दीर्घमुखो ब्रूते-ततः पश्चात् तैः पक्षिभिर् उक्तम्-अरे पापा दुष्ट-बक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षन्तव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर् हत्वा, स-कोपा ऊचुः-पश्य रे मूर्ख ! स हंसस् तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्त-मृदुः करतलस्थम् अप्य् अर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूप-मण्डूकः । तेन तद्-आश्रयम् उपदिशसि । शृणु-
सेवितव्यो महा-वृक्षः फल-च्छाया-समन्वितः ।
यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ॥ हित्_३।१० ॥
अन्यच् च-
हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः ।
पयो ऽपि शौण्डिकी-हस्ते वारुणीत्य् अभिधीयते ॥ हित्_३।११ ॥
अन्यच् च-
महान् अप्य् अल्पतां याति निर्गुणे गुण-विस्तरः ।
आधाराधेय-भावेन गजेन्द्र इव दर्पणे ॥ हित्_३।१२ ॥
किन्तु-
अजा सिंह-प्रसादेन वने चरति निर्भयम् ।
रामम् आसाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ हित्_३।१३ ॥
विशेषतश् च-
व्यपदेशेऽपि सिद्धिः स्याद् अतिशक्ते नराधिपे ।
शशिनो व्यपदेशेन शशकाः सुखम् आसते ॥ हित्_३।१४ ॥
मयोक्तम्-कथम् एतत् ?
पक्षिणः कथयन्ति-
अतो वयं ब्रूमः-व्यपदेशेऽपि सिद्धिः स्यात् इति ।
ततो मयोक्तम्-स एवास्मत्-प्रभू राजहंसो महा-प्रतापो ऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिः-दुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश् चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्-देव ! अवधीयताम् । एष दुष्टो ऽस्मद्-देशे चरन्न् अपि देव-पादान् अधिक्षिपति ।
राजाह-को ऽयम् ? कुतः समायातः ?
ते ऊचुः-हिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः ।
अथाहं गृध्रेण मन्त्रिणा पृष्टः-कस् तत्र मुख्यो मन्त्री ? इति ।
मयोक्तम्-सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः ।
गृध्रो ब्रूते-युज्यते । स्व-देशजो ऽसौ । यतः-
स्वदेशजं कुलाचार-विशुद्धम् उपधाशुचिम् ।
मन्त्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम् ॥ हित्_३।१७ ॥
अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम् ।
अर्थस्योत्पादकं चैव विदध्यान् मन्त्रिणं नृपः ॥ हित्_३।१८ ॥
अत्रान्तरे शुकेनोक्तम्-देव ! कर्पूर-द्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देव-पादानाम् एवाधिपत्यम् । ततो राज्ञाप्य् उक्तम्-एवम् एव । यतः-
राजा मत्तः शिशुश् चैव प्रमदा धन-गर्वितः ।
अप्राप्यम् अपि वाञ्छन्ति किं पुनर् लभ्यतेऽपि यत् ॥ हित्_३।१९ ॥
ततो मयोक्तम्-यदि वचनम्-मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्य् अस्मत्-प्रभोर् हिरण्यगर्भस्य स्वाम्यम् अस्ति ।
शुको ब्रूते-कथम् अत्र निर्णयः ?
मयोक्तं-सङ्ग्राम एव ।
राज्ञा विहस्योक्तम्-स्व-स्वामिनं गत्वा सज्जीकुरु ।
तदा मयोक्तम्-स्व-दूतो ऽपि प्रस्थाप्यताम् ।
राजोवाच-कः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः-
भक्तो गुणी शुचिर् दक्षः प्रगल्भो ऽव्यसनी क्षमी ।
ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ॥ हित्_३।२० ॥
गृध्रो वदति-सन्त्य् एव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः,
प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति ।
कालिमा कालकूटस्य नापैतीश्वर-सङ्गमात् ॥ हित्_३।२१ ॥
राजाह-ततः शुक एव व्रजतु । शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि ।
शुको ब्रूते-यथाज्ञापयति देवः । किन्त्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम्-
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननो ऽहरत् सीतां बन्धनं स्यान् महोदधेः ॥ हित्_३।२२ ॥
अपरं च-
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।
काक-सङ्गाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः ॥ हित्_३।२३ ॥
राजोवाच-कथम् एतत् ?
शुकः कथयति-
अतो ऽहं ब्रवीमि-न स्थातव्यम् इति ।
देव ! वर्तक-कथाम् अपि कथयामि । श्रूयताम्-
अतो ऽहं ब्रवीमि-न गन्तव्यम् इत्य् आदि ।
ततो मयोक्तम्-भ्रातः शुक ! किम् एवं ब्रवीषि ? मां प्रति यथा श्रीमद्-देव-पादास् तथा भवान् अपि । शुकेनोक्तम्-अस्त्व् एवम् । किन्तु,
दुर्जनैर् उच्यमानानि सम्मतानि प्रियाण्य् अपि ।
अकाल-कुसुमानीव भयं सञ्जनयन्ति हि ॥ हित्_३।२४ ॥
दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर् भूपालयोर् विग्रहे भवद्-वचनम् एव निदानम् । पश्य-
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथ-कारो निजां भार्यां सजारां शिरसाकरोत् ॥ हित्_३।२५ ॥
राज्ञोक्तम्-कथम् एतत् ?
शुकः कथयति-
अतो ऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्य् आदि ।
अतो ऽहं तेन राज्ञा यथा-व्यवहारं सम्पूज्य प्रस्थापितः । शुको ऽपि मम पश्चाद् आगच्छन्न् आस्ते । एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसन्धीयताम् ।