एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्रा-प्रसङ्गेन सर्वे पक्षिणः समुद्र-तीरं गताः । ततः काकेन सह वर्तकश् चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधि-भाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ । ततस् तेन दृष्टः काकः पलायितः । वर्तकः स्वभाव-निरपराधो मन्द-गतिस् तेन प्राप्तो व्यापादितः ।