व्यपदेशेऽपि सिद्धिः स्याद् अतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखम् आसते ॥ हित्_३।१४ ॥
कदाचिद् वर्षास्व् अपि वृष्टेर् अभावात् तृषार्तो गज-यूथो यूथपतिम् आह-नाथ ! को ऽभ्युपायो ऽस्माकं जीवनाय ? नास्ति क्षुद्र-जन्तूनां अपि निमज्जन-स्थानम् । वयं च निमज्जन-स्थानाभावान् मृताः । अन्धा इव किं कुर्मः ? क्व यामः ?
ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश् चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश् चिन्तयामास-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् । ततो विनष्टम् अस्मत्-कुलम् ।
ततो विजयो नाम वृद्ध-शशको ऽवदत्-मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततो ऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्-कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम् । यतः-
स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः ।
पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः ॥ हित्_३।१५ ॥
अतो ऽहं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच-कस् त्वम् ? कुतः समायातः ?
स ब्रूते-शशको ऽहम् । भगवता चन्द्रेण भवद्-अन्तिकं प्रेषितः ।
यूथपतिर् आह-कार्यम् उच्यताम् ।
विजयो ब्रूते-
उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ।
सदैवावध्य-भावेन यथार्थस्य हि वाचकः ॥ हित्_३।१६ ॥
तद् अहं तद्-आज्ञया ब्रवीमि, शृणु । यद् एते चन्द्रसरो-रक्षकाः शशकास् त्वया निःसारितास् तद् अनुचितं कृतम् । ते शशकाश् चिरम् अस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः ।
एवम् उक्तवति दूते यूथपतिर् भयाद् इदम् आह-प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर् न तत्र गमिष्यामि ।
दूत उवाच-यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ ।
ततस् तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्र-बिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन-देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः ।