अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि ।
करटको ब्रूते-यद्य् एवं तर्हि गच्छ । शिवास् ते सन्तु पन्थानः ।
ततो दमनकः पिङ्गलक-समीपं गत्वा प्रणम्योवाच-देव ! आत्यन्तिकं किम् अपि महा-भय-कारि कार्यं मन्यमानः समागतो ऽस्मि । यतः-
आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च ।
कल्याण-वचनं ब्रूयाद् अपृष्टो ऽपि हितो नरः ॥ हित्_२।१२४ ॥
अन्यच् च-
भोगस्य भाजनं राजा न राजा कार्य-भाजनम् ।
राज-कार्य-परिध्वंसी मन्त्री दोषेण लिप्यते ॥ हित्_२।१२५ ॥
तथा हि पश्य । अमात्यानाम् एष क्रमः ।
वरं प्राण-परित्यागः शिरसा वापि कर्तनम् ।
न तु स्वामि-पदावाप्ति-पातकेच्छोर् उपेक्षणम् ॥ हित्_२।१२६ ॥
पिङ्गलकः सादरम् आह-अथ भवान् किं वक्तुम् इच्छति ।
दमनको ब्रूते-देव ! सञ्जीवकस् तवोपय-सदृश-व्यवहारीव लक्ष्यते । तथा चास्मत् सन्निधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निन्दां कृत्वा राज्यम् एवाभिलषति ।
एतच् छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनर् आह-देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः-
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादाव् उपतिष्ठते श्रीः ।
सा स्त्री-स्वभावाद् असहा भरस्य
तयोर् द्वयोर् एकतरं जहाति ॥ हित्_२।१२७ ॥
अपरं च-
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥ हित्_२।१२८ ॥
अन्यच् च-
विष-दग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम् ॥ हित्_२।१२९ ॥
किं च-
यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति ।
सो ऽन्धवज् जगती-पालः सीदेत् सञ्चारकैर् विना ॥ हित्_२।१३० ॥
सर्व-कार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति ।
न सो ऽस्ति पुरुषो लोके यो न कामयते श्रियम् ।
परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः ॥ हित्_२।१३१ ॥
सिंहो विमृश्याह-भद्र ! यद्यप्य् एवं तथापि सञ्जीवकेन सह मम महान् स्नेहः । पश्य-
कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः ।
अशेष-दोष-दुष्टो ऽपि कायः कस्य न वल्लभः ॥ हित्_२।१३२ ॥
अन्यच् च-
अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्ध-मन्दिर-सारेऽपि कस्य वह्नाव् अनादरः ॥ हित्_२।१३३ ॥
दमनकः पुनरे एवाह-देव ! स एवातिदोषः, यतः-
यस्मिन्न् एवाधिकं चक्षुर् आरोहयति पार्थिवः ।
सुतेऽमात्येऽप्य् उदासीने स लक्ष्म्याश्रीयते जनः ॥ हित्_२।१३४ ॥
शृणु देव !
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ हित्_२।१३५ ॥
त्वया च मूल-भृत्यानपास्यायम् आगन्तुकः पुरस्कृतः । एतच् चानुचितं कृतम् । यतः-
मूल-भृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् ।
नातः परतरो दोषो राज्य-भेद-करो यतः ॥ हित्_२।१३६ ॥
सिंहो ब्रूते-किम् आश्चर्यम् । मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश् च तत् कथं मह्यं द्रुह्यति ।
दमनको ब्रूते-देव !
दुर्जनो नार्जवं याति सेव्यमानो ऽपि नित्यशः ।
स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम् ॥ हित्_२।१३७ ॥
अपरं च-
स्वेदितो मर्दितश् चैव रञ्जुभिः परिवेष्टितः ।
मुक्तो द्वादशभिर् वर्षैः श्व-पुच्छः प्रकृतिं गतः ॥ हित्_२।१३८ ॥
अन्यच् च-
वर्धनं वा सम्मानं खलानां प्रीतये कुतः ।
फलन्त्य् अमृत-सेकेऽपि न पथ्यानि विष-द्रुमाः ॥ हित्_२।१३९ ॥
अतो ऽहं ब्रवीमि-
अपृष्टस् तस्य न ब्रूयाद् यश् च नेच्छेत् पराभवम् ।
एष एव सतां धर्मो विपरीतो ऽसतां मतः ॥ हित्_२।१४० ॥
तथा चोक्तम्-
स्निग्धो ऽकुशलान् निवारयति यस् तत् कर्म यन् निर्मलं
सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिर् अभ्यर्च्यते ।
सा श्रीर् या न मदं करोति स सुखी यस् तृष्णया मुच्यते
तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ हित्_२।१४१ ॥
यदि सञ्जीवक-व्यसनादितो ऽविज्ञापितो ऽपि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः । तथा च-
नृपः कामासक्तो गणयति न कार्ये न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मान-ध्मातः स पतति यदा शोक-गहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम् ॥ हित्_२।१४२ ॥
पिङ्गलकः (स्वगतम्)-
न परस्यापराधेन परेषां दण्डम् आचरेत् ।
आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा ॥ हित्_२।१४३ ॥
तथा चोक्तम्-
गुण-दोषाव् अनिश्चित्य विधिनं ग्रह-निग्रहे ।
स्व-नाशाय यथा न्यस्तो दर्पात् सर्प-मुखे करः ॥ हित्_२।१४४ ॥
प्रकाशं ब्रूते-तदा सञ्जीवकः किं प्रत्यादिश्यताम् ।
दमनकः स-सम्भ्रमम् आह-देव ! मा मैवम् । एतावता मन्त्र-भेदो जायते । तथा ह्य् उक्तम्-
मन्त्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा ।
मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ॥ हित्_२।१४५ ॥
किं च-
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥ हित्_२।१४६ ॥
तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च-
मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैर् अपि ।
चिरं न सहते स्थातुं परेभ्यो भेद-शङ्कया ॥ हित्_२।१४७ ॥
यद्य् असौ दृष्ट-दोषो ऽपि दोषान् निवत्यं सन्धातव्यस् तद् अतीवानुचितम् । यतः-
सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुम् इच्छति ।
स मृत्युर् एव गृह्णाति गर्भम् अश्वतरी यथा ॥ हित्_२।१४८ ॥
अङ्गाङ्गि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः ।
पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः ॥ हित्_२।१४९ ॥
सिंहः पृच्छति- कथम् एतत् ?
दमनकः कथयति-
अतो ऽहं ब्रवीमि-अङ्गाङ्गि-भावम् अज्ञात्वा इत्य् आदि ।
राजाह-कथम् असौ ज्ञातव्यो द्रोह-बुद्धिर् इति ।
दमनको ब्रूते-यदासौ स-दर्पः शृङ्गाग्र-प्रहरणाभिमुखश् चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा सञ्जीवक-समीपं गतः ।