कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ हित्_१।५ ॥
अहम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते-भो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्-भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर् न विधेया । यतः-
अनिष्टाद् इष्ट-लाभेऽपि न गतिर् जायते शुभा ।
यत्रास्ते विष-संसर्गो ऽमृतं तद् अपि मृत्यवे ॥ हित्_१।६ ॥
किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव । तथा चोक्तम्-
न संशयम् अनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनर् आरुह्य यदि जीवति पश्यति ॥ हित्_१।७ ॥
तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थो ऽवदत्-कथं मारात्मके त्वयि विश्वासः ?
व्याघ्र उवाच-शृणु रे पान्थ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश् च । वंश-हीनश् चाहम् । ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः ? उक्तं च-
इज्याऽध्ययन-दानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गो ऽयं धर्मस्याष्ट-विधः स्मृतः ॥ हित्_१।८ ॥
तत्र पूर्वश् चतुर्वर्गो दम्भार्थम् अपि सेव्यते ।
उत्तरस् तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ॥ हित्_१।९ ॥
मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थम् अपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः-
गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् ।
प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ॥ हित्_१।१० ॥
मया च धर्म-शास्त्राणि अधीतानि । शृणु-
मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥ हित्_१।११ ॥
प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ हित्_१।१२ ॥
अपरं च-
प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥ हित्_१।१३ ॥
अन्यच् च-
मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् ।
आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ॥ हित्_१।१४ ॥
त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नो ऽहम् । तथा चोक्तम्-
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ॥ हित्_१।१५ ॥
अन्यत् च-
दातव्यम् इति यद् दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ हित्_१।१६ ॥
तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणम् इदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पङ्के निमग्नः पलायितुम् अक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रो ऽवदत्-अहह महा-पङ्के पतितो ऽसि । अतस् त्वाम् अहम् उत्थापयामि । इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पान्थो ऽचिन्तयत्-
न धर्म-शास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥ हित्_१।१७ ॥
किं च-
अवशेन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया ।
दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ॥ हित्_१।१८ ॥
तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्-
नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥ हित्_१।१९ ॥
अपरं च-
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ हित्_१।२० ॥
अन्यच् च-
स हि गगन-विहारी कल्मष-ध्वंस-कारी
दश-शत-कर-धारी ज्योतिषां मध्य-चारी ।
विधुर् अपि विधि-योगाद् ग्रस्यते राहुणासौ
लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ॥ हित्_१।२१ ॥
इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च ।