कर्तव्यः सञ्चयो नित्यं न तु कार्यो ऽतिसञ्चयः ।
अतिसञ्चय-शीलो ऽयं धनुषा जम्बुको हतः ॥ हित्_१।१५७ ॥
आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुर् आदाय मृगम् अन्विष्यन् विन्ध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्य् आगत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम्-
जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः ।
निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते ॥ हित्_१।१५८ ॥
अथ तयोः पादास्फालनेन एकः सर्पो ऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिन्तयच् च-अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् ।
अथवा-
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ॥ हित्_१।१५९ ॥
- तद्भवतु । एषां मांसैर्मासत्रयं मे सुखेन गमिष्यति । +++(मस्पादकटिप्पनी- पुस्तकेऽत्र अधिकः पाठः ।)+++
मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ ।
अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ हित्_१।१६० ॥
ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् । ततश् छिन्ने स्नायु-बन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः ।