तत्र गतश् च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । सञ्जीवकेन सादरम् उक्तम्-भद्र ! कुशलं ते ।
दमनको ब्रूते-अनुजीविनां कुतः कुशलम् । यतः-
सम्पत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् ।
स्व-जीइवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥ हित्_२।१५२ ॥
अन्यच् च-
को ऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया ।
कः कालस्य भुजान्तरं न च गतः को ऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥ हित्_२।१५३ ॥
सञ्जीवकेनोक्तम्-सखे ! ब्रूहि किम् एतत् ?
दमनक आह-किं ब्रवीमि मन्द-भाग्यः । पश्य-
मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् ।
न मुञ्चति न चादत्ते तथा मुग्धो ऽस्मि सम्प्रति ॥ हित्_२।१५४ ॥
यतः-
एकत्र राज-विश्वासो नश्यत्य् अन्यत्र बान्धवः ।
किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे ॥ हित्_२।१५५ ॥
इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः । सञ्जीवको ब्रूते-मित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम् ।
दमनकः सुनिभृतम् आह-यद्यपि राज-विश्वासो न कथनीयस् तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितम् आख्येयम् । शृणु, अयं स्वामी तवोपरि विकृत-बुद्धी रहस्य् उक्तवान् -सञ्जीवकम् एव हत्वा स्व-परिवारं तर्पयामि ।
एतच् छ्रुत्वा सञ्जीवकः परं विषादम् अगमत् । दमनकः पुनर् आह-अलं विषादेन । प्राप्त-कालकायम् अनुष्ठीयताम् । सञ्जीवकः क्षणं विमृश्याह स्व-गतम्-सुष्ठु खल्व् इदम् उच्यते । किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते । यतः-
दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा ।
कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च ॥ हित्_२।१५६ ॥
कश्चिद् आश्रय-सौन्दर्याद् धत्ते शोभाम् असज्जनः ।
प्रमदालोचन-न्यस्तं मलीमसम् इवाञ्जनम् ॥ हित्_२।१५७ ॥
आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् ।
अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति ॥ हित्_२।१५८ ॥
तद् अयम् अशक्यर्थः प्रमेयः, यतः-
निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारण-द्वेषि मनस् तु यस्य वै
कथं जनस् तं परितोषयिष्यति ॥ हित्_२।१५९ ॥
किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश् च भवन्ति राजानः ।
दमनको ब्रूते-एवम् एतत् । शृणु-
विज्ञैः स्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति कैश्चित्
साक्षाद् अन्यैर् अपकृतम् अपि प्रीतिम् एवोपयाति ।
चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ हित्_२।१६० ॥
अन्यच् च-
कृत-शतम् असत्सु नष्टं सुभाषित-शतं च नष्टम् अबुधेषु ।
वचन-शतम् अवचन-करे बुद्धि-शतम् अचेतने नष्टम् ॥ हित्_२।१६१ ॥
किं च-
चन्दन-तरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः ।
गुण-घातिनश् च भोगे खला न च सुखान्य् अविघ्नानि ॥ हित्_२।१६२ ॥
मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भल्लैः ।
नास्त्य् एव तच्-चन्दन-पादपस्य
यन् नाश्रितं दुष्टतरैश् च हिंस्रैः ॥ हित्_२।१६३ ॥
अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः । यतः-
दूराद् उच्छ्रित-पाणिर् आद्र-नयनः प्रोत्सारितार्धासनो
गाढालिङ्गन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः ।
अन्तर्भूत-विषो बहिर् मधुमयश् चातीव माया-पटुः
को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः ॥ हित्_२।१६४ ॥
तथा हि-
पोतो दुस्तर-वारि-राशितरणे दीपो ऽन्धकारागमे
निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्त्यै सृणिः ।
इत्थं तद् भुवि नास्ति यस्य विधिना नोपाय-चिन्ता कृता
मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ॥ हित्_२।१६५ ॥
सञ्जीवकः पुनर् निःश्वस्य-कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः ? यतः-
ययोर् एव समं वित्तं ययोर् एव समं बलम् ।
तयोर् विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ हित्_२।१६६ ॥
अयुद्धे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः ।
युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ हित्_२।१७० ॥
अपरं च-
भूम्य्-एक-देशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः ।
भृत्य-प्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः ॥ हित्_२।१७७ ॥
दमनको ब्रूते-स्वामिन् ! को ऽयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम्-
पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् ।
प्राण-च्छेद-करा राज्ञा हन्तव्या भूतिम् इच्छता ॥ हित्_२।१७८ ॥
अपि च-
धर्मार्थ-काम-तत्त्वज्ञो नैकान्त-करुणो भवेत् ।
नहि हस्तस्थम् अप्य् अन्नं क्षमावान् भक्षितुं क्षमः ॥ हित्_२।१७९ ॥
किं च-
क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् ।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ हित्_२।१८० ॥
अपरं च-
राज्य-लोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् ।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ हित्_२।१८१ ॥
अन्यच् च-
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चावज्ञा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपो ऽधिकृतः प्रमादी
त्याज्या इमे यश् च कृतं न वेत्ति ॥ हित्_२।१८२ ॥
विशेषतश् च-
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या ।
नित्य-व्यया प्रचुर-रत्न-धनागमा च
वाराङ्गनेव नृप-नीतिर् अनेक-रूपा ॥ हित्_२।१८३ ॥
इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः ।
विष्णु-शर्मोवाच-सुहृद्-भेदः श्रुतस् तावद् भवद्भिः ।
राज-पुत्रा ऊचुः-भवत्-प्रसादाच् छ्रुतः । सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीत्-अपरम् अपीदम् अस्तु-
सुहृद्-भेदस् तावद् भवतु भवतां शत्रु-निलये
खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः ।
जनो नित्यं भूयात् सकल-सुख-सम्पत्ति-वसतिः
कथारम्भे रम्भ्ये सततम् इह बालो ऽपि रमताम् ॥ हित्_२।१८४ ॥
इति हितोपदेशे सुहृद्-भेदो नाम
द्वितीयः कथा-सङ्ग्रहः समाप्तः ।