भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम् ।
शृगालात् पाशबद्धो ऽसौ मृगः काकेन रक्षितः ॥ हित्_१।५५ ॥
अस्ति मगध-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालो ऽचिन्तयत्-आः ! कथम् एतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्-मित्र ! कुशलं ते ?
मृगेणोक्तम्-कस् त्वम् ?
स ब्रूते-क्षुद्र-बुद्धि-नामा जम्बुको ऽहम् । अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः स-बन्धुर् जीव-लोकं प्रविष्टो ऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति ।
मृगेणोक्तम्-एवम् अस्तु ।
ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काको ऽवदत्-सखे चित्राङ्ग ! को ऽयं द्वितीयः ? मृगो ब्रूते-मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्-
अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥ हित्_१।५६ ॥
तौ आहतुः–कथम् एतत् ?
काकः कथयति-
अतो ऽहं ब्रवीमि-अज्ञात-कुल-शीलस्य इत्य् आदि ।
इत्य् आकर्ण्य स जम्बुकः स-कोपम् आह-मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते ? अथवा-
यत्र विद्वज्-जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि ।
निरस्त-पादपे देशे एरण्डो ऽपि द्रुमायते ॥ हित्_१।७० ॥
अन्यच् च-
अयं निजः परो वेति गणना लघु-चेतसाम् ।
उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ हित्_१।७१ ॥
यथा चायं मृगो मम बन्धुस् तथा भवान् अपि । मृगो ऽब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैर् एकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् । यतः-
न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस् तथा ॥ हित्_१।७२ ॥
काकेन उक्तम्-एवम् अस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते-सखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास् तत्र योजिताः । अनन्तरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बद्धो ऽचिन्तयत्-को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः ?
अत्रान्तरे जम्बुकस् तत्रागत्य उपस्थितो ऽचिन्तयत्-फलितस् तावद् अस्माकं कपट-प्रबन्धः । मनोरथ-सिद्धिर् अपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते-सखे ! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः-
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ हित्_१।७३ ॥
अपरं च-
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे ।
राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ हित्_१।७४ ॥
जम्बुकः पाशं मुहुर् मुहुर् विलोक्याचिन्तयत्-दृढस् तावद् अयं बन्धः । ब्रूते च-सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस् ततो ऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच-सखे ! किम् एतत् ? मृगेणोक्तम्-अवधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्-
सुहृदां हित-कामानां यः शृणोति न भाषितम् ।
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ हित्_१।७५ ॥
काको ब्रूते-स वञ्चकः क्वास्ते ?
मृगेणोक्तं-मन्-मांसार्थी तिष्ठत्य् अत्रैव ।
काको ब्रूते-मित्र ! उक्तम् एव मया पूर्वम् ।
अपराधो न मेऽस्तीति नैतद् विश्वास-कारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ॥ हित्_१।७६ ॥
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ हित्_१।७७ ॥
परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् ।
वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ॥ हित्_१।७८ ॥
ततः काको दीर्घं निःश्वस्य उवाच-अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः-
संलापितानां मधुरैर् वचोभिर्
मिथ्योपचारैश् च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके
किम् अर्थिनां वञ्चयितव्यम् अस्ति ॥ हित्_१।७९ ॥
अन्यच् च-
उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् ।
तं जनम् असत्य-सन्धं भगवति वसुधे कथं वहसि ॥ हित्_१।८० ॥
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ हित्_१।८१ ॥
अथवा स्थितिर् इयं दुर्जनानाम्-
प्राक् पादयोः पतति खादति पृष्ठ-मांसं
कर्णे फलं किम् अपि रौति शनैर् विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥ हित्_१।८२ ॥
तथा च-
दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ हित्_१।८३ ॥
अथ प्रभाते स क्षेत्र-पतिर् लगुड-हस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः । तम् अवलोक्य काकेनोक्तम्-सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे ।
मृगस् तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ-आः ! स्वयं मृतो ऽसि ? इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः । तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्-
त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः ।
अत्युत्कटैः पाप-पुण्यैर् इहैव फलम् अश्नुते ॥ हित्_१।८४ ॥