०४-१२ ब्राह्मणनकुलकथा

यो ऽर्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः ।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥ हित्_४।१०० ॥

अस्त्य् उज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वण-श्राद्धं दातुम् आह्वानम् आगतम् । तच् छ्रुत्वा ब्राह्मणो ऽपि सहज-दारिद्र्याद् अचिन्तयत्-यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः-

आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥ हित्_४।१०१ ॥

किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि ? यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस् तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश् च । ततो ऽसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर् लुलोठ । ततः स विप्रस् तथा-विधं दृष्ट्वा मम बालको ऽनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति । ततस् तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत् ।