत्योरिवागमम्॥७७॥
आपातरमणीयानां संयोगानां प्रियैः सह।
अपथ्यानामिवान्नानां परिणामोऽतिदारुणः॥७८॥
अपरं च —
व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा।
आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा॥७९॥
सुखास्वादपरो यस्तु संसारेऽसत्समागमः।
स वियोगावसानत्वाद्दुखानां धुरि युज्यते ॥ ८० ॥
अत एव हि नेच्छन्ति साधवः सत्समागमम्।
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम्॥८१॥
सुकृतान्यपि कर्माणि राजभिः सगरादिभिः।
अथ तान्येव कर्माणि ते चापि प्रलयं गताः॥८२॥
संचिन्त्यसंचिन्त्य तमुग्रदण्डं
मृत्युं मनुष्यस्य विचक्षणस्य।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति॥८३॥
यामेव रात्रिं प्रथमामुपैति
गर्भे निवासं नरवीरलोकः।
ततःप्रभृत्यस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपमेति॥८४॥
अतः ससारं विचारय। शोकोऽयमज्ञानस्य प्रपञ्च। पश्य —
अज्ञानं कारणं न स्याद्वियोगो यदि कारणम्।
शोको दिनेषु गच्छत्सु वर्धतामपयाति किम्॥८५॥
तद्भद्रात्मानमनुसन्धेहि। शोकचर्चा परिहर। यतः —
अकाण्डपातजातानां गात्राणां मर्मभेदिनाम्।
गाढशोकप्रहाराणामचिन्तैव महौषधम्॥८६॥’
ततस्तद्वचनं निशम्य प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् — ‘तदलमिदानींगृहनरकवासेन। वनमेव गच्छामि।’ कपिलःपुनराह —
‘वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तेरागस्य गृहं तपोवनम्॥८७॥
यतः—
दुःखितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्॥८८॥
उक्तं च —
वृत्त्यर्थं भोजनं येषां सन्तानार्थं च मैथुनम्।
वाक्सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते॥८९॥
तथा हि —
आत्मा नदी संयमपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः।
तत्राभिषेकं कुरु पाण्डुपुत्र
न वारिणा शुद्धयति चान्तरात्मा॥९०॥
विशेषतश्च —
जन्ममृत्युजराव्याधिवेदनाभिरुपदुतम्।
संसारमिममुत्पन्नमसारं त्यजतः सुखम्॥९१॥
यतः —
दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते॥९२॥ '
कौण्डिन्यो ब्रूते — ’ एवमेव। ततोऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तः — यदद्यारभ्य मण्डूकानां वाहनं
भविष्यसि’ इति। कपिलो ब्रूते — ‘सम्प्रत्युपदेशासहिष्णुर्भवान्। शोकाविष्टं ते हृदयम्। तथापि कार्यं शृणु —
सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम्॥९३॥
अन्यच्च —
कामः सर्वात्मना हेयः स चेध्दातुं न शक्यते।
स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम्॥९४॥’
एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान्। अतोऽहं ब्राह्मणशापान्मण्डूकान्वोढुमत्र तिष्ठामि।’ अनन्तरं तेनमण्डूके नगत्वा मण्डूकनाथस्य जालपादनाम्नोऽग्रे तत्कथितम्। ततोऽसावागत्यमण्डूकनाथस्तस्य सर्पस्य पृष्ठमारूढवान्। स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम। ततो परेद्युश्चलितुमसमर्थः तं मण्डूकनाथोऽवदत् — ‘किमद्य भवान्मन्दगतिः।’ सर्पो ब्रूते — ‘देव! आहारविरहादसमर्थोऽस्मि।’ मण्डूकनाथोऽवदत् — ‘अस्मदाज्ञया मण्डूकान्भक्षय’। ततः ‘गृहीतोऽयं महाप्रसादः’ इत्युक्त्वा क्रमशो मण्डूकान्खादितवान्। अतो निर्मण्डूकः सरो विलोक्यमण्डूकनाथोऽपि तेन खादितः। अतोऽहं ब्रवीमि — ’ स्कन्धेनापि वहेच्छत्रून्’ इत्यादि ॥
