प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथ-कारो निजां भार्यां सजारां शिरसाकरोत् ॥ हित्_३।२५ ॥
अस्ति यौवन-श्री-नगरे मन्द-मतिर् नाम रथकारः । स च स्व-भार्यां बन्धकीं जानाति । किन्तु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति । ततो ऽसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनर् आगत्य पर्यङ्क-तले स्व-गृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्य् उपजात-विश्वासः स जारः सन्ध्या-काल एवागतः । पxचात् तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्क-तल-स्थितस्य भर्तुः किञ्चिद् अङ्ग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् ।
ततो जारेणोक्तम्-किम् इति त्वम् अद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् ।
अथ तयोक्तम्-अनभिज्ञो ऽसि । यो ऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सो ऽद्य ग्रामान्तरं गतः । तेन विना सकल-जन-पूर्णो ऽपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि ? तत्र पर-स्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्य् अस्मद्-धृदयं विदीर्यते ।
जारो ब्रूते-तव किम् एवंविधा स्नेह-भूमी रथकारः ?
बन्धक्य् अवदत्-रे बर्बर ! किं वदसि ? शृणु-
परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा ।
सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम् ॥ हित्_३।२६ ॥
अपरं च-
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ हित्_३।२७ ॥
अन्यच् च-
भर्ता हि परमं नार्या भूषणं भूषणैर् विना ।
एषा विरहिता तेन शोभनापि न शोभते ॥ हित्_३।२८ ॥
त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-ताम्बूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च । स च पुनर् मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः-
तिस्रः कोट्यो ऽर्ध-कोटी च यानि लोमानि मानवे ।
तावत् कालं वसेत् स्वर्गे भर्तारं यो ऽनुगच्छति ॥ हित्_३।२९ ॥
अन्यच् च-
व्याल-ग्राही यथा व्यालं बलाद् उद्धरते बिलात् ।
तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते ॥ हित्_३।३० ॥
अपरं च-
चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहम् आत्मनः । कृत्वापि पापं शत-लक्षम् अप्य् असौ पतिं गृहीत्वा सुर-लोकम् आप्नुयात् ॥ हित्_३।३१ ॥
यतः-
यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ हित्_३।३२ ॥
एतत् सर्वं श्रुत्वा मन्द-मतिः स रथकारः-धन्यो ऽहं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानन्दं ननर्त ।