उत्पन्नेषु च कार्येषु मतिर् यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा ॥ हित्_२।११४ ॥
अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर् बन्धकी । सा ग्रामस्य दण्ड-नायकेन तत्-पुत्रेण च समं रमते । तथा चोक्तम्-
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥ हित्_२।११५ ॥
न दानेन न मानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ हित्_२।११६ ॥
यतः-
गुणाश्रयं कीर्ति-युतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शील-गुणादि-हीनम् ॥ हित्_२।११७ ॥
अपरं च-
न तादृशीं प्रीतिम् उपैति नारी
विचित्र-शय्या शयितापि कामम् ।
यथा हि दूर्वादि-विकीर्ण-भूमौ
प्रयाति सौख्यं पर-कान्ति-सङ्गात् ॥ हित्_२।११८ ॥
अथ कदाचित् सा दण्ड-नायक-पुत्रेण सह रममाणा तिष्ठति । अथ दण्ड-नायको ऽपि रन्तुं तत्रागतः । तम् आयान्तं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्-दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठा-केन कार्येण दण्डनायकः समागत्यात्र स्थितः ?
सा ब्रूते-अन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणो ऽप्य् अत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्-पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति ।
ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा ।
षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥ हित्_२।११९ ॥