सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि ।
नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥ हित्_४।२४ ॥
पुरा दैत्यौ सहोदरौ सुन्दोपसुन्द-नामानौ महता काय-क्लेशेन त्रैलोक्य-राज्य-कामनया चिराच् चन्द्र-शेखरम् आराधितवन्तौ । ततस् तयोर् भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अन्यद् वक्तु-कामाव् अन्यद्-अभिहितवन्तौ-यद्य् आवयोर् भवान् परितुष्टस् तदा स्व-प्रियां पार्वतीं परमेश्वरो ददातु ।
अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचार-मूढयोः पार्वती प्रदत्ता । ततस् तस्या रूप-लावण्य-लुब्धाभ्यां, जगद्-घातिभ्यां मससोत्सुकाभ्यां, पाप-तिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाण-पुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्ध-द्विज-रूपः समागत्य तत्रोपस्थितः । अनन्तरं-आवाभ्याम् इयं स्व-बल-लब्धा, कस्येयम् आवयोर् भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते-
ज्ञान-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि ।
धन-धान्याधिको वैश्यः शूद्रस् तु द्विज-सेवया ॥ हित्_४।२६ ॥
तद् युवां क्षात्र-धर्मानुगौ । युद्द एव युवयोर् नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्य-तुल्य-वीर्यौ, सम-कालम् अन्योन्य-घातेन विनाशम् उपागतौ ।