०२-०९ टिट्टिभदम्पती कथा

अङ्गाङ्गि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः ।
पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः ॥ हित्_२।१४९ ॥

दक्षिण-समुद्र-तीरे टिट्टिभ-दम्पती निवसतः । तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह-नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसन्धीयताम् ।

टिट्टिभो ऽवदत्-भार्ये, नन्व् इदम् एव स्थानं प्रसूति-योग्यम् ।

सा ब्रूते-समुद्र-वेलया व्याप्यते स्थानम् एतम् ।

टिट्टिभो ऽवदत्-किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः ।

टिट्टिभी विहस्याह-स्वामिन् ! त्वया समुद्रेण च महद् अन्तरम् । अथवा-

पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ हित्_२।१५० ॥

अपि च-

अनुचित-कार्यारम्भः स्वजन-विरोधो बलीयसा स्पर्धा ।
प्रमदा-जन-विश्वासो मृत्योर् द्वाराणि चत्वारि ॥ हित्_२।१५१ ॥

ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अण्डान्य् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह-नाथ ! कष्टम् आपतितम् । तान्य् अण्डानि मे नष्टानि ।

टिट्टिभो ऽवदत्-प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकल-वृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः ।

ततस् तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर् भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर् विज्ञप्तः । स समुद्रम् अण्ड-दानायादिदेश । ततो भगवद्-आज्ञां मौलौ निधाय समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि ।