०४-११ मन्दविषसर्पकथा

स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् ।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ हित्_४।६६ ॥

अस्ति जीर्णोद्याने मन्द-विषो नाम सर्पः । सो ऽतिजीर्णतया स्वाहारम् अप्य् अन्वेष्टुम् अक्षमः सरस्-तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन् मण्डूकेन दृष्टः, पृष्टश् च-किम् इति त्वाम् आहारं नान्विष्यति ?

सर्पो ऽवदत्-गच्छ भद्र ! किं ते मम मन्द-भाग्यस्य वृत्तान्त-प्रश्नेन ? ततः सञ्जात-कौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पो ऽप्य् आह-भद्र ! पुर-वासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशति-वर्ष-देशीयः सर्व-गुण-सम्पन्नो दुर्दैवान् मया नृशंसेन दष्टः । ततस् तं सुशील-नामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुर-वासिनः सर्वे बान्धवास् तत्रागत्योपविष्टाः । तथा चोक्तम्-

उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्र-विप्लवे ।
राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ हित्_४।६७ ॥

तत्र कपिलो नाम स्नातको ऽवदत्-अरे कौण्डिन्य ! मूढो ऽसि येनैवं विलपसि । शृणु-

क्रोडीकरोति प्रथमं यदा जातम् अनित्यता ।
धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥ हित्_४।६८ ॥

तथा च-

क्व गताः पृथिवी-पालाः स-सैन्य-बल-वाहनाः ।
वियोग-साक्षिणी येषां भूमिर् अद्यापि तिष्ठति ॥ हित्_४।६९ ॥

तथा च-

जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ।
अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ हित्_४।७० ॥+++(सम्पादकटिप्पनी- पुस्तके इदं पद्यं नास्ति ।)+++

अपरं च-

कायः सन्निहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ हित्_४।७१ ॥

प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते ।
आमकुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाष्यते ॥ हित्_४।७२ ॥

आसन्नतरतामेति मृत्युर् जन्तोर् दिने दिने ।
आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ हित्_४।७३ ॥

यतः-

अनित्यं यौवनं रूपं जीवितं द्रव्य-सञ्चयः ।
ऐश्वर्यं प्रिय-संवासो मुह्येत् तत्र न पण्डितः ॥ हित्_४।७४ ॥

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद् भूत-समागमः ॥ हित्_४।७५ ॥

यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति ।
विश्रम्य च पुनर् गच्छेद् तद्वद् भूत-समागमः ॥ हित्_४।७६ ॥

अन्यच् च-

पञ्चभिर् निर्मिते देहे पञ्चत्वं च पुनर् गते ।
स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥ हित्_४।७७ ॥

यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् ।
तावन्तो ऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ हित्_४।७८ ॥

नायम् अत्यन्त-संवासो लभ्यते येन केनचित् ।
अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥ हित्_४।७९ ॥

अपि च-

संयोगो हि वियोगस्य संसूचयति सम्भवम् ।
अनतिक्रमणीयस्य जन्म मृत्योर् इवागमम् ॥ हित्_४।८० ॥

आपात-रमणीयानां संयोगानां प्रियैः सह ।
अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥ हित्_४।८१ ॥

अपरं च-

व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा ।
आयुर् आदाय मर्त्यानां तथा रात्र्य्-अहनी सदा ॥ हित्_४।८२ ॥

सुखास्वाद-परो यस् तु संसारे सत्-समागमः ।
स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥ हित्_४।८३ ॥

अत एव हि नेच्छन्ति साधवः सत्-समागमम् ।
यद्-वियोगासि-लूनस्य मनसो नास्ति भेषजम् ॥ हित्_४।८४ ॥

सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः ।
अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥ हित्_४।८५ ॥

सञ्चिन्त्य सञ्चिन्त्य तम् उग्र-दण्डं
मृत्युं मनुष्यस्य विचक्षणस्य ।
वर्षाम्बु-सिक्ता इव चर्म-बन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ हित्_४।८६ ॥

याम् एव रात्रिं प्रथमाम् उपैति
गर्भे निवासं नरवीर लोकः ।
ततः प्रभृत्य् अस्खलित-प्रयाणः
स प्रत्यहं मृत्यु-समीपम् एति ॥ हित्_४।८७ ॥

अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् ।
शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥ हित्_४।८८ ॥

तद् भद्र ! तद् आत्मानम् अनुसन्धेहि । शोक-चर्चां च परिहर, यतः-

अकाण्ड-पात-जातानाम् अस्त्राणां मर्म-भेदिनाम् ।
गाढ-शोक-प्रहाराणाम् अचिन्तैव महौषधम् ॥ हित्_४।८९ ॥

ततस् तद्-वचनं निशम्य, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । तद् अलम् इदानीं गृह-नरक-वासेन वनम् एव गच्छामि । कपिलः पुनर् आह-

वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रिय-निग्रहस् तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते
त्रिवृत्त-रागस्य गृहं तपोवनम् ॥ हित्_४।९० ॥

यतः-

दुःखितो ऽपि चरेद् धर्मं यत्र कुत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्म-कारणम् ॥ हित्_४।९१ ॥

उक्तं च-

वृत्त्य्-अर्थं भोजनं येषां सन्तानार्थं च मैथुनम् ।
वाक् सत्य-वचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥ हित्_४।९२ ॥

तथा हि-

आत्मा नदी संयम् अपुण्य-तीर्था
सत्योदका शील-तटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डु-पुत्र !
न वारिणा शुष्यति चान्तरात्मा ॥ हित्_४।९३ ॥

विशेषतश् च-

जन्म-मृत्यु-जरा-व्याधि-वेदनाभिर् उपद्रुतम् ।
संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥ हित्_४।९४ ॥

यतः-

दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते ।
दुःखार्तस्य प्रतीकारे सुख-सञ्ज्ञा विधीयते ॥ हित्_४।९५ ॥

कौण्डिन्यो ब्रूते-एवम् एव । ततो ऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति ।

कपिलो ब्रूते-सम्प्रत्य् उपदेशासहिष्णुर् भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु-

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ हित्_४।९६ ॥

अन्यच् च-

कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते ।
स्व-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ हित्_४।९७ ॥

एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृत-प्रशान्त-शोकानलो यथाविधि दण्ड-ग्रहणं कृतवान् । अतो ब्राह्मण-शापान् मण्डूकान् वोढुम् अत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूक-नाथस्य जालपाद-नाम्नो ऽग्रे तत् कथितम् । ततो ऽसाव् आगत्य मण्डूक-नाथस् तस्य सर्पस्य पृष्ठम् आरूढवान् । स च सर्पस् तं पृष्ठे कृत्वा चित्रपद-क्रमं बभ्राम ।

परेद्युश् चलितुम् असमर्थं तं मण्डूक-नाथम् अवदत्-किम् अद्य भवान् मन्द-गतिः ?

सर्पो ब्रूते-देव ! आहार-विरहाद् असमर्थो ऽस्मि ।

मण्डूक-नाथो ऽवदत्-अस्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतो ऽयं महा-प्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूक-नाथो ऽपि तेन खादितः ।