हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मन्दिरे ॥ हित्_३।१ ॥
अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर् जलचरैः पक्षिभिर् मिलित्वा पक्षि-राज्येऽभिषिक्तः । यतः-
यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा ।
अकर्ण-धारा जलधौ विप्लवेतेह नौर् इव ॥ हित्_३।२ ॥
अपरं च-
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद् रक्षणं श्रेयस् तद्-अभावे सद् अप्य् असत् ॥ हित्_३।३ ॥
एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यङ्के सुखासीनः परिवार-परिवृतस् तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः । राजोवाच-दीर्घमुख ! दशान्तराद् आगतो ऽसि । वार्तां कथय ।
स ब्रूते-देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतो ऽहम् । श्रूयताम्-
अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश् चरद्भिः पक्षिभिर् अहं दग्धारच्य-मध्ये चरन्न् अवलोकितः । पृष्टश् च-कस् त्वम् ? कुतः समागतो ऽसि ?
तदा मयोक्तम्-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरो ऽहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतो ऽस्मि । एतच् छ्रुत्वा पक्षिभिर् उक्तम्-अनयोर् देशयोः को देशो भद्रतरो राजा च ?
ततो मयोक्तम्-आः किम् एवम् उच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश् च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्-देशे गम्यताम् ।
ततो ऽस्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः । तथा चोक्तम्-
पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ हित्_३।४ ॥
अन्यच् च-
विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन ।
वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः ॥ हित्_३।५ ॥
राजोवाच-कथम् एतत् ?
दीर्घमुखः कथयति-
अतो ऽहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि ।
राजोवाच-ततस् तैः पक्षिभिः किं कृतम् ?
बकः कथयति-ततस् तैः पक्षिभिः कोपाद् उक्तम्-केनासौ राजहंसो राजा कृतः ?
ततो मयोपजात-कोपेनोक्तम्-अयं युष्मदीयो मयूरः केन राजा कृतः ?
एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः । ततो मयापि स्व-विक्रमो दर्शितः । यतः-
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ॥ हित्_३।७ ॥
राजा विहस्याह-
आत्मनश् च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ हित्_३।८ ॥
सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् ।
द्वीपि-चर्म-परिच्छन्नो वाग्-दोषाद् गर्दभो हतः ॥ हित्_३।९ ॥
बकः पृच्छति-कथम् एतत् ?
राजा कथयति-
अतो ऽहं ब्रवीमि-सुचिरं हि चरन् नित्यम् इत्य् आदि ॥