उत्पन्नाम् आपदं यस् तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ हित्_४।७ ॥
पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । तस्य रत्नप्रभा नाम गृहिणी स्व-सेवकेन सह सदा रमते । यतः-
न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते ।
गावस् तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥ हित्_४।८ ॥
अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता । ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह-नाथ ! एतस्य सेवकस्य महती निकृतिः । यतो ऽयं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखम् आघ्राय ज्ञातम् । तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा ।
षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥ हित्_४।९ ॥
तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तं-नाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् ? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततो ऽसाव् उत्थाय चलितः । साधुना च यत्नात् प्रबोध्य धृतः ।