०२-०२ श्वानगर्दभकथा

पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया ।
स विषीदति चीत्काराद् गर्दभस् ताडितो यथा ॥ हित्_२।३१ ॥

अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः । स रात्रौ गाढ-निद्रायां प्रसुप्तः । तद्-अनन्तरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस् तिष्ठति । कुक्कुरश् चोपविष्टो ऽस्ति । अथ गर्दभः श्वानम् आह-सखे ! भवतस् तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।

कुक्कुरो ब्रूते-भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि । यतो ऽयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहार-दाने मन्दादरः । यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति ।

गर्दभो ब्रूते-शृणु रे बर्बर ! याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत् ।

कुक्कुरो ब्रूते-

भृत्यान् सम्भाषयेद् यस् तु कार्य-काले स किं-प्रभुः ॥ हित्_२।३२ ॥

यतः-

आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने ।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ हित्_२।३३ ॥

ततो गर्दभः स-कोपम् आह-अरे दुष्ट-मते ! पापीयांस् त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन् मया कर्तव्यम् । यतः-

पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् ।
स्वामिनं सर्व-भावेन परलोकम् अमायया ॥ हित्_२।३४ ॥

इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान् । ततः स रजकस् तेन चीत्कारेण प्रबुद्धो निद्रा-भङ्ग-कोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् ।