देव! यात्विदानीं पुरावृत्ताख्यानकथनम्। सर्वथा संधेयोऽयं हिरण्यगर्भो राजासन्धीयतामिति मे मति। राजोवाच — ‘कोऽयं भवतो विचारः। यतो जितस्तावदयमस्माभिस्ततो यद्यस्मदाज्ञया सेवाया वसति तदास्तां नो चेद्विगृह्यताम्।अत्रान्तरे जम्बूद्वीपादागत्य शुकेनोक्तम् — ‘देव! सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपमाक्रम्यावतिष्ठते।’ राजा ससभ्रम ब्रूते — ‘किं किम्? शुकः पूर्वोक्तं कथयति। गृध्रः स्वगतमुवाच ‘साधु रे चक्रवाक मन्त्रिन् सर्वज्ञः साधुसाधु! ’ राजा सकोपमाह — ‘आस्तां तावदयम्। गत्वा तत्रैव समूलमुन्मूलयामि ‘दूरदर्शी विहस्याह —
‘न शरन्मेघवत्कार्यं वृथैव घनगर्जितम्।
परस्यार्थमनर्थं वा प्रकाशयति नो महान्॥९५॥
अपरं च —
एकदा न विगृह्णीयाद्बहून्राजाभिघातिनः।
सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवम्॥९६॥
देव! किमिति विना सधानं गमनमस्ति। यतस्तदास्मत्पश्चात्प्रकोपोऽनेन कर्तव्यः। अपरं च —
योऽर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद्यथा॥९७॥
राजाह — ‘कथमेतत्!’ दूरदर्शी कथयति—
तदेव ‘यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम्।’ तथानुष्ठिते सति स गृध्रो मन्त्री दुर्गद्वाराच्चक्रवाकेणोपगम्य सत्कृत्यानीय राजदर्शनकारितो दत्तासने चोपविष्टः। चक्रवाकः उवाच — ’ युष्मदायत्त सर्वम्। स्वेच्छयोपभुज्यतामिदं राज्यम्।’ राजहंसो ब्रूते — ‘एवमेव।’ दूरदर्शी कथयति’ एवमेवैतत्। किं त्विदानीं बहुप्रपञ्चवचनं निष्प्रयोजनम्। यतः —
लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा।
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम्॥१०८॥
अन्यच्च —
सद्भावेन हरेन्मित्रं सम्भ्रमेण तु बान्धवान्।
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतराञ्जनान्॥१०९॥
तदिदानीं संधाय गम्यताम्। महाप्रतापचित्रवर्णो राजा’ चक्रवाको ब्रूते — ‘यथा सधान कार्यं तदप्युच्यताम्।’ राजहंसो ब्रूते — ‘कांत प्रकाराःसधीना सभवन्ति ।’ गृध्रो ब्रूते — ‘कथयामि श्रूयताम् —
बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः।
आपन्नः संधिमन्विच्छेत्कुर्वाणः कालयापनम्॥११०॥
कपाल उपहारश्च सन्तानः सङ्गमस्तथा।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः॥१११॥
अदृष्टनर आदिष्ट आत्मादिष्ट उपग्रहः।
परिक्रयस्तथोच्छन्नस्तथा च परिभूषणः॥११२॥
स्कन्धोपनेयः सन्धिश्च षोडशैते प्रकीर्तिताः।
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः॥११३॥
कपालसन्धिर्विज्ञेयः केवलं समसन्धितः।
सम्प्रदानाद्भवति य उपहारः स उच्यते॥११४॥
सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः।
सद्भिस्तु सङ्गतः सन्धिमैत्रीपूर्व उदाहृतः॥११५॥
यावदायुष्प्रमाणस्तु समानार्थप्रयोजनः।
सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते॥११६॥
सङ्गतः सन्धिरेवायं प्रकृष्टत्वात्सुवर्णवत्।
तथान्यैः सन्धिकुशलैः काञ्चनः स उदाहृतः॥११७॥
आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः।
स उपन्यासकुशलैरुपन्यास उदाहृतः॥११८॥
मयास्योपकृतं पूर्वं ममाप्येष करिष्यति।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते॥११९॥
उपकारं करोम्यस्य ममाप्येष करिष्यति।
अयं चापि प्रतीकारो रामसुग्रीवयोरिव॥१२०॥
एकार्थीं सम्यगुद्दिश्य क्रियां यत्र हि गच्छति।
सुसंहितप्रमाणस्तु स च संयोग उच्यते॥१२१॥
