०२-०७ वायसदंपतीकथा

उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते ॥ हित्_२।१२० ॥

कस्मिंश्चित् तरौ वायस-दम्पती निवसतः । तयोश् चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि । ततः पुनर् गर्भवती वायसी वायस्म् आह-नाथ ! त्यज्यताम् अयं वृक्षः । अत्रावस्थित-कृष्ण-सर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः-

दुष्टा भार्या शठं मित्रं भृत्यश् चोत्तर-दायकः ।
स-सर्पे च गृहे वासो मृत्युर् एव न संशयः ॥ हित्_२।१२१ ॥

वायसो ब्रूते-प्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर् न क्षन्तव्यः ।

वायस्य् आह-कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः ।

वायसो ब्रूते-अलम् अनया शङ्कया । यतः-

बुद्धिर् यस्य बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ हित्_२।१२२ ॥
वायसी विहस्याह–कथम् एतत् ?

वायसः कथयति-

अतो ऽहं ब्रवीमि बुद्धिर् यस्य इत्य् आदि ।

वायस्य् आह-श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि ।

वायसो ऽवदत्-अत्रासन्ने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति । स्नान-समये मद्-अङ्गाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि ।

अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम् । अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस् तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश् च ।