०३-०६ नीलवर्णशृगालकथा

आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः ।
स परैर् हन्यते मूढो नील-वर्ण-शृगालवत् ॥ हित्_३।५९ ॥

अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः । पश्चात् तत उत्थातुम् असमर्थः, प्रातर् आत्मानं मृतवत् सन्दर्श्य स्थितः । अथ नीली-भाण्ड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः ।

ततो ऽसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्-अहम् इदानीम् उत्तम-वर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तं-अहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तद् अद्यारभ्यास्मद्-आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः ।

शृगालाश् च तं विशिष्ट-वर्णम् अवलोक्य, साष्टाङ्ग-पातं प्रणम्योचुः-यथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव । ततस् तेन स्वज्ञातिभिर् आवृतेनाधिक्यं साधितम् । ततस् तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्ध-शृगालेनैतत् प्रतिज्ञातं-मा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्व-समीपात् परिभूतास् तद् यथायं नश्यति तथा विधेयम् । यतो ऽमी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवम् अनुष्ठेयम्, यथा वदामि-सर्वे सन्ध्या-समये तत्-सन्निधाने महारावम् एकदैव करिष्यथ । ततस् तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः । यतः-

यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः ।
श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ॥ हित्_३।६० ॥

ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस् तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्-

छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः ।
दहत्य् अन्तर्गतश् चैव शुष्कं वृक्षम् इवानलः ॥ हित्_३।६१ ॥