०२-०१ कीलाभिहतमर्कटः

अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥ हित्_२।३० ॥

अस्ति मगध-देशे धर्मारण्य-सन्निहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्य-माणैक-स्तम्भस्य कियद् दूरस्फाटितस्य काष्ठ-खण्ड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः । तत्र बलवान् वानर-यूथः क्रीडन्न् आगतः । एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्ड-द्वयः पञ्चत्वं गतः ।