०२-०८ चतुरशशकः

बुद्धिर् यस्य बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ हित्_२।१२२ ॥

अस्ति मन्दर-नाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर् मिलित्वा स सिंहो विज्ञप्तः-मृगेन्द्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः ।

ततः सिंहेनोक्तम्-यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् ।

ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्ध-शशकस्य वारः समायातः । सो ऽचिन्तयत्-

त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया ।
पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥ हित्_२।१२३ ॥

तन् मन्दं मन्दं गच्छामि । ततः सिंहो ऽपि क्षुधा-पीडितः कोपात् तम् उवाच-कुतस् त्वं विलम्ब्य समागतो ऽसि ।

शशको ऽब्रवीत्-देव ! नाहम् अपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनर् आगमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतो ऽसिम् ।

सिंहः सकोपम् आह-सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति ।

ततः शशकस् तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततो ऽसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः ।