०१-०३ जरद्गवनामगृध्रकथा

अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥ हित्_१।५६ ॥

अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किञ्चित् किञ्चिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस् तम् आयान्तं दृष्ट्वा पक्षि-शावकैर् भयार्तैः कोलाहलः कृतः । तच् छ्रुत्वा जरद्गवेन उक्तम्-को ऽयम् आयाति ? दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह-हा हतो ऽस्मि यतो ऽयं मां व्यापादयिष्यति । अथवा-

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ हित्_१।५७ ॥

अधुनातिसन्निधाने पलायितुम् अक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्-आर्य ! त्वाम् अभिवन्दे ।

गृध्रो ऽवदत्-कस् त्वम् ?

सो ऽवदत्-मार्जारो ऽहम् ।

गृध्रो ब्रूते-दूरम् अपसर नो चेत् हन्तव्यो ऽसि मया ।

मार्जारो ऽवदत्-श्रूयतां तावत् मद्-वचनम् । ततो यद्य् अहं वध्यस् तदा हन्तव्यः । यतः -

जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्यो ऽथवा भवेत् ॥ हित्_१।५८ ॥

गृध्रो ब्रूते-ब्रूहि किम् अर्थम् आगतो ऽसि ?

सो ऽवदत्-अहम् अत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतम् आचरंस् तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुम् इहागतः । भवन्तश् चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः ? गृहस्थ-धर्मश् च एषः -

अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते ।
छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः ॥ हित्_१।५९ ॥

किं च-यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव ।

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ हित्_१।६० ॥

अन्यच् च-

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ हित्_१।६१ ॥ +++(सम्पादकटिप्पनी- इदं पद्यं पुस्तके नास्ति । )+++

अपरं च-

निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश् चाण्डाल-वेश्मनः ॥ हित्_१।६२ ॥

अन्यच् च-

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥ हित्_१।६३ ॥

अन्यच् च-

उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः ।
पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः ॥ हित्_१।६४ ॥

गृध्रो ऽवदत्-मार्जारो हि मांस-रुचिः । पक्षि-शावकाश् चात्र निवसन्ति । तेनाहम् एव ब्रवीमि । तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च-मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् । यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । यतः-

सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश् च ये ।
सर्वस्याश्रय-भूताश् च ते नराः स्वर्ग-गामिनः ॥ हित्_१।६५ ॥

अन्यच् च-

एक एव सुहृद् धर्मो निधनेऽप्य् अनुयाति यः ।
शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति ॥ हित्_१।६६ ॥

किं च-

यो ऽत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिर् अन्यः प्राणैर् विमुच्यते ॥ हित्_१।६७ ॥

अपि च-

मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते ।
शक्यस् तेनानुमानेन परो ऽपि परिरक्षितुम् ॥ हित्_१।६८ ॥

शृणु पुनः-

स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ हित्_१।६९ ॥

एवं विश्वास्य स मार्जारस् तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः ।