०१-०४ सन्यासि-मूषिकयोः कथा

अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिम् अताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच-सखे ! किम् इति मम कथा-विरक्तो ऽन्यासक्तो भवान् ? यतः-

मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहो ऽधिकः सम्भ्रम-दर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥ हित्_१।११५ ॥

अदृष्टि-दानं कृत-पूर्व-नाशनम्
आननं दुश्चरितानुकीर्तनम् ।
कथा-प्रसङ्गेन च नाम-विस्मृतिर्
विरक्त-भावस्य जनस्य लक्षणम् ॥ हित्_१।११६ ॥ +++(सम्पादकटिप्पनी- पद्यं ११५,११६ च पुस्तके नास्ति । )+++)

चूडाकर्णेनोक्तम्-भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो ऽप्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् ।

  • तथा चोक्तम् – अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति । पतिं निर्दयमालिङ्ग्य हेतुरत्र भविष्यति ॥१०९॥

चूडाकर्णः पृच्छति–“कथमेतत्? “। +++(सम्पादकटिप्पनी - पुस्तकेऽत्रायम् अधिकः पाठः । )+++

अतोऽहं ब्रवीमि— “अकस्माद्युवती वृद्धम्” इत्यादि । मूषिकबलोपष्टम्भेन केनापि कारणेनात्र भवितव्यम् ।

चूडाकर्णेनोक्तम्-भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो ऽप्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् ।

क्षणं विचिन्त्य परिव्राजकेनोक्तम्-कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति । यतः-

धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते ॥ हित्_१।११७ ॥

ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः । ततस् तेनोक्तम्-

धनेन बलवान् लोको धनाद् भवति पण्डितः ।
पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ॥ हित्_१।११८ ॥

किं च-

अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः ।
क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ हित्_१।११९ ॥

अपरं च-

यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ हित्_१।१२० ॥

अपरं च-

अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ॥ हित्_१।१२१ ॥

अपरं च-

दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् ।
अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥ हित्_१।१२२ ॥

अन्यच् च-

तानीन्द्रियाण्य् अविकलानि तद् एव नाम
सा बुद्धिर् अप्रतिहता वचनं तद् एव ।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रम् एतत् ॥ हित्_१।१२३ ॥

एतत् सर्वम् आकर्ण्य मयालोचितं-ममान्नावस्थानम् अयुक्तम् इदानीम् ।

  • यतः,-
    अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
    वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥१३०॥

अपि च,-
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
तपो दानापमानं च नव गोप्यानि यत्नतः ॥१३१॥ +++(सम्पादकटिप्पनी - १३०,१३१, पुस्तकेऽधिकः पाठः ।)+++

तथा चोक्तम्-

अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ हित्_१।१२४ ॥

अन्यच् च-

मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणम् आयाति नानलो याति शीतताम् ॥ हित्_१।१२५ ॥

किं च-

कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥ हित्_१।१२६ ॥

यच् चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्य् अनुचितम् । यतः-

अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ हित्_१।१२७ ॥ +++(सम्पादकटिप्पनी - इदं पुस्तके नास्ति ।)+++ )

यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीव-गर्हितम् । यतः-

वरं विभव-हीनेन प्राणैः सन्तर्पितो ऽनलः ।
नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ हित्_१।१२८ ॥

अन्यच् च-
दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते
निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते ।
निर्विण्णः शुचम् एति शोक-फिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ॥ हित्_१।१२९ ॥

किं च-
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं
वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् ।
वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर्
वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ॥ हित्_१।१३० ॥

वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो
वरं वेश्या पत्नी न पुनर् अविनीता कुल-वधूः ।
वरं वासो ऽरण्ये न पुनर् अविवेकाधिप-पुरे
वरं प्राण-त्यागो न पुनर् अधमानाम् उपगमः ॥ हित्_१।१३१ ॥

अपि च-
सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरि-हर-कथेव दुरितं गुण-शतम् अप्य् अर्थिता हरति ॥ हित्_१।१३२ ॥

तत् किम् अहं पर-पिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अन्यच् च-

  • यतः,– पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम् ।
    भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः॥१४०॥

अपरं च,– +++(सम्पादकटिप्पनी - पुस्तकेऽयम् अधिकः पाठः ।)+++

रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी ।
यज् जीवति तन् मरणं यन् मरणं सो ऽस्य विश्रामः ॥ हित्_१।१३३ ॥

इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । तथा चोक्तम्-

लोभेन बुद्धिश् चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ॥ हित्_१।१३४ ॥

ततो ऽहं मन्दं मन्दम् उपसर्पंस् तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश् चाचिन्तयम्-लुब्धो ह्य् असन्तुष्टो नियतम् आत्म-द्रोही भवति । तथा च-

धन-लुब्धो ह्य् असन्तुष्टो ऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम् ॥ हित्_१।१३५ ॥

सर्वाः सम्पत्तस्यस् तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ॥ हित्_१।१३६ ॥

अपरं च-
सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् ।
कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥ हित्_१।१३७ ॥

किं च-
तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥ हित्_१।१३८ ॥

अपि च-
असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् ।
अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ॥ हित्_१।१३९ ॥

न योजन-शतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य कर-प्राप्तेऽप्य् अर्थे भवति नादरः ॥ हित्_१।१४० ॥

तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् ।

को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति ।
कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ॥ हित्_१।१४१ ॥

तथा च-
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥ हित्_१।१४२ ॥

तथा हि-
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ हित्_१।१४३ ॥

अपरं च-
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।
विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ हित्_१।१४४ ॥

इत्य् आलोच्याहं निर्जन-वनम् आगतः ।