०४-०७ भग्नभाण्डो द्विजः

अनागतवतीं चिन्तां कृत्वा यस् तु प्रहृष्यति ।
स तिरस्कारम् आप्नोति भग्न-भाण्डो द्विजो यथा ॥ हित्_४।२० ॥

अस्ति देवी-कोट-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्-सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस् तम् आदायासौ कुम्भकारस्य भाण्डपूर्ण-मण्डपैक-देशे रौद्रेणाकुलितः सुप्तः । ततः सक्तु-रक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्-अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर् घटशरावादिकम् उपक्रीयानेकधा वृद्धैस् तद्-धनैः पुनः पुनः पूर्ग-वस्त्रादिम् उपक्रीय, विक्रीय लक्ष-सङ्ख्यानि धनानि कृत्वा, विवाह-चतुष्टयं करिष्यामि । अनन्तरं तासु स्व-पत्नीषु या रूप-यौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलो ऽहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश् चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस् तेन शब्देनागतेन कुम्भकारेण तथा-विधानि भाण्डान्य् अवलोक्य, ब्राह्मणस् तिरस्कृतो मण्डपाद् बहिष्कृतश् च ।