आवयोर्योधमुख्यैस्तु मदर्थः साध्यतामिति।
यस्मिन्पणस्तु क्रियते स सन्धिः पुरुषान्तरः॥१२२॥
त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति।
यत्र शत्रुः पणं कुर्यात्सोऽदृष्टपुरुषः स्मृतः॥१२३॥
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः।
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः॥१२४॥
स्वसैन्येन तु संधानमात्मादिष्ट उदाहृतः।
क्रियते प्राणरक्षार्थं सर्वदानानुपग्रहः॥१२५॥
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः॥१२६॥
भुवां सारवतीनां तु दानादुच्छिन्न उच्यते।
भूम्युत्थफलदानेन सर्वेण परभूषणः॥१२७॥
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते।
स्कन्धोपनेयं तं प्राहुः सन्धि संधिविचक्षणाः॥१२८॥
परस्परोपकारस्तु मैत्री सम्बन्धतस्तथा।
उपहारश्च विज्ञेयाश्चत्वारश्चैव संघयः॥१२९॥
एक एवोपहारस्तु संधिरेव मतो मम।
उपहारविभेदास्तु सर्वे मैत्रविवर्जिताः॥१३०॥
अभियोगी बलीयस्त्वादलब्धा न निवर्तते।
उपहारं विना तस्मात्संधिरन्यो न विद्यते॥१३१॥’
राजाह — ‘भवन्तो महान्तः पण्डिताश्च। तदास्माकं यथाकार्यमुपदिश्यताम्।‘दूरदर्शी ब्रूते — ‘आः। किमेवमुच्यते —
आधिव्याधिपरीतापादद्य श्वो वा विनाशिने।
को हि नाम शरीराय धर्मापेतं समाचरेत्॥१३२॥
जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम्।
तथाविधमिति ज्ञात्वा शश्वत्कल्याणमाचरेत्॥१३३॥
वाताभ्रविभ्रममिदं वसुधाधिपत्यं
आपातमात्रमधुरो विषयोपभोगः।
प्राणास्तृणाग्रजलबिन्दुसमा नराणां
धर्मः सखा परमहो परलोकयाने॥१३४॥
मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम्।
सज्जनैः संगतं कुर्याद्धर्माय च सुखाय च॥१३५॥
तन्मम समतेन तदेव क्रियताम्। यतः —
अश्वमेधसहस्राणि सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते॥१३६॥
अतः सत्याभिधानदिव्यपुर सरयोरग्यनयोर्भूपालयोःकाञ्चनाभिधानसंधिर्विधीयताम्।’ सर्वज्ञो ब्रूते — ‘एवमस्तु।’ ततो राजहंसेन राज्ञा वस्त्रालंकारोपहारैःस मन्त्री दूरदर्शी पूजितः। प्रहृष्टमनाश्चक्रवाकंगृहीत्वा राज्ञो मयूरस्य संनिधानगतः। तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद्बहुमानदानपुरःसरः सभाषितस्तथाविधं स्वीकृत्य राजहंससमीपं प्रस्थापितः। दूरदर्शी ब्रूते — ‘देव! सिद्धं नः समीहतम्। इदानीं स्वस्थानमेव विंध्याचलं व्यावृत्य प्रतिगम्यताम्। अथ सर्वे स्वस्थानप्य मनोऽभिलषितं फलं प्राप्नुवन्तु। इति ॥
विष्णुशर्मणोक्तम् — अपरं किं कथयामि? कथ्यताम्। राजपुत्राः ऊचुः ‘आर्य !तव प्रसादाद्राज्यव्यवहाराङ्गं ज्ञातम्। ततः सुखिनो वयम्। विष्णुशर्मोवाच — यद्यप्येवम्। तथाप्यपरमपीदमस्तु —
संधिः सर्वमहीभुजां विजयिनामस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम्।
नीतिर्वारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्रंचुम्बतु मन्त्रिणामहरहर्भूयान्महानुत्सवः॥१३७॥’
इति विष्णुशर्मविरचिते हितोपदेशे सन्धिश्चतुर्थः॥४॥
समाप्तोऽयं हितोपदेशः॥
<MISSING_FIG href=”../books_images/U-IMG-1722002320Line.png”/>
<MISSING_FIG href="../books_images/U-IMG-1722002372Flower.png"/>
पुस्तक मिलने का ठिकाना —
गङ्गाविष्णु श्रीकृष्णदास,
खेमराज श्रीकृष्णदास,
“लक्ष्मीवेंकटेश्वर” स्टीम् प्रेस,
“श्रीवेंकटेश्वर” स्टीम् प्रेस,
कल्याण - बंबई.
खेतवाडी - बंबई
]