३-०३ सर्वज्ञहिरण्यगर्भयोः संवादः

चक्रवाको विहस्याह-देव ! बकेन तावद् देशान्तरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः,

शतं दद्यान् न विवदेद् इति विज्ञस्य सम्मतम् ।
विना हेतुम् अपि द्वन्द्वम् एतन् मूर्खस्य लक्षणम् ॥ हित्_३।३३ ॥

राजाह-अलम् अनेनातीतोपालम्भनेन । प्रस्तुतम् अनुसन्धीयताम् ।

चक्रवाको ब्रूते-देव ! विजने ब्रवीमि । यतः,

वर्णाकार-प्रतिध्वानैर् नेत्र-वक्त्र-विकारतः ।
अप्य् ऊहन्ति मनो धीरास् तस्माद् रहसि मन्त्रयेत् ॥ हित्_३।३४ ॥

ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूते-देव ! अहम् एवं जानाम्-कस्याप्य् अस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् । यतः,

वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् ।
विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम् ॥ हित्_३।३५ ॥

राजाब्रवीत्-भवतु, कारणम् अत्र पश्चान् निरूपणीयम् । सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् ।

चक्रवाको ब्रूते-देव ! प्रणिधिस् तावत् तत्र प्रहीयताम् । ततस् तद्-अनुष्ठानं बलाबलं च जानीमः । तथा हि-

भवेत् स्व-पर-राष्ट्राणां कार्याकार्यावलोकने ।
चारश् चक्षुर् महीभर्तुर् यस्य नास्त्य् अन्ध एव सः ॥ हित्_३।३६ ॥

स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मन्त्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं-

तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना ।
तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत् ॥ हित्_३।३७ ॥

गूढ-चारश् च-यो जले स्थले च चरति । ततो ऽसाव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्-गृह-लोकाश् च राज-द्वारे तिष्ठन्तु । किन्तु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् । यतः-

षट्-कर्णो भिद्यते मन्त्रस् तथा प्राप्तश् च वार्तया ।
इत्य् आत्मना द्वितीयेन मन्त्रः कार्यो मही-भृता ॥ हित्_३।३८ ॥

पश्य-

मन्त्र-भेदे हि ये दोषा भवन्ति पृथिवी-पतेः ।
न शक्यास् ते समाधातुम् इति नीति-विदां मतम् ॥ हित्_३।३९ ॥

राजा विमृश्योवाच-प्राप्तस् तावन् मयोत्तमः प्रतिनिधिः ।

मन्त्री ब्रूते-देव ! सङ्ग्रामे विजयो ऽपि प्राप्तः ।

अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच-देव ! जम्बूद्वीपाद् आगतो द्वारि शुकस् तिष्ठति ।

राजा चक्रवाकम् आलोकते । चक्रवाकेनोक्तम्-कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः ।

यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः । राजाह-विग्रहस् तावत् समुपस्थितः ।

चक्रवाको ब्रूते-देव ! तथापि प्राग् एव विग्रहो न विधिः । यतः-

स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् ।
युद्धोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम् ॥ हित्_३।४० ॥

अपरं च-

विजेतुं प्रयतेतारीन् न युद्धेन कदाचन ।
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ॥ हित्_३।४१।

अन्यच् च-

साम्ना दानेन भेदेन समस्तैर् अथवा पृथक् ।
साधितुं प्रयतेतारीन् न युद्धेन कदाचन ॥ हित्_३।४२ ॥

अपरं च-

सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः ।
अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि ॥ हित्_३।४३ ॥

किं च-

न तथोत्थाप्यते ग्रावा प्राणिभिर् दारुणा यथा ।
अल्पोपायान् महा-सिद्धिर् एतन्-मन्त्र-फलं महत् ॥ हित्_३।४४ ॥

किन्तु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः-

यथा काल-कृतोद्योगात् कृषिः फलवती भवेत् ।
तद्वन् नीतिर् इयं देव चिरात् फलति न क्षणात् ॥ हित्_३।४५ ॥

अपरं च-

दूरे भीरुत्वम् आसन्ने शूरता महतो गुणः ।
विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति ॥ हित्_३।४६ ॥

अन्यच् च-

प्रत्यूहः सर्व-सिद्धीनाम् उत्तापः प्रथमः किल ।
अतिशीतलम् अप्य् अम्भः किं भिनत्ति न भूभृतः ॥ हित्_३।४७ ॥

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
तद् युद्धं हस्तिना सार्धं नराणां मृत्युम् आवहेत् ॥ हित्_३।४८ ॥

अन्यच् च-

स मूर्खः कालम् अप्राप्य यो ऽपकर्तरि वर्तते ।
कलिर् बलवता सार्धं कीट-पक्षोद्गमो यथा ॥ हित्_३।४९ ॥

किं च-

कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् ।
प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत् ॥ हित्_३।५० ॥

महत्य् अल्पेऽप्य् उपायज्ञः समम् एव भवेत् क्षमः ।
समुन्मूलयितुं वृक्षांस् तृणानीव नदीरयः ॥ हित्_३।५१ ॥

अतो दूतो ऽयं शुको ऽत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः-

एकः शतं योधयति प्राकार-स्थो धनुर्धरः ।
शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते ॥ हित्_३।५२ ॥

किं च-

अदुर्ग-विषयः कस्य नारेः परिभवास्पदम् ।
अदुर्गो ऽनाश्रयो राजा पोत-च्युत-मनुष्यवत् ॥ हित्_३।५३ ॥

दुर्गं कुर्यान् महाखातम् उच्च-प्राकार-संयुतम् ।
स-यन्त्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम् ॥ हित्_३।५४ ॥

विस्तीर्णताति-वैषम्यं रस-धान्येध्म-सङ्ग्रहः ।
प्रवेशश् चाप-सारश् च सप्तैता दुर्ग-सम्पदः ॥ हित्_३।५५ ॥

राजाह-दुर्गानुसन्धाने को नियुज्यताम् ?

चक्रवाको ब्रूते-

यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् ।
कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञो ऽपि विमुह्यति ॥ हित्_३।५६ ॥

तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच-भोः सारस ! त्वं सत्वरं दुर्गम् अनुसन्धेहि ।

सारसः प्रणम्योवाच-देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः । किन्त्व् एतन्-मध्य-द्वीपे द्रव्य-सङ्ग्रहः क्रियताम् । यतः-

धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्व-सङ्ग्रहात् ।
निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम् ॥ हित्_३।५७ ॥

किं च-
ख्यातः सर्व-रसानां हि लवणो रस उत्तमः ।
गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ॥ हित्_३।५८ ॥

राजाह-सत्वरं गत्वा सर्वम् अनुष्ठीयताम् ।

पुनः प्रविश्य प्रतीहारो ब्रूते-देव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देव-पादान् द्रष्टुम् इच्छति ।

राजाह-काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः ।

चक्रवाको ब्रूते-देव ! अस्त्य् एवं । किन्तु अस्मद्-विपक्षः काकः स्थलचरः । तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं सङ्गृह्यते ? तथा चोक्तम्-

आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः ।
स परैर् हन्यते मूढो नील-वर्ण-शृगालवत् ॥ हित्_३।५९ ॥

राजोवाच–कथम् एतत् ?

मन्त्री कथयति-

अतो ऽहं ब्रवीमि-आत्म-पक्षं परित्यज्येत्य् आदि ।

राजाह-यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्-सङ्ग्रहे विचारः कार्यः ।

चक्रो ब्रूते-देव ! प्रणिधिस् तावत् प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुको ऽप्य् आनीय प्रस्थाप्यताम् । किन्तु योध-बल-समन्वितो भूत्वा, दूराद् एव तम् अवलोकय । यतः-

नन्दं जघान चाणक्यस् तीक्ष्ण-दूत-प्रयोगतः ।
तद् दूरान्तरितं दूतं पश्येद् वीर-समन्वितः ॥ हित्_३।६२ ॥

ततः सभां कृत्वाहूतः शुकः काकश् च । शुकः किञ्चिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूते-भो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयति-यदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय ।

राजा स-कोपम् आह-आः, सभायाम् अस्माकं न को ऽपि विद्यते य एनं गलहस्तयति ? तत उत्थाय मेघवर्णो ब्रूते-देव ! आज्ञापय, हमि चैनं दुष्ट-शुकम् ।

सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूते-भद्र ! मा मैवम् । शृणु तावत्-

न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यम् अस्ति
सत्यं न तद् यच् छलम् अभ्युपैति ॥ हित्_३।६३ ॥

यतो राजधर्मश् चैषः-

दूतो म्लेच्छो ऽप्य् अवध्यः स्याद् राजा दूत-मुखो यतः ।
उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ॥ हित्_३।६४ ॥

अन्यच् च-

स्वापकर्षं परोत्कर्षं दूतोक्तैर् मन्यते तु कः ।
सदैवावध्य-भावेन दूतः सर्वं हि जल्पति ॥ हित्_३।६५ ॥

ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ । शुको ऽप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुको ऽपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् ।

तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो ऽसौ देशः ?

शुको ब्रूते-देव ! सङ्क्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्-सम्प्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनर् अवश्यं कर्तव्यः । तथा चोक्तम्-

असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश् च महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गना ॥ हित्_३।६६ ॥

दूरदर्शी नाम गृध्रो मन्त्री ब्रूते-देव ! व्यसनितया विग्रहो न विधिः । यतः-

मित्रामात्य-सुहृद्-वर्गा यदा स्युर् दृढ-भक्तयः ।
शत्रूणां विपरीताश् च कर्तव्यो विग्रहस् तदा ॥ हित्_३।६७ ॥

अन्यच् च-

भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् ।
यदैतन् निश्चितं भावि कर्तव्यो विग्रहस् तदा ॥ हित्_३।६८ ॥

राजाह-मद्-बलं तावद् अवलोकयतु मन्त्री । तदैतेषाम् उपयोगो ज्ञायताम् । एवम् आहूयतां मौहूर्तिकः । स यात्रार्थं शुभ-लग्नं निर्णीय ददातु ।

मन्त्री ब्रूते-देव ! तथापि सहसा यात्रा-करणम् अनुचितम् । यतः-

विशन्ति सहसा मूढा येऽविचार्य द्विषद्-बलम् ।
खड्ग-धारा-परिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ हित्_३।६९ ॥

राजाह-मन्त्रिन् ! ममोत्साह-भङ्गं सर्वथा मा कृथाः । विजिगीषुर् यथा पर-भूमिम् आक्रमति तथा कथय ।

गृध्रो ब्रूते-देव ! तत् कथयामि । किन्तु तद्-अनुष्ठितम् एव फल-प्रदम् । तथा चोक्तम्-

किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः ।
न ह्य् औषध-परिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत् ॥ हित्_३।७० ॥

राजादेशश् चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणु-देव !

नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप ।
तत्र तत्र च सेनानीर् यायाद् व्यूहीकृतैर् बलैः ॥ हित्_३।७१ ॥

बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषान्वितः ।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥ हित्_३।७२ ॥

पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वतो रथाः ।
रथानां पार्श्वतो नागा नागानां च पदातयः ॥ हित्_३।७३ ॥

पश्चात् सेनापतिर् यायात् खिन्नानाश्वासयन् छनैः ।
मन्त्रिभिः सुभटैर् युक्तः प्रतिगृह्य बलं नृपः ॥ हित्_३।७४ ॥

समेयाद् विषमं नागैर् जलाढ्यं समहीधरम् ।
समम् अश्वैर् जलं नीमिः सर्वत्रैव पदातिभिः ॥ हित्_३।७५ ॥

हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे ।
तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ हित्_३।७६ ॥

शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम् ।
स्व-योधै रक्षितस्यापि शयनं योग-निद्रया ॥ हित्_३।७७ ॥

नाशयेत् कर्षयेच् छत्रून् दुर्ग-कण्टक-मर्दनैः ।
पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः ॥ हित्_३।७८ ॥

यत्र राजा तत्र कोशो विना कोशं न राजता ।
सुभटेभ्यस् ततो दद्यात् को हि दातुर् न युध्यते ॥ हित्_३।७९ ॥

यतः-

न नरस्य नरो दासो दासस् त्व् अर्थस्य भूपते ।
गौरवं लाघवं वापि धनाधन-निबन्धनम् ॥ हित्_३।८० ॥

अभेदेन च युध्येत रक्षेच् चैव परस्परम् ।
फल्गु सैन्यं च यत् किञ्चिन् मध्ये व्यूहस्य कारयेत् ॥ हित्_३।८१ ॥

पदातींश् च महीपालः पुरो ऽनीकस्य योजयेत् ।
उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ॥ हित्_३।८२ ॥

स्यन्दनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस् तथा ।
वृक्ष-गुल्मावृते चापैर् असि-चर्मायुधैः स्थले ॥ हित्_३।८३ ॥

दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् ।
भिन्द्याच् चैव तडागानि प्रकारारान् परिखास् तथा ॥ हित्_३।८४ ॥

बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ।
निजैर् अवयवैर् एव मातङ्गो ऽष्टायुधः स्मृतः ॥ हित्_३।८५ ॥

बलम् अश्वश् च सैन्यानां प्राकारो जङ्गमो यतः ।
तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे ॥ हित्_३।८६ ॥

तथा चोक्तम्-

युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः ।
अपि दूरस्थितास् तेषां वैरिणो हस्तवत्तिनः ॥ हित्_३।८७ ॥

प्रथमं युद्ध-कारित्वं समस्त-बल-पालनम् ।
दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते ॥ हित्_३।८८ ॥

स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम् ।
प्रसिद्ध-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः ॥ हित्_३।८९ ॥

यथा प्रभु-कृतान् मानाद् युध्यन्ते भुवि मानवाः ।
न तथा बहुभिर् दत्तैर् द्रविणैर् अपि भूपते ॥ हित्_३।९० ॥

वरम् अल्प-बलं सारं न कुर्यान् मुण्ड-मण्डलीम् ।
कुर्याद् असार-भङ्गो हि सार-भङ्गम् अपि स्फुटम् ॥ हित्_३।९१ ॥

अप्रसादो ऽनधिष्ठानं देयांश-हरणं च यत् ।
काल-यापो ऽप्रतीकारस् तद् वैराग्यस्य कारणम् ॥ हित्_३।९२ ॥

अपीडयन् बलं शत्रूञ् जिगीषुर् अभिषेणयेत् ।
सुख-साध्यं द्विषां सैन्यं दीर्घ-प्रयाण-पीडितम् ॥ हित्_३।९३ ॥

दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम् ।
तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः ॥ हित्_३।९४ ॥

सन्धाय युवराजेन यदि वा मुख्य-मन्त्रिणा ।
अन्तः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ॥ हित्_३।९५ ॥

क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् ।
अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बन्धनात् ॥ हित्_३।९६ ॥

स्वराज्यं वासयेद् राजा पर-देशापहरणात् ।
अथवा दान-मानाभ्यां वासितं धनदं हि तत् ॥ हित्_३।९७ ॥

अथवा बहुनोदितेन-

आत्मोदयः पर-ग्लानिर् द्वयं नीतिर् इतीयती ।
तद् ऊरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते ॥ हित्_३।९८ ॥

राज्ञा विहस्योक्तम्-सर्वम् एतद् विशेषतश् चोच्यते । किन्तु,

अन्यद् उच्छृङ्खलं सत्त्वम् अन्यच् छास्त्र-नियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः ॥ हित्_३।९९ ॥

तत उत्थाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः । अथ प्रहित-प्रणिधिश् चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच-देव ! समागत-प्रायो राजा चित्रवर्णः । सम्प्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते । दुर्ग-शोधनं प्रतिक्षणम् अनुसन्धातव्यम् । यतो ऽसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वास-कथा-प्रसङ्गेनेतद् इङ्गितम् अवगतं मया । यत्-अनेन को ऽप्य् अस्मद्-दुर्गे प्राग् एव नियुक्तः ।

चक्रवाको ब्रूते-देव ! काक एवासौ सम्भवति ।

राजाह-न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते ।

मन्त्री ब्रूते-तथाप्य् आगन्तुकः शङ्कनीयः ।

राजाह-आगन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु-

परो ऽपि हितवान् बन्धुर् बन्धुर् अप्य् अहितः परः ।
अहितो देहजो व्याधिर् हितम् आरण्यम् औषधम् ॥ हित्_३।१०० ॥

अपरं च-

आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः ।
सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः ॥ हित्_३।१०१ ॥

चक्रवाकः पृच्छति–कथम् एतत् ?

राजा कथयति-

तत् किम् आगन्तुको जाति-मात्राद् दुष्टः ? तत्राप्य् उत्तमाधम-मध्यमाः सन्ति ।

चक्रवाको ब्रूते-

यो ऽकार्यं कार्यवच् छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः ॥ हित्_३।१०५ ॥

वैद्यो गुरुश् च मन्त्री च यस्य राज्ञः प्रियंवदाः ।
शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते ॥ हित्_३।१०६ ॥

शृणु देव !

पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति ।
हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः ॥ हित्_३।१०७ ॥

राजा पृच्छति–कथम् एतत् ?

मन्त्री कथयति-

अतो ऽहं ब्रवीमि-पुण्याल् लब्धं यद् एकेन इत्य् आदि ।

राजाह-

पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः ।
स्यान् निष्कारण-बन्धुर् वा किं वा विश्वास-घातकः ॥ हित्_३।१०८ ॥

यातु, प्रस्तुतम् अनुसन्धीयताम् । मलयाधित्यकायां चेच् चित्रवर्णस् तद् अधुना किं विधेयम् ? मन्त्री वदति-देव ! आगत-प्रणिधि-मुखान् मया श्रुतं, यत् महा-मन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततो ऽसौ मूढो जेतुं शक्यः । तथा चोक्तम्-

लुब्धः क्रूरो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः ।
मूढो योधावमन्ता च सुख-च्छेद्यो रिपुः स्मृतः ॥ हित्_३।१०९ ॥

ततो ऽसौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम्-

दीर्घ-वर्त्म-परिश्रान्तं नद्य्-अद्रि-वन-सङ्कुलम् ।
घोराग्नि-भय-सन्त्रस्तं क्षुत्-पिपासार्दितं तथा ॥ हित्_३।११० ॥

प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-पीडितम् ।
असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम् ॥ हित्_३।१११ ॥

पङ्क-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम् ।
एवम्भूतं महीपालः पर-सैन्यं विघातयेत् ॥ हित्_३।११२ ॥

अन्यच् च-

अवस्कन्द-भयाद् राजा प्रजागर-कृत-श्रमम् ।
दिवा-सुप्तं सदा हन्यान् निद्रा-व्याकुल-सैनिकम् ॥ हित्_३।११३ ॥

अतस् तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नन्त्व् अस्मत्-सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश् च बहवो निहताः । ततश् चित्रवर्णो विषण्णः स्व-मन्त्रिणं दूर-दर्शिनम् आह-तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते ? किं क्वाप्य् अविनयो ममास्ति ? तथा चोक्तम्-

न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् ।
श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् ॥ हित्_३।११४ ॥

अपि च-

दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी ।
उद्युक्तो वियान्तं धर्मार्थ-यशांसि च विनीतः ॥ हित्_३।११५ ॥

गृध्रो ऽवदत्-देव ! शृणु-

अविद्वान् अपि भू-पालो विद्या-वृद्धोपसेवया ।
परां श्रियम् अवाप्नोति जलासन्न-तरुर् यथा ॥ हित्_३।११६ ॥

अन्यच् च-

पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च ।
वाग्-दण्डयोश् च पारुष्यं व्यसनानि महीभुजाम् ॥ हित्_३।११७ ॥

किं च-

न साहसैकान्त-रसानुवर्तिना
न चाप्य् उपायोपहतान्तरात्मना ।
विभूतयः शक्यम् अवाप्तुम् ऊर्जिता
नये च शौर्ये च वसन्ति सम्पदः ॥ हित्_३।११८ ॥

त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपन्थस् तेष्व् अपि मन्त्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम् । अतो दुर्नीतेः फलम् इदम् अनुभूयते । तथा चोक्तम्-

दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ?
सन्तापयन्ति कम् अपथ्य-भुजं न रोगाः ?
कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः
कं स्त्री-कृता न विषयाः परितापयन्ति ॥ हित्_३।११९ ॥

अपरं च-

मुदं विषादः शरदं हिमागमस्
तमो विवस्वान् सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचम् आपदं नयः
श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ हित्_३।१२० ॥

ततो मयाप्य् आलोचितम्-प्रज्ञा-हीनो ऽयं राजा । न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस् तिमिरयति । यतः-

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ?
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ हित्_३।१२१ ॥

इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिर् आह-तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश ।

गृध्रः स्वगतं चिन्तयति-क्रियताम् अत्र प्रतीकारः । यतः,

देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च ।
नियन्तव्यः सदा कोपो बाल-वृद्धातुरेषु च ॥ हित्_३।१२२ ॥

मन्त्री प्रहस्य ब्रूते-देव मा भैषीः । समाश्वसिहि । शृणु देव-

मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ हित्_३।१२३ ॥

अपरं च-

आरम्भन्तेऽल्पम् एवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृत-धियस् तिष्ठन्ति च निराकुलाः ॥ हित्_३।१२४ ॥

तद् अत्र भवत्-प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि ।

राजाह-कथम् अधुना स्वल्प-बलेन तत् सम्पद्यते ?

