उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् ।
पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥ हित्_४।११ ॥
अस्त्य् उत्तरा-पथे गृध्रकूट-नाम्नि पर्वते महान् पिप्पल-वृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस् तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्ध-बकेनाभिहितं-भो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुल-विवराद् आरभ्य सर्प-विवरं यावत्-पङ्क्ति-क्रमेण एकैकशो विकिरत । ततस् तद्-आहार-लुब्धैर् नकुलैर् आगत्य सर्पो द्रष्टव्यः । स्वभाव-द्वेषाद् व्यापदयितव्यश् च । तथानुष्ठिते सति तद् वृत्तम् ।
अथ नकुलैर् वृक्षोपरि बक-शावकानां रावः श्रुतः । पश्चात् तद्-वृक्षम् आरुह्य बक-शावकाः खादिताः ।