न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।
काक-सङ्गाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः ॥ हित्_३।२३ ॥
अस्त्य् उज्जयिनी-वर्त्म-प्रान्तरे प्लक्ष-तरुः । तत्र हंस-काकौ निवसतः । कदाचित् ग्रीष्म-समये परिश्रान्तः कश्चित् पथिकस् तत्र तरु-तले धनुष्काण्डं सन्निधाय सुप्तः । तत्र क्षणान्तरे तन्-मुखाद् वृक्ष-च्छायापगता । ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस् तन्-मुखे छाया कृता । ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रान्तेन पान्थेन मुख-व्यादानं कृतम् ।
अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जन्येन स काकस् तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः ।