विग्रहः
अथ पुनः कथारम्भ-काले राज-पुत्रा ऊचुः-आर्य ! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति । विष्णुशर्मणोक्तम्-यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः-
हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मन्दिरे ॥ हित्_३।१ ॥
राज-पुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति-