२-०६ करटकदमनकयोश्चिन्ता

ततो ऽनुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकाव् अन्योन्यं चिन्तयतः । तद् आह दमनकः करटकम्-मित्र ! किं कर्तव्यम् ? आत्म-कृतो ऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनम् अप्य् अनुचितम् । तथा चोक्तम्-

स्वर्ण-रेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका ।
आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे ॥ हित्_२।११० ॥

करटको ब्रूते–कथम् एतत् ?

दमनकः कथयति-

अतोऽहं ब्रवीमि-“स्वर्णरेखामहं स्पृष्ट्वा” इत्यादि ॥

अथ स्वयं कृतोऽयं दोषः । अत्र विलपनं नोचितम् । (क्षणं विमृश्य ।) मित्र! यथाऽनयोः सौहार्द मया कारितं तथा मित्र-भेदोऽपि मया कार्यः।

यतः,

अतथ्यान्य् अपि तथ्यानि दर्शयन्ति हि पेशलाः ।
समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः ॥ हित्_२।११३ ॥

अपरं च,

उत्पन्नेषु च कार्येषु मतिर् यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा ॥ हित्_२।११४ ॥

करटकः पृच्छति-कथम् एतत् ?

दमनकः कथयति-

अतो ऽहं ब्रवीमि-उतपन्नेष्व् अपि कार्येषु इत्य् आदि ।

करटको ब्रूते-अस्त्व् एवम् । किन्त्व् अनयोर् महानन्योग्न्य-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः ?

दमनको ब्रूते-उपायः क्रियताम् । तथा चोक्तम्-

उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते ॥ हित्_२।१२० ॥

करटकः पृच्छति-कथम् एतत् ?

दमनकः कथयति-

अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि ।

करटको ब्रूते-यद्य् एवं तर्हि गच्छ । शिवास् ते सन्तु पन्थानः ।