०२-०३ दुर्दान्तनामसिंहकथा

निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन ।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत् ॥ हित्_२।८३ ॥

अस्त्य् उत्तर-पथेऽर्बुदशिखर-नाम्नि पर्वते दुर्दान्तो नाम महा-विक्रमः सिंहः । तस्य पर्वत-कन्दरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकम् अलभमानो ऽचिन्तयत्-

क्षुद्र-शत्रुर् भवेद् यस् तु विक्रमान् नैव लभ्यते ।
तम् आहन्तुं पुरस्कार्यः सदृशस् तस्य सैनिकः ॥ हित्_२।८४ ॥

इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कन्दरे स्थापितः । अनन्तरं तद्-भयान् मूषिको ऽपि विलान् न निःसरति । तेनासौ सिंहो ऽक्षत-केशरः सुखं स्वपिति । मूषिक-शब्दं यदा यदा शृणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति ।

अथैकदा स मूषिकः क्षुधापीडितो बहिः सञ्चरन् बिडालेन प्राप्तो व्यापादितश् च । अनन्तरं स सिंहोऽनेक-कालं यावन् मूषिकं न पश्यति तत्-कृतरावमपि न शृणोति तदा तस्यानुपयोगाद् बिडालस्याप्याहार-दाने मन्दादरो बभूव।
ततो ऽसाव् आहार-विहार-विरहाद्-दुर्बलो दधिकर्णोवसन्नो बभूव ।