उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥ हित्_१।१८७ ॥
तद् यथा-
अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश् चिन्तयन्ति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस् तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता । मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच-देव ! दृष्टि-प्रसादं कुरु ।
हस्ती ब्रूते-कस् त्वम् ? कुतः समायातः ?
सो ऽवदत्-जम्बुको ऽहं सर्वैर् वन-वासिभिः पशुभिर् मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्येऽभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः-
कुलाचार-जनाचारैर् अतिशुद्धः प्रतापवान् ।
धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ॥ हित्_१।१८८ ॥
अपरं च पश्य-
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् ।
राजन्य् असति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ हित्_१।१८९ ॥
अन्यच् च-
पर्जन्य इव भूतानाम् आधारः पृथिवी-पतिः ।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ हित्_१।१९० ॥
किं च-
नियत-विषय-वर्ती प्रायशो दण्ड-योगाज्
जगति पर-वशेऽस्मिन् दुर्लभः साधु-वृत्तेः ।
कृशम् अपि विकलं वा व्याधितं वाधनं वा
पतिम् अपि कुल-नारी दण्ड-भीत्याभ्युपैति ॥ हित्_१।१९१ ॥
तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उत्थाय चलितः । ततो ऽसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पङ्के निमग्नः । हस्तिनोक्तम्-सखे शृगाल ! किम् अधुना विधेयम् ? महा-पङ्के पतितो ऽहं म्रिये । परावृत्य पश्य !
शृगालेन विहस्योक्तम्-देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्-
यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि ।
यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ॥ हित्_१।१९२ ॥
ततो महा-पङ्के निमग्नो हस्ती शृगालैर् भक्षितः ।