०३-०२ मूर्खगर्दभः

सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् ।
द्वीपि-चर्म-परिच्छन्नो वाग्-दोषाद् गर्दभो हतः ॥ हित्_३।९ ॥

अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभो ऽतिभार-वहनाद् दुर्बलो मुमूर्षुर् इवाभवत् । ततस् तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्र-बुद्ध्या क्षेत्र-पतयः सत्वरं पलायन्ते ।

अथैकदा केनापि सस्य-रक्षकेण धूसर-कम्बल-कृत-तनु-त्राणेन धनुष्काण्डं सज्जीकृत्यानत-कायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभो ऽयम् इति मत्वोच्चैः शब्दं कुर्वाणस् तद्-अभिमुखं धावितः । ततस् तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभो ऽयम् इति निश्चित्य, लीलयैव व्यापादितः ।