०३-०७ वीरवरनामसेवककथा

आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः ।
सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः ॥ हित्_३।१०१ ॥

अहं पुरा शूद्रकस्य राज्ञः क्रीडा-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाच-अहं तावद् वर्तनार्थी राजपुत्रः । मां रज-दर्शनं कारय । ततस् तेनासौ राज-दर्शनं कारितो ब्रूते-देव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम् ।

शूद्रक उवाच-किं ते वर्तनम् ?

वीरवरो ब्रूते-प्रत्यहं सुवर्ण-पञ्च-शतानि देहि ।

राजाह-का ते सामग्री ?

वीरवरो ब्रूते-द्वौ बाहू । तृतीयश् च खड्गः ।

राजाह-नैतच् छक्यम् ।

तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिर् उक्तम्-देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तो ऽयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति ।

ततो मन्त्रि-वचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि । वर्तन-विनियोगश् च राज्ञा सुनिभृतं निरूपितः । तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्य-विलास-व्ययेन । एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति ।

अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रन्दन-ध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूते-कः को ऽत्र द्वारि तिष्ठति ?

तदा तेनोक्तं-देव ! अहं वीरवरः ।

राजोवाच-क्रन्दनानुसरणं क्रियताम् ।

वीरवरो ऽपि-यथाज्ञापयति देवः, इत्य् उक्त्वा चलितः ।

राज्ञा च चिन्तितम्-अयम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि ।

ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर् निर्जगाम । गत्वा च वीरवरेण रुदती रुप-यौवन-सम्पन्ना सर्वालङ्कार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च-का त्वम् ? किम् अर्थं रोदिषि ? इति ।

स्त्रियोक्तम्-अहम् एतस्य शूद्रकस्य राज-लक्ष्मीः । चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रान्ता । इदानीम् अन्यत्र गमिष्यामि ।

वीरवरो ब्रूते-यतापायः सम्भवति, तत्रोपायो ऽप्य् अस्ति । तत् कथं स्यात् पुनर् इहावासो भवत्याः ?

लक्ष्मीर् उवाच-यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मङ्गलाया उपहारीकरोषि, तदाहं पुनर् अत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् ।

ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश् च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस् तत् सर्वं लक्ष्मी-वचनम् उक्तवान् । तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूते-धन्यो ऽहम् एवम्भूतः । स्वामि-राज्य-रक्षार्थं यस्योपयोगः । तात ! तत् को ऽधुना विलम्बस्य हेतुः ? एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः-

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
तन्-निमित्तो वरं त्यागो विनाशे नियते सति ॥ हित्_३।१०२ ॥

शक्तिधर-मातोवाच-यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूते-देवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश् चिच्छेद । ततो वीरवरश् चिन्तयामास-गृहीत-राज-वर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश् चिच्छेद ।

ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास-

जायन्ते च म्रियन्ते च मद्-विधाः क्षुद्र-जन्तवः ।
अनेन सदृशो लोके न भूतो न भविष्यति ॥ हित्_३।१०३ ॥

तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्व-शिरश् छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्ष-भूतया राजा हस्ते धृतः । उक्तं च-पुत्र ! प्रसन्नो ऽस्मि ते, एतावता साहसेनालम् । जीवनान्तेऽपि तव राज-भङ्गो नास्ति ।
राजा च साष्टाङ्ग-पातं प्रणम्योवाच-देवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्य् अहम् अनुकम्पनीयस् तदा ममायुः-शेषेणाप्य् अयं स-दार-पुत्रो वीरवरो जीवतु । अन्यथाहं यथा-प्राप्तां गतिं गच्छामि ।

भगवत्य् उवाच-पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयम् अपि स-परिवारो राज-पुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः । राजापि तैर् अलक्षितः सत्वरम् अन्तः-पुरं प्रविष्टः ।

अथ प्रभाते वीरवरो द्वारस्थः पुनर् भूपालेन पृष्टः सन्न् आह-देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्य् अन्या वार्ता विद्यते ।

तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास-कथम् अयं श्लाघ्यो महा-सत्त्वः ? यतः-

प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः ।
दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः ॥ हित्_३।१०४ ॥

एतन् महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति । ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ ।