०४-०१ हंसकूर्मयोः कथा

सुहृदां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ ४॥
अन्यच् च- रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् ।
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ हित्_४।५ ॥

अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कट-विकट-नामानौ हंसौ निवसतः । तयोर् मित्रं कम्बुग्रीव-नामा कूर्मश् च प्रतिवसति । अथैकदा धीवरैर् आगत्य तथोक्तं यत्-अत्रास्माभिर् अद्योषित्वा प्रातर् मत्स्य-कूर्मादयो व्यापादयितव्याः ।

तद् आकर्ण्य कूर्मो हंसाव् आह-सुहृदौ ! श्रुतो ऽयं धीवरालापः । अधुना किं मया कर्तव्यम्?

हंसाव् आहतुः-ज्ञायतां तावत् । पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम् ।

कूर्मो ब्रूते-मैवम् । यतो दृष्ट-व्यतिकरो ऽहम् अत्र । यथा चोक्तम्-

अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा ।
द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ॥ हित्_४।६ ॥

ताव् ऊचतुः-कथम् एतत् ?

कूर्मः कथयति-

अतो ऽहं ब्रवीमि-अनागत-विधाता च इत्य् आदि ।

तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् ।‘हंसाव् आहतुः-जलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस् ते को विधिः ?

कूर्म आह-यथाहं भवद्भ्यां सहाकाश-वर्त्मना यामि, तथा विधीयताम् ।

हंसाव् ब्रूतः-कथम् उपायः सम्भवति ?

कच्छपो वदति-युवाभ्यां चञ्चु-धृतं काष्ठ-खण्डम् एकं मया मुखेनावलम्बितव्यम् । ततश् च युवयोः पक्ष-बलेन मयापि सुखेन गन्तव्यम् ।

हंसौ ब्रूतः-सम्भवत्य् एष उपायः । किन्तु-

उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् ।
पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥ हित्_४।११ ॥

कूर्मः पृच्छति–कथम् एतत् ?

तौ कथयतः-

अत आवां ब्रूवः-उपायं चिन्तयन् इत्य् आदि ।

आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किञ्चिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्-मरणम् । तत् सर्वथैव स्थीयताम् ।

कूर्मो वदति-किम् अहम् अप्राज्ञः ? नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथा-विधं कूर्मम् आलोक्य सर्वे गो-रक्षकाः पश्चाद् धावन्ति, वदन्ति च-अहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते ।

कश्चिद् वदति-यद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः ।

कश्चिद् वदति-सरसस् तीरे दग्ध्वा खादितव्यो ऽयम् ।

कश्चिद् वदति-गृहं नीत्वा भक्षणीयः । इति ।

तद्-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत-पूर्व-संस्कारः प्राह-युष्माभिर् भस्म भक्षितव्यम् इति वदन्न् एव पतितस् तैर् व्यापादितश् च ।