आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम् ।
स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा ॥ हित्_४।५८ ॥
अस्ति गौतमस्यारण्ये प्रस्तुत-यज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्त-त्रयेणावलोकितः । ततस् ते धूर्ताः-यद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मति-प्रकर्षो भवतीति समालोच्य, वृक्ष-त्रय-तले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः ।
तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणो ऽभिहितः-भो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते ।
विप्रेणोक्तं-नायं श्वा, किन्तु यज्ञ-च्छागः ।
अथान्तर-स्थितेनान्येन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश् छागं भूमौ निधाय मुहुर् निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमान-मतिश् चलितः । यतः-
मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः ।
ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत् ॥ हित्_४।५९ ॥
राजाह–कथम् एतत् ?
स कथयति-
अतो ऽहं ब्रवीमि-मतिर् दोलायते सत्यम् इत्य् आदि ।
ततस् तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश् च तैर् धूर्तैर् नीत्वा भक्षितः ।