स्वर्ण-रेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका ।
आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे ॥ हित्_२।११० ॥
अस्ति काञ्चनपुर-नाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कन्दर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हन्तव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः । राज-पुरुषा ऊचुः-किम् इति नायं वध्यः ।
स आह-श्रूयताम् । स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति ।
त आहुः–कथम् एतत् ?
परिव्राजकः कथयति-अहं सिंहल-द्वीपस्य भूपतेर् जीमूतकेतः पुत्रः दन्दर्पकेतुर् नाम । मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यङ्क-स्थिता सर्वालङ्कार-भूषिता लक्ष्मीर् इव वीनां वादयन्ती कन्या काचिद् दृश्यते इति । ततो ऽहं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस् तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झम्पो दत्तः । तद्-अनन्तरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिर् उपास्यमाना मयालोकिता । तथाप्य् अहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्-सख्या च मया पृष्टया समाख्यातम्-एषा कन्दर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुर् अगोचरो ऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तद् एनां गान्धर्व-विवाहेन परिणयतु भवान् । अथ तत्र वृत्ते गन्धर्व-विवाहे तथा सह रममाणस् तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्-स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् । एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा । तथा चित्रतयाप्य् अहं चरण-पद्मेन ताडित आगत्य स्व-राष्ट्रे पतितः ।
अथ दुःखितो ऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीम् अनुप्राप्तः । अत्र चातिकान्ते दिवसे गोप-गृहे सुप्तः सन्न् अपश्यम् । प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मन्त्रयन्तीम् अपश्यत् । ततस् तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततो ऽर्ध-रात्रे एतस्य नापितस्य वधूर् दूती पुनस् तां गोपीम् उपेत्यावदत्-तव विरहानल-दग्धो ऽसौ स्मर-शर-जर्जरितो मुमूर्षुर् इव वर्तते । तथा चोक्तम्-
रजनी-चर-नाथेन खण्डिते तिमिरे निशि ।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ हित्_२।१११ ॥
तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास् त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धो ऽवदत्-इदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किञ्चिद् अपि ब्रूते तदा क्रुद्धो गोपः-दर्पान् मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्-का वार्ता ?
दूत्योक्तम्-पश्य माम् । मुखम् एव वार्तां कथयति ।
अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता । ततः प्रातर् एवानेन नापितेन स्व-वधूः क्षुर-भाण्डं याचिता सती क्षुरम् एकं प्रादात् । ततो ऽसमग्र-भाण्डे प्राप्ते समुपजात-कोपो ऽयं नापितस् तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाच-अरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः-
आदित्य-चन्द्रावनिलानलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मश् च जानाति नरस्य वृत्तम् ॥ हित्_२।११२ ॥
यद्य् अहं परम-सती स्याम्, त्वां विहायान्यं न जाने, पुरुषान्तरं स्वप्नेपि न हि भजे । तेन धर्मेण छिन्नापि मम नासिका-च्छिन्नास् तु । मया त्वं भस्म-कर्तुं शक्यसे । किं तु स्वामी त्वम् । लोक-भयादुपेक्षे । पश्य मन् मुखम् । ततो यावद् असौ गोपो दीपं प्रज्वाल्य तन् मुखम् अवलोकते तावद् उन्नसं मुखम् अवलोक्य तच् चरणयोः पतितः - ‘धन्योऽयं यस्येदृशी भार्या परम-साध्वी’ इति । योऽयमास्ते साधुरेतवृत्तान्तम् अपि कथयामि । अयं स्वगृहान् निर्गतो द्वादश-वर्म-लयोपकण्ठाद् इमां नगरीम् अनुप्राप्तः । अत्र वेश्यागृहे सुप्तः। तस्याः कुट्टन्या गृहद्वारि स्थापित-काष्ठ-घटित-वेतालस्य मूर्धनि रत्नम् एकम् उत्कृष्टम् आस्ते । तत्र लुब्धेनानेन साधुना रात्राव् उत्थाय रत्नं ग्रहीतुं यत्नः कृतः । तदा तेन वेतालेन सूत्रसंचारितबाहुभ्यां पीडितः सन्नार्तनादमयं चकार । पश्चादुत्थाय कुट्टन्योक्तम्’पुत्र! मलयोपकण्ठादागतोऽसि । तत्सर्वरत्नानि प्रयच्छास्मै नो चेदनेन न त्यक्तव्योऽसि ।’ इत्थमेवायं चेटकः । ततोऽनेन सर्वरत्नानि समर्पितानि यथाऽयम् अपहृत-सर्वस्वोऽस्मासु समागत्य मिलितः। एतत् सर्वं श्रुत्वा राज-पुरुषौ धर्माधिकारी प्रवर्तितः। अनन्तरं तेन सा दूती गोपी च ग्रामावहिनिःसारिते । नापितश् च गृहं गतः ।