०४-१० मदोत्कटसिंहकथा

मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः ।
ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत् ॥ हित्_४।५९ ॥

अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास् त्रयः काको व्याघ्रो जम्बुकश् च । अथ तैर् भ्रमद्भिः सार्थ-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश् च-कुतो भवान् आगतः सार्थाद् भ्रष्टः ?

स चात्म-वृत्तान्तम् अकथयत् । ततस् तैर् नीत्वा सिंहायासौ समर्पितः । तेन चाभय-वाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः ।

अथ कदाचित् सिंहस्य शरीर-वैकल्याद् भूरि-वृष्टि-कारणाच् चाहारम् अलभमानास् ते व्यग्रा बभूवुः । ततस् तैर् आलोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कण्टक-भुजास्माकम् ?

व्याघ्र उवाच-स्वामिनाभय-वाचं दत्त्वानुगृहीतो ऽयं, तत् कथम् एवं सम्भवति ?

काको ब्रूते-इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । यतः-

त्यजेत् क्षुधार्ता महिला स्वपुत्रं
खादेत् क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ॥ हित्_४।६० ॥

अन्यच् च-

मत्तः प्रमत्तश् चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
लुब्धो भीरुस् त्वरा-युक्तः कामुकश् च न धर्म-वित् ॥ हित्_४।६१ ॥

इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तम्-आहारार्थं किञ्चित् प्राप्तम् ?

तैर् उक्तम्-देव ! यत्नाद् अपि प्राप्तं किञ्चित् ?

सिंहेनोक्तं-को ऽधुना जीवनोपायः ?

काको वदति-देव ! स्वाधीनाहार-परित्यागात् सर्व-नाशो ऽयम् उपस्थितः ?

सिंहेनोक्तम्-अत्राहारः कः स्वाधीनः ?

काकः कर्णे कथयति-चित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच् च-अभय-वाचं दत्त्वा धृतो ऽयम् अस्माभिः । तत् कथम् एवं सम्भवति ? तथा हि-

न भूत-दानं न सुवर्ण-दानं
न गो-प्रदानं न तथान्न-दानम् ।
यथा वदन्तीह महा-प्रदानं
सर्वेषु दानेष्व् अभय-प्रदानम् ॥ हित्_४।६२ ॥

अन्यच् च-

सर्व-काम-समृद्धस्य अश्वमेधस्य यत् फलम् ।
तत्-फलं लभते सम्यग् रक्षिते शरणागते ॥ हित्_४।६३ ॥

काको ब्रूते-नासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिर् एव तथा कर्तव्यं, यथासौ स्व-देह-दानम् अङ्गीकरोति ।

सिंहस् तच् छ्रुत्वा तूष्णीं स्थितः । ततो ऽसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तं-देव ! यत्नाद् अप्य् आहारो न प्राप्तः । अनेकोपवास-क्लिष्टश् च स्वामी । तद् इदानीं मदीय-मांसम् उपभुज्यताम् । यतः-

स्वामि-मूला भवन्त्य् एव सर्वाः प्रकृतयः खलु ।
समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ हित्_४।६४ ॥

सिंहेनोक्तं-भद्र ! वरं प्राण-परित्यागो, न पुनर् ईदृशे कर्मणि प्रवृत्तिः ।

जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तं-मैवम् ।

अथ व्याघ्रेणोक्तं-मद्-देहेन जीवतु स्वामी ।

सिंहेनोक्तं-न कदाचिद् एवम् उचितम् ।

अथ चित्रकर्णो ऽपि जात-विश्वासस् तथैवात्म-देह-दानम् आह-ततस् तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर् भक्षितश् च ।