०४-०२ दूरदर्शीमत्स्यानां कथा

अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा ।
द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ॥ हित्_४।६ ॥

‘पुरास्मिन्न् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य-त्रयेणालोचितम् । तत्रानागत-विधाता नामैको मत्स्यः । तेनोक्तं-अहं तावज्-जलाशयान्तरं गच्छामि । इत्य् उक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमति-नाम्ना मस्त्येनाभिहितम्-भविष्यद्-अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् ? तद् उत्पन्ने यथा-कार्यं तद् अनुष्ठेयम् । तथा चोक्तम्-

उत्पन्नाम् आपदं यस् तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ हित्_४।७ ॥

यद्भविष्यः पृच्छति-कथम् एतत् ?

प्रत्युत्पन्नमतिः कथयति-

अतो ऽहं ब्रवीमि-उत्पन्नाम् आपदम् इत्य् आदि ।

ततो यद्भविष्येणोक्तम्-

यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ।
इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते ॥ हित्_४।१० ॥

ततः प्रातर् जालेन बद्धः प्रत्युत्पन्नमतिर् मृतवद् आत्मानं सन्दर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश् च धीवरैः प्राप्तो व्यापादितः ।