४-०० कथामुखम्

सन्धिः

पुनः कथारम्भ-काले राज-पुत्रैर् उक्तम्-आर्य ! विग्रहः श्रुतो ऽस्माभिः । सन्धिर् अधुनाभिधीयताम् ।

विष्णुशर्मेणोक्तम्-श्रूयताम् । सन्धिम् अपि कथयामि । यस्यायम् आद्यः श्लोकः-

वृत्ते महति सङ्ग्रामे राज्ञोर् निहत-सेनयोः ।
स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥ हित्_४।१ ॥

राजपुत्रा ऊचुः-कथम् एतत् ?

विष्णुशर्मा कथयति-