भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ॥ हित्_४।१६ ॥
अस्ति मालव-विषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश् च-किम् इति भवान् अत्राहार-त्यागेन तिष्ठति ?
बकेनोक्तम्-मत्स्या मम जीवन-हेतवः । ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन् मरणम् उपस्थितम् इति ज्ञात्वाहारेऽप्य् अनादरः कृतः । ततो मत्स्यैर् आलोचितम्-इह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम् । तथा चोक्तम्-
उपकर्त्रारिणा सन्धिर् न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥ हित्_४।१७ ॥
मत्स्या ऊचुः-भो बक ! को ऽत्र अस्माकं रक्षनोपायः ?
बको ब्रूते-अस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि ।
मत्स्या आहुः-एवम् अस्तु । ततो ऽसौ दुष्ट-बकस् तान् मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस् तम् उवाच-भो बक ! माम् अपि तत्र नय । ततो बको ऽप्य् अपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरो ऽपि मस्त्य-कण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्-हा हतो ऽस्मि मन्द-भाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः-
तावद् भयेन भेतव्यं यावद् भयम् अनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥ हित्_४।१८ ॥
किं च-
अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः ।
युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ हित्_४।१९ ॥
इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः ।