विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन ।
वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः ॥ हित्_३।५ ॥
अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः । तत्र निर्मित-नीड-कोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले । धारा-सारैर् महती वृष्टिर् बभूव । ततो वानरांश् च तरु-तलेऽवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिर् उक्तम्-भो भो वानराः ! शृणुत-
अस्माभिर् निर्मिता नीडाश् चञ्चु-मात्राहृतैस् तृणैः ।
हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ ॥ हित्_३।६ ॥
तच् छ्रुत्वा वानरैर् जातामर्षैर् आलोचितम्-अहो ! निर्वात-नीड-गर्भावस्थिताः सुखिनः पक्षिणो ऽस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेर् उपशमः ।
अनन्तरं शान्ते पानीय-वर्षे तैर् वानरैर् वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अण्डानि चाधः पातितानि ।