- अस्ति कान्यकुब्जविषये वीरसेनो नाम राजा । तेन वीरपुरनाम्नि नगरे तुङ्गबलो नाम राजपुत्रो भोगपतिः कृतः । स च महाधनस्तरुण एकदा स्वनगरे भ्राम्यन्नतिप्रौढयौवनां लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास । ततः स्वहर्म्यं गत्वा स्मराकुलमतिस्तस्याः कृते दूतीं प्रेषितवान् ।
यतः,—
सन्मार्गे तावदास्ते, प्रभवति पुरुषस्तावदेवेन्द्रियाणां,
लज्जां तावद्विधत्ते, विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥
सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदेकचित्ताऽभवत् ।
तथा ह्युक्तम्,–
असत्यं साहसं माया मात्सर्यं चातिलुब्धता ।
निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः ॥१९९॥
अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच—“अहं पतिव्रता कथमेतस्मिन्नधर्मे पतिलङ्घने प्रवर्ते ?”
यतः,–
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥२००॥
न सा भार्येति वक्तव्या यस्या भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां सन्तुष्टाः सर्वदेवताः ॥२०१॥
ततो यद्यदादिशति मे प्राणेश्वरस्तदेवाहमविचारितं करोमि। दूत्योक्तम्—“सत्यतममेतत् ।” लावण्यवत्युवाच– ध्रुवं सत्यमेतत् ॥
ततो दूतिकया गत्वा तत्तत्सर्वं तुङ्गबलस्याग्रे निवेदितम् । तच्छ्रुत्वा तुङ्गबलोऽब्रवीत्— “विषमेषुणा व्रणितहृदयस्तां विना कथमहं जीविष्यामि?” कट्टन्याह— स्वमिनानीय समर्पयितव्या इति । स प्राह– कथमेतच्छक्यम् ?। कुट्टन्याह— उपायः क्रियताम् ।
तथा चोक्तम्,–
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना॥२०२॥
राजपुत्रः पृच्छति— कथमेतत्? सा कथयति– +++(सम्पादकटिप्पनी- पुस्तकेऽत्रायमधिकः पाठः । )+++
अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इत्य् आदि ।
- ततः कुट्टिन्युपदेशेन तं चारुदत्तनामानं वणिक्पुत्रं स राजपुत्रः सोवकं चकार । ततोऽसौ तेन सर्वविश्वासकार्येषु नियोजितः ।
एकदा तेन राजपुत्रेण स्नातानुलिप्तेन कनकरत्नालङ्कारधारिणा प्रोक्तम्–“अद्यारभ्य मासमेकं गौरीव्रतं कर्तव्यम् । तदत्र प्रतिरात्रमेकां कुलीनां युवतिमानीय समर्पय । सा मया यथोचितेन विधिना पूजयित्वा ।” ततः स चारुदत्तस्तथाविधां नवयुवतीमानीय समर्पयति । पश्चात्प्रच्छन्नः सन्किमयं करोतीति निरूपयति । स च तुङ्गबलस्तां युवतिमस्पृशन्नेव दूरास्त्रद्वालंकारगन्धचन्दनैः संपूज्य रक्षकं दत्त्वा प्रस्थापयति । अथ वणिक्पुत्रेण तद्दृष्ट्वोपजातविश्वासेन लोभाकृष्टमनसा स्ववधूर्लावण्यवती । स च तुङ्गबलस्तां हृदयप्रियां लावण्यवतीं विज्ञाय ससंभ्रममुत्थाय निर्भरमालिङ्ग्य निमीलिताक्षः पर्यङ्के तया सह विललास । तदालोक्य वणिक्पुत्रश्चित्रलिखित इवेति कर्तव्यतामूढः परं विषादमुपगतः ।