गृध्रो वदति-देव ! सर्वं भविष्यति । यतो विजिगीषोर् अदीर्घ-सूत्रता विजय-सिद्धेर् अवश्यम्भावि लक्षणम् । तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम् ।

अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्-देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति ।

राजहंसो ब्रूते-स्व-बले सारासार-विचारः क्रियताम् । तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम् । यतः-

यः काकिणीम् अप्य् अपथ-प्रपन्नां
समुद्धरेन् निष्क-सहस्र-तुल्याम् ।
कालेषु कोटिष्व् अपि मुक्त-हस्तस्
तं राज-सिंहं न जहाति लक्ष्मीः ॥ हित्_३।१२५ ॥

अन्यच् च-

क्रतौ विवाहे व्यसने रिपु-क्षये
यशस्करे कर्मणि मित्र-सङ्ग्रहे ।
प्रियासु नारीष्व् अधनेषु बान्धवेष्व्
अतिव्ययो नास्ति नराधिपाष्टसु ॥ हित्_३।१२६ ॥

यतः-

मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि ।
कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात् ॥ हित्_३।१२७ ॥

राजाह-कथम् इह समयेऽतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति ।

मन्त्री ब्रूते-श्रीमतां कथम् आपदः ?

राजाह-कदाचिच् चलिता लक्ष्मीः ।

मन्त्री ब्रूते-सञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्-

परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः ।
कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्-बलम् ॥ हित्_३।१२८ ॥

अपरं च-

सुभटाः शील-सम्पन्नाः संहताः कृत-निश्चयाः ।
अपि पञ्च-शतं शूरा निघ्नन्ति रिपु-वाहिनीम् ॥ हित्_३।१२९ ॥

किं च-

शिष्टैर् अप्य् अवशेषज्ञ उग्रश् च कृत-नाशकः ।
त्यज्यते किं पुनर् नान्यैर् यश् चाप्य् आत्मम्भरिर् नरः ॥ हित्_३।१३० ॥

यतः-

सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः । एतैस् त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ हित्_३।१३१ ॥

ईदृशि प्रस्तावेऽमात्यास् तावद् अवश्यम् एव पुरस्कर्तव्याः । तथा चोक्तम्-

यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी ।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ हित्_३।१३२ ॥

यतः-

धूर्तः स्त्री वा शिशुर् यस्य मन्त्रिणः स्युर् महीपतेः ।
अनीति-पवन-क्षिप्तो ऽकार्याब्धौ स निमज्जति ॥ हित्_३।१३३ ॥

शृणु देव! -

हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस् तथा ।
नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ॥ हित्_३।१३४ ॥

येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् ।
अमात्या इति तान् राजा नावमन्येत् कदाचन ॥ हित्_३।१३५ ॥

महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः ।
स्खलतो हि करालम्बः सुशिष्टैर् एव कीयते ॥ हित्_३।१३६ ॥

अथागत्य प्रणम्य मेघवर्णो ब्रूते-देव ! दृष्टि-प्रसादं कुरु । इदानीं विपक्षो दुर्ग-द्वारि वर्तते । तद् देव-पादादेशाद् बहिर् निःसृत्य स्व-विक्रमं दर्शयामि । तेन देव-पादानाम् आनृण्यम् उपगच्छामि ।

चक्रवाको ब्रूते-मैवम् । यदि बहिर् निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् । अपरं च-

विषमो ऽपि यथा नक्रः सलिलान् निसृतो वशः ।
वनाद् विनिर्गतः शूरः सिंहो ऽपि स्याच् छगालवत् ॥ हित्_३।१३७ ॥

अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश् चित्रवर्णो राजा गृध्रम् उवाच-तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय ।

वायसो ब्रूते-देव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः-

पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् ।
स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥ हित्_३।१३८ ॥

गृध्रो ब्रूते-देव ! शृणु तावत्-

अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् ।
अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ॥ हित्_३।१३९ ॥

तत् तावद् अत्र नास्ति-

उपजापश् चिरारोधो ऽवस्कन्दस् तीव्र-पौरुषम् ।
दुर्गस्य लङ्घनोपायाश् चत्वारः कथिता इमे ॥ हित्_३।१४० ॥

अत्र यथाशक्ति क्रियते यत्नः । (कर्णे कथयति)-एवम् एवम् । ततो ऽनुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तर-गृहेष्व् एकदा काकैर् अग्नि-निक्षिप्तः । ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश् च सत्वरं ह्रदं प्रविष्टाः, यतः-

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत् ॥ हित्_३।१४१ ॥

राजा हंसश् च स्वभावान् मन्द-गतिः । सारस-द्वितीयश् चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह-सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुम् असमर्थः । त्वं गन्तुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्-पुत्रं चूडामणि-नामानं सर्वज्ञस्य सम्मत्या राजानं करिष्यसि ।

सारसो ब्रूते-देव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस् तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन् मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः ।
अपरं च, देव-

दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते ।

राजाह-सत्यम् एवैतत् । किन्तु-

शुचिर् दक्षो ऽनुरक्तश् च जाने भृत्यो ऽपि दुर्लभः ॥ हित्_३।१४२ ॥

सारसो ब्रूते-शृणु देव!

यदि समरम् अपास्य नास्ति मृत्योर्
भयम् इति युक्तम् इतो ऽन्यतः प्रयातुम् ।
अथ मरणम् अवश्यम् एव जन्तोः
किम् इति मुधा मलिनं यशः क्रियते ? ॥ हित्_३।१४३ ॥

अन्यच् च-

भवेऽस्मिन् पवनोद्भ्रान्त-वीचि-विभ्रम-भङ्गुरे ।
जायते पुणय्-योगेन परार्थे जीवित-व्ययः ॥ हित्_३।१४४ ॥

स्वाम्य्-अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत् ।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो ऽपि च ॥ हित्_३।१४५ ॥

देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः-

प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति ।
अपि धन्वन्तरिर् वैद्यः किं करोति गतायुषि ॥ हित्_३।१४६ ॥

अपरं च-

नरेशे जीव-लोको ऽयं निमीलति निमीलति ।
उदेत्य् उदीयमाने च रवाव् इव सरोरुहम् ॥ हित्_३।१४७ ॥

अत्रापि प्रधानाङ्गं राजा ।

अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः । तदा सत्वरम् उपसृत्य सारसेन स्व-देहान्तरितो राजा जले क्षिप्तः ।

अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता । पश्चात् सारसो ऽपि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर् जय-शब्दैर् आनन्दितः स्व-स्कन्धावारं जगाम ।

अथ राज-पुत्रैर् उक्तं-तस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः । यतः-

जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् ।
विषाणोल्लिखित-स्कन्धं काचिद् एव गवां पतिम् ॥ हित्_३।१४८ ॥

विष्णुशर्मोवाच-स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तो ऽनुभवतु महा-सत्त्वः । तथा चोक्तम्-

आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः ।
भर्तृ-भक्ताः कृतज्ञाश् च ते नराः स्वर्ग-गामिनः ॥ हित्_३।१४९ ॥

यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥ हित्_३।१५० ॥

अथ विष्णुशर्मा प्राह-विग्रहः श्रुतो भवद्भिः ।

राजपुत्रैर् उक्तम्-श्रुत्वा सुखिनो भूता वयम् ।

विष्णुशर्माब्रवीत्-अपरम् अप्य् एवम् अस्तु-

विग्रहः करि-तुरङ्ग-पत्तिभिर्
नो कदापि भवतान् महीभुजाम् ।
नीति-मन्त्र-पवनैः समाहताः
संश्रयन्तु गिरि-गह्वरं द्विषः ॥ हित्_३।१५१ ॥

इति श्री-नारायण-पण्डित-कृते हितोपदेशे नीति-शास्त्रे
विग्रहो नाम तृतीयः कथा-सङ्ग्रहः ।