शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् ।
शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ हित्_२।८९ ॥
अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम् । तच्-छिखर-प्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते । एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्-पाणि-पतिता घण्टा वानरैः प्राप्ता । वानरास् तां घण्टाम् अनुक्षणं वादयन्ति । ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टा-रवश् च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरो ऽयं घण्टा-नादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः-देव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घण्टाकर्णं साधयामि ।
ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत् ।