०३-०८ मूर्खनापितः

पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति ।
हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः ॥ हित्_३।१०७ ॥

अस्त्य् अयोध्यायां पुरि चूडामणिर् नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश् चन्द्रार्ध-चूडामणिश् चिरम् आराधितः । ततः क्षीण-पापो ऽसौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि । ततो ऽसौ भिक्षुकस् तत्-क्षणात् सुवर्ण-कलसो भविष्यति । तेन त्वया यावज्-जीवं सुखिना भवितव्यम् । ततस् तथानुष्ठिते तद् वृत्तम् ।

तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्-अये निधि-प्राप्तेर् अयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोर् आगमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर् लगुडेन व्यापादितः । तस्माद् अपराधात् सो ऽपि नापितो राज-पुरुषैर् व्यापादितः ।