ततस् तेन राजहंसेन उक्तम्-केनास्मद्-दुर्गे निक्षिप्तो ऽग्निः ? किं पारक्येण ? किं वास्मद्-दुर्ग-वासिना केनापि विपक्ष-प्रयुक्तेन ?
चक्रवाको ब्रूते-देव ! भवतो निष्कारण-बन्धुर् असौ मेघवर्णः सपरिवारो न दृश्यते । तन् मन्ये तस्यैव विचेष्टितम् इदम् ।
राजा क्षणं विचिन्त्याह-अस्ति तावद् एवम् । मम दुर्दैवम् एतत् । तथा चोक्तम्-
अपराधः स दैवस्य न पुनर् मन्त्रिणाम् अयम् ।
कार्यं सुचरितं क्वापि दैव-योगाद् विनश्यति ॥ हित्_४।२ ॥
विषमां हि दशां प्राप्य दैवं गर्हयते नरः ।
आत्मनः कर्म-दोषांश् च नैव जानात्य् अपण्डितः ॥ हित्_४।३ ॥
अपरं च-
सुहृदां हित-कामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥ हित्_४।४ ॥
अन्यच् च-
रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् ।
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ हित्_४।५ ॥
राहाह-कथम् एतत् ?
मन्त्री कथयति-
अतो ऽहं ब्रवीमि-सुहृदां हित-कामानाम् इत्य् आदि ।
अथ प्रणिधिर् बकस् तत्रागत्योवाच-देव ! प्राग् एव मया निगदितं दुर्ग-शोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर् न कृतं, तद्-अनवधानस्य फलम् इदम् अनुभूतम् । दुर्ग-दाहो मेघवर्णेन वायसेन गृध्र-प्रत्युक्तेन कृतः । राजा निःश्वस्याह-
प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥ हित्_४।१२ ॥
अथ प्रणिधिर् उवाच-इतो दुर्गदाहं विधाय, यदा यतो मेघवर्णस् तदा चित्रवर्णेन प्रसादितेनोक्तम्-अयं मेघवर्णो ऽत्र कर्पूर-द्वीप-राज्येऽभिषिच्यताम् । तथा चोक्तम्-
कृत-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् ।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ हित्_४।१३ ॥
चक्रवाको ब्रूते-देव ! श्रुतं यत् प्रणिधिः कथयति ?
राजा प्राह–ततस् ततः ?
प्रणिधिर् उवाच-ततः प्रधान-मन्त्रिणा गृध्रेणाभिहितम्-देव ! नेदम् उचितम् । प्रसादान्तरं किम् अपि क्रियताम् । यतः-
अविचारयतो युक्ति-कथनं तुष-खण्डनम् ।
नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥ हित्_४।१४ ॥
महताम् आस्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम्-
नीचः श्लाघ्य-पदं प्राप्य स्वामिनं हन्तुम् इच्छति ।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ हित्_४।१५ ॥
चित्रवर्णः पृच्छति–कथम् एतत् ?
मन्त्री कथयति-
अतो ऽहं ब्रवीमि-नीचः श्लाघ्य-पदं प्राप्येत्य् आदि ॥
अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् । शृणु-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ॥ हित्_४।१६ ॥
चित्रवर्णः पृच्छति–कथम् एतत् ?
मन्त्री कथयति-
अतो ऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इत्य् आदि ।
ततश् चित्रवर्णो ऽवदत्-शृणु तावन् मन्त्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर् महा-सुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह-देव !
अनागतवतीं चिन्तां कृत्वा यस् तु प्रहृष्यति ।
स तिरस्कारम् आप्नोति भग्न-भाण्डो द्विजो यथा ॥ हित्_४।२० ॥
राजाह-कथम् एतत् ?
मन्त्री कथयति-
अतो ऽहं ब्रवीमि - अनागतवतीं चिन्ताम् इत्य् आदि ।
ततो राजा रहसि गृध्रम् उवाच-तात ! यथा कर्तव्यं तथोपदिश ।
गृध्रो ब्रूते-
मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः ।
गच्छन्त्य् उन्मार्ग-यातस्य नेतारः खलु वाच्यताम् ॥ हित्_४।२१ ॥
शृणु देव ! किम् अस्माभिर् बल-दर्पाद् दुर्गं भग्नम् ? उत तव प्रतापाधिष्ठितेनोपायेन ?
राजाह-भवताम् उपायेन ।
गृध्रो ब्रूते-यद्य् अस्मद्-वचनं क्रियते, तदा स्व-देशे गम्यताम् । अन्यथा वर्षा-काले प्राप्ते पुनस् तुल्य-बलेन विग्रहे सत्य् अस्माकं पर-भूमिष्ठानां स्व-देश-गमनम् अपि दुर्लभं भविष्यति । तत्-सुख-शोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश् च लब्धेव । मम सम्मतं तावद् एतत् । यतः-
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥ हित्_४।२२ ॥
अन्यच् च-
सुहृद्-बलं तथा राज्यम् आत्मानं कीर्तिम् एव च ।
युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥ हित्_४।२३ ॥
अपरं च-
सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि ।
नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥ हित्_४।२४ ॥
अपि च-
युद्धे विनाशो भवति कदाचिद् उभयोर् अपि ।
सुन्दोप-सुन्दाव् अन्योन्यं नष्टौ तुल्य-बलौ न किम् ॥ हित्_४।२५ ॥
राजोवाच–कथम् एतत् ?
मन्त्री कथयति-
अतो ऽहं ब्रवीमि-सन्धिम् इच्छेत् समेनापि इत्य् आदि ।
राजाह-तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः ?
मन्त्री ब्रूते-तदा मद्-वचनं किम् अवसान-पर्यन्तं श्रुतं भवद्भिः ? तदापि मम सम्मत्या नायं विग्रहारम्भः । यतः-साधु-गुण-युक्तो ऽयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं-
सत्यार्थौ धार्मिको ऽनार्यो भ्रातृ-सङ्हातवान् बली ।
अनेक-युद्ध-विजयी सन्धेयाः सप्त कीर्तिताः ॥ हित्_४।२७ ॥
सत्यो ऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् ।
प्राण-बाधेऽपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥ हित्_४।२८ ॥
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते ।
प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥ हित्_४।२९ ॥
सन्धिः कार्यो ऽप्य् अनार्येण विनाशे समुपस्थिते ।
विना तस्याश्रयेणार्यो न कुर्यात् काल-यापनम् ॥ हित्_४।३० ॥
संहतत्वाद् यथा वेणुर् निविडैः कण्टकैर् वृतः ।
न शक्यते समुच्छेत्तुं भ्रातृ-सङ्घातवांस् तथा ॥ हित्_४।३१ ॥
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥ हित्_४।३२ ॥
जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा ।
अनेक-युद्ध-जयिनः प्रतापाद् एव भज्यते ॥ हित्_४।३३ ॥
अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति ।
तत्-प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥ हित्_४।३४ ॥
तत्र तावद् बहुभिर् गुणैर् उपेतः सन्धेयो ऽयं राजा । चक्रवाको ऽवदत्-प्रणिधे ! सर्वम् अवगतम् । व्रज । पुनर् आगमिष्यसि ।
अथ राजा हिरण्यगर्भश् चक्रवाकं पृष्ठवान्-मन्त्रिन् ! असन्धेयाः कति ? तान् श्रोतुम् इच्छामि । मन्त्री ब्रूते-देव ! कथयामि । शृणु-
बालो वृद्धो दीर्घ-रोगी तथाज्ञाति-बहिष्कृतः ।
भीरुको भीरुक-जनो लुब्धो लुब्ध-जनस् तथा ॥ हित्_४।३५ ॥
विरक्त-प्रकृतिश् चैव विषयेष्व् अतिसक्तिमान् ।
अनेक-चित्त-मन्त्रस् तु देव-ब्राह्मण-निन्दकः ॥ हित्_४।३६ ॥
दैवोपहतकश् चैव तथा दैव-परायणः ।
दुर्भिक्ष-व्यसनोपेतो बल-व्यसन-सङ्कुलः ॥ हित्_४।३७ ॥
अदेशस्थो बहु-रिपुर् युक्तः कालेन यश् च न ।
सत्य-धर्म-व्यपेतश् च विंशतिः पुरुषा अमी ॥ हित्_४।३८ ॥
एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् ।
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर् वशम् ॥ हित्_४।३९ ॥
बालस्याल्प-प्रभावत्वान् न लोको योद्धुम् इच्छति ।
युद्धायुद्ध-फलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥ हित्_४।४० ॥
उत्साह-शक्ति-हीनत्वाद् वृद्धो दीर्घामयस् तथा ।
स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम् ॥ हित्_४।४१ ॥
सुख-च्छेद्यो हि भवति सर्व-ज्ञाति-बहिष्कृतः ।
त एवैनं विनिघ्नन्ति ज्ञातयस् त्व् आत्म-सात्कृताः ॥ हित्_४।४२ ॥
भीरुर् युद्ध-परित्यागात् स्वयम् एव प्रणश्यति ।
तथैव भीरु-पुरुषः सङ्ग्रामे तैर् विमुच्यते ॥ हित्_४।४३ ॥
लुब्धस्यासंविभागित्वान् न युध्यन्तेऽनुजीविनः ।
लुब्धानुजीवी तैर् एव दान-भिन्नैर् निहन्यते ॥ हित्_४।४४ ॥
सन्त्य् अज्यते प्रकृतिभिर् विरक्त-प्रकृतिर् युधि ।
सुखाभियोज्यो भवति विषयेव् अतिसक्तिमान् ॥ हित्_४।४५ ॥
अनेक-चित्त-मन्त्रस् तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थित-चित्तत्वात् कर्यतः स उपेक्ष्यते ॥ हित्_४।४६ ॥
सदाधर्म-बलीयस्त्वाद् देव ब्राह्मण-निन्दकः ।
विशीर्यते स्वयं ह्य् एष दैवोपहतकस् तथा ॥ हित्_४।४७ ॥
सम्पत्तेश् च विपत्तेश् च दैवम् एव हि कारणम् ।
इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥ हित्_४।४८ ॥
दुर्भिक्ष-व्यसनी चैव स्वयम् एव विषीदति ।
बल-व्यसन-सक्तस्य योद्धुं शक्तिर् न जायते ॥ हित्_४।४९ ॥
अदेश-स्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
ग्राहो ऽल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥ हित्_४।५० ॥
बहु-शत्रुस् तु सन्त्रस्तः श्येन-मध्ये कपोतवत् ।
येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ हित्_४।५१ ॥
अकाल-युक्त-सैन्यस् तु हन्यते काल-योधिना ।
कौशिकेन हत-ज्योतिर् निशीथ इव वायसः ॥ हित्_४।५२ ॥
सत्य-धर्म-व्यपेतेन सन्दध्यान् न कदाचन ।
स सन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥ हित्_४।५३ ॥
अपरम् अपि कथयामि-सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावाः षाड्गुण्यम् । कर्मणाम् आरम्भोपायः । पुरुष-द्रव्य-सम्पत् । देश-काअ-विभागः । विनिपात-प्रतीकारः । कार्य-सिद्धिश् चेति पञ्चाङ्गो मन्त्रः । साम-दान-भेद-दण्डाश् चत्वार उपायाः । उत्साह-शक्तिः, मन्त्र-शक्तिः, प्रभु- शक्तिश् चेति शक्ति-त्रयम् । एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः-
या हि प्राण-परित्याग-मूल्येनापि न लभ्यते ।
सा श्रीर् नीतिविदं पश्य चञ्चलापि प्रधावति ॥ हित्_४।५४ ॥
यथा चोक्तं-
वित्तं सदा यस्य समं विभक्तं
गूढश् चरः सन्निभृतश् च मन्त्रः ।
नचाप्रियं प्राणिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति ॥ हित्_४।५५ ॥
किन्तु देव यद्यपि महा-मन्त्रिणा गृध्रेण सन्धानम् उपन्यस्तं, तथापि तेन राज्ञा सम्प्रति भूत-जय-दर्पान् न मन्तव्यम् । देव ! तद् एवं क्रियतां । सिंहल-द्वीपस्य महाबलो नाम सारसो राजास्मन्-मित्रं जम्बुद्वीपे कोपं जनयतु । यतः-
सुगुप्तिम् आधाय सुसंहतेन
बलेन वीरो विचरन्न् अरातिम् ।
सन्तापयेद् येन समं सुतप्तस्
तप्तेन सन्धानम् उपैति तप्तः ॥ हित्_४।५६ ॥
राज्ञा एवम् अस्त्व् इति निगद्य विचित्र-नामा बकः सुगुप्त-लेखं दत्त्वा सिंहल-द्वीपं प्रहितः ।
अथ प्रणिधिः पुनर् आगत्योवाच-देव ! श्रूयतां तावत् तत्रत्य-प्रस्तावः ।
एवं तत्र गृध्रेणोक्तम्-देव ! मेघवर्णस् तत्र चिरम् उषितः । स वेत्ति किं सन्धेय-गुण-युक्तो हिरण्यगर्भो राजा, न वा ? इति ।
ततो ऽसौ मेघवर्णश् चित्रवर्णेन राज्ञा समाहूय पृष्टः-वायस ! कीदृशो हिरण्यगर्भो राजा ? चक्रवाको मन्त्री वा कीदृशः ?
वायस उवाच-देव ! स हिरण्यगर्भो राजा युधिष्ठिर-समो महाशयः सत्य-वाक् । चक्रवाक-समो मन्त्री न क्वाप्य् अवलोक्यते ।
राजाह-यद्य् एवं तदा कथम् असौ त्वया वञ्चितः ?
विहस्य मेघवर्णः प्राह-देव !
विश्वास-प्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ हित्_४।५७ ॥
शृणु देव ! तेन मन्त्रिणाहं प्रथम-दर्शने एवं विज्ञातः, किन्तु महाशयो ऽसौ राजा, तेन मया विप्रलब्धः । तथा चोक्तम्-
आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम् ।
स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा ॥ हित्_४।५८ ॥
राजोवाच-कथम् एतत् ?
मेघवर्णः कथयति-
अतो ऽहं ब्रवीमि-आत्मौपम्येन यो वेत्तीत्य् आदि ।
राजाह-मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् ? कथं वा तेषाम् अनुनयः कृतः ?
मेघवर्ण उवाच-देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते ? पश्य-
लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् । क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदी-वेला निकृन्तति ॥ हित्_४।६५ ॥
तथा चोक्तम्-
स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् ।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ हित्_४।६६ ॥
राजाह-कथम् एतत् ?
मेघवर्णः कथयति-
अतो ऽहं ब्रवीमि-स्कन्धेनापि वहेच् छत्रून् इत्य् आदि ।
देव ! यात्व् इदानीं पुरावृत्ताख्यान-कथनं सर्वथा सन्धेयो ऽयं हिरण्यगर्भ-राजा सन्धीयताम् इति मे मतिः ।
राजोवाच-को ऽयं भवतो विचारः ? यतो जितस् तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् ।
अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तं-देव ! सिंहल-द्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते ।
राजा स-सम्भ्रमं ब्रूते-किं किम् ?
शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच-साधु रे चक्रवाक मन्त्रिन् ! साधु !
राजा स-कोपम् आह-आस्तां तावद् अयं गत्वा तम् एव स-मूलम् उन्मूलयामि ।
दूरदर्शी विहस्याह-
न शरन्-मेघवत् कार्यं वृथैव घन-गर्जितम् ।
परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥ हित्_४।९८ ॥
अपरं च-
एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः ।
स-दर्पो ऽप्य् उरगः कीटैर् बहुभिर् नाश्यते ध्रुवम् ॥ हित्_४।९९ ॥
देव ! किम् इतो विना सन्धानं गमनम् अस्ति ? यतस् तदास्माकं पश्चात् प्रकोपो ऽनेन कर्तव्यः । अपरं च-
यो ऽर्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः ।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥ हित्_४।१०० ॥
राजाह–कथम् एतत् ?
दूरदर्शी कथयति-
अतो ऽहं ब्रवीमि-यो ऽर्थ-तत्त्वम् अविज्ञाय इत्य् आदि ।
अपरं च-
कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा । षड्-वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः ॥ हित्_४।१०२ ॥
राजाह-मन्त्रिन् ! एष ते निश्चयः ?
मन्त्री ब्रूते-एवम् एव । यतः- स्मृतिस् तत्-परतार्थेषु वितर्को ज्ञान-निश्चयः । दृढता मन्त्र-गुप्तिश् च मन्त्रिणः परमो गुणः ॥ हित्_४।१०३ ॥
तथा च- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुण-लुब्धाः स्वयम् एव सम्पदः ॥ हित्_४।१०४ ॥
तद् देव ! यदीदानीम् अस्मद्-वचनं क्रियते, तदा सन्धाय गम्यताम् । यतः-
यद्यप्य् उपायाश् चत्वारो निर्दिष्टाः सध्य-साधने । सङ्ख्या-मात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ हित्_४।१०५ ॥
राजाह-कथम् एवं सत्वरं सम्भाव्यते ?
मन्त्री ब्रूते-देव ! सत्वरं भविष्यति । यतः-
- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः ॥ हित्_४।१०६ ॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः ।
ज्ञान-लव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ हित्_४।१०७ ॥
कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः ।
तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ॥ हित्_४।१०८ ॥
राजाह-अलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन् मन्त्रयित्वा गृध्रो महामन्त्री-तत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधि-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं-देव ! सन्धि-कर्तुं महामन्त्री गृध्रो ऽस्मत्-समीपम् आगच्छति ।
राजहंसो ब्रूते-मन्त्रिन् ! पुनर् अभिसन्धिना केनचिद् अत्रागमनम् ।
सर्वज्ञो विहस्याह-देव ! न शङ्कास्पदम् एतत् । यतो ऽसौ महाशयो दूरदर्शी । अथवा स्थितिर् इयं मन्द-मतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का । तथा हि-
सरसि बहुशस् ताराच्छायेक्षणात् परिवञ्चितः
कुमुद-विटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं
कुहुक-चकितो लोकः सत्येऽप्य् अपायम् अपेक्षते ॥ हित्_४।१०९ ॥
दुर्जन-दूषित-मनसः सुजनेष्व् अपि नास्ति विश्वासः ।
बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ हित्_४।११० ॥
तद् देव ! यथा-शक्ति तत्-पूजार्थं रत्नोपहारादि-सामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्ग-द्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राज-दर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच-मन्त्रिन् ! युष्मद्-आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् æ
राजहंसो ब्रूते-एवम् एव ।
दूरदर्शी कथयति-एवम् एवैतत् । किन्त्व् इदानीं बहु-प्रपञ्च-वचनं निष्पर्योजनम् । यतः-
लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलि-कर्मणा ।
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ हित्_४।१११ ॥
अन्यच् च-
सद्-भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् ।
स्त्री-भृत्यौ दान-मानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ हित्_४।११२ ॥
तद् इदानीं सन्धातुं गम्यताम् । महा-प्रतापश् चित्रवर्णो राजा ।
चक्रवाको ब्रूते-यथा सन्धानं कार्यम् । तद् अप्य् उच्यताम् ।
राजहंसो ब्रूते-कति प्रकाराः सन्धीनां सम्भवन्ति ?
गृध्रो ब्रूते-कथयामि श्रूयताम्-
बलीयसाभियुक्तस् तु नृपो नान्य-प्रतिक्रियः ।
आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः काल-यापनम् ॥ हित्_४।११३ ॥
कपाल उपहारश् च सन्तानः सङ्गतस् तथा ।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ हित्_४।११४ ॥
अदृष्ट-नर आदिष्ट आत्मामिष उपग्रहः ।
परिक्रयस् तथोच्छिन्नस् तथा च पर-दूषणः ॥ हित्_४।११५ ॥
स्कन्धोपनेयः सन्धिश् च षोडशः परकीर्तितः । इति षोडशकं प्राहुः सन्धिं सन्धि-विचक्षणाः ॥ हित्_४।११६ ॥
कपाल-सन्धिर् विज्ञेयः केवलं सम-सन्धिकः ।
सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ हित्_४।११७ ॥
सन्तान-सन्धिर् विज्ञेयो दारिका-दान-पूर्वकः ।
सद्भिस् तु सङ्गतः सन्धिर् मैत्री-पूर्व उदाहृतः ॥ हित्_४।११८ ॥
यावद् आयुः-प्रमाणस् तु समानार्थ-प्रयोजनः ।
सम्पत्तौ वा विपत्तौ वा कारणैर् यो न भिद्यते ॥ हित्_४।११९ ॥
सङ्गतः सन्धिर् एवायं प्रकृष्टत्वात् सुवर्णवत् ।
तथान्यैः सन्धि-कुशलैः काञ्चनः समुदाहृतः ॥ हित्_४।१२० ॥
आत्म-कार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः ।
स उपन्यास-कुशलैर् उपन्यास उदाहृतः ॥ हित्_४।१२१ ॥
मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ हित्_४।१२२ ॥
उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति ।
अयं चापि प्रतीकारो राम-सुगृईवयोर् इव ॥ हित्_४।१२३ ॥
एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः ।
सुसंहित-प्रयाणस् तु सन्धिः संयोग उच्यते ॥ हित्_४।१२४ ॥
आवयोर् योध-मुख्याभ्यां मद्-अर्थः साध्यताम् इति ।
यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ हित्_४।१२५ ॥
त्वयैकेन मदीयो ऽर्थः सम्प्रसाध्यस् त्व् असाव् इति ।
यत्र शत्रुः पणं कुर्यात् सो ऽदृष्ट-पुरुषः स्मृतः ॥ हित्_४।१२६ ॥
यत्र भूम्य्-एक-देशेन पणेन रिपुर् ऊर्जितः ।
सन्धीयते सन्धि-विद्भिः स चादिष्ट उदाहृतः ॥ हित्_४।१२७ ॥
स्व-सैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः ।
क्रियते प्राण-रक्षार्थं सर्व-दानाद् उपग्रहः ॥ हित्_४।१२८ ॥
कोशांशेनार्ध-कोशेन सर्व-कोशेन वा पुनः ।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ हित्_४।१२९ ॥
भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते ।
भूम्य्-उत्थ-फल-दानेन सर्वेण पर-भूषणः ॥ हित्_४।१३० ॥
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धि-विचक्षणाः ॥ हित्_४।१३१ ॥
परस्परोपकारस् तु मैत्री सम्बन्धकस् तथा ।
उपहारश् च विज्ञेयाश् चत्वारश् चैव सन्धयः ॥ हित्_४।१३२ ॥
एक एवोपहारस् तु सन्धिर् एतन् मतं हि नः ।
उपहारस्य भेदास् तु सर्वेऽन्ये मैत्र-वर्जिताः ॥ हित्_४।१३३ ॥
अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते । उपहाराद् ऋते तस्मात् सन्धिर् अन्यो न विद्यते ॥ हित्_४।१३४ ॥
राजाह-भवन्तो महान्तः पण्डिताश् च । तद् अत्रास्माकं यथा-कार्यम् उपदिश्यताम् ।
दूरदर्शी ब्रूते-आः किम् एवम् उच्यते?
आधि-व्याधि-परीतापाद् अद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ हित्_४।१३५ ॥
जलान्तश् चन्द्र-चपलं जीवितं खलु देहिनाम् ।
तथा-विधम् इति ज्ञात्वा शश्वत्-कल्याणम् आचरेत् ॥ हित्_४।१३६ ॥
- वाताभ्र-विभ्रमम् इदं वसुधाधिपत्यम्
आपात-मात्र-मधुरो विषयोपभोगः ।
प्राणास् तृणाग्र-जल-बिन्दु-समान-लोला
धर्मः सखा परम् अहो परलोक-याने ॥ हित्_४।१३७ ॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
मृग-तृष्णा-समं वीक्ष्य संसारं क्षण-भङ्गुरम् ।
सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥ हित्_४।१३८ ॥
तन् मम सम्मतेन तद् एव क्रियताम् । यतः-
अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् । अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते ॥ हित्_४।१३९ ॥
अतः सत्याभिधान-दिव्य-पुरःसरम् अनयोर् भूपालयोः काञ्चनाभिधानः सन्धिर् विधीयताम् । सर्वज्ञो ब्रूते-एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्ट-मनाश् चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य सन्निधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र-वचनाद् बहु-मान-दान-पुरः-सरं सम्भाषितस् तथा-विधं सन्धिं स्वीकृत्य राजहंस-समीपं प्रस्थापितः ।
दूरदर्शी ब्रूते-देव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्व-स्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति ।
विष्णुशर्मेनोक्तं-अपरं किं कथयामि, तद् उच्यताम् ।
राज-पुत्रा ऊचुः-आर्य ! तव प्रसादात् सकल-राज्य-व्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् ।
विष्णु-शर्मोवाच-यद्यप्य् एवं तथाप्य् अपरम् अपीदम् अस्तु ।
सन्धिः सर्व-मही-भुजां विजयिनाम् अस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश् चिरं वर्धताम् ।
नीति-वार-विलासिनीव सततं वक्षः-स्थले संस्थिता
वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर् भूयान् महान् उत्सवः ॥ हित्_४।१४० ॥
अन्यच् चास्तु-
प्रालेयाद्रेः सुतायाः प्रणय-निवसतिश् चन्द्रमौलिः स यावद्
यावल् लक्ष्मीर् मुरारेर् जलद इव तडिन् मानसे विस्फुरन्ती ।
यावत् स्वर्णाचलो ऽयं दव-दहन-समो यस्य सूर्यः स्फुलिङ्गस्
तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहो ऽयं कथानाम् ॥ हित्_४।१४१ ॥
किं च-
- उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र-मुख्याः ।
आकल्पान्तं च भूयात् स्थिर-समुपचिता सङ्गतिः
सज्जनानां निःशेषं यान्तु शान्तिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः ॥ हित्_४।१४२ ॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
अपरं च-
श्रीमान्धवलचन्द्रो ऽसौ जीयान् माण्डलिको रिपून् ।
येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥ हित्_४।१४३ ॥
इति हितोपदेशे सन्धिर् नाम चतुर्थः कथा-सङ्ग्रहः
॥ समाप्तश् चायं हितोपदेशः